________________
३१८ तत्वार्थाधिगमसूत्रम्
[ अध्यायः १० भा०-संसारमुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं नित्यं निरतिशय निर्वाणसुखमेवामोतीति ॥ ७ ॥
टी-संसारसुखमतीत्यात्यन्तिकं साद्यपर्यवसानमैकान्तिक एकान्तेनैव भवति, न कदाचिन्न भवतीत्यर्थः । निरुपममिति नास्ति इह किञ्चित् तस्योपमानं तत्सदृशमिति । निरतिशयमिति नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते, सर्वमुक्तानां तुल्यत्वात् । नित्यमिति ध्रुवं कूटस्थमविचालि निर्वाणमुखमवाप्नोतीति ।
सत्कारार्हः सततं, निरुत्सुको निर्भयो विरुग विगदः।। निःप्रणयो निद्वेषो, निर्द्वन्द्वो नीरजा वितनुः ॥१॥-आर्या संसाराग्निं निर्वा-प्य दहन्तं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो, गतजाति-जरा-मरण-रोगः ॥२॥-, व्यावाधाभावाच स, सर्वज्ञत्वाच्च भवति परमसुखी।। व्याबाधाभावो नु, स्वस्थस्य ज्ञस्य ननु सुसुखम् ॥३॥" अनुपमममेयमव्यय-मनघं शिवमजरमरुजमभयदृषम् । एकान्तिकमात्यन्तिक-मव्याबाधं सुखं ह्येतत् ॥ ४॥-, त्रिष्वपि कालेषु सुखा-नि यानि तिर्यङ्-मनुष्य-देवानाम् । सर्वाणि तानि न समा-नि तस्य मात्रा सुखेनापि ॥५॥-, तानि हि रागोत्प्लोषा-ण्याबाधापूर्वकाणि च सुखानि। नास्ति रागमपवि-ध्य तत्र किश्चित् सुखमपृक्तम् ॥६॥-, एवं क्षायिकसम्यक-त्वं वीय-सिद्धत्व-दर्शन-ज्ञानैः।
आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥७॥-" सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति, द्विद्धं सुबद्धं भवतीति ।। भा०--एवं तत्त्वपरिज्ञानाद्, विरक्तस्यात्मनो भृशम् ।
निरास्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ ॥१॥-अनु० टी-एवमित्यादि । उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य-विषयसुखवितृष्णस्य भृशमात्मनः स्थगितास्रवद्वारत्वाद् विच्छिन्नायामभिनवकर्मसन्तती-कर्मसन्ताने ॥१॥
वाप्नोति' इति ग-पाठः । २ 'पुलाकादिस्वातिशयः' इत्यधिको ज-पाठः । ३ 'स्वस्य झस्यापि' इति :पाठः। ४ 'कं निरुपमं' इति घ-पाठः। ५'मामि' इति ज-पाठः, च-पाठस्तु 'नाभि'।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org