________________
सूत्रं ६] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१९३ धनधान्यसम्पत्प्रभवः । धनं रजत-चामीकर-मरकतादि गो-महिष्य-जाविकादि च, व्रीहितिल-मुद्ग-माष-कङ्ग्वादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणा अकाण्डभङ्गुरेणाऽऽयत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत ॥ वाचकेन त्वेतदेव
प्रशमरतौ बलसंज्ञया प्रेशमरतावुपात्तम् । तच्च विधा-शरीर-स्वजन-द्रव्य-बलम् ।
मतान्तरम् इहैश्वर्यग्रहणात् स्वजनद्रव्यबलपरिग्रहः । शरीरबलं तु वीर्यग्रहणात् पृथय गृहीतं वीर्यबलस्य प्राधान्यप्रकाशनार्थम् । विज्ञानं-बुद्धिश्चतुर्विधा-औत्पत्तिकी, वैनयिकी, कर्मजा, पारिणामिकी चेति । तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्ववस्तुन्युपनते तत्क्षण एव समासादितो.
औत्पत्तिकीप्रमुख- पजना (१) अव्याहतफला भरतरोहकादेवि भवति । गुर्वादि विनयानु___ बुद्धिचतुष्टयम् ष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकालसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमनकाणहस्तिनीपरिज्ञाननैमित्तिकस्यैव । कर्मजा पुनः धीः साधुकारफला, अनाचार्यकं कर्म, तत्र पुनःपुनरुपयोगात प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकृतकर्मातिशायि पाश्चात्यं कर्मोपजायते, सौवर्णिककृषीवलतन्तुवायादेवि । पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पञ्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव यथासम्भवम् । इत्थं लब्धया बुद्धया अहमेव बुद्धिमानिति मन्यमानः परिभवति शेषं जनम् । मदसमुद्धतस्य परपरिभवपरिवादादात्मोत्कर्षाचाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सापायमवग(म)त्य बुद्धिगर्वमित्थं विचिन्तयेत्-बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातुचित् अहङ्कारस्य कारणीभवन्ति । मानपरस्य च विनयखण्डनमवश्यम्भावि। विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमदो यत्नेन महता विवजेनीयः। श्रुतम-आप्तप्रणीत आगमः तत्परिज्ञानान्माद्यति अहमेवैको जाने, नापर इति । श्रुतमदान्धश्च बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थमालोचयेत्-प्रकोपकषेवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः, कदाचिदहमन्येभ्योऽल्पतरश्रुतोऽतिगहनार्थत्वादागमानामधिगतश्रुतोऽपि वादुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । अपि च-चतुर्दशपूर्वधरेष्वपि पदस्थानकमवघुष्यते यदि, तत्र का कथा शेषश्रुतधरे श्रुतज्ञानावरणक्षयोपशमवैचित्र्याद्, अधिगतसकल
१उकं च तत्र
जाति-कुल-रूप-बल-बुद्धि-वाल्लभ्यक-श्रुतमदान्धाः ।
क्लीबाः परत्र चेह च हितमप्यर्थ न पश्यन्ति ॥ ८ ॥ २ सन्तुल्या यदुक्तं नमस्कारनियुक्तौ हारिभद्रीये तद्विवरणे च (४१४-४३५ पत्राद्देषु ) । ३ 'मादाय' इति च-पाठः। 'भ्योऽलभ्यतर' इति च-पाठः। ५ स्यादिति' इति -पाठः ।
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org