________________
३२६
तत्त्वार्थाधिगमसूत्रम्
संयमरणाजिरस्थः, क्लेशचमूः संविधूय भव्यात्मा । कर्मनृपरिपून् हत्वा-पवर्गराज्यश्रियं लभते ॥ २ ॥ - आर्या एवं कर्मोदय - भवैः कर्मक्षयोपशमजैश्च । संसारमुवाचार्हन्, सिद्धिं कर्मक्षयादेव ॥ ३ ॥ - " ज्ञानं सुमार्गी, सम्यक्त्वं तु तदविप्रणाशाय । चारित्रमास्रवत्वं, क्षपयति कर्माणि तु तपोऽग्निः ॥ ४ ॥ -" एतेन भवति सिद्धिः, सिद्धान्तचतुष्टयेन जिनवचने । न तु संवररहितस्य च सा स्यान्न ज्ञानमात्रेण ॥ ५ ॥ - " इत्येकान्त समेक- द्वीपं विविधं झपमे कपातालम् । अष्टग्राहं द्विरयं, चतुरावर्तं चतुः कूलम् ॥ ६ ॥ - " त्रिमहावातंत्र्युदयं, षड्वेगं चतुरशीतिनियतोर्मिम् | संसारार्णवमात्मा, नावा चतुरङ्गयोत्तरति ॥ ७ ॥ - "
सम्प्रति वाचको निजाचार्यान्वयं द्विप्रकारमेप्यावेदयते
भा०- -वाचकमुख्यस्य शिव- श्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दि- क्षमाश्रमणस्यैकादशाङ्गविदः ॥ १ ॥ - गीतिः वाचनया च महावा - चकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ॥ २ ॥ - आर्या न्यग्रोधकाप्रसृते--न विहरता पुरवरे कुसुमनाम्नि । कौ भीषणिना स्वातितनयेन वात्सीसुतेनार्घ्यम् ॥ ३ ॥ "
डी०—–तत्रायं प्रव्राजकान्वयः - शिवश्रीर्नाम वाचकः पितामहः सङ्ग्रहकारस्य तस्व शिष्यो घोषनान्दिक्षमणस्तस्यायं सङ्ग्रहकारः शिष्यः । सम्प्रति वचनाचार्यान्वयो मुण्डपादों नाम महावाचकः क्षमणः सोऽस्य पितामहः सङ्ग्रहकारस्य । तस्य शिष्यो मूलनामा वाचकस्तस्यायं सङ्ग्रहकारः शिष्यः । सम्प्रत्यात्मीयजन्मान्वयस्थानमाचष्टे - न्यग्रोधिका नाम ग्रामस्तत्र जातेन पाटलिपुत्रे कुसुमपुरनाम्नि विहरता । कौ भीषणिनेति गोत्राद्वानम् स्वातितनयेनेति पितुराख्यानम्, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानम् ॥
भा० – अर्हद्वचनं सम्यग्र, गुरुक्रमेणागतं संमवधार्य ।
-
[ अध्यायः १०
Jain Education International
दुःखार्त च दुरागम-विहतमतिलोकमवलोक्य ॥ ४ ॥ - आर्या
१' मवाप्या' इति ज - पाठः । २ ' वाचकाचार्यान्वयो ' इति ग-पाठः । २ ' समुपधार्य' इति पाठः ।
For Personal & Private Use Only
www.jainelibrary.org