SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् भा० - पूर्वार्जितं क्षपयतो, यथोक्तैः क्षयहेतुभिः । संसारबीजं कात्स्न्र्त्स्न्येन, मोहनीयं प्रहीयते ॥ २ ॥ —अनु० सूत्र ७ ] टी० - पूर्वेत्यादि । प्राक्तनं कर्म क्षपयतस्तपोऽनुष्ठानादिभिः क्षयितृभिः संसारतरोर्बीजं समस्तमेव मोहनीयं प्रहीयते क्षपकश्रेण्याम् ॥ २ ॥ भा०— ततोऽन्तर (यज्ञानन्न - दर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥ ३ ॥ - अनु० टी०- ० - तत इत्यादि । अन्तराये ज्ञानदर्शनावरणयोश्च क्षीणयोर्युगपत् अशेषतः ॥३॥ भा०- गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ ४ ॥ - अनु० टी० – गर्भसूच्यामित्यादि । मस्तकसूच्यां ध्वस्तायां सर्वात्मना विनाशमुपैति सकलस्तालतरुः, एवं मोहनीये क्षीणे शेषं कर्म क्षयमेति सर्वम् ॥ ४ ॥ भा० - ततः क्षीणचतुः कर्मा, प्राप्तोऽथाख्यातसंयमम् । बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः ॥ ५ ॥ - अनु० टी० ० - तत इत्यादि । क्षिप्तसकलघातिकर्मा यथाख्यातसंयममनुप्राप्तो बीजबन्धनेन-मोहनीयादिना विमुक्तः स्नातकोऽन्तर्मलापगमात् परमेश्वरः - केवलार्द्धप्राप्तः ॥ ५ ॥ भा० - शेषकर्म फलापेक्षः, शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ॥ ६ ॥ - अनु० टी० - शेष इत्यादि । वेदनीयादिकर्मफलापेक्षः शुद्धो मोहादिमलापगमात् बुद्धः केवलज्ञानावाप्तेर्निरामयो-निर्गताशेषरोगनिदानः केवली भवति ॥ ६॥ भा० - कृत्स्नकर्मक्षयादूर्ध्व, निर्वाणमधिगच्छति । यथा दुग्धेन्धनो वहि-निरुपादान सन्ततिः ७ ॥ अनु० ३१९ डी० -- कृत्स्नेत्यादि । सकलकर्मकलङ्कनिर्मुक्त ऊर्ध्वमेव निर्वाणमधिगच्छति । निर्वृतस्य स्थानमप्युपचारान्निर्वाणम् । अथवा निर्वाणं-निर्वृतत्वं सिद्धत्वं प्रक्षिप्तप्रदग्धेन्धनो विनिरुद्ध काष्ठाद्युपादानसन्ततिः ॥ ७ ॥ भा०—दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दुग्धे, नारोहति भवाङ्कुरः Jain Education International ८ ॥ - अनु० 0 टी० - दग्धे इत्यादि । बीजेऽत्यन्तं - भस्मसात्कृते नाङ्करस्य प्रादुर्भावः, एवं कर्मबीजे ध्वस्ते संसाराङ्कुरस्याप्रादुर्भावः ॥ ८ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy