________________
२२६
षड्विधवानवस्थितः कल्पः । यथोक्तम्
तचार्याविनम्
44
अनवस्थितस्य आचेलक्यौदेशिक-नृपपिण्डत्याग-मासकल्पाश्च ।
पाव्यम्
वर्षाविधिः प्रतिकमणविधानं वानवस्थिताः कल्पाः ॥ १ ॥ " आद्यचरमतीर्थङ्करतीर्थदर्तिनां तु दशविधो व्यवस्थितः कल्पः । अस्य तु पुनर्भगवतस्तीर्थे श्रीवर्धमानचन्द्रस्य । स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् ॥ १ ॥ किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनम् ?
" आर्जव -जडा अनार्जव जडा वृषभ वीरतीर्थ कालभवाः ।
Jain Education International
[ अध्यायः ९
मनुजा यस्मात् तस्मात्, कल्पः स्थित एव स प्रोक्तः ॥ १ ॥ " सत्यमुक्तमाचेलक्यम् । तत् तु यथोक्तं तथा कर्तव्यम् | तीर्थकर कल्पस्तावदन्य एव, मति श्रुताऽवधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतुर्ज्ञानिन इति युक्तमेव तेषां पाणिपात्रभोजित्वमेकदेव दुष्परिग्रहाच | साधवस्तु तदुपदिष्टाचारानुष्ठायिनो जीर्णखण्डितासर्वतनुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽप्यचेलका एव । यथाऽऽपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते सवस्त्रकोऽपि तथास्त्र गुह्यप्रदेशस्थगनाय गृहीत चोल पट्टकोsपि नन एवेति । योषिच्च काचित् परिजूर्णशादिकापिधाना तन्तुवायमाह - नमाऽहं देहि मे शाटिकामिति । एवं साधवोऽप्य महाधनमूल्यानि खण्डितानि जीर्णानि च विभ्रतः श्रुतोपदेशाद् धर्मबुद्धया नाग्न्यभाज एवेति । चारित्रमुत्रे शुद्धपारिहारिकांन् वक्ष्यामः ॥
गच्छः,
यथालन्दिकास्तु भण्यन्ते । लन्दमिति कालस्याख्या । तच्च पञ्चरात्रं, तेषां हि पञ्चको सामाचारी तु तेषां जिनकल्पिकैस्तुल्या, सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु गच्छप्रतिबद्धाः । परिसमाप्तार्थास्त्वप्रतिबद्धाः । तत्र केचित् जिनकल्पिकाः केचित् स्थविरकल्पिका यथालन्दिनः । तत्र जिनकल्पिकाः निष्प्रति कर्मशरीराः समुत्पन्नरोगाचिकित्सायां न प्रवर्तन्ते, नेत्रमलाद्यपि नापनयन्ति स्थविर - जिनकल्पः कल्पिकास्तूत्पन्न रोगं गच्छे प्रक्षिपन्ति । गच्छोऽपि प्रासुकैषणीयेन परिकर्म करोति पजादिना । स्थविरकल्पिकास्त्वेकैकप्रतिग्रहधारिणः सप्रावरणाः । जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि । एकत्र पञ्चपञ्चरात्रचारिण एते । गणप्रमाणं जघन्यतस्त्रयो गणाः, शतश उत्कृष्टाः। भिक्षाचर्या तु तेषां पञ्च पञ्चैव, एकैकवीथौ चरन्तः पञ्चभिः पटुकैर्मासकल्प परिसमापयन्ति । स्थितास्थितकल्पयोश्च द्वयोरपि ते भवन्ति । एवमेते जिनकैल्पिकादयो गच्छनिर्गतास्तत्र यद्येवंविधं नान्यमिष्यते तद नागमोपरोधः । अथ परिधानकपरित्यागमात्रं ततस्तदप्रमाणकं न मनांसि प्रीणयति जैनेन्द्रशासनानुसारिणामिति । स्थविरकल्पिकास्तु चतुर्दशविधोषधयः उत्सर्गापवादव्यवहारिणः औपग्रहिको पधिधारिणश्च । प्रव्रज्यादिद्वार:
१ 'महार्घमूल्यानि ' इति ङ-पाठः । २ ' काद् वक्ष्यामः' इति ङ-पाठः । ३ एकत्र पञ्चरात्र' इति ङ-पाठः । ४ 'कल्पिकयो' इति ङ-पाठः । ५ ' ततो' इति ङ-पाठः । ६ ' औषधप्राहिको' इति च - पाठः । ७ ' धारणाच ' इति पाठः ।
For Personal & Private Use Only
www.jainelibrary.org