Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ शिवाभ्यां नमः ॥
इयं किल श्रीमत्परमहंसपरिव्राजकाचार्यपरमानन्दसरस्वतीपूज्यपादशिष्या द्वैतविद्याप्रतिष्ठापकनिरस्तविविधद्वैतवादिवितण्डसर्वज्ञ. शिरोमणिश्रीब्रह्मानन्दसरस्वतीकतिः
___ अद्वैतसिद्धिव्याख्या
॥ लघुचन्द्रिका॥
मुमुक्षूणां निखिलानर्थनिवृत्तिपूर्वकपरमानन्दाविर्भावलक्षणपरमपुरुषार्थानन्य
साधनाद्वैतनिश्चयाय अद्वैतविद्वेषिणामुन्मूलनाय च विरचिता श्रीमच्चम्पकारण्यवास्तव्यश्रीमहामहोपाध्यायविरुदाङ्कितश्रीराजुशास्त्र्यपरनामकश्रीमत्त्यागराजमखिराजचरणांबुजसेवासमासादितब्रह्मविद्यावैशयेन
श्रीगोष्ठीपुराभिजनेन हरिहरशास्त्रिणा
संशोधिता च
कोनेरिराजपुरप्रामवास्तव्यसहृदयसमुदायदास
वि- साम्बशिवार्येण
कुम्भघोणस्थ स्वकीय श्रीविद्यामुद्राक्षरशालायाम् मुद्राक्षरैरङ्कयित्वा प्राकाश्य प्रापिता
समुल्लसतितराम्। .
मूल्यं साधं रूप्यसप्तकम् (प्रेषणव्ययः कलाष्टकं त्र)
December 1893. Price_-71 Rs. Postage As 8. .
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री .
विद्याशङ्करो)
विजयते श्रीमत्परमहंसपरिव्राजकाचार्यवर्यपदवाक्यप्रमाणपारावारपारीण यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाध्यष्टाङ्गयोगानुष्ठाननिष्ठतपश्चक्रवर्त्यनाद्यविच्छिन्नगुरुपरम्पराप्राप्तषड्दर्शनस्थापनाचार्यव्याख्यानसिंहासनाधीश्वरसकल निगमागमसारहद यसाङ्ख्यत्रयप्रतिपादकवैदिकमार्गप्रवर्तकसर्वतन्त्रस्वतन्त्रादिराज धानीविद्यानगरमहाराजधानीकर्नाटकसिंहासनप्रतिष्ठापनाचार्यश्रीमद्राजाधिराजगुरुभूमण्डलाचार्यऋश्यशृङ्गपुरवराधीश्वरतुङ्गभद्रातीरवासश्रीमद्विद्याशङ्करपादपद्माराधकश्रीमन्नृसिंहभारती खामिगुरुकरकमलसञ्जातशृङ्गेरीश्रीसच्चिदानन्दशिवामिनवनसि
हमारतीखामिभिः । अत्यन्तप्रियशिष्यकुम्भघोणनगरवासिश्रीविद्यानिलयमुद्राक्षरशालाम्यानेजरइत्युपपदधारिसाम्बशिवशास्त्रिविषये श्रीनारायणस्मरणपूर्वकविरचिताशिषस्समुल्लसन्तुतराम आसेतुहिमाचलप्रसिद्धात्रभवच्छीमच्छङ्करभगवत्पादपूज्यपीठविषयिणी भक्तिरनवधि कश्रेयोनिदानमिति सर्वजनविदितमेतत्साम्प्रतम् ॥ इह खलु कुपितफणिफणामण्डलच्छायसच्छायेषु स्वक्चन्दनादिषु विषयेषु मोमुह्यमानतया जन्मजरानिधनाद्युपप्लवबहुले संसारचक्रे बंभ्रम्यमाणान् सकलानपि जनानुपलभ्य तदनुजिघृक्षया श्रीमच्छङ्करदेशिकचरणैर्येयमद्वैतविद्या ब्रह्मसूत्रमाण्यादिमुखेन प्रतिष्ठापिता शिष्यप्रशिष्यादिमुखेन । सर्वतः प्रचारिता च तदनु कालवशात् जरीजम्भमाणैर्नान्तध्वान्ताय. नेकमतप्रभेदैरसम्भावनाविपरीतभावनादिदोषकलुषिततया विरलप्रचारा समभवदिति हेतोरसम्भावनादिदोषविधूननाय श्रीमद्विद्यारण्यमधुसूदनसरस्वतीब्रह्मानन्दसरखत्यादिभिर्विरचितैरनेकैः प्रबन्धैः सर्वतोव्याप्तवासीत् सेयमिदानी प्रबन्धानां बाहुल्येन लिखितुं लेखयितुं च अशक्यतया कथञ्चिल्लेखनेऽपि लेखकप्रमादजनिताशुद्धिसंक्रान्तिबहुलतया च शोधितानामपि तेषां सर्वत्र दौर्लभ्येन च विरलप्रचारा वरीवर्तीत्यस्यां दशायामद्वैतमहानिबन्धमालात्मिका विद्वद्भिस्सम्परिशोध्य मुद्रापयितुमारब्धा एषा अद्वैतमञ्जरी शिरसि निदधाना श्रीमच्छङ्करदेशिकचरणानामाज्ञामाकलयन्ती अद्वैतविद्यायास्स्वात्मनश्च सर्वत्र सुप्रचारं सफलयन्ती च प्रबन्धकृतां मुद्रापयितश्च प्रयासं अशेषानपि लोकानुपकुर्यादिति श्रीमच्छारदाचन्द्रमालीश्वरादिदेवताः प्रार्थयामहे. वि०आश्विन शुक्लअष्टम्यां सौम्यवासरे कडत्तूमे.
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा
॥श्रीः॥ भूमि का
-:(*):आर्यमिश्राः!! विज्ञातमेव खलु भवतां अतीतानेकभवपरम्परासमार्जितसुकृतसम्पदावर्जितभगवदनुग्रहासादितसत्त्वोत्कर्षाधीनविवेकवैराग्यादिसाधनसम्पन्नैः प्राक्तनसुकृतसम्पत्त्यधीनविषयविशेषसम्पर्कप्रयुक्तसत्त्वोत्कर्षापकर्षरूपशुद्धितारतम्ययुक्तसुखरूपान्तः करणवृत्तिप्रतिफलितस्वरूपानन्दरूपविषयानन्दमपि क्षणिकत्वेनानुमन्यमानैः श्रवणमनननिदिध्यासनाभ्यासनिधूतनिखिलप्रतिबन्धकानुबन्धैः पुरुषधौरेयैरेव प्राप्यमाणं वस्तुसञ्चैतन्यमात्रत्वाविरोधिवद्धपुरुषाविद्याकल्पितनिरवग्रहैश्वर्यतदनुगुणगुणकलापविशिष्टनिरतिशयानन्दस्फुरणसमृद्धनिस्सन्धिबन्धपरमेश्वरभावापन्नं मात्रयापि दुःखदविष्ठं परमपुरुषार्थकाष्ठापन्नं नित्यनिरतिशयापरिच्छिन्नसुखमात्रस्वरूपमद्वितीयाखण्डचिन्मात्रप्रत्यगभिन्ननिर्विशेषात्मतत्त्वमनानन्तः इतरेतरभेदाग्रहेण आत्मानात्मनोरन्योन्यधर्म्यध्यासपुरस्सरमनात्मधर्मान् कर्तृत्वभोक्तृत्वादीन् आत्मनि आत्मधर्मांश्च चैतन्यादीननात्मनि चाध्यस्य नानाविधकुतर्काकुलचेतसः जननमरणप्रवाहपरम्परारूपे अनादिसंसारकूपे बम्भ्रम्यमाणाः मोमुह्यन्त एव प्रायेण जीवराशयइत्यतस्तानुदिधीषुमर्गवान् परमकारुणिकः परमेश्वरः 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युस्थानाय धर्मस्य तदात्मानं सृजाम्यह'मिति प्रतिज्ञातार्थपारिपालनाय 'चतुभिस्सह शिप्यैस्तु शङ्करोऽवतरिष्यति ।' इति सौरपुराणवचनानुसारेण बहोःकालात्पूर्वमेवास्मिन् कलियुगे श्रीमच्छङ्करभगवत्पादरूपेण गृहीतलीलामानुषविग्रहः अवतीर्य केरले कालटिग्रामे शिवगुरोरायर्याम्बायामधीत्य चाद्य एव वयसि अखिलमप्यागमं अभ्यस्य च सर्वशास्त्राणि आश्रित्य चाद्याश्रमादेव पश्चिममाश्रमम् अनादृत्य च शारीरं प्रयास भटित्वा चावनिमण्डलं अनुष्ठाप्य चाश्रमधर्मान् अनुबोध्य चाखिलागमतात्पर्यविषयमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मभूतमखण्डपरिपूर्णसत्यज्ञानानन्दामला द्वितीयस्वप्रकाशनिर्विशेषब्रह्मस्वरूपमेव परमार्थतत्त्वम्, आरचय्य च भगवद्वेदव्यासप्रणीतानेकन्यायोपबृंहितचतुरध्याय्यात्मकोत्तरमीमांसामाप्यादिप्रबन्धनातम्, अव. मत्य च नास्तिकादिदुर्मताभिमानिनः कुदृष्टीन् , अवस्थाप्य च वैदिकमद्वैतं मतमप्र
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
( २ )
तिबन्धम्, अध्याप्यचात्मीयमनुमतं भाष्यमन्तेवासिनः, अभिषिच्य चाद्वैतमतपरिपालनाधिपत्ये सच्छिष्यान् आसाद्य चातुलां कीर्तिम्, आससाद च पुनरैश्वरं धामेति । अनन्तरं च तेषामेव मतमवलम्बमानाः विवरणकाराचार्यवाचस्पतिमिश्रादिश्रीमदप्पयदीक्षितवर्यपर्यन्ताः प्राञ्च आचार्याः अनवरतपरिचीयमानभाष्यार्थतत्त्वाः विवरणवाचस्पत्यपरिमलन्यायरक्षामण्यादिप्रबन्धजातैरुन्मूलितकुमतिकुतर्कम द्वैतमेव प्रत्यतिष्ठिपन्नित्यत्व नास्ति विशयः । अनन्तरं चार्वाचीनैः कैश्चिद्ध्वान्तजान्तमत प्रविष्टैरनिवार्याद्वैतेद्वषगाढानलकलितहृदयैः स्वमनीषा परिकल्पितयुक्तिवाक्याभासविस्तृतैः न्यायामृतादिग्रन्थैराकुलीकृतमिव भवत्यद्वैतमतमित्यालोच्य सर्वतन्त्र स्वतन्त्राः अतिलोकोत्तरसत्तकपेतप्रबन्धनिर्माणचातुरीधुरीणाः सर्वज्ञशिरोमणयः श्रीमधुसूदनसरस्वतीब्रह्मानन्दयतीन्द्रवराः निखिलानपि लोकाननुजिघृक्षवः द्वैतवादिपरिकल्पितकुयुक्तितूलवातूलान् निखिलानर्थव्रातनिदानभूतानाद्यविद्योन्मूलनानन्यसाधनाद्वितीयब्रह्म
Acharya Shri Kailassagarsuri Gyanmandir
निश्चयप्रत्यर्थिभूतासम्भावनादिदोषशङ्कापङ्कक्षालनस्वर्धुनी निर्झरायमाणवाग्झरीगुम्भितान् अद्वैतसिद्धिब्रह्मानन्दीयादीन् प्रबन्धान् व्यरचयन् । यद्यप्यस्मिन्महति महीमण्डले श्रीमच्चङ्करभगवत्पादीयमतानुबन्धिप्रौढब्रह्मानन्दी यादिप्रबन्धपरिशलिनार्हमतयो विरलाः पण्डिताः, तथापि क्वचित् क्वचित् इहजन्मनि जन्मान्तरे वा सन्ततसन्तन्यमानसत्कर्मसन्ताननितान्तनिर्मलान्तःकरणाः आत्मतत्त्वं विविदिषन्त्येव । तेषां चाकलय्य ग्रन्थदौर्लभ्यं विषीदतां मुमुक्षूणामत्यन्तोपकाराय महात्मभिर्महता प्रवासेन विनिमितानामद्वैतप्रबन्धानां प्रचारणेनात्मीयं मानुषं जन्म चरितार्थयितुमध्यात्मविद्याविचारपरमानसानामनुग्रहपात्रतां चात्मानमुपनेतुमद्वैतमञ्जर्यभिघालंकृताद्वैतमतानुबन्धिप्रबन्धजातमुद्रणकार्ये महति प्रावर्तिष्ट सहृदयदासस्साम्बशिवार्यः । मुद्रणाय च सम्पादितेषु कोशेषु चम्पकारण्यवास्तव्य श्रीमन्महामहोपाध्यायविरुदाङ्कितप'दवाक्य प्रमाणपारावारपारीणश्रीमद्राजुशास्त्रयपरनामक श्रीमत्त्यागराजमखिराजानुग्रहलब्धमेकं कोशं — श्रीमत्परमहंसपरिव्राजकाचार्यस्वयंप्रकाशयतीन्द्रपरिपालितारयपुराख्यग्रामस्थाद्वैत कोशशालायास्समानीतं द्वितीयं कोशं वटारण्यक्षेत्रस्थपुस्तकशालायास्समानीतं तृतीयं च एडयात्तुमङ्गलग्रामाभिजनचतुस्तन्त्र पारावारपारीणश्री मदप्पुशास्त्रिणां कोशं अविच्छिन्नसत्सम्प्रदायसिद्धसमग्रपाठं प्रमाणीकृत्य सम्यक् परिशोध्य कुम्भघोणक्षेत्रस्थश्रीविद्यामुद्राक्षरशालायां मुद्राक्षरैरङ्कयित्वा सञ्चारितां
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नन्दनशरत्तुलामासमारभ्य प्रतिमासं प्रचार्यमाणगुच्छ शोभितामद्वैतमञ्जरी प्रथममलंकुर्वाणा श्रीमधुसूदनसरस्वतीविरचिता अद्वैतसिद्धिः तव्याख्या ब्रह्मानन्दसरखतीविरचिता लघुचन्द्रिका च श्रीमच्छङ्करभगवत्पादविरचितदशश्लोकीव्याख्या सिद्धान्तबिन्दुश्च ब्रह्मानन्दयतीन्द्रविरचितरत्नावल्याख्यटीकासहितः सम्पूर्णा विजयन्तेतराम् । तदहमर्थये साञ्जलिबन्धनमस्मन्मताभिमानिनः समर्पयत सादरां कारुण्यदृष्टिं सफलयत अनवरताद्वैतग्रन्थविचारेण मुद्रणप्रयासम् । अनुभवत च निश्शङ्कमद्वैतसाम्राज्यसर्वस्वम् । अनुगृह्णीत च तथा, यथेयमद्वैतमञ्जरी प्राचीनास्माकमन्थगुच्छगुम्भिता इतःपरमप्यविच्छिन्नगुच्छप्रसरा समाह्लादयन्ती अध्यात्मविद्याविचारकुतूहलिनां मनांसि आसादयन्ती च सज्जनप्रेमभाजनतां चिरं जेजीयेतेति । सहन्तां च विवन्मणयः अनवधानप्रयुक्तां क्वाचित्कीमक्षरच्युतिम् । प्रसीदन्तु चानेन श्रीमच्छङ्करभगवत्पादचरणा इत्यशेषमतिरमणीयम् ॥
अद्वैतामृतमञ्जरीशकरुणापूरेण संवर्धिता विद्वन्मानसचञ्चरीकनिवहैरास्वाद्यमाना भृशम् । श्रीविद्याकबरीभरेषु सततं भूषायमाणा चिरं श्रीमत्साम्बाशवार्यसत्तरुशिखालम्बा विजेजीयताम् ॥
इति गोष्ठीपुराभिजनः
हरिहरशास्त्री.
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ शिवाभ्यान्नमः ॥ चम्पकारण्यवास्तव्यश्रीमहामहोपाध्यायबिरुदाङ्कितश्रीराजुशास्थ्यपरनामकश्रीमत्त्यागराज
मखिराजकृताश्श्लोकाः ।
विख्याता ब्रह्मविद्या जयति भुवि नृणां दुःखमुन्मूलयन्ती __ तत्सिद्ध्यर्थाः प्रबन्धा अपि खलु भगवत्पादमिश्रादिक्लप्ताः । तत्रोक्तान् सम्यगान् कुमतिकलुषितान्निर्मलीकृत्य याभ्यामासीत्तस्याः प्रतिष्ठा प्रचरणसुकृतात् किं तयोरस्ति पुण्यम् ॥ १ ॥
सिद्धिश्च चन्द्रिका चेत्याभ्यां विदुषामुदेति सुखभूमा ।
मधुसूदनसद्ब्रह्मानन्दयतीन्द्रोपरचिताभ्याम् ॥ २॥ तत्तकोशविलेखनादियतनस्तेषां हि सञ्चारणा
शक्या नेति तदयिमुद्रणपथान्नवास्ति पथ्यन्तरम् । इत्यालोच्य तदर्थमनिवहं सम्पाद्य यन्त्रादिकं
निमयं यदि तद्विलम्ब इति यस्वार्थं तु मेने तृणम् ॥ ३॥ सम्प्राप्तद्रढि मन्यहो कलियुगेऽप्यस्मिन् नृणां मुक्तये
यत्तस्सत्तमपूर्वदेशिकवरानेषोऽतिशेते जनः । कारुण्यादिति तस्य पुण्यमधिकं गण्यं न पुण्यान्तरै
सर्वज्ञः परमेश एव मुदितो दातुं समस्तत्फलम् ॥४॥ अद्वैतग्रन्थदुग्धाम्बुधिमथनसमुद्भतपीयूषधारा
साराकारा विपश्चिद्वरहृदयसमुल्लासिनी मञ्जरीयम् । आलोक्यैनां स्तुवानः कलयति सशिरःकम्पमाशर्विचासि
श्रीमच्चाम्पेयवन्याहतनिजवसतिः त्यागराजाध्वरीन्द्रः ॥५॥ यदुपक्रममेषाभून्निर्मलाद्वैतमञ्जरी।। तस्य श्रेयांसि भूयांसि सन्तु साम्बशिवप्रभोः ॥६॥ श्रीमच्छाब्दिकतार्किकवेदान्तरहस्ययुक्तिनिष्णातैः । हरिहरसुधीभिरेषा दोषास्टष्टा सुशोधिता जयति ॥७॥
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ शुभमस्तु ॥
ब्रह्मानन्दीये प्रथमपरिच्छेदे
KANT
प्रतिपाद्यविषयाः
-१ मङ्गलश्लोकार्थनिरूपणम्
२ विप्रतिपत्तिवाक्यस्य विचाराङ्गत्वनिरूपणम्
३. पक्षतावच्छेदकविचारः
४. प्रथम मिथ्यात्व निरूपणम्
१३. अंशित्वनिरुक्तिः
१४. सोपाधिकत्वभङ्गः
१५ द्वितीय मिथ्यात्वनिरूपणम् ६. तृतीयमिथ्यात्वनिरूपणम् ७. चतुर्थमिथ्यात्व निरूपणम्
८ पञ्चममिथ्यात्वनिरूपणम् ९ मिथ्यात्वमिध्यात्वनिरूपणम्
१० दृश्यत्वनिरुक्तिः
११. जडत्व निरुक्तिः १२. परिच्छिन्नत्वनिरुक्तिः
१५ आभाससाम्यभङ्गः
१६ प्रत्यक्षबाधोद्धारः
१७. प्रत्यक्षप्राबल्यभङ्गः १८. प्रत्यक्षस्यानुमानबाध्यत्वम्
१९ प्रत्यक्षस्यागमबाध्यत्वम् २० अपच्छेदन्यायवैषम्यभङ्गः २.१. वह्निशैत्यानुमितिसाम्यभङ्गः २२. प्रत्यक्षस्याबाध्यत्वे बाधकम् २३ भाविबाधोपपत्तिः
२४
सत्यत्वानुमानभङ्गः २१ : मिथ्यात्वे विशेषतोऽनुमानानि
----
www.
w...
....
....
----
....
www.
....
www.
....
....
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
www.
$800
----
www.
wwww
पुटसंख्या
१
१७
३५
९८
६६
६९
९९
१०७
११२
१७
११७
१४-५
१६०
१६३
१७९
१८२
१८३
१८५
१९०
२०३
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२)
पुटसंख्या २१२
२२७ २३०
२.३९
२४४ २५९
२७३
or 000
२८५
२९१ ३०३
३०७
प्रतिपाद्यविषयाः २६ आगमबाधोद्धारः २७ असतस्साधकत्वम्
असतस्साधकत्वाभावे बाधकम् २९ दृग्दृश्यसम्बन्धमङ्गः ३० अनुकूलतकनिरूपणम् ३१ प्रतिकर्मव्यवस्था ३२ प्रतिकूलतर्कनिराकरणम् ३३ मिथ्यात्वश्रुत्युपपत्तिः ३४ अद्वैतश्रुतेर्बाधोद्धारः ३५ ज्ञाननिवत्यत्वान्यथानुपपत्तिः ३६ दृष्टि सृष्टिवादः ३७ एकजीववादः ३८ अविद्यालक्षणम् ३९ अज्ञानप्रत्यक्षोपपत्तिः ४० अविद्यानुमानोपपत्तिः ४१ अविद्याप्रतिपादकश्रुत्युपपत्तिः ४२ अविद्यायामापत्तिः ४३ अविद्याप्रतीत्युपपत्तिः ४४ अज्ञानस्य शुद्धचिन्निष्ठत्वोपपत्तिः
अज्ञानस्य जीवाश्रयत्वोपपत्तिः सर्वज्ञस्याज्ञानाश्रयत्वम् ४६ अविद्याया विषयोपपत्तिः ४७ अहमर्थस्थानात्मत्वनिरूपणम् ४८ कर्तृत्वाध्यासोपपत्तिः ४९ देहात्मैक्याध्यासनिरूपणम् ५० अनिर्वाच्यत्वलक्षणम् ५१ अनिर्वाच्यत्वानुमानम् ५२ ख्यातिबाधान्यथानुपपनिः ५३ निषेधप्रतियोगित्वान्यथानुपपत्तिः ६४ नासदासीदित्यादिश्रुत्यर्थापत्तिः
३११ ३१३ ३१५ ३२६
له
३३३
م
.
.
.
.
३३५ ३३६
س
س
३४१
س
३४२
س
३५७ ३६१ ३६५ ३६८ ३६९ ३७३
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥शिवाभ्यां नमः॥
॥ अद्वैत मञ्जरी ॥
॥ ब्रह्मानन्दभिक्षुविरचिता अद्वैतसिद्धिव्याख्या ॥
॥ लघु चन्द्रिका ॥
नमो नवघनश्यामकामकामितदेहिने । कमलाकामसौदामकणकामुकगेहिने ॥ १ ॥ श्रीनारायणतीर्थानां गुरूणां चरणस्मृतिः । भूयान्मे साधिकेष्टानामनिष्टानाश्च बाधिका ॥ २ ॥ अद्वैसिद्धिव्याख्यानं ब्रह्मानन्देन भिक्षुणा । संक्षिप्तचन्द्रिकार्थेन क्रियते लघुचन्द्रिका ॥ ३ ॥
विष्णुः व्यापकं जीवस्वरूपम् । मोक्ष प्राप्त इव स्वयं विजयते । कीदृशो विष्णुर्मोक्ष प्राप्त इवेत्यत्राह-अखण्डधीगोचर इति । संसर्गाविषयकमनोवृत्तिविशेपविषयीभूत इत्यर्थः । ननु, तादृशधीविषयत्वे मोक्षप्राप्तिं प्रति नोद्देश्यतावच्छेदकत्वसंभवः । उद्देश्यतावच्छेदककालावच्छिन्नत्वस्य विधेयगतत्वेन व्युत्पत्तिसिद्धस्य प्रकृते बाधात् । यदा हि तादृशधीविषयीभूत आत्मा, तदा तस्य न मोक्षः । तस्याविद्यारूपबन्धशून्यात्मरूपत्वात् । तदुक्तं वार्तिके-'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । इति । 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः।' इति च । अविद्याया अस्तमयस्संस्कारादिकार्यरूपेणाप्यनवस्थानम् । सा स्थूलरूपा संस्कारादिरूपा च । तथा च विदेहताकालीनोऽस्तमय एव मुख्यो मोक्षः । ज्ञातत्वोपलक्षित आत्मापि विदेहताकालीन एव । जीवन्मुक्तिकालीनस्य ज्ञातत्वोपहितत्वस्यापि कदाचित्संभवेन ज्ञातत्वेनोपलक्षितत्वस्य सर्वदा असम्भवात्तदुपलक्षितस्यैव मोहनिवृत्तित्वम्। जीवन्मुक्तौ संस्कारादिरूपेण मोहसत्त्वात् । स्थूलाज्ञाननिवृत्तेस्तत्वज्ञानविशेषादिमनःपरिणामरूपतासंभवेन ज्ञातात्मरूपत्वासंभवाच्च । न चो
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२
www.kobatirth.org.
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
कविषयत्वक्षणे एव तादृशाविद्यास्तमयस्संभवति । चरमधीरूपविद्यावतः क्षणस्याविद्यातत्प्रयुक्तदृश्यविशिष्टकालपूर्वत्वाभावनियमेन सिद्धस्याविद्यास्तमयस्य विदेहताकालीनस्य विद्यावति क्षणे संभवाभावात् । अत आह— मिथ्याबन्धविधूननेन विकल्पोशित इति । ब्रह्मात्मैक्याज्ञानरूपवन्धस्य तादृशास्तमयेन दृश्यशून्य इत्यर्थः । अत्र बन्धस्य मिथ्यात्वोक्त्या तदुच्छेदस्य ज्ञानाधीनत्वज्ञा-' पनेन न ज्ञानोत्पत्तिकालीनत्वमिति ज्ञापितम् । तथा च विधेये उद्देश्यतावच्छेदककालावच्छिन्नत्वबोधस्यौत्सर्गिकत्वात् सर्गाद्यकालीनव्यणुकपक्षकजन्यतासंबन्धेन कर्तृसाध्यकानुमितौ निरवच्छिन्ने कर्तरि विधेये तादृशकालावच्छिन्नत्ववा - धवत् प्रकृतेऽपि तस्य बाधितत्वात् न तत्र तद्बोधः । अत्र बन्धविधूननमविद्यातत्कार्यशून्यत्वं दृश्यशून्यत्वं अनादिसाधारणदृश्यशून्यत्वमिति तयोर्भेदः । विधूननेनेति तृतीया ज्ञापकहेतौ । न तु कारकहेतौ । न ह्यविद्याया अस्तमयो नाम व्यावहारिकध्वंसरूपो विद्याजन्योऽस्मत्सिद्धान्ते स्वीक्रियते । दृश्यान्तरध्वंसो वा तज्जन्यः । तथा सति तस्य निवर्तकाभावेन 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिबोधितस्य विदुषि सर्वदृश्योच्छेदस्य बाधापत्तेः । तत्वज्ञानोत्पत्तिद्वितीयक्षणे हि तत्वज्ञानादिसर्व दृश्यनाशोत्पादात् उक्तक्षणद्वितीयक्षणे उक्तनाशस्य नाशोत्पत्त्यसम्भवः । तत्वज्ञानजन्यस्य नाशस्यैव तत्वज्ञाननाशहेतुत्वे स्वीकृतेऽप्युक्तवाश्रापत्तेस्तादवस्थ्यात् । तत्वज्ञानजन्यस्य दृश्यान्तरनाशस्य तत्वज्ञानस्य च यौ नाशौ तयोनशकाभावात्तयोः स्वनाशकत्व स्वीकारेऽप्युक्तापत्तितादवस्थ्यात् अप्रामाणिकानन्तनाशकल्पने गौरवाच्च । तस्माच्चरमतत्वज्ञानस्य दृश्याश्रयकालपूर्वत्वाभावनियम एव स्वीक्रियते । न तु नाशहेतुत्वम् । यत्तु बद्धपुरुषैः प्रातीतिकमस्तमयादिकं कल्प्यते । न तस्य नाशहेतुत्वम् । यद्यपि ज्ञापकहेतुत्वमपि दृश्यास्तमयं प्रत्यविद्यास्तमयत्वेन नास्ति । जीवन्मुक्ते प्रातीतिकाविद्यास्तमये तद्यभिचारित्वात् । जीवन्मुक्ते प्रातीतिकस्य दृश्यास्तमयस्य करूपने नियमाभावात् । तथापि दृश्यास्तमयकालीनत्वरूपेणाविद्यास्तमयस्य दृश्यास्तमयं प्रत्यस्त्येवेति ध्येयम् । अथ वा मास्तु प्रातीतिकं तादृशाविद्यास्तमयादिकम् । अविद्योच्छेदोपलक्षितः पूर्णानन्दरूप आत्मा मोक्षः । अविद्योच्छेदश्च तदीयस्थूलसूक्ष्मरूपाश्रयकालपूर्वत्वाभावः सर्वदृश्याश्रयकालपूर्वत्वाभावरूपेण दृश्योच्छेदेन व्याप्तः । मोक्षस्य दृश्योच्छेदोपलक्षितात्मरूपकैवल्यरूपत्वात् । यद्वा । ननु, दृश्योच्छेदस्तत्वज्ञानोत्पत्तिक्षणे न सम्भवति । अनादिदृश्यानां ज्ञानानुच्छेद्यत्वादविद्यातत्कार्ययोरेव तदुच्छेद्यत्वात्तत्वाह - मिथ्याबन्धेति । मिथ्याबन्धविधूननेन विकल्पोज्झित इति योजना । तथा च अविद्योच्छेदेन दृश्योच्छे
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लपन
प्रथमपरिच्छेदः] लघुचन्द्रिका । दवानित्यर्थलाभात् अविद्योच्छेदस्य दृश्योच्छेदव्याप्यतालाभेनाविद्यारूपबन्धस्य मिथ्यात्वोक्त्या अविद्याप्रयुक्तदृश्यमात्रस्य मिथ्यात्वलामेनानादिदृश्यानामपि ज्ञानोच्छेदलाभादुक्तव्याप्यतायाः सम्भवः । तथा च सर्वदृश्योच्छेदोपलक्षितपरमानन्दरूपात्मरूपकैवल्यप्राप्तिस्तत्वज्ञानोत्तरमेव न तत्क्षण इति नोद्देश्यतावच्छेदकत्वधीविषयत्वकालीनत्वं विधेये मोक्षलाभे विवक्षितम् । उज्झित इति निष्ठाप्रत्ययेनोच्छेदस्यातीतकाले मोक्षप्राप्तेर्लाभात् अत्यन्ताभावत्वावेशिष्टरूपस्योच्छेदस्यापि दृश्यत्वात्तादृशे मोक्षकाले तस्यातीतत्वादिति भावः । मोक्षं कीदृशं तत्राह-परमेत्यादि । निरतिशयापरिच्छिन्नसुखमात्रस्वरूपमित्यर्थः । ननु, मुक्तस्य प्रकाशकामावेन प्रकाशत इत्यर्थकं विजयत इत्ययुक्तम् । तताह-स्वयामिति । प्रकाशकसम्बन्धं विनैवेत्यर्थः । नन्वेवं विजयत इत्यनुपपन्नम् । तस्यापि प्रकाशसम्बन्धार्थकत्वात् । स्वयमित्यस्य प्रकाशान्तरं विनेत्यर्थकत्वेन विजयत इत्यस्य स्वात्मप्रकाशसम्बन्धार्थकत्वेऽपि विष्णोईश्यत्वेन मिथ्यात्वापत्तिः । अथ विजयत इत्यस्योत्कर्षान्तरमेवार्थः । न तु प्रकाशसम्बन्धः । तदा प्रकाशमानानन्दरूपत्वालाभेन मोक्षस्य प्रयोजनत्वालाभस्तत्राह-सत्यज्ञानसुखात्मक इति । यथात्मन आनन्दत्वेनानन्दरूपं मोक्ष प्राप्त इवेत्युक्तम् । अत एवानन्दावाप्तिबोधक श्रुतेरनावतानन्दैक्यमर्थः । न त्वानन्दसम्बन्धः । तथा प्रकाशरूपत्वेन विष्णोः प्रकाशत इत्यस्यानावृतचिदभेदबोधकत्वम् । न तु प्रकाशसम्बन्धार्थकत्वम् । तथा च दृश्यत्वाभावात् न मिथ्यात्वापत्तिः । न च प्रकाशरूपतोक्तियेथेति वाच्यम् । अपरोक्षव्यवहारयोग्यसुखस्यैव पुरुषार्थत्वम् । उक्तयोग्यत्वञ्चानावृतचिद्रूपत्वेन ताशचित्तादात्म्येन वा । तत्रोक्तरूपानन्दस्यान्त्याभावेऽप्याद्यमस्तीति ज्ञापनार्थत्वेन तस्यास्सार्थक्यात् । ननु ज्ञानस्याज्ञानतत्कार्यविरोधितायाः शुक्त्यादिज्ञानस्थले दृष्टतया युक्तत्वेऽप्यनादिसाधारणदृश्यमात्रविरोधित्वमदृष्टत्वान्न युक्तम् । तत्राहमायेत्यादि । मायया कल्पितं प्रयुक्तम् । अत एव मृषाभूतं यन्मातृतामुखं प्र. मातृत्वादिरूपं द्वैतमात्मभिन्नं तदभिन्नप्रपञ्चाश्रय इत्यर्थः । तथा च शुक्त्याद्यज्ञानस्येव चिन्निष्ठतत्सम्बन्धादेरपि तत्प्रयुक्तत्वेन शुक्त्यादिज्ञानविरोधिताया दृ ष्टतया ब्रह्मज्ञानस्यापि ब्रह्माज्ञानप्रयुक्तदृश्यमातविरोधित्वं युक्तमिति भावः । मृषाद्वैताश्रयत्वोक्त्या मुमुक्षावानधिकारी सूचितः । नन्वखण्डब्रह्माकारज्ञानस्य दृश्योच्छेदकत्वे आपातज्ञानरूपस्यापि तस्य तत्स्यात् । तत्राह-श्रुतिशिखात्योति । श्रुतीनां कर्मोपासनाकाण्डरूपाणामुपकार्यत्वेन शिखेव मुख्यं यन्महावाक्यं तजनितेत्यर्थः । तथा च निष्कामकर्मोपासनानुष्ठापनद्वारकचित्तशुद्धिचित्तैकाग्रताद्वारोक्तश्रु
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
त्युपकृतवाक्यनन्यज्ञानस्यैव तदिति भावः । परममङ्गलरूपां परब्रह्मरूपविषयप्रयोजनोक्तिं सम्पाद्य परमगुरुगुरुविद्यागुरून्प्रणमति-श्रीरामेत्यादि । ऐक्येन आस्मैक्येन माधवानां परब्रह्मणाम् । ममात्मम्भरितां मन्निष्ठां स्वार्थसम्पादकताम् । भावयितुं जनायितुम् । एष श्रमः एतद्न्यसम्पादनम् । परोक्तदूषणोद्धारपूर्वकस्वमतपरिच्छेदविशेषस्यैतद्वन्थे क्रियमाणस्यातिलोकोत्तरत्वेनान्यैरेतद्रन्थदर्शनात्पूर्वमज्ञातत्वेनाकामितत्वान्मयैव पूर्व कातिमुक्तपरिच्छेदरूपं फलं भावयिष्यत्ययं ग्रन्थो नान्यैः कामितमिति भावः । सिद्धिः निश्चयः । इयं एतद्रन्थाधीना । 'सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात् । अद्वैतसिद्धिरधुना चतुर्थी समजायत ।' इति एतद्रन्थीयसमाप्तिस्थानीयपद्यस्थसिद्धिपदान्यपि तत्तद्वन्थाधीननिश्चयपराण्येव । परिच्छेदसमाप्त्यादिस्थले सिद्धिपदं साधक ग्रन्थपरं निश्चयपरमेव वा । अद्वैतनिश्चयोपयोगी प्रथमपरिच्छेद इत्याद्यर्थकत्वसम्भवेन लक्षणायां मानाभावात् । अस्मदादिभिस्तु, स्वकीयसंकेतविशेषेणास्मिन् ग्रन्थे अद्वैतसिद्धिपदं प्रयुज्यते । पूर्वकलादिति । 'एकमेवाद्वितीयं ब्रह्मे'त्यादिश्रुत्या जायमाने अद्वैतत्वोपलक्षितब्रह्मनिर्विकल्पकनिश्चये बमणि द्वैताभावविशिष्टबुद्धरत्वात् । तस्याश्च निषेधत्वेन प्राप्तिपूर्वकत्वेन द्वैतवति ब्रह्मणि द्वैतवत्त्वकालावच्छेदेन द्वैताभाववत्त्वविषयकत्वात् । 'सदेव सोम्येदमग्र आसी'दिति पूर्ववाक्ये इदंशब्दार्थद्वैतसामान्यतादात्म्यस्य लब्धत्वेन तस्य द्वैताभावांशे उद्देश्यतावच्छेदकत्वेन तत्र तत्कालावच्छेद्यत्वभानस्य व्युत्पत्तिसिद्धत्वात् इदमात्मकसतोऽयकालसत्त्वस्य द्वैताभाववत्त्वस्य च द्वयोर्विधाने वाक्यभेदस्येष्टत्वात् द्वैतवति द्वैताभावबोधस्याहार्यत्वेन शाब्दत्वासम्भवेऽपि इदंपदस्य दृश्यत्वरूपेण द्वि तीयपदस्य चात्मभिन्नत्वरूपेण बोधकत्वेनाहार्यत्वाभावात् कालान्तरावच्छेदेन द्वैताभाववत्त्वविषयकधियश्च 'तरति शोकमात्मवित्' 'विद्वान्नामरूपाद्विमुक्तः' 'ज्ञात्वा देवं मुच्यते सर्वपाशै'रित्यादिश्रुतिभिः ज्ञाननाश्यत्वानुमापकदृश्यत्वलिङ्गादिरूपमानान्तरेण च सिद्धत्वेन तज्जनने वाक्यवैयर्थ्यापत्तेः एककालावच्छिन्नं प्रतियोग्यभावयोरेकाधिकरणवृत्तित्वमिति धीरूपो मिथ्यात्वनिश्चयः । अथ वा मिथ्यात्वघटकस्याभावस्य सदा सर्वत्र विद्यमानत्वेनावच्छिन्नवृत्तिकान्यत्वेन मिथ्यात्वं नोक्तरूपम् । किंतु तादृशान्यत्वविशिष्टेनाभावेन घटितम् । तथा च प्रत्यक्षादिप्रमाणस्याद्वैतश्रुतिबाध्यत्वेन ब्रह्मणि कालविशेषाद्यवच्छिन्नद्वैतामावबोधकत्वरूपे श्रुतिसंकोचे हेतोरभावेन तादृशाभावंस्य त्रैकालिकत्वनिश्चयात सार्वश्यसर्वकार्योपादानत्वबोधकश्रुतेरपि लक्षणवाक्यविधया निर्विकल्पकनिश्चयजनकत्वेऽपि तादृशनिश्चयस्य सर्वद्वैततादात्म्यविशिष्टधीपूर्वकत्वात् सर्वतादात्म्य
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमपरिच्छेदः]
लघुचन्द्रिका ।
स्यैव ब्रह्मणि सर्वविषयकत्वरूपत्वात् सर्वोपादानत्वस्य ब्रह्माणि स्वात्मकसर्वजनकत्वरूपत्वात् 'एकमेवाद्वितीयमिति' 'यस्सर्वज्ञस्सर्ववित्' 'यस्य ज्ञानमयं तपः तस्मादेतत् ब्रह्मनामरूप 'मिति श्रुतिद्वये लक्षणादिवृत्त्या द्वैतवत्परब्रह्मनिष्ठस्यावच्छिन्नवृत्तिकान्यत्वरूपत्रैकालिकत्वविशिष्टात्यन्ताभावस्य प्रतियोगि द्वैतमिति धीरूपो मिथ्यात्वनिश्चय इति तत्पूर्वकत्वमुक्तनिर्विकल्पकनिश्चये आवश्यकम् । महावाक्यनन्याद्वैतनिश्चयस्यापि 'नेह नानास्ति किञ्चन' 'नात्र काचन भिदास्ति 'इत्यादितत्पदार्थशोधकवाक्याधीनधीपूर्वकत्वादुक्तवाक्येन वर्तमानार्थलट्प्रत्ययप्रयुतत्वात् द्वैतविशिष्टब्रह्मरूपोद्देश्यार्थकेहपदयुक्तत्वाच्च वर्तमानकालावच्छेदनोद्देश्यतावच्छेदकद्वैतवत्त्वावच्छेदकदेशकालावच्छेदेन च द्वैतविशिष्टे ब्रह्मणि अस्तित्वविशिष्टस्य द्वैताभावस्य बोधनात् अत्यन्ताभावस्यावच्छिन्नवृत्तिकान्यत्वस्वीकारे निरवच्छिन्नविशेषणतया तादृग्ब्रह्मवृत्तित्वबोधनात् तत्सम्बन्धावच्छिन्नस्य प्रतियोगिसामानाधिकरण्यस्य निवेशादेवाव्याप्यवृत्तितामादाय मिथ्यात्वानुमाने अर्थान्तरवारणात् एकप्रसरतामङ्गापत्त्या ब्रह्मणीत्येकपदस्य ब्रह्माधेयत्वयोरुद्देश्यविधेययोरन्वयाबोधकत्वेऽपि ब्रह्मणीत्यनेन ब्रह्मनिरूपितत्वरूपस्योद्देश्यस्यैवास्तीत्यनेनाधेयत्वाश्रयत्वरूपविधेयस्यैव समर्पणेन ब्रह्मनिरूपिताधेयत्वे तत्तद्देशावच्छिनत्वलाभात् 'यस्मिन् पञ्च पञ्च जना आकाशश्च प्रतिष्ठित 'इति वाक्ये 'प्राणस्य प्राणमुत चक्षुषश्चक्षु'रित्यादिवाक्ये चाकाशशब्दिताव्याकृतप्राणादिसंबन्धितया ब्रह्मण उक्तत्वात् पञ्चननशब्दस्य गन्धर्वादिरूपस्य ब्राह्मणादिरूपस्य वा भाष्योक्तार्थस्य 'यस्य ब्रह्म च क्षत्रश्चेति वाक्ये ब्रह्मक्षत्रपदयोरिव सर्वदृश्योपलक्षणत्वेन प्राणस्येत्यादेरपि सर्वदृश्योपलक्षणत्वेन सर्वदृश्यसंबन्धित्वेनैव ब्रह्मणः पूर्वमुक्तत्वाच्चाद्वैतसिद्धेः द्वैतमिथ्यात्वपूर्वकत्वम् । न च नानेत्यस्य नपदनिष्पन्नत्वेन भेदार्थकतया स्वसमभिव्याहतपदार्थब्रह्मभेदबोधकतया तादृशभेदविशिष्टस्य किश्चनेति पदार्थस्यात्यन्ताभावे द्वैतवत्त्वदेशकालावच्छिन्नत्वस्य भानं न व्युत्पत्तिसिद्धम् । उद्देश्यतावच्छेदकतत्तद्देशकालावच्छिन्नत्वयोः तत्तद्देशकालादिविशिष्टोद्देशस्थले पानादिति वाच्यम् । तादृशाभावे तादृशावच्छिन्नब्रह्मवृत्तित्वबोधेऽप्युद्देश्यसिद्धेः । न हि तल तल्केनापि स्वीक्रियते । प्रलयेऽपि तादृशाभावे तार्किकादिभिस्तदस्वीकारात् मिथ्यात्ववादिनैव तत्स्वीकारात् । वस्तुतस्तु, बमभेदो न प्रतियोगितावच्छेदकतया भाति । किं तूपलक्षणतया किञ्चनपदार्थे प्रकारः। तथा च किञ्चनपदस्य सर्वनामतया प्रसिद्धार्थतया प्रत्यक्षादिमानसिद्धद्रव्यत्वादिविशिष्टबोधकत्वेन प्रसिद्धार्थकत्वात् प्रक्रान्तार्थकत्वाद्वा । इहपदेन घटत्वादिविशिष्ट
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
अद्वैतमञ्जरी ।
वत् ब्रह्मबोधनात् द्रव्यत्वादिविशेषरूपेणैव मिथ्यात्वलाभः । घटवद्र्व्यवदित्येवमुद्देश्यतावच्छेदकभानेऽपि द्रव्यं नास्तीत्यादिविधेयांशे घटत्वादिविशिष्टस्योद्देश्यतावच्छेदकत्वेन द्रव्यत्वादिविशिष्टाभावज्ञानस्य नाहार्यत्वापत्तिरिति भावः । वादः तत्वबुभुत्सुना सह कथा । जल्पो विजिगीषुणा सह । वितण्डा स्वपक्षस्थापनहीना । कथा पञ्चावयवपरिकरोपेतवाक्यम् । सिषाधयिषत्यादि । सिषाधयिषाभावसामानाधिकरण्यविशिष्टस्य साध्यनिश्चयस्याभावरूपाया इत्यर्थः । संशयस्य संशयहेतुत्वस्वीकारस्य । अतिप्रसञ्जकत्वात् आहार्यपरामर्शादेहेतुत्वापादकत्वात् । पक्षप्रतिपक्षपरिग्रहेति । पक्षे धर्मिणि प्रतिनियतपक्षपरिग्रहेत्यर्थः । वादिनो वाभावान्यतरकोटेरेकर्मिणि प्रयोगेति यावत् । तथाप्यनुमित्यनङ्गत्वेऽपीति । अनुमि ति प्रति तथाविधमेव यदङ्गत्वं तदमावेऽपीत्यर्थः । प्रथमस्यापिशव्दस्यैवकारसमानार्थकत्वात् यद्यपीत्यस्य पूर्व सत्त्वात्तथापीत्यन्यदध्याहार्यम् । एकेनैव वा तथापीत्यनेनार्थद्वयबोधः । अथ वा अङ्गत्वपदस्य पूर्वशङ्किताङ्गत्वमर्थः । व्युदसनीयतया विचारसाध्याभावप्रतियोगितया । विचाराङ्गत्वं विचारप्रवृत्युपयुक्तस्य संशयाभावरूपफलज्ञानस्य विशेषणज्ञानविधया कारणे ज्ञाने विषयत्वम् । तथा च विप्रतिपत्तिवाक्यात् संशये जाते सन्देलीत्याकारकेण संशयरूपविशेषणज्ञानेन संशयामावरूपफलज्ञानाधीनेच्छया विचारे प्रवृत्तिरित्येवंरीत्या विचारे विप्रतिपत्तिवाक्योपयोगइति भावः । नमु, पादिनोः स्वस्वकोटिनिश्चयकाले तत्संशयोत्पादानुपपत्तिरत आह
-तादृशेति । विचारानेत्यर्थः । स्वरूपयोग्यत्वात् कारणत्वात् । प्राचीनमते विप्रतिपत्तिवाक्यस्य शाब्दधीरूपसंशयोत्पादकत्वस्वीकारात् । प्रत्यक्षस्यैव संशयत्वमिति यते तु, कारणीभूतकोटिद्वयोपस्थितिहेतुपदघटितत्वादित्यर्थः । तथा च वादिनोनिश्चयकाले संशयानुत्पत्तावपि संशयकारणत्वादिरूपेण ज्ञाता विप्रतिपत्तिः संशयं स्मारयति । पयोः सम्बन्धः पूर्व गृहीतः तयोरेकज्ञानस्यापरस्मारकत्वात् । तथाच तदैव तथा तस्या उपयोग इति भावः । आभिमानिकनिश्चयाभिप्रायमिति । निश्चयवानस्मीति ज्ञापयन्तौ विवदेते इत्यर्थकम् । तथाच वादिनोंनिश्चयकाले सभापत्यादीनां संशयाभावमुद्दिश्य विचारे प्रवृत्तिरिति भावः । ननु , विशेषणज्ञानस्य विशिष्टबुद्धिहेतुत्वमते नोक्तरीत्या विप्रतिपत्तिरुपयुज्यत इति चेत् । सत्यम् । तथापि स्वस्य परस्य वा संशयाभावत्वे निश्चिते तत्र सिद्धत्वज्ञानात्. तदुद्देशेन प्रवृत्तिरतस्संशयाभाववत्त्वनिश्चयविरोधिनी संशयत्वधीरपेक्ष्यत एव । ननु। वादिनोरन्येषां च सभास्थानां निश्चये वादिभ्यां निश्चिते संशयाभावमुद्दिश्य न विचारे तयोः प्रवृत्तिः । किं तु विजयादिकमुद्दिश्य । तत्र च विप्रतिपत्तिर्नोपयुज्यते ।
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रथमपरिच्छेदः ]
www.kobatirth.org
लघुचन्द्रिका
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
७
I
अत आह— तस्मादिति । स्वकर्तव्येति । उक्तस्थले तात्कालिके संशयाभावे निश्चितेऽपि निश्चयजन्यसंस्कारस्य कालान्तरे उच्छेदशङ्कया संशयोत्पत्तिसंभवज्ञानेन तदापि संशयाभावोऽनुवर्ततामितीच्छायास्तं भवान्न विजयादिकमात्रमुद्दिश्य प्रवृत्तिः । किञ्च यथा समयबन्धः । एतन्मतमवलम्ब्यैव युवाभ्यां विचारणीयमित्याकरको मध्यस्थेन क्रियते । अन्यथा वादिनामतान्तरप्रवेशेऽव्यवस्थापत्तेः । यथा वा वादिनौ परीक्ष्येते । अन्यथा मूर्खस्य विचारे मध्यस्थस्यैव हास्यत्वापत्तेः । तथा विप्रतिपत्तिरपि मध्यस्थेन कार्येव । अन्यथा प्रासङ्गिकविषयमादाय वादिनोरेकस्य जयस्वीकारापत्त्या प्रकृतविषये तयोर्जयपराजयव्यवस्थापन रूपस्य मध्यस्थकर्तव्यस्यानिर्वाहात् । विप्रतिपत्तौ कृतायां तु सभास्थैस्तच्छ्रवणात्तद्विषयकोटी अपलप्य प्रासंगिक विषयान्तरं न वादिम्यामवलम्ब्य विजयस्स्वीकर्तुं शक्यते । तस्मात्सार्वकालिक संशयाभावप्रयोजक संस्कारदार्थस्योक्तव्यवस्थापनस्य च स्वकर्तव्यस्य निर्वाहाय मध्यस्थेन विप्रतिपत्तिः कार्येवेति भावः । प्रतिपन्नेत्यादि । स्वसम्बन्धितया ज्ञाते सर्वत्र धर्मिणि । त्रैकालिकस्य सर्वदा विद्यमानस्य । निषेधस्यात्यन्ताभावस्य । प्रतियोगि न वा । येन सम्बन्धेन यदूपविशिष्टसम्बन्धितया यत् ज्ञातं तत्सम्बन्धतद्रूपावच्छिन्नं तन्निष्ठोक्ताभावस्य प्रतियोगित्वं निवेश्यम् । अन्यथा सम्बन्धान्तररूपान्तरावच्छिन्नमुक्त प्रतियोगित्वमादाय सिद्धसाध्यतापत्तेः । स्वपदं रजतत्वादिविशिष्टपरम् । नव्यमते स्वत्वस्याननुगतत्वात्तत्तद्व्यक्तिपरत्वे व्यक्तिभेदेन मिथ्यात्वस्य भेदापत्तेः । तथा च रजततादात्म्येन ज्ञायमानं यच्छुक्त्यादिकं तन्निष्ठाभावीयं यद्रजतत्वतादात्म्यसम्बन्धावच्छिन्न प्रतियोगित्वं तस्य प्रातीतिक इव व्यावहारिकेऽपि रजते सत्वात्तत्र सिद्धसाधनवारणाय सर्वत्रेत्युक्तम् । कालिकाव्याप्यवृत्तिमदत्यन्ताभावमादायार्थान्तरतापत्ते स्नैकालिकेत्युक्तम् । यद्यपि अत्यन्ताभावस्यैव प्रतियोगिता भेदसहिष्णुना तादात्म्येनावच्छिन्ना । न तु भेदस्य । तादृशतादात्म्यस्य भेदाविरोधित्वात् । भेदासहिष्णु च तादात्म्यं नास्त्येव । अत्यन्ताभेदे तादात्म्यादिसम्बन्धसंभवात् । तथापि प्रकृतानुमानात्तादात्म्यावच्छिन्नभेदप्रतियोगितासिद्धिमादायार्थान्तरं स्यात् । अतोऽत्यन्ताभावेत्युक्तम् । संसर्गीभावो वा निवेश्यः । तादृशामावप्रतियोगितावच्छेदकर जतत्वादिमत्त्वस्य साध्यत्वे साध्याप्रसिद्धिः । अतस्तदपहाय तादृशप्रतियोगित्वमेव साध्यं कृतम् । तस्यापि शुक्तिरूप्यादावनुमानात्पूर्वमसिद्धिः। रजतसम्बन्धितया प्रतीयमानसर्वान्तर्गतव्यावहारिकरजतादिनिष्ठात्यन्ताभावप्रतियोगित्वस्य तादृशावच्छिन्नस्य तत्राभावात् । अतो व्यावहारिकपक्षकविशेषानुमानेषु रजतत्वेन घटो नास्तीति प्रतीतेः घटादिरेव दृष्टान्तः । ननु, तादृशप्रतियोगिता -
1
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८
www.kobatirth.org
अद्वतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
1
या व्यधिकरणावच्छेदकर जतत्ववत्त्वं शुक्तिरूप्यादावपि प्रसिद्ध्या तदेव साध्यं कुतो न कृतमिति चेन्न । तथा सति व्यावहारिकरजतादिरूपे पक्षे तत्प्रसिच्या सिद्धसाधनापत्तेः । समानाधिकरणावच्छेदकरजतत्वस्यैव साच्यीकार्यत्वे प्रसिद्ध्यावश्यकत्वात् । सामान्यानुमाने तु शुक्तिरूप्यादिकं मूलोकं दृष्टान्तः । स्वत्वस्यानुगतस्य प्राचां मते स्वीकारेण स्वविशिष्टसम्बन्धितया ज्ञायमाने सर्वत्र विद्यमानात्यन्ताभावस्य प्रातीतिकरजतत्वतादात्म्यावच्छिन्नप्रतियोगित्वस्य प्रातीतिकरजतादौ सत्त्वात् । नचैवं सर्वदेशकालवृत्तिव्याप्यवृत्यत्यन्ताभावप्रतियोगित्वं पर्यवसितम् । तथाचालीकत्वापत्तिः प्रपञ्चस्येति वाच्यम् । कालसंबन्धित्वसमानाधिकरणस्य तस्य निवेश्यत्वात् । ननु, कालसंबन्धित्वमास्तां प्रपञ्चे । विशेष्यभूतमुक्त प्रतियोगित्वं तु न तत्रास्ति । येन हि रूपेण संबन्धेन च यत्र यत् संबध्यते । न च तेन रूपेण तत्संबन्धेन च तत्र तदभावे विरोधादिति मन्वानं वादिनं प्रति तुप्यतु दुर्जन इति न्यायेन तन्मतमनुसृत्य साध्यान्तरमाह - पारमार्थिकेत्यादि । पारमार्थिकत्वावच्छिन्नं यदुक्तप्रतियोगित्वं तद्वन्न वेत्यर्थः । तत्रोक्त प्रतियोगित्वे । तदूपावच्छि न्नमिति पूर्वोक्तस्य विशेषणस्य स्थाने तद्रूपसमानाधिकरणमिति विशेषणं देयम् । न च तत्र प्रयोजनाभाव इति वाच्यम् । घटादेः पारमार्थिकत्वेऽपि पारमार्थिकत्वेन शुक्तिरूप्यादेः योऽत्यन्ताभावस्तत्प्रतियोगित्वस्य घटादौ सिद्धिमादाय यदर्थान्तरम् । तद्वारणादेः प्रयोजनस्य सत्वात् । कपालादौ संयोगादिसंबन्धेन घटादेर्यो ऽत्यन्ताभावस्तत्प्रतियोगित्वस्य घदादौ सिद्धिमादाय घटादेः पारमार्थिकस्वीकारे starन्तरं स्यादतस्तत्संबन्धावच्छिन्नेत्यपि प्रतियोगित्वे विशेषणं देयम् । न च पारमार्थिकत्वस्य घटादौ स्वीकारे तेन रूपेण कथं कपालादौ संयोगेनापि घटादेरभावसिद्धिः । व्यधिकरणधर्मावच्छिन्नाभाववादिनापि विशेषरूपेण सामान्याभावस्वीकारेऽपि सामान्यरूपेण विशेषस्याभाव स्वीकारादिति वाच्यम् । प्रकृतानुमानबलेनैव तादृशाभावसिद्ध्या पत्योक्तस्यार्थान्तरस्यापत्तेः । मत इति । ययक्तौ साध्यं सिद्धं तत्र नानुमितिर्भवति । व्यक्त्यन्तरे तु भवत्येव । समान विशेष्यत्वसंबन्धेन बाधविशिष्टबुद्ध्योरिव सिद्ध्यनुमित्योः प्रतिबध्यमतिबन्धकत्वौचित्यादिति प्राचां मतम् । नव्यमते तु यद्धर्मविशिष्टे क्वचित्साच्यं सिद्धं तद्धर्मविशिष्टे व्यक्त्यन्तरेऽपि नानुमितिरिति भावः । पक्षविशेषणं पक्षतावच्छेदकता पर्याप्त्यधिकरणं तावन्मात्रं पक्षतावच्छेदकमिति यावत् । ब्रह्मज्ञानान्याबाध्यत्वसामानाधिकरण्ये नानुमितिं प्रति तत्सामानाधिकरण्येन ब्रह्मतुच्छयोः साध्याभावज्ञानस्याविरोधित्वेनान्यविशेषणद्वयस्य पक्षतावच्छेदकप्रवेशे प्रयोजनाभावादिति भावः । वाधवारणा
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमपरिच्छेदः]
लघुचन्द्रिका ।
येति । नन्वसिद्धिवारणायेत्यपि वक्तुमुचितम् । बाधो हि हेत्वाभासः । विप्रतिपत्तिप्रयुक्तन्यायप्रयोगाधीनानुमितावेव विरोधी सन् दूषणं न तु विप्रतिपत्तिजन्यसंशयविरोधी सन् । वाद्यादीनां निश्चयवत्त्वे संशयानुत्पादस्योक्तत्वात् । तदा हि सं. शयस्याकर्तव्यन्वेन अयव्यवस्थामात्रसिद्धये विप्रतिपत्तेरिवानुमितिसामग्रीमात्रस्य हेत्वामासादिदोषशन्यस्य प्रतिवादिनिष्ठस्य वादिना कर्तव्यतया संशयाविरोधित्वेन बाधस्योद्भावनं व्यर्थम् । अनुमितितत्करणपरामर्शान्यतरविरोधित्वरूपेण हेत्वाभासत्वेन बाधस्योद्भावने च हेत्वसिद्धरपि तदुचितमिति चेन्न । विप्रतिपत्तिकाले हतोरप्रयुक्तत्वेन हेतुमत्ताज्ञानविरोधिन्या असिद्धेः ज्ञातुमशक्यत्वेन तस्य विप्रतिपत्तिदोषत्वाव्यवहारात् । न च पक्षतावच्छेदकावच्छेदेन विप्रतिपत्तौ साध्यस्य विवक्षितत्वाद्धेतोः पक्षतावच्छेदकावच्छेदेन प्रयोक्तव्यतामनुमाय असिच्यादर्दोषत्वं सम्भाव्यमिति वाच्यम् । अनुमानाकौशलेन सभाक्षोभादिना वा अन्यथापि हेतोः प्रयोगसम्भवात् । वस्तुतस्तु, बाधपदमसिद्धेरप्युपलक्षकम् । विप्रतिपत्तियोग्यन्यायवाक्योक्तहेतोर्दोषस्यापि विप्रतिपत्तिदोषत्वसम्भवात् । अत एवाग्रे सन्दिग्धानकान्तिके विप्रतिपत्तिदोषत्वमाशङ्कितम् । अत एवोक्तमिति । प्राचीनतार्किकैरिति शेषः । नवीनतार्किकैस्तु व्याप्तिग्राहकतर्काभावे सति साध्यामाववत्त्वेन सन्दिग्धे धमिणि हेतुनिश्चयोऽपि व्यभिचारसंशयहेतुतया दोष एव । अत एव 'वतिरद्विष्ठातीन्द्रियधर्मसमवायी दाहजनकत्वादात्मव'दित्यादि शक्त्यादिसाधकानुमानेषु मणावप्रयोजकत्वमुक्तम् । तत्र व्यभिचारसंशयस्यादूषणत्वे व्याप्तिपक्षधर्मतानिश्चयसंभवेनाप्रयोजकत्वोक्तेरसङ्गतेः तस्य दूषणत्वमावश्यकमिति दीधितावुक्तं यद्यपि । तथापि प्रकृते मिथ्यात्वानुमाने तर्काणां वक्ष्यमाणत्वेन न दोषः । विमतं विप्रतिपत्तिविशेष्यम् । नावयवेष्विति । 'तत्र पञ्चतयं केचित् द्वयमन्ये वयं त्रय' मिति मीमांसकोक्तरोत्या तार्किकमीमांसकबौद्धानां पञ्चत्रिव्यवयववादित्वात्तान् प्रति यथामतमवयवाः प्रयोक्तव्याः । 'उदाहरणपर्यन्तं यद्वोदाहरणादिक' मिति मीमांसकाः । उदाहरणोपनयरूपावयववादिनो बौद्धा इति भावः । ननु, विप्रतिपत्तिमात्रस्य निवेशे सिद्धसाधनबाधादिकम् । घटादिमात्रविशेष्यकविप्रतिपत्तिनिवेशे प्रपञ्चमात्रस्य मिथ्यात्वासिद्धिस्तत्राह-स्वनियामकनियतयेति । स्वस्याः विप्नतिपत्तेः नियामकं प्रकृतानुमानपक्षतावच्छेदकत्वयोग्यतासम्पादकं यत् ब्रह्मज्ञानान्याबाध्यत्वादिविशिष्टविशेष्यकत्वं पूर्वोक्तम् । तेन नियतया विशेषितया पूर्वोक्तयेति यावत् । ननु, पूर्वोक्तविप्रतिपत्तेर्ब्रह्मज्ञानान्याबाध्यत्वादिघटितरूपेण पक्षतावच्छेदके निवेशे लाघवादुक्ताबाध्यत्वादिरूपस्यैव पक्षतावच्छेकत्वमुचितम् । तत्राह-लघूम
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तयेति । तव्यक्तित्वादिरूपलघुरूपविशिष्टयेत्यर्थः । तथाच ब्रह्मज्ञानेत्यायुक्तरूपेण परिचितपूर्वोक्तविप्रतिपत्तिव्यक्तेस्तद्व्यक्तित्वेनैव निवेश इति भावः । ननु, उक्ताबाध्यत्वादिरूपस्य विप्रतिपत्तिपरिचायकघटकतया प्रथमोपस्थितत्वात्तदेव पक्षतावच्छेदकं युक्तम् । तत्राह-~-यद्वेति । अवछेदकमेवेति । भट्टभास्करमते शुक्तिरूप्यादेस्सत्यस्य शुक्त्यादावुत्पत्तिखीकारात्तदनुयायिना केनचित् यदि तस्य मिध्यात्वमुच्यते । तदा तेन सह विप्रतिपत्तौ तस्यामबाध्यत्वान्तमेव पक्षविशेषणम् । तथा च न तं प्रति सिद्धसाधनम् । तादृशस्य कस्यचिदभावेऽपि दृष्टान्तसिद्धये शुक्तिरूप्यादौ मिथ्यात्वस्य प्रकृतानुमानात् पूर्व प्रसाध्यत्वात् तत्र सिद्धसाधनवारणाय तद्विशेषणं देयमेव । यदा त्ववच्छेदकावच्छेदनानुमितिमुद्दिश्य विप्रतिपत्तिस्तार्किकादिना सह । तदेतरविशेषणे एव देये । तत्राप्यलीकवादिनं प्रत्येवान्तिविशेषणं देयम् । एकदा तु न द्वाभ्यां सह विप्रतिपत्तिस्तथैव कथकानां सम्प्रदायात् । तथा च यदेव यं प्रति विप्रतिपत्तौ पक्षविशेषणं तदेव तं प्रति न्यायप्रयोग इति भावः । ननु, सत्त्वेन प्रतीतियोग्यत्वं सदूपचित्तादात्म्यं घटादौ व्यावहारिकम् । घटादितुल्यकक्ष्यत्वात्। शशविषाणादावलीके तु प्रातीतिकं सम्भवति। अनध्यस्तेऽप्यलीके सत्तादात्म्यस्यारोपसम्भवात् । यदि पुनः पक्षतावच्छेदकावच्छेदेने त्यादिमूलानुरोधाताशुक्तिरूप्यादिप्रातीतिकसाधारणस्य सत्तादात्म्यस्य निवेश्यत्वादिति चेन्न। तत्रैव हि सत्तादात्म्याध्यास यस्य तत्समानकालमध्यासः । शुक्तिरूप्यादिरूपेण परिणममानाविद्याया एव तन्निष्ठेन सत्तादात्म्यरूपेण परिणममानत्वात् । तथा चालीकरूपेणाविद्यायाः अपरिणममानत्वात् । नालीकनिष्ठतादात्म्यरूपेण परिणामः । न च स्फटिकादिरूपेणापरिणममानाया अप्यविद्यायाः स्फटिकादिनिष्ठेन जपाकुसुमादिलौहित्यतादात्म्यादिरूपेण परिणामदर्शनात् अलीकरूपेणापरिणताप्यविद्या तन्निष्ठेन सत्तादात्म्यरूपेण परिणमतामिति वाच्यम् । तादात्म्यमात्ररूपेण परिणामस्य तथा दृष्टत्वेऽपि सत्तादात्म्यरूपेण परिणामस्य तदनुयोगिरूपेण परिणममानाविद्यानिष्ठत्वनियमाविघातात् । न च सत्प्रतियोगिकतादात्म्यस्योक्तनियमस्वीकारेऽ पि सदनुयोगिकस्यालीकप्रतियोगिकतादात्म्यस्याविद्यापरिणामत्वमास्तामिति वाच्यम् । सदलीकमिति प्रतीत्यमावेनाविद्यायास्तादृशपरिणामे हेतुत्वाकल्पनात् । अत एव 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प'इति पातञ्जलसूत्रे शब्दमात्रजन्यस्यालीकाकारधीरूपविकल्पस्य सद्रूपाविषयकत्वरूपं वस्तुशन्यत्वमुक्तम् । अत एव प्रमाणविपर्ययविकल्पनिद्रास्मृतय' इति वृत्तिविभाजके पातञ्जलसूत्रे विकल्पात् पृथग्विपर्ययस्योक्तिः । तस्य सद्रूपविषयकत्वेन वस्तुशून्यत्वाभावात् । किं च सत्प्रतियोगिकतादात्म्य
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रथमपरिच्छेदः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
११
स्यैव प्रकृते पक्षतावच्छेदके निवेशादलीक प्रतियोगितादात्म्यमादाय नोक्तदोषः । ननु, माध्वादिमते शुक्तिरूप्यादेरलीकता स्वीकारा 'दिदं रूप्यं सदि' त्याकारभ्रमेण तसत्प्रतियोगितादात्म्यावगाहनान्माध्वादीन् प्रति न्यायप्रयोगे बाधः । सदसद्विलक्षणत्वादिसाध्यस्य तत्राभावात् । न चाबाध्यत्वान्तविशेषणेन तस्य वारणम् । अलीकस्य ज्ञानोच्छेद्यतारूपज्ञानवाध्यत्वाभावादिति चेन्न । तन्मते भ्रमस्यासत्ख्यातित्वस्वीकारेणानिर्वचनीयख्यात्यनभ्युपगमेन तादात्म्यादिसम्बन्धस्याप्यलीकस्यैव भ्रमे भानात् । अनलीकस्य भानस्वीकारे तस्य सद्रपत्वेन अत्यन्ताभावप्रतियोगित्वप्रत्ययानुपपत्तेः । अलीकस्यैव तन्मते अत्यन्ताभावप्रतियोगित्वात् रूप्यादेरलीकान्यत्वापत्त्या अधिष्ठानान्यभ्रमविषयस्यालीकत्वनियमाञ्च । सत्स्वरूपस्यैव तादात्म्यस्य तत्र भाने अलीकरूप्यादौ तदनुयोगित्वाभावादली के रूप्यादिनिष्ठे तादात्म्ये सत्प्रतियोगिकत्वस्येव सदूपे अलीकानुयोगिकत्वस्याभावात् सदसतोरुपरागाभावात् शुक्तिरूप्यादौ सत्प्रतियोगितादात्म्यानुयोगित्वरूपपक्षतावच्छेदकाभावेन तत्र बाधोक्त्यसम्भवात् । वक्ष्यमाणरीत्या सदसद्भिन्नत्वस्य माध्वं प्रत्यसाध्यत्वेन तं प्रति बाधाभावाच्च । न चैवमपि तन्मते शुक्तिरूप्यादौ साध्यवैकल्यम् । तं प्रति सद्विविक्तत्वादिवक्ष्यमाणमिथ्यात्वस्यैव साध्यत्वात् । ननु, सद्रूपं शुद्धचिदेव । तत्प्रतियोगिकत्ववि - शिष्टतादात्म्यत्वावच्छिन्नाधिकरणत्वं च तस्यां नास्तीति चिद्भिन्नत्वविशेषणं व्यर्थमिति चेत् । सत्यम् । उक्ताधिकरणत्वनिवेशे चिन्नित्वं न देयम् । तत्प्रतियोगिकस्य तादात्म्यस्याधिकरणत्वमात्रनिवेशाभिप्रायेण दत्तम् । ननु तादृशतादात्म्यस्यापक्षत्वापत्तिः । तस्य स्वस्मिन्नभावात् । तादात्म्ये तादात्म्यान्तरस्यानवस्थापत्त्या अनङ्गीकारादिति चेन्न । घटाद्यभावस्येव तस्य स्वस्मिन् स्वरूपसम्बन्धेन वृत्तिस्वीकारात् । घटाभावे घटो नास्तीतिवत् सत्तादात्म्यं सदिति प्रतीतेः । अथ घटादिदृश्यमात्रस्य सत्तादात्म्यवत्त्वे किं मानमिति चेत् । शुक्तिरूप्यादेरिदमादितादात्म्यवत्त्व इव परस्पराध्यासानुभवादिकम् । तथाहि--' इदं रजत ' मित्यादिभ्रमस्थले 'इदं रजतं जानामि रजतमिदं जानामी' त्याकारद्वयानुभवादिदमादिविषयतावच्छिन्नं रजततादात्म्यादिविषयत्वं रजतादिविषयतावच्छिन्नं इदमादितादात्म्यविषयत्वं च चिद्रूपानुभवनिष्ठं भातीति स्वीक्रियते । एवं 'इदं रजतं रजतमिद' मिति यत् ज्ञानं तत् मिध्येति बाधकप्रत्ययेन विषयविशिष्टभ्रमस्य मिथ्यात्वावगाहनात् । भ्रमस्येव तद्विषयाणामपि भ्रमकालीनबाध कधी बाध्यत्वं तत्राप्युक्तवाधवी कालेऽपीदमर्थस्य ता
१. 'नियमानापत्तेश्व' इति ख. पाठः
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
दृशधीमता पुरुषेणांगुल्या प्रदर्थमानस्य स्वरूपतः सत्यत्वानुभवात्तस्य व्यावहारिकस्वरूपत्वनिश्चयेन स्वरूपतो मिथ्यात्वानिश्चयेन मिथ्यात्वेन निश्चीयमानतादाम्योपहितरूपेण मिथ्यात्वनिश्चयः । रजतादितत्तादात्म्ययोस्तु स्वरूपतोऽपि स इतीदमाद्यवच्छेदेन रजतादिकं तत्तादात्म्यं रजतत्वादेस्संसर्गश्च रजताद्यवच्छेदेनेदमादेस्तादात्म्यमिदंत्वादेस्संसर्गश्चेति जायते । भ्रमस्थले भ्रमकाले बाध्यस्योत्पत्तिस्वीकारात्तस्य प्रातीतिकत्वेन भ्रमपूर्वमविद्यमानत्वात् । नन्वेकेन तादात्म्येनेदंरजतयोराकारद्वये परस्परं प्रति विशेषणतया मानसंभवात् तादात्म्यद्वयोत्पत्तौ मानाभाव इति चेन्न । आकारभेदानुपपत्तेः । आकारो हि ज्ञानानां मिथो वैलक्षण्यम् । तच्च विभिन्नविषयत्वरूपं न तु विषयिताविशेषमानम् । तथा सति बहिर्विषयमात्रलोपापत्त्या साकारवादापत्तेः । तदुक्तमुदयनाचार्यादिभिः-'अर्थेनैव विशेषो हि नि राकास्तया धिया' मिति । अर्थेन ज्ञानादत्यन्तभिन्नेन घटादिरूपेण विषयेणाभिन्नो धियां विशेषः । निराकारतया ज्ञानधर्मरूपाकारेण घटादिना विषयितास्थानीयेन हीनतया । तथा च घटादिकं विषयितास्थानीयो ज्ञानधर्मो ज्ञानात् भिन्नाभिन्नतया बौद्धैर्यदुच्यते । तथा न । किं तु ज्ञानादत्यन्तभिन्नम् । तथैवानुभवादिति भावः । तथा चेदंप्रतियोगिकरजतप्रतियोगिकतादात्म्ययोभिन्नयोराकारयोरुत्पत्तिरावश्यिकी। किं च 'इदं रजत' मित्यादिधीस्थले रजततादात्म्यविषयत्वं इदंविषयत्वेनावच्छिन्नम् । इदंतादात्म्यविषयत्वं च रजतविषयत्वेनावच्छिन्नमित्याकारद्वयं प्रतीयत इत्युक्तम् । तच्च तादात्म्यस्यैकत्वे नोपपद्यते । रजततादात्म्यादिविषयताया इदंविषयतावच्छेद्यत्वे रजतादिविषयताया अपीदंविषयतावच्छेद्ये विशेषणत्वादिदंविषयतावच्छेद्यत्वेन नेदंतादात्म्यादिविषयितावच्छेदकत्वसंभवः । अवच्छेद्ये विशेषणीभूतायामिदंविषयितायामवच्छेदकत्वासंभवात् । न च रजतमिदं जानामी' त्यादिप्रत्यये रजतादिविषयतावच्छिन्नत्वमिदंविषयताविशिष्टे तादात्म्यविषयत्वे न भाति । किं तु केवल इति वाच्यम् । तथा सति विशेषणविषयत्वे विशेष्यविषयतावच्छिन्नत्वस्यासिध्यापातात् न हि तदनुभवः पृथगस्ति । न च तदसिद्धमेव । सर्वानुभवासद्धत्वात् । नन्वास्तामिदमादिविषयत्वरजतादिविषयत्वयोः परस्परावच्छिन्नत्वमिति चेन्न । प्रसिद्धावच्छेदकस्य मूलादेस्तदवच्छिन्नसंयोगाद्यवच्छिन्नत्वाननुभवेन विषयत्वयोरपि परस्परावच्छिन्नत्वाकल्पनात् । दृष्टान्तानुसारेणैव कल्पनात् । न च मूलादिनिष्ठावच्छेदकत्वाद्विलक्षणं विषयत्वनिष्ठमवच्छेदकत्वमिति वाच्यम् । विलक्षणत्वासिद्धेः । मूलादिनिष्ठावच्छेदकताजातीयस्यैवावच्छेदकत्वस्य विषयत्वे अनुभवात् । विषयता हि विषयेषु ज्ञानस्य तादात्म्यम् । न तु वृत्तेराकाराख्यसंबन्धः ।
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमपरिच्छेदः]
लघुचन्द्रिका।.
वृत्तिं विनापि सुखादेश्चिदूपज्ञाने विषयत्वानुभवात् । अत एव ज्ञानं चिदेव । न तु वृत्तिः । तथा चैकवृक्षादिनिष्ठसंयोगतदभावयोः अग्रमूलाधवच्छेदेनैवैकस्यां सर्वढश्यतादात्म्यापन्नाचेव्यक्तौ शुक्त्यादिघटादितादात्म्यावच्छेदेन रजतादितादात्म्यतदभावयोरुपपादनार्थमवच्छेदकस्वीकारेण तादात्म्यरूपविषयत्वे मूलादिनिष्ठसंयोगाद्यवच्छेदकत्वजातीयस्य विषयत्वावच्छेदकत्वस्य सम्भवेन गौरवापादकस्य विलक्षणावच्छेदकत्वस्य वक्तुमशक्यत्वात् । मूलादिनिष्ठावच्छेकत्ववदेव विषयत्वनिष्ठावच्छेदकत्वे अनुभवादिव्यवस्था । अथ संयोगादेवच्छेदकतासंबन्धेनोत्पत्तौ तादात्म्यसम्बन्धेन मूलादेहेतुत्वात् संयोगादेरेव मूलाधवच्छिन्नत्वम् । न विपरीतम् । मानाभावात् । विषयत्वयोस्त्वेकमेवापरतावच्छेदकामित्यत नियामकाभाव इति चेन्न । व्यावहारिकस्येदमादेस्स्वावच्छिन्नसंयोगादौ यत् कारणत्वं क्लप्तं तत् अवच्छेदकतासम्बन्धेन वावच्छिन्नसामान्यस्योत्पत्तौ । तथा च रजतादितत्तादात्म्ययोरपि तत्तदिदमर्थव्यक्तिभिरवच्छिन्नत्वात्तयोरुक्तसम्बन्धेनोत्पत्तौ तब्यक्तेस्तादात्म्येन हेतुत्वम् । अन्त्यावयविनामपि घटादीनां तन्मध्यस्थजलादिवायुसंयोगाद्यवच्छेदकत्वानुभवात्तेष्वपि तथैव भ्रमविषयावच्छेदकत्वसंभवः । गुणकर्मादीनां तु तादशहेतुत्वस्याक्लप्तत्वेऽपि तद्विशेष्यकभ्रमस्थले विशेषणसंसर्गयोविशेष्यनिटावच्छेदकतासंबन्धेनोत्पत्तौ विशेष्यनिष्ठेन तत्तत्सम्बन्धेन दोषाणां हेतुत्वं कल्प्यते। एवमवच्छेदकतासम्बन्धेन तादात्म्यस्योत्पत्तौ स्वपरिणामाव्यवहितपूर्वत्वविशिष्टमज्ञानं तादात्म्यभिन्नस्वपरिणामनिष्ठविषयतासम्बन्धेन हेतुः । स्वमज्ञानं तस्य परिणामो रजतादिकं तदाकारा वृत्तिश्च तदव्यवहितपूर्वत्वविशिष्टमज्ञानं रजताद्युत्पत्तेरव्यवहितपूर्वक्षण एवास्तीति रजताद्युत्पत्तिक्षण एवेदमादिविशेष्यतादात्म्यं रजताद्यवच्छेदेनेदमाद्याकारमनोवृत्तितादात्म्यं रजताकाराविद्याप्रत्यवच्छेदेनोत्पद्यते । स्वमज्ञानं तत्परिणामो रजतादिकं तदाकारा वृत्तिश्च तन्निष्ठा विषयता ईश्वरज्ञानादेरस्तीति सा संम्बन्धः । स्वपरिणामे भाविनि तादात्म्यादिसम्बन्धेन पूर्वमज्ञानस्यासत्त्वात् स्वपरिणामनिष्ठविषयतेत्युक्तम् । विषयतासम्बन्धस्य च भाविभूतविषये ज्ञानादेस्सत्त्वादुक्तविषयतासम्बन्धेन भाविन्यप्यज्ञानसत्त्वम् । अत एव ज्ञायमानघटत्वरूपं सामान्यं घटवृत्त्यलौकिकमुख्यविशेष्यतासम्बन्धेन प्रत्यक्ष प्रति स्वसमवायिनिष्ठविषयतासम्बन्धेन माविभूतनिष्ठेन हेतुरिति तार्किका वदन्ति । रजतादितत्संसर्गयोरिदमाद्यवच्छिन्नत्वात्तदीयचित्तादाम्यरूपं विषयत्वमपि तथा । इदमादिविषयत्वावच्छिन्नं च संभवति । इदमादिविषयत्वस्य तु रजतादिप्रतियोगिकतादृशसंसर्गविषयत्वावच्छिन्नत्वे मानाभावात् । 'र.
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
जतमिदमिति द्वितीयाकारसिद्ध्यर्थं रजतादितद्विषयत्वावच्छेदेन तादात्म्योत्पत्तिः स्वीक्रियते । तस्य च तादात्म्यस्येदमादिप्रतियोगिकत्वसिद्धये प्रतियोगितासम्बन्धेन तादात्म्यस्योत्पत्तौ स्वाश्रयतावच्छेदकत्वसम्बन्धेनो क्ताज्ञानस्य हेतुतान्तरं कल्प्यते । तथा च भ्रमपूर्वसिद्धं यदिदमादिकं तद्विषयत्वञ्च तदेव रजतादौ तत्तादात्म्ये तयोर्विषयत्वे च तावदुपहितरूपेणावच्छेदकम् । यत्तु भ्रमकाले इदमर्थस्य तादात्म्यं त प्रतियोगित्वोपहितमिदमादिकञ्च जायते । यच्च तयोर्विषयत्वं तानि तदुपहिततादृशरजतादिनावच्छिद्यन्ते । एवं च मूलसंयोगादीनामिव परस्परानवच्छिन्नत्वनियमो न व्याहतः । न वा परस्परभिन्नसर्वविषयकत्वरूप आकारयोर्भेदनियमो व्याहतः । ' इदं रजत 'मित्याकारे तादृशावच्छेद्यावच्छेदकयोरेव भानेन जायमानस्य रजप्रतियोगितादात्म्यस्य प्रतियोगित्वोपहितरजतस्य तदनुयोगित्वोपहितेदमर्थस्य च भानात् ! 'रजतमिदमित्याकारे तु जायमानस्येदंप्रतियोगिकतादात्म्यस्य प्रतियोगिवोपहितेदमर्थस्य तदनुयोगित्वोपहितरजतस्य चावच्छेद्यावच्छेदकतया मानेनाकारद्वयविषयाणां मिथो भिन्नत्वात् । न चेदमाद्यवच्छेदेन जायमानतादात्म्यस्य रजतादौ प्रतियोगितासम्बन्धेनोत्पत्या तत्रोक्तसम्बन्धेनाज्ञानस्याभावात् व्यभिचार इति वाच्यम् । रजतादेरुक्ततादात्म्यस्य प्रतियोगिताभावेऽपि रजतादिसंसर्गतया भानसं भवात् । न हि विशेषणविशेष्ययोस्संसर्गप्रतियोगित्वानुयोगित्वे विशिष्टबुद्ध्योर्विघयौ । येनानुभववलादेव तयोस्ते सिध्यतः । अथवा रजताद्यवच्छेदेन जायमानतादात्म्यस्यापि नेदमादिप्रतियोगिकत्वम् । किं तु तत्संसर्गतया भानमात्रमतो न तादृशकार्यकारणभावाभावेऽपि क्षतिः । वस्तुतस्तु दोषादिवटिता सामग्रचैव रजतादिप्रातीतिकप्रतियोगितादात्म्ये नियामिका । व्यावहारिक प्रतियोगिके प्रातीति तादात्म्ये च अज्ञानाश्रयतावच्छेदकत्वं नियामकम् । ननु 'रजतमिद' मित्याकार सिद्धये इदमादितादात्म्योत्पत्ति स्वीकारो व्यर्थः । इदं त्वादिसंसर्गोत्पत्त्याऽपि तादृशाकारसिद्धेरिति चेन्न । तादृशाकारे तादृशस्य संसर्गस्य ता दात्म्यस्य वा मानमित्यत्र विनिगमकाभावात् । तस्माद्धर्मयोस्संसर्गाविव तद्धर्मिणोस्तादात्म्ये अपि प्रातीतिके जायेते । तयोरिव तयोरपि सप्रतियोगिकतया प्रतीयमानत्वात् बाध्यत्वानुभवाच्च । एतेन 'इह रजतं ने' ति बाधस्य बाध्यं रजतमेव । न तु तत्प्रतियागिकं तादात्म्यम् । तथा च भ्रमपूर्वसिद्धं यदिदमादितादात्म्यं तस्यैव रजतादिविशेषणं प्रति संसर्गतया भानमित्यपास्तम् । रजतादिप्रतियोगिक तादात्म्यत्वेन प्रतीतेर्बाध्यत्वानुभवस्य च रजताद्यप्रतियोगितादात्म्येनानिर्वाहात् । न हि विशेषणविशेष्ययोस्संसर्गप्रतियोगित्वानुयोगित्वे न भासेते इति वक्तुं शक्यते । घ
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमपरिच्छेदः]
लघुचन्द्रिका ।
टभूतलादिनिष्ठयोवृत्तिज्ञानीयविशेषणताविशेष्यतयोर्भासमानवैशिष्टयीयभासमानप्रतियोगित्वानुयोगित्वस्वरूपत्वादवच्छेदकावच्छेद्यमावापन्नचिच्चेत्यतादात्म्यरूपयोर्विशे - प्यताविशेषणतयोश्चिदूपज्ञान एव स्वीकारेण वृत्तौ स्वीकर्तुमशक्यत्वात् । ननु, तथापि रजतादेरुपनयसन्निकर्षेण प्रत्यक्षे विषयीभवतो विशेषणत्वमेव । न तु विषयत्वं उपनीतं विशेषणतयैव मातीति नियमादिति चेन्न । उपनयस्य सिद्धान्ते प्रत्यक्षविषयत्वानियामकत्वादुक्तनियमस्याभावात् परमते तद्भावेऽप्यलौकिकविशेषणतायामेव तस्य नियामकत्वात् । लौकिक्याञ्च विशेषणतायामिव विशेप्यतायामपि दोषाणामेव बाधविशेषाभावादिसहकतानां नियामकत्वात् । ननु, रजतस्याध्यासे स्वीकृते तत्तादात्म्यस्यापि अध्यास आवश्यकः । स एव कुतः । रजतत्वादिधर्मस्यैव संसर्ग आरोप्यते । तावतैव प्रतीतिबाधयोरुपपत्तेः । किमिति: रजततत्तादात्म्ययोरध्यास उच्यते इति चेन्न । रजतस्योत्पत्तिं विना. रजतत्वमत्र साक्षात्करोमीति प्रत्ययानिर्वाहात् । देशान्तरस्थरजते मनोवच्छिन्नचित्तादात्म्यामा-. वेन तद्गतरजतत्वादावपि तदभावात् । न च रजतत्वादेरेवोत्पत्तिरस्तु । न तु तद्वत इति वाच्यम् । अनेकधर्माणामुत्पत्तिकल्पनामपेक्ष्यैकस्य धर्मिण एवोत्पत्तिकल्पनाया लघुत्वात् । अखण्डरजतत्वादेरुत्पत्तौ तस्य पूर्वमननुभूतत्वेन पूर्वानुभूतरजतत्वादिप्रकार- : कप्रवृत्त्यादिकार्यस्य भ्रमस्थलेऽनुपपत्तेः । तस्मादिदमादितादात्म्यस्य रजताद्यवच्छेदेनावश्यमुत्पत्तिः प्रातीतिकभ्रमस्थले वाच्या । तथा च तद्वदेव व्यावहारिकघटा दिभ्रमस्थलेऽपि ‘सन्तं घटं जानामि ' 'घटं संतं जानामी' त्याकारद्वयानुभवात् । तादृशभ्रमस्य विषयविशिष्टस्य बाधकप्रत्ययेन श्रुत्यनुमानादिना च. मिथ्यात्वनत्ययाञ्च सदवच्छेदेन घटादिकं तत्तादात्म्यं घटत्वादिसंसर्गश्च घटाद्यवच्छेदेन ; सत्तादात्म्यं सत्त्वादिधर्मसंसर्गश्च जायते । केवलस्य सतो असम्बद्धत्वेऽपि तादात्म्य- . प्रतियोगित्वोपहितरूपेण तस्य तत्सम्बन्धत्वेनावच्छदकत्वम् । न चैकस्यैवानादेस्सत्तादात्म्यस्याविद्यायामिव घटादावपि सम्भवात् घटाद्यवच्छेदेनानन्तसत्तादात्म्यानामुत्पत्तौ न मानमिति वाच्यम् । सत्तादात्म्यं हि चिदूपज्ञानस्य विषयतारूपतादात्म्यम् । तथा च कपालादिनिष्ठविषयतारूपसत्तादात्म्येनावच्छिन्नस्य घटादिनिष्ठविषयतारूपस्य सत्तादात्म्यस्य तन्त्वादिनिष्ठविषयतारूपसत्तादात्म्यावच्छिन्नेनपटादिनिष्ठविषयतारूपेण सत्तादात्म्येमाभेदासम्मवादवच्छेदकभेदेन सत्तादात्म्यानां भेदस्यावश्यकत्वेनानन्त्यं प्रामाणिकम् । न हि तार्किकादिभिरपि तत्तद्विषयतावच्छिन्नविषयतानामैक्यमुच्यते । तेषाञ्च संयोगादिवदेवोक्तरीत्या जन्यत्वमपि ।
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तस्मादाकारद्वयानुभवात् भ्रमविषयत्वहेतुना मिथ्यात्वानुमितेस्सत्तादात्म्यमिदमादि. तादात्म्यं च यदि मिथ्या न स्यात्तदा भ्रमविषयो न स्यात् । विषयविशिष्टभ्रमस्य मिथ्यात्वप्रत्ययादिति तर्कादिदमादितादात्म्यमिव सत्तादात्म्यमपि मिथ्या। तदिदं सर्व शारीरकसंक्षेपशारीरकपञ्चपादिकादिमूलकम् । उक्तं हि शारीरके-'अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्माश्चाध्यस्याहमिदं ममेदमिति व्यवहार' इति । अन्योन्यस्मिन् परस्परावच्छेदेन । उक्तं च संक्षेपशारीरके'इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवस्त्विदम् । रजतभ्रमेऽस्य च परिस्फुरणान्न यदि स्फुरेन खलु शुक्तिरिव ॥ इतरेतराध्यसनमेव ततश्चितिचेत्ययोरपि भवेदुचितम् । रजतभ्रमादिषु तथावगमात् न हि कल्पना गुरुतरा घटते ॥ अनुभूतियुक्त्यनुमितित्रितयादितरेतराध्यसनमेव ततः । चितिचेत्यवस्तुयुगलस्य न चेत्रितयस्य बाधनमिहापतति॥' इति । अस्येदमर्थस्य । न यदीत्यादि यदीदमर्थो न कल्पितः तदा भूभे न स्फुरेत् । शुक्तिरिव शुक्तित्वविशिष्टमिवेत्यर्थः । इतरेतराध्य सनं परस्परावच्छेदेनाध्यासः । गुरुतरेति । रजतादिभूमे यथा दृष्टं तद्विपरीताव्यावहारिकभूमस्थले एकस्यैवाध्यास उत्पत्तिश्चेति कल्पनानुपस्थितविषयकत्वेन गुर्षी । आवश्यकानामनन्तसत्तादात्म्यानां विषयत्वरूपाणामनध्यस्तत्वे सत्यत्वापतेरद्वैतभुतिसङ्कोचापत्तेश्च । तेषामध्यस्तत्वेऽपि न जन्यत्वमिति स्वीकारे कपालादिनिष्ठविषयत्वावच्छिन्नानां घटादिनिष्ठविषयत्वानां पूर्वोक्तरीत्या कपालादिनाप्यवच्छिन्नत्वात्तादृशनित्यसाधारणेन कपालाद्यवच्छिन्नत्वरूपेण संयोगादीनां कपालादिकार्यता न सम्भवतीत्यतो जन्यत्वविशेषितेनोक्तरूपेण सा वाच्या । तथा चैतादृशगुरुतरकल्पनामूलकत्वेनैकस्यैवाध्यासोत्पादादिकल्पना गुरुतरेत्यर्थः । अनुभूतिराकारद्वयानुभूतिः आद्यपद्यस्याद्यार्धे उक्ता । अनुमितिः भूमविषयत्वहेतुका मिथ्यात्वानुमितिस्तृतीयचरणे । युक्तिस्तर्कश्चतुर्थचरणे । पञ्चपादिकायामप्युक्तम्-'यद्यनात्मन एवाध्यासस्तदा आत्मा न भ्रमे भासेत । तस्मादात्मानात्मनाईयोरप्यहमनुभवे अध्यास' इति । ननु, विप्रतिपत्तौ मिथ्यात्वविशेषस्यैव साध्यतयोक्तत्वान्यायप्रयोगेऽपि तस्यैव तदुचितम् । न तु मिथ्यात्वसामान्यस्येति चेन्न । विप्रतिपत्तावपि मिथ्यात्वस्य सामान्यरूपेणैव साध्यतायां तात्पर्यात् । तच्च सामान्यरूपं वक्ष्यमाणपञ्चविधमिथ्यात्वसाधारणं मिथ्याशब्दार्थत्वरूपं मिथ्याशब्दप्रवृत्तिनिमित्तत्वम् । न तु पञ्चविधमिथ्यात्वानामन्यतमत्वम् । न्यायप्रयोगे आधुनिकलक्षणया शब्दप्रयोगस्यासाम्प्रदायिकत्वात् । मिथ्याशब्दार्थत्वरूपेण मिथ्याशब्देन मिथ्यात्वस्य बोधने निरूढलक्षणैव नाधुनिकलक्षणा । 'वृक्षो मही
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
रुह' इत्यादौ कोशवाक्ये व्याख्यानवाक्ये च महीरुहादिपदस्य तदर्थपरत्वेन भूरिप्रयोगदर्शनात् ॥ ॥ इति लघुचन्द्रिकायां पक्षतावच्छेदकनिरुक्तिः ॥
ननु किमिदं मिथ्यात्वमित्यादि । मिथ्यात्वं मिथ्याशब्दार्थः । साध्यते तादात्म्यसम्बन्धेन पक्षविशेषणतया निर्दिश्यते । अथ वा मिथ्यात्वं मिथ्याशब्दार्थतावच्छेदकं साध्यते साध्यविशेषणतया निर्दिश्यते । मिथ्याशब्दार्थतावच्छेद कविशिष्टत्वरूपेण मिथ्याशब्दार्थत्वरूपेण मिथ्याशब्दार्थः तादात्म्येन साध्य : तत्र विशेषणतयोच्यमानं किमिति वाक्यार्थः । असत्त्वेत्यादि । असत्त्वसमानाधिकरणस्य सत्त्वस्यात्यन्ताभाव इत्यर्थः । सत्त्वात्यन्ताभावासत्वात्यन्ताभावरूपम् । सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावोभयत्वावच्छिन्नम् । सतीति । सतिसप्तम्याः सामानाधिकरण्यार्थकत्वात् । सत्त्वात्यन्ताभावसमानाधिकरणः असत्त्वात्यन्ताभावोऽर्थः । नाद्य इति । माध्वमते इति शेषः । साधनादिति । माध्वमते अलीकस्यैवात्यन्ताभावस्वीकारेणोक्तविशिष्टप्रतियोगिकाभावप्रसिद्धावपि मतान्तरे तदप्रसिद्धिरित्यपि बोध्यम् । सत्त्वासत्त्वयोरिति । परस्पराभावरूपत्वेनेति शेषः । एकाभावे एकस्याभावे सति । निर्धर्मकेत्यादि । यथा केवलबह्मणो बाध्यत्वाभावरूपसत्त्वादिकं न धर्मः । 'केवलो निर्गुण' इत्यादिश्रुतेः । ब्रह्मनिष्ठसत्त्वस्याबाध्यत्वेनाद्वैतश्रुतिविरोधाच्च । अथ च तस्य बाध्यत्वादिधर्मोऽपि नास्ति । श्रुतिप्रमितत्वात् साक्षित्वादिना बाध्यत्वासम्भवाच्च । तेन तत् सदूपम् । तथा प्रकृतानुमानात् प्रपञ्चस्योक्तसत्त्वाभावसिद्धावपि न बाध्यत्वम् । स्वतः प्रमाणप्रत्यक्षादिप्रमाविषयत्वात् । तेन सोऽपि सद्रूप इति सद्रूपत्वविरोधिमिथ्यात्वासिद्ध्यार्थान्तरमिति भावः । अतश्शब्दार्थस्य विवरणम् । पूर्ववदित्यादि व्याहतिः प्रपञ्चे उक्तव्याघातः । साहीत्यादि । सत्त्वस्याभावोऽसत्त्वं असत्त्वाभावस्सत्त्वमिति वा, सत्वाभावव्यापकमसत्त्वं, असत्त्वाभावव्यापकं सत्त्वमिति वा, सत्त्वाभावव्याप्यमसत्त्वम्, असत्वाभावव्याप्यं सत्वमिति वा, व्याघाते हेतुरित्यर्थः । तदनङ्गीकारात् प्रकृते निवेशनीययोस्सत्त्वासत्त्वयोः परस्परविरहत्वास्वीकारात् । प्रतीयमानत्वरूपं प्रतीयमानत्वयोग्यत्वम् । तच्च सत्तादात्म्यवत्त्वमेव । ननु, सत्त्वेन प्रतीयमानत्वन्न दृश्यमात्रेऽस्ति । घटो गुरुरित्यादिप्रमामात्रसिद्ध गुरुत्वादी सत्त्वेन प्रत्यये मानाभावात् । तथा च तद्योग्यत्वमपि नास्ति । अतस्सत्त्वस्य विशेषणमुक्तम् । कचिदप्युपाधाविति । किञ्चिद्धर्मिनिष्ठं यत् सत्त्वं तेन प्रतीयमानत्वेत्यन्वयः । तथा च गुरुत्वादेरपि घटाद्यवच्छिन्नचित्यारोपात्तद्गतस्य सत्त्वस्य तत्रारोपात् पृथिव्यादिनिष्ठगुरुत्वा- १. 'सत्वेन प्रतीयमानत्वाभावात् ' इति पाठान्तरम् ।
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
अद्वैतमञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
दिकं सदिति प्रत्ययाच्च सर्वत्र दृश्ये सत्त्वेन प्रतीयमानत्वयोग्यतास्तीति भावः । त्रिकालाबाध्यविलक्षणत्वे सतीति । त्रिकालबाध्यत्वात्यन्ताभावे यत् सद्विद्यमानं त्रिकालाबाध्यत्वात्यन्ताभावसत्तादात्म्योभयत्वं तत्सम्बन्धीत्यर्थः । तस्यच प्रतीयमानत्वेत्यत्रान्वयः । तथा च कालाद्यनवच्छिन्नं यदवाच्यत्वं तदत्यन्ताभावस्सत्तादात्म्यं चेत्युभयवत्त्वं साध्यम् । यथाश्रुते तु त्रिकालाबाध्यत्वात्यन्ताभावसमानाधिकरणस्य सत्तादात्म्यस्य लामात्तस्य च वक्ष्यमाणत्वात् पौनरुक्त्यम् । व्याघातः शुक्तिरूप्ये उक्तो व्याघातः । प्रपञ्चे व्याहत्यभावस्य पूर्वोक्तरीत्यैव शुक्तिरूप्येऽप्यर्थात्तस्य लब्धत्वेऽपि 'अत एव न द्वितीय' इत्याद्युक्तिवैचित्र्याय नापीत्याद्युक्तम् । सत्स्वभावता सदाकारबुद्धौ विशेषणता । ननु, सा ब्रह्मण एवास्तु । तथापि प्रपञ्चस्योक्तरीत्या सद्रूपता किमिति न स्यादिति चेन्न । यतः प्रपञ्चे तस्याः स्वीकारे तार्किकादिमते घटस्सन्नित्याकारप्रत्यये शुसत्ताया विशेषणत्वादन्यैरपि तादृशप्रत्यये शुद्धसत एव तादात्म्येन विशेषणत्वं वाच्यम् । तथा च प्रपञ्चे बाध्यत्वाभाववैशिष्टयं नोक्तप्रत्ययेन सिद्ध्यति । नापि घटोsध्य इत्यादिप्रत्ययेन । तस्यावाध्यब्रह्मतादात्म्यविषयकत्वेनाप्युपपत्तावबाध्यत्वप्रपञ्चयोर्वैशिष्ट्यविषयकत्वे मानाभावात् । न च विनिगमकाभावः । शुद्धसदाकारपूर्वोक्तप्रत्ययसिद्धस्य ब्रह्मप्रपञ्चतादात्म्यस्यैवैतत्प्रत्ययविषयत्वसंभवेनोक्तवैशिष्ट्यस्य तद्विषयताकल्पने गौरवस्यैव विनिगमकत्वात् । नापि प्रत्यक्षादीनां स्वतः प्रामाण्यबलेन तत्कल्पनम् । प्रत्यक्षादीनां व्यावहारिकमेव प्रामाण्यमित्यस्य वक्ष्यमाणत्वात् । ननु, सदाकारप्रत्ययो यदा द्रव्यादौ । तदा तत्र समवायेन सत्ताजातिर्विशेषणमस्तु । यदा द्रव्यत्वादौ तदा सामानाधिकरण्यसंबन्धेन सा । तथा च कथं ब्रह्मण एव तथात्वं तत्राह --- अनुगतेति । सम्बन्धांशेऽप्यनुगताकारेत्यर्थः । उक्तमर्थान्तरं स्वीकृत्यापि तद्वारणायाह — सत्प्रतियोगि केत्यादि । भेदेति । आत्यन्तिकभेदेत्यर्थः । उभयात्मकत्वे इति । 'भ्रमविषयीभूतालीकसंसर्गविशिष्टादिरूपेण प्रपञ्चोऽलीकः रूपान्तरेण तु सत्य' इति न्यायपेटिकाकारवाचस्पत्युक्तपक्षे इत्यर्थः । अन्यतरात्मकत्वे इति । भूमविषयोऽपि संसर्गो दे शान्तरस्थत्वात् सत्य इति प्रपञ्चस्सत्य एवेति पक्षे । ज्ञानातिरिक्तरूपेणालीक एव । प्रपञ्चो विकल्पविषय इति पक्षे चेत्यर्थः । अनवकाश इति । सत्त्वाभावस्य केवलप्रपचे सत्त्वस्य तदुपहितप्रपञ्चे स्वीकारे सत्त्वोपहितप्रपञ्चस्य केवलप्रपञ्चे तादात्म्यस - त्त्वान्न तत्रैकान्तिकः । सद इति भावः । गुणादिकं गुणः क्रिया जातिः विशिष्टरूपं अवयवी अंशी । गुण्यादिना गुणिना क्रियावत्या व्यक्त्या केवलरूपेण अवयवे - न अंशेन । भिन्नाभिन्नं भेदाभेदोभयवत् । समानाधिकृतत्वात् अभेदसंसर्गकधीविष
1
For Private and Personal Use Only
**
Page #31
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र ० दे प्रथममिध्यात्वम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१९
1
समवायत्वरू
यतायोग्यत्वात् । पराभ्युपगत समवायतादात्म्यभिन्नाः ये संयोगादयस्तेषामन्यतमसं - बन्धेन गुण्यादिविशेषणिका या धीस्तदन्या गुण्यादिविशेषणिका या धीस्तद्विशेष्यत्वादिति यावत् । न चाप्रयोजकत्वम् । नीलगुणघटयोस्तादात्म्य सम्बन्ध स्वीकारे 'घटो न नील' इत्याकारकनीलगुणभेदबुद्धौ तादात्म्यसम्बन्धेन नीलगुणप्रकार कधीत्वेनैव प्रतिबन्धकत्वं वाच्यम् 1 न तु नीलगुणसमवायिभेदबुद्धौ नीलगुणसमवायितादात्म्यधीत्वेन । समवायस्यालीकत्वात् । समवायस्वीकारे तु नीलगुणसमवाथिभेदबुद्धावुक्ततादात्म्यधीत्वेनेत्र घटादौ नीलगुणभेदबुद्धौ नीलगुणतादात्म्यधीत्वेनाऽपि प्रतिबन्धकत्वं वाच्यमिति गौरवम् । एवं नीलादिसमवायविषयके विशिष्टज्ञानमात्रेऽनुमित्यादौ च कारणत्वप्रतिबन्धकत्वानि च कल्प्यानीति समवायावच्छिन्नप्रतियोगिताधिकरणत्वयोस्तादृशप्रतियोगिताद्यत्यन्ताभावस्य तादृशप्रतियोगिताकात्यन्ताभावस्य तादृशप्रतियोगितावच्छेदकतायास्समवायेन नीलादिविशिष्टस्य भेदप्रतियोगितातदवच्छेदकत्वानां च कल्पनं पाखण्डधर्मतदभावतद्विषयतादिकल्पनं चेति महागौरवम् । ननु, विशिष्टकेवलयोभेदस्वीकारे एकस्यैव घटस्य तत्तत्क्षणविशिष्टरूपाण्यनन्तानि कल्पनीयानीति महागौरवमिति चेन्न । तादृशरूपाणामनन्तानां केवलघटभिन्नानामकल्पने केवलघटविशिष्टबुद्धितस्तादृशरूपविशिष्टबुद्धीनां वैलक्षण्यानुपपत्तेः । न च तासां तत्तत्क्षणवैशिष्ट्यविषयकत्वमेव वैलक्षण्यमिति वाच्यम् । विशेष्ये विशेषणं तत्रापि च विशेषणान्तरमित्येवमाकारेऽपि तत्क्षणविशिष्टवटवदिति ज्ञाने तादृशविषयकत्वसत्वेन विशिष्टवैशिष्ट्यविषयताशालितादृशज्ञानस्य ततो वैलक्षण्यानुपपत्तेः । अथ विशिष्टवैशिष्ट्यविषयताकज्ञाने तत्तत्क्षणेषु घटनिष्ठविशेषणतावच्छेदकत्वरूपस्य विशेषणताविशेषस्य स्वीकाराद्विशेष्ये विशेषणमिति रीत्या ज्ञाने च तदभावात्तदेव वैलक्षण्यमिति चेन्न । ज्ञानविषययोस्सम्बन्धो हि विपयतात्वेन तादात्म्यत्वेनैव वा तत्क्षणविशिष्टवन्तं जानामीत्याद्यनुभवेन गृह्यते । न त्ववच्छेदकतात्वेन विशेष्यतात्वेन प्रकारतात्वेन सांसर्गिकविषयतात्वेन वा अखण्डधर्मेण । न चैवं विशेष्यतात्वादिविशिष्टविषयताशालितया ज्ञानग्राहकत्वं तादृशानुभवस्य सर्वसम्मतं न स्यादिति वाच्यम् । परस्पराध्यासविवेचनोकरीत्या विशिष्टज्ञानमात्रस्य एकविषयतावच्छिन्नविषयत्वान्तरशालित्वेन तद्विशिष्टज्ञानग्राहकत्वादुक्तानुभवस्य विशेष्यतात्वप्रकारतात्वादिविशिष्टविषयताविशिष्टतया ज्ञानग्राहकत्वोपपत्तेः । तथा हि 'इदं रजत' मित्यादिज्ञाने तादात्म्यादिसंसर्गनिष्ठाया विषयताया रजतादि - विषयताविशिष्टाया इदंविपयतावच्छिन्नत्वमिदमवच्छिन्नत्वं चेति पूर्वमुक्तम् ।
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
अद्वैतमञ्जरी ।
तथा च विशिष्टविषयतावच्छेदकत्वविशिष्टविषयताग्राहकोऽनुभवो विशेष्यतात्वादेहिकः । विषयता हि यया विषयतया विशिष्टायां यस्यां विषयतायामवच्छेदिका, सा विशेषणीभूता प्रकारता । विशेष्यभूता सांसर्गिक विषयता । तदवच्छेदकविषयता तु विशेष्यता । तथा च विषयतानिष्ठं विषयतावच्छेदक त्वं विशेष्यतात्वम् । तादृशावच्छेदकत्वं यां विषयतां प्रति तत्त्वं तादृशाव च्छेदकतानिरूपकविषयतात्वरूपं सांसर्गिकविषयतात्वम् । विषयतानिष्ठायां ता दृशावच्छेदकत्वनिरूपकतायामवच्छेदकविषयतात्वं प्रकारतात्वम् । न च तादात्म्यादिविषयतानिष्ठायामुक्तनिरूपकतायां रजतादिनिष्ठा विषयता यथावच्छेदिका तथा तादात्म्यत्वादिविषयतापीति तस्याऽपि निरुक्तप्रकारतात्वं स्यादिति वाच्यम् । तादृशनिरूपकतायास्समानाधिकरणं सत् यदवच्छेदकत्वं, तस्यैव प्रकारतात्वरूपत्वात् तादात्म्यत्वादिनिष्ठविषयतायां तदभावात् । रजततादात्म्येनेदं जानामीत्य नुभवो हि रजतविषयताविशिष्टस्य तादात्म्यविषयत्वस्योक्तनिरूपकतां गृह्णत् रजतविषयताया अपि तां गृह्णाति । न तु तदवच्छेदकत्वमात्रम् । न हि रजतादिविषयत्वस्येदंविषयतावच्छिन्नत्वे कस्यापि विप्रतिपत्तिः । तस्य तादात्म्यादिसांसर्गिकविषयत्वाग्राहकेणापि 'इदं रजतं जानामि' 'इदं रजतत्वेन जाना मी' त्याद्यनुभवेन ग्रहणात् । तादात्म्यत्वविषयत्वस्य तूक्तनिरूपकत्वाननुभवेन तदवच्छेदकत्वमात्रं गृह्णाति । न चैवमपि सांसर्गिकविषयतात्वस्य उक्तनिरूपकतामात्ररूपत्वे रजतादिविषयतायामपि तत्स्यादिति वाच्यम् । उक्तनिरूपकतानवच्छेदकविषयतानिष्ठस्यैवोक्तनिरूपकत्वस्य सांसर्गिकविषयतात्वरूपत्वात् तादृशनिरूपकत्वाश्रयविषयतावच्छिन्नस्यैव तादृशनिरूपकत्वस्य तद्रूपत्वाद्वा । तादात्म्यविषयतानिष्ठैव हि तादृशनिरूपकता तादृशनिरूपकताश्रयेण रजतविषयत्वेनावच्छिन्ना । न रजतविषयतानिष्ठा । तादात्म्यत्वादिविषयता तु उक्तनिरूपकतावच्छेदकत्वान्न सांसर्गिकविषयता । किं तु तदवच्छेदिका । एवमिदंत्वादिविषयतापि तादात्म्यादिविषयतावच्छेदकतायामिदंविषयतानिष्ठायामवच्छेदिका । अतो विशेष्यतावच्छेदिका। अथ तादात्म्यत्वादिविषयतायास्सांसर्गिकविषयतावच्छेदकताशब्देन कथं तान्त्रिकव्यवहार इति चेत् । तादाम्यत्वादेरपि सांसर्गिकविषयतावच्छेदकत्वेन तद्धर्मतयेति गृहाण । एवमिदन्वादिविषयतायामपि विशेष्यतावच्छेदकताशब्देन व्यवहारः । तादात्म्यसम्बन्धेन रजतादि यत्रेदमादौ प्रकारः । तत्र रजतत्वादिकमप्याधारत्वसम्बन्धेन प्रकारः । यत्र तु संयोगादिसम्बन्धेन रजतादिकं प्रकारः । तत्र रजतत्वादेनोक्तसम्बन्धेन प्रकारत्वनियमः । प्रकारतावच्छेदकत्वं तूभयत्र । न चैवं रजतादिविषयतानिष्ठस्येदंविषयता
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
२१
निष्ठावच्छेदकतानिरूपकत्तस्य प्रकारतात्वरूपस्य तादृशनिरूपकत्ववत्या रजतत्वादिविषयतयावच्छिन्नत्वेन तादात्म्यसम्बन्धेन रजतादिप्रकारकभ्रमस्थले रजतादिप्रकारता सांसर्गिकविषयता स्यात् । पूर्वोक्तस्य द्वितीयलक्षणस्य तत्र सत्त्वादिति वाच्यम् । रजतादिविषयतानिष्ठस्योक्तनिरूपकत्वस्य तादृशनिरूपकतावत्या रजतत्वादिविषयतयानवच्छिन्नत्वात् । द्वयी हि तादृशस्थले रजतत्वादिप्रकारता। एका प्रातीतिकेनेदमनुयोगिकसंसर्गेण । अन्या व्यावहारिकेण रजतादिनिष्ठसंसर्गेण । आद्या इदंत्वाद्यवच्छिन्नविशेष्यतावच्छिन्ना । अन्त्या रजतादिनिष्ठया अनवच्छिन्नविशेष्यतयावच्छिन्ना । तदवच्छिन्नत्वं च तन्निष्ठावच्छेदकतानिरूपकत्वम् । तथा चान्त्या नेदंविशेष्यतानिष्ठावच्छेदकतानिरूपिका । तदवच्छेदकस्य व्यावहारिकस्य रजतत्वादिसंसर्गस्य इदंविशेष्यतावच्छेदेनानध्यासेनोक्तावच्छेदकतानिरूपकत्वाभावात् । न हि यत्संसर्गानवच्छेदिका विशेष्यता सा सत्संसर्गावच्छिन्नप्रकारतावच्छेदिका। आद्या तु तादृशावच्छेदकता निरूपिका । न तु रजतादिप्रकारतानिष्ठायास्तादृशनिरूपकताया अवच्छोदिका । रजतत्वादिप्रातीतिकसंसर्गोपहितरूपेण रजतादेरुक्तनिरूपकत्वाननुभवात् । न च यत्संसर्गो नोक्तनिरूपकतावच्छेदकः । तत्संसर्गावच्छिन्नप्रकारता उक्तनिरूपकतावच्छेदिका । तस्माद्रजतादिप्रकारतायां न सांसर्गिकविषयतात्वापत्तिः । अत एव तादृशप्रमास्थलेऽपि नोक्तापत्तिः । 'इदं रजत'मित्यादिप्रमायां हि रजतत्वप्रकारता द्वयी। एका इदंत्वावच्छिन्नविशेष्यतयावच्छिन्ना । अन्या रजतनिष्ठयानवच्छिन्नविशेष्यतया अवच्छिन्ना । आद्या इदंत्वावच्छिन्नविशेष्यतानिष्ठावच्छेदकतानिरूपिकापि नोक्तनिरूपकतावच्छेदिका रजतप्रकारतानिष्ठां उक्तनिरूपकतां प्रति तस्याः अव्यापकत्वेनानवच्छेदकत्वात् । न हि रजतत्वविशिष्टवैशिष्टयबुद्धिषु सर्वासु तादृशप्रकारतासत्त्वे मानमस्ति । न च विशेषणतत्त्वावच्छेदकयोरेकर्मिणि एकसम्बन्धावच्छिन्नप्रकारताशालिबुद्वित्वमेव विशिष्टवैशिष्ठयबुद्धित्वम् । तथा चैकसम्बन्धावच्छिन्नप्रकारता एकैव तादृशविशेष्यताद्वयावच्छिन्ना । न तु द्वयी । तथा च तादृशनिरूपकतावच्छेदिकापि सेति वाच्यम् । संयोगादिसंबन्धेन रजतत्वादिविशिष्टस्य प्रकारतास्थले रजतत्वादेस्संयोगादिना प्रकारत्वे भ्रमत्वापत्त्या प्रकारतयोरेकसंबन्धावच्छिन्नत्वनिवेशासम्भवेन विशेषणतावच्छेदकस्य स्वाश्रयप्रतियोगिकेन विशेषणसंबन्धेन प्रकारताया विशिष्टवैशिष्ट्यबुद्धित्वशरीरे निवेश्यत्वात् । वस्तुतस्तु, नोक्तरूपं विशिष्टवैशिष्ट्यबुद्धित्वम् । विशेष्ये विशेषणमिति ज्ञानापेक्षया विषयकृतविशेषस्य वाच्यत्वात् । किं तु विशिष्टस्य केवलादन्यत्वेन तत्ल
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
अद्वैतमञ्जरी ।
कारकत्वमेव । सिद्धान्ते तथैव स्वीकारात् । तस्माद्विषयतानिष्ठं यद्विषयतावच्छेदकत्वं तद्विशेष्यतात्वम् । तदवच्छेदकविषयतात्वं विशेष्यतावच्छेदकतात्वम् । विषयतानिष्ठस्यावच्छेदकत्वस्य निरूपकत्वविशेषौ सांसर्गिकविषयतात्वप्रकारतात्वे । तदवच्छेदकविषयतात्वे सांसर्गिकविषताप्रकारतावच्छेदकते । ननु, तादृशविशेष्यतात्वादीनामखण्डविशेष्यतात्वादिभ्यः को विशेषो येन तादृशेष्वेव पक्षपात इति चेत् । अवश्यं सर्वैः कल्पनीयत्वमेव विशेषः । अन्योऽप्ययं विशेषः मूलादौ तत्सम्बन्धे च यदवच्छेदकत्वं यच्च तन्निरूपकत्वं संयोगादौ तत्सम्बन्धे च तज्जातीययोरेवावच्छेदकत्वतन्निरूपकत्वयोर्विषयतासु कल्पनात् विषयविषयतयोद्वयोरेव ते वर्तेते । नैकत्रैव । तथा च विषयविषयतयोरेकमपि नापलपितुं शक्यते । तज्जातीयावच्छेदकतातन्निरूपकत्वयोस्सम्बन्धसम्बन्ध्युभयसापेक्षत्वात् । अखण्डविशेष्यतात्वादेविषयतायां स्वीकारे तु तस्य ज्ञानवैलक्षण्यानुभवान्यथानुपपत्तिरेव कल्पिका । सा च ज्ञानगतमेव वैलक्षण्यं कल्पयेन्न विषयतानिष्ठम् । तथा च घटत्वादिकमपि ज्ञानस्यैव धर्मः । घटपटादिज्ञानानां मिथो वैलक्षण्यानुभवस्यान्यथानुपपत्तेः । तथा च ज्ञानस्य घटादिविषयैरत्यन्ताभेदापत्त्या तार्किकाणां बौद्धस्वीकृतसाकारवादापत्तिः । अथ वेदान्तिनां मतमालम्ब्य तार्किकैरेवं वा
यम् । घटादीनामुत्पत्तिविनाशवत्त्वानुभवात् । ज्ञानस्य च विषयाविशेषितरूपेण तथाननुभवेन लाघवेन चैकव्यक्तिरूपत्वान्न ज्ञानस्य ज्ञातघटादिभिरभेदः । न चैवं तेषां व्यवहारो न स्यान्यवहारविषयतायां तादात्म्येन ज्ञानव्यक्तेः प्रयोजकतया क्लुप्तत्वेऽपि ज्ञान एव तत्तादात्म्यसत्त्वात् ज्ञानभिन्नेऽपि विषये ज्ञानसम्बन्धं स्वीकृत्य तस्य तत्र व्यवहारविषयताप्रयोजकत्वकल्पने गौरवादिति वाच्यम् । ज्ञानतादात्म्यापन्नतया विषयाणां कल्पितत्वेन ज्ञान इव विषयेष्वपि कल्पितस्य ज्ञानतादात्म्यस्य सत्त्वात् । तथा च न ज्ञानस्य घटत्वादिकं धर्मः । न हि नैल्यादिकं गगनादावारोपितमपि तस्य धर्मः । धर्मिसमसत्ताकस्यैव धर्मपदमुख्यार्थत्वात् । न च ज्ञानानां मिथो वैलक्षण्यानुभवानुपपत्तिरिति वाच्यम् । ज्ञानानां मिथो विलक्षणविषयतादात्म्यमनुभूयते । न तु मिथो वैलक्षण्यम् । तथा च ज्ञानगतस्य वैलक्षण्यस्य साकास्वादिबौद्धस्वीकृतस्य कः प्रसङ्ग इति चेत् । तर्हि वेदान्तिभिरेव जितम् । तार्किकस्वीकृतस्य सम्बन्धरूपविषयतागतस्यापि वैलक्षण्यस्य विशेष्यतात्वादेः कः प्रसङ्गः । अथैवमिदमादितद्विषयत्वयोरुक्तावच्छेदकत्वमपि न स्यादिति चेन्न। न हि तत् ज्ञानानां मिथो वैलक्षण्यानुभवान्यथानुपपत्या कल्प्यते । येनोक्तरीत्या न
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
२३
स्यात् । किं तु मूलादितत्सम्बन्धयोस्संयोगावच्छेदकत्ववत् सार्वलौकिकेन पूवोक्तानुभवेनेत्यलं विस्तरेण । तस्माद्विषयवैलक्षण्येनैव ज्ञानानां वैलक्षण्यस्य वाच्यत्वात् विशिष्टवैशिष्टयज्ञाने विशिष्टस्य विषयत्वा' द्विशेष्ये विशेषणं तत्रापि च विशेषणान्तर 'मिति ज्ञाने च तस्याविषयत्वादुक्तज्ञानयोस्तत्क्षणविशिष्टघटवानित्याकारसाम्येऽपि मिथो विशेषः । एवमेकत्र द्वयमिति रीत्या तादृशाकारज्ञाने तत्क्षणघटत्वाभ्यां विशिष्टो विशेषणम् । तदतिरिक्तश्च तत्क्षणविशिष्टो घटो घटत्वविशिष्टानुयोगिकस्य तत्क्षणवैशिष्टयस्य तत्र घटकत्वात्तादृशघटस्य तत्क्षणविशिष्टघटत्वेन विशिष्टस्य वा विशिष्टवैशिष्ट्यज्ञाने विषयत्वात् । विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति ज्ञाने च भूतलादौ केवलघटस्यैव विशेपणत्वात्तेषाम्मिथो विशेषः । न च तत्क्षणविशिष्टघटस्य तद्व्यक्तित्वरूपेण यत् ज्ञानं तस्य तादृशघटत्वरूपेण ज्ञानापेक्षया वैलक्षण्यं न स्यादिति वाच्यम् । तव्यक्तित्वविशिष्टविषयकत्वस्यैवोक्तवैलक्षण्यरूपत्वात् । अथ तत्क्षणविशिष्टस्य यत्र विषयत्वादिकं व्यवह्रियते तत्र तत्क्षणोपहितस्य तत्क्षणोपलक्षितस्य वा तव्यवहारः स्थादिति चेन्न । उपहितोपलक्षितशब्दयोहि न विशिष्टमर्थः । किं तु येन धर्मणोपहितमुच्यते, विद्यमानेन तेन तच्छ्न्यायावर्तितमुपहितशब्दार्थः । तथा च तत्क्षणोपहितघटो विषय इत्यत्र विषयताकाले घटे विद्यमानेन तत्क्षणेन तत्क्षणानवच्छिन्नघटादिभ्यो व्यावर्तितो घटो विषय इत्येव बुध्यते । न तु विशिष्टो घटो विषय इति । तत्क्षणोपलक्षितो घटो विषय इत्यादावप्येवम् । विद्यमानपदस्थाने अविद्यमानपदमिति तु विशेषः । तथा च तदुमयस्थले विशिष्टस्य विषयत्वाप्रत्ययात् विशिष्टस्य विषयत्वप्रत्ययस्थले विशेषणस्यापि विषयत्ताप्रत्ययादुक्तव्यवहाराणां मिथो विशेपः। अथ तत्क्षणविशिष्टं यत्र न विषयस्तत्र केवलघटादावसम्बद्धतत्क्षणस्य तदनवच्छिन्नघटादिभ्यो व्यावर्तकत्वानुपपत्तिः । घटादौ हि तत्क्षणादियुक्ते तत्क्षणाद्ययुक्ताघ्यावृत्तिधीन तु केवले इति चेन्न । तत्क्षणादियुक्तकेवलघटयोस्तत्क्षणादियुक्तत्वघटत्वरूपाभ्यां भेदस्येवाभेदस्यापि स्वीकारात् घटस्तत्क्षणयुक्त इत्यनुभवात् । अत एव घटो न तत्क्षणविशिष्ट इति धीन प्रमा । अभेदविरोधिभेदस्य नादिनोल्लेखात् । तद्विरोधित्वञ्चैकावच्छेदेनैकाधिकरणत्वस्याभावः । तेन कृष्णसंयोगिन्यपि वृक्षे मूले न कृष्णसंयोगीति धीः प्रमैव । ननु, कथं भेदाभेदयोरेकर्मिप्रतियोगिगतत्वमवच्छेदकभेदमस्वीकृत्योच्यते, न चावच्छेदकभेदं स्वीकृत्यैव तौ वाच्याविति वाच्यम् । मणिकाराद्युक्तिविरोधात् ।मणिकारेण हि 'वृक्षे कपिसंयोगतद्वद्भदौ स्वीकृत्य 'न चैवं भेदाभेद' इत्यनेन भेदाभेदमतमापाद्यावच्छेदकभेदाभ्युपगमा' दित्यनेनोक्तमतापत्तिः परिता ।
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
अद्वैतमञ्जरी ।
तथाच भेदाभेदमतमवच्छेदकभेदनिरपेक्षमिति तदभिप्रेतम् । न च 'कार्यात्मना तु ना. नात्वं अभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदेति वाचस्पत्युक्त्या भेदाभेदवादिकारिकया अवच्छेदकभेदेनैव भेदाभेदयोरुक्तत्वान्मणिकारोक्तवाक्यस्थस्य भेदाभेद इति पदस्य दोष इति शेषतया पूरणीयम् । तथा चावच्छेदकभेदस्वीकारे भेदाभेदस्वीकारो न दोष इति मणिकारवाक्यार्थ इति वाच्यम् । अवच्छेदकभेदेन गुणगुण्यादिषु भेदाभेदानुमाने तार्किकादीन् प्रति क्रियमाणे सिद्धसाधनतापत्तेः । न हि तार्किकादिभिः कुण्डलादौ हेमत्वाद्यवच्छिन्नाभेदो न स्वीक्रियते । किं च हेमत्वादिना कुण्डलादावभेदस्वीकारे भेदोऽ पि तेनैव रूपेण स्वीकार्यः । अन्यथा हेमकुण्डलमिति सामानाधिकरण्यप्रत्ययानुपपत्तेः । न हि द्रव्यत्वघटत्वाभ्यां भेदसत्त्वेऽपि घटः कलश इति सामानाधिकरण्यधीर्भवति । तस्मात् कार्यात्मना कार्यमात्रगतकटकत्वकुण्डलत्वादिरूपैः कटककुण्डलादीनाम्मिथो भेद एव । कारणात्मनेत्यत्र कार्यात्मनेत्यनुषज्यते । तथा च कारणगतेन रूपेण कार्यमात्रगतेन रूपेण च हेमत्वकुण्डलत्वादिभ्यामभेदः । नानात्वमित्यनुषज्यते । अभेदः अभेदोऽपि । भिदा भिदैवेत्युक्तकारिकाव्याख्यानस्य वाच्यत्वेनैकरूपेणैव भेदाभेदौ वाच्यौ । अत एव भामत्यामुक्तम्-'हाटकत्वेनैव रूपेण कटकादेः कुण्डलत्वादिमत्यभेदो न तु कटकत्वादिरूपेण । तेन रूपेण तु तत्र तस्य भेद एव । एवं भेदोऽपि हाटकत्वादिना कटकादेः कुण्डलत्वादिमत्यस्ति । हाटकत्वादिरूपेण ज्ञातेऽपि कुण्डलत्वादिरूपेण जिज्ञासोदया'दिति । ननु, हाटकत्वकुण्डलत्वाभ्यामपि कटककुण्डलयोः कथमभेद उक्तः । भिन्नदेशस्थत्वेन युगपदनुभूयमानयोरभेदाप्रत्ययादिति चेन्न । यद्धि पूर्व कटकादिरूपेण स्थितं पश्चात् कुण्डलभावमापन्नं तस्यैव कटकादेस्तत्र कुण्डलादौ हाटकत्वकुण्डलत्वादिरूपाभ्यामभेदः । तद्धाटकमिदं कुण्डलमित्यादिप्रत्ययात् । न तु कटकत्व कुण्डलत्वादिरूपाभ्याम् । इदं कुण्डलं तत् कटकमित्यप्रत्ययात् । तथा च युगपत् क्रमेण वा यानि कार्याण्येकोपादानव्यक्त्या जनितानि तेषामुपादेयमात्रगतरूपैमिथो भेद एव तद्रूपोपादानगतरूपाभ्यां मिथो भेदाभेदौ । अत एवैकघटोपादानकानां रूपरसादीनामपि तथा व्यवस्था । नन्विदं कुण्डलं कटकं स्थितमिति प्रत्ययात् कथमुक्तनियम इति चेन्न । उक्तप्रत्ययेन कटकत्वोपलक्षितस्याभेदावगाहनात्तदुपहितस्य कुण्डलत्वादयुपहितभेद एवेति नियमस्यानपायात् । अत एवोक्तकारिकायां हेमात्मनेत्यादेः हेमत्वकुण्डलत्वादिरूपाभ्याम्मिथो ऽभेदेऽपि कुएडलकटकत्वादिरूपाभ्यां भिदैवेति व्याख्या । तस्मादुक्तकारिकायामेकोपादानक
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका
नानाकार्यदृष्टान्तेन कारणकार्यरूपाभ्यामेव भेदाभेदावित्यस्यास्मदुक्तस्यैवोक्तत्वान्न कोऽपि दोषः । अथ च भावाभावयोरवच्छेदकभेदं विना विरोधादसंगतिरिति चेन्न । अवच्छेदकाभेदेन संयोगतदभावयोः विरोधः घटत्वतदभावयोस्त्ववच्छेदकनिरपेक्ष एव विरोध इत्यप्यनुभववलादेव स्वीक्रियते । तथा चावच्छेदकभेदं विनापि गुणगुण्यादिस्थले भेदाभेदावर्पि सामानाधिकरण्यप्रत्ययादेव स्वीक्रियते । अत्यन्ताभेदे अत्यन्तभेदे वोक्तप्रत्ययासम्भवात् । तदुक्तं वाचस्पत्ये--'विरुद्धमिति नः क्व प्रत्ययो यत्तन्न प्रमाणगोचरः प्रकृते च प्रमाणसत्त्वान्न विरोधप्रत्ययः । सामानाधिकरण्यप्रत्यये हि भेदाभेदौ भासेते' इति । ननु, कथमुक्तप्रत्यये भेदाभेदयोर्भानम् । तयोरेकवत्ताज्ञानस्यापरवत्ताधीविरोधित्वेनैकनिश्चयविषयत्वाभावात् । न च गुण्यादिस्थले नोक्तविरोधित्वं कल्प्यते । सामानाधिकरण्यप्रत्ययस्यान्यथानुपपत्तेरिति वाच्यम् । 'बटो न नील' इति वाक्यनन्यधीकाले 'घटो नील' इति ज्ञानापत्तेः । न च तयोरेकप्रकारकज्ञानस्यैव सामग्रया उक्तविरोधित्वम् । न त्वेकसंसर्गकज्ञानसामग्रयाः । उक्तप्रत्यये च तयोस्संसर्गतयैव भानान्नोक्तदोष इति वाच्यम् । एकसंसर्गकधीसामग्रया अप्युक्तविरोधित्वस्यानुभवसिद्धत्वात् । न हि घटोऽभेदसंबन्धेन नीलविशिष्ट इति धीकाले घटो भेदसंबन्धेन नीलविशिष्ट इति धीर्घटो न नील इति धीर्वाऽनुभूयते । किं च सामानाधिकरण्यप्रत्यये संसर्गत्वेनाभेदस्य भानेऽपि भेदस्य भाने मानाभावः तथा च द्वयोस्तत्र भानं वाचस्पत्युक्तमसङ्गतमिति चेन्न । एकधर्मावच्छिन्ने धर्मिणि भेदाभेदविषयकस्य निश्चयस्यासंभवेऽपि तादृशप्रत्यये भेदसामानाधिकरण्यविशिष्टाभेदविषयतायां बाधकाभावात् । न हि 'नीलभेदविशिष्टं द्रव्यं नीलो घट' इत्याकारकधीर्नोत्पद्यते। न च घटो नील इत्यादिज्ञाने तादृशविषयतापि न संभवति । घटत्वविशिष्टे हि तादृशाभेदस्य विषयत्वे भेदस्यापि घटत्वविशिष्टे विषयताया आवश्यकत्वेन पूर्व घटत्वविशिष्टे भेदनिश्चयस्यावश्यकत्वं घटे नीलभेदम्य संशयोत्तरं घटे नीलस्य भेदसमानाधिकरणाभेदसंसर्गकनिश्चयस्यानुत्पत्तेः । तत्र नीलभेदनिश्चयस्य हेतुत्वात् । तदुक्तमनुमानदीधितौ----' साध्यसामानाधिकरण्यविशिष्ठहेतोः पक्षे निश्चयस्तु पक्षे साध्यनिश्चयं विनाऽनुपपन्न' इति । एतावांस्तु भेदः । यद्वह्विसामानाधिकरण्यविशिष्टधूमवान् पर्वत इति पर्वतांशे विशिष्टधूमस्य प्रकारत्वात् वह्निरपि तत्र प्रकारः । घटो नील इत्यादौ तु घटे विशिष्टाभेदस्य संसर्गत्वाद्भेदस्यापि संसर्गता । अत एव घटे मेदसंसर्गकज्ञाने भेदसंसर्गेण नीलप्रकारकज्ञानमेव हेतुः । औचित्यात् । न तु भेदप्रकारकमिति वाच्यम् । भेदसामानाधिकरण्योपल
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
क्षिताभेदविषयतायामुक्तदोषाभावात् । अथ भेदस्य तथाभानेऽपि किं मानमिति
चेदत्र ब्रूमः । तद्धटे तद्धटस्य संयोगादिसम्बन्धेन धीर्न प्रमा । किं तु तद्धटभिन्न इति व्यवस्थासिद्धये विशिष्टधीमात्रे विशेष्ये विशेषणस्य भेदसमानाधिकरणस्संबन्धो विषय इति कल्प्यते । तथा सति हि तद्धटे तस्य संयोगादिसत्वेऽपि तद्भेदसमानाधिकरणसंयोगादिसम्बन्धस्यासत्त्वान्नोक्तधीः प्रमा । न चोक्तसामानाधिकरण्यं तद्धटसंयोगेऽप्यस्त्येव । तस्य तद्धट इव तदन्यस्मिन् पटादावपि सत्त्वात् । तथा च तदुपलक्षितसंयोगस्य तद्धटेऽपि सत्त्वात् कथं न प्रमेति वाच्यम् । उक्तोपलक्षितत्वं हि प्रकृते तद्भेदोपलक्षिताधिकरणवृत्तित्वविशिष्टत्वम् । तथा च अधिकरणांशे भेदस्य विशेषणत्वेन न भानम् । किं तु उपलक्षणतया । तदुपलक्षिताधिकरणवृत्तित्वस्य तु संयोगादिसंबन्धांशे विशेषणतयैव सर्वत्र भानम् । तादशाधिकरणवृत्तित्वविशिष्टसंयोगादेश्च न तद्धटादौ सत्त्वमिति नोक्तधीः प्रमा। ननु, 'तद्धटस्तत्कम्बुग्रीवादिमान्' इत्यादौ घटत्वकम्बुग्रीवादिमत्त्वरूपाभ्यां भेदसम्भवात्तादात्म्येन प्रमा स्वीक्रियते । तथा तद्धटस्तत्कम्बुग्रीवादिमद्वानिति संयोगेनापि प्रमा स्यादिति चेन्न । व्याप्यव्यापकभावापन्नधर्मद्वयं यत्र विशेषणतायां विशेष्यतायां वा अवच्छेदकं, तत्र व्याप्यधर्म एव भेदे प्रतियोगितावछेदकतयाऽनुयोगितावच्छेदकतया वा भासते । व्यापकधर्पस्तु, प्रतियोग्यंशे विशेषणमात्रतया भासते । न तु उक्तावच्छेदकप्रविष्टतया । द्रव्यं घटो नास्तीत्यादिप्रतीतेः द्रव्यवत्युत्पत्तेः व्यापकविशिष्टव्याप्यस्य तु गौरवेणानवच्छेदकत्वात् । अत एव प्रमेयषटो नास्तीत्यादौ प्रमेयत्वादेरवच्छेदकत्वासम्भवात् । प्रमेयत्वोपलक्षितघटत्वादेरवच्छेदकत्वमुक्तं पक्षधरामिश्रादिभिः । तत्र घटत्वमेवावच्छेदकं प्रमेयत्वं तु प्रतियोगिनि विशेषणमित्यर्थः । तथाच तद्धटइत्याद्युक्तस्थले व्याप्यीभूततव्यक्तित्वावछिन्नप्रतियोगितानुयोगिताकभेदस्यैव भानं व्युत्पत्तिसिद्धं वाच्यम् । स च बाधित इति न प्रमा । अत एव तादात्म्येनोक्तधीरपि न प्रमा । तद्वक्तिस्तद्व्यक्तिमतीति धीवत् । नच तथाऽपि कम्बुग्रीवादिमान् समवायेन घटवानित्यपि प्रमा स्यात् । घटीयसमवायस्य घटे सत्त्वादिति वाच्यम् । घटो भूतलसंयोगीति प्रमावत् घटः कपालसमवायीति बुद्ध्यभावेन घटस्य स्वसमवायानुयोगित्वाभावात् । ननु, यस्माद्विशेषणाद्वस्तुगत्या भिन्नं विशेषणसम्बन्धि च यत् विशेष्यं तस्य तत्र विशिष्टधीत्वं प्रमात्वं वाच्यम् । न संसर्गघटकतया भासमानविशेषणभेदघटितम् । तथा च विशेषणभेदस्य विशिष्ठधीविषयत्वानियमेऽप्युक्तधियो अप्रमात्वोपपत्तिरिति चेन्न । प्रमात्वस्य तादशत्वे पारिभाषिकत्वापत्तेः । प्र
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रथममिथ्यात्वम् ] लघुचन्द्रिका । कृष्टज्ञानं हि प्रमापदमुख्यार्थः । प्रकर्षश्चाज्ञाताबाधितविषयकत्वम् । तच्चोक्तज्ञानेऽप्यस्तीति तस्योक्तमुख्यार्थत्वं दुरिम् । अत एव तस्य भ्रमपदमुख्यार्थत्वमपि न स्यात् । प्रमापदविपरीतार्थकत्वेन भ्रमपदस्य बाधितविषयकज्ञानार्थकत्वेन विषयाबाधेन च तस्योक्तमुख्यार्थत्वाभावात् । ननु, विशिष्टधीमात्रे नोक्तभेदो विषयः 'बटाभावो घटाभाववा'नित्यादौ विशेष्यविशेषणयोरैक्येन भेदभाने भ्रमत्वापत्तेः तद्धटस्तद्धटवानित्यादिज्ञानस्यापि न प्रमात्वापत्तिः । तस्य हि प्रमात्वं संयोगादिसम्बन्धीया तद्धटनिष्ठा या प्रतियोगिता तन्निरूपितानुयोगितावति संयोगादिसम्बन्धेन तद्धटप्रकारकधीत्वं तादृशी चानुयोगिता तद्धटभिन्न एव स्वीक्रियते । तद्धटे तस्य संयोगइति प्रत्ययाभावात् । घटाभावे तु विशेषणतासम्बन्धीयप्रतियोगितया घटाभावनिष्टया निरूपितानुयोगिता स्वीक्रियते। घटाभावे तस्य सम्बन्ध इत्यनुभवादिति चेन्न । घटप्रतियोगिकाभावत्वमात्रेण विशेप्यत्वे तेनैव रूपेण न विशेषणत्वं किं तु घटविरोद्ध्यभावत्वादिरूपेण । यथा हि मामहं जानामीत्यादौ रूपभेदेनैव कर्मकर्तृता। अन्यथा अत्यन्ताभेदे परसमवेतक्रियाजन्यफलवत्त्वरूपस्य कर्मत्वस्यात्मन्यसंभवात् तथा रूपभेदेनैव विशेषणत्वमुक्तज्ञाने स्वीक्रियते। उक्तकल्पनानुरोधात् । घटाभावम्तद्वानित्यादावेकरूपविशिष्टस्यैव घटाभावपदतत्पदाभ्यामुल्लेखेऽपि सुवर्थंकत्वादिविशेषितरूपेणैव शाब्दधीविशेष्यता। तथा च भिन्नरूपाभ्यां घटाभावादौ तदेदसम्भवेन भेदविशिष्टविशेषणतासम्बन्धस्य भानाद्विशिष्टधीमात्रे भेदविशिष्टसम्बन्धस्य भाननियमो न व्याहतः । यत्त्वनुयोगिताविशेषघटितं प्रमात्वमतस्तद्धटस्तद्वानित्यादिधीरप्रमेत्युक्तम् । तन्न । प्रमात्वस्य पारिभाषिकत्वापत्तेरित्याद्युक्तदोषात् । न हि उक्तरूपविशिष्टानुयोगिता नियमेन विशिष्टधीविषय इत्यत्र मानमस्ति । येन विषयबाधेन प्रमात्वाभाव उक्तज्ञाने वाच्यः । न वा तादृशानुयोगिता प्रामाणिकी । न च कम्बुग्रीवादिमान् घटः, कम्वुग्रीवादिमान् तद्धटवान् , तद्धटो घटवानित्यादीनां प्रमात्वं तव मते दुरिम् । विशेष्यविशेषणयोभिन्नरूपावच्छिन्नतया भेदसत्त्वात् तत्सम्बन्धीयघटादिनिष्ठप्रतियोगितानिरूपितानुयोगितानिवेशे तु तस्याः कम्बुग्रीवादिमत्त्वावच्छिन्नादावस्वीकारात् , नोक्तधियां प्रमात्वापत्तिरिति वाच्यम् । उक्तधियां प्रमात्वस्येप्टत्वात् । आद्यबुद्धौ विशेष्यविशेषणतादात्म्यस्याज्ञातत्वसम्भवेनाज्ञातविषयकत्वसम्भवात् । तद्व्यक्तिस्तव्यक्तिरित्यादौ तु तस्य तदसम्भवेन न तथा। द्वितीयतृतीययोरपि तथा । एकघटे घटान्तरसंयोगमादाय त्वयाऽपि तस्येष्टत्वात् । न च समवायेन तयोः प्रमात्वापत्तिस्तव मते इति वाच्यम् । तव मतेऽपि ताढ
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अद्वैतमञ्जरी
शापत्तेः । अथ तद्धटीयसमवायानुयोगित्वस्य तद्धटे स्वीकारे तद्धटस्स्वाश्रयक पालसमवायोति प्रत्ययापत्तेस्तत्सम्बन्धेन प्रमात्वस्य तत्सम्बन्धानुयोगिविशेष्यकत्वघटितत्वाच्च नोक्तापत्तिरिति ब्रूषे । तदा अहमपि तथा ब्रवीमीति न कोऽपि दोषः । यथा हि विषयतया विषयमात्रे ज्ञानस्य प्रमा न तु ज्ञाने विषयस्य । तस्याः ज्ञानानुयोगिकत्वाभावात् । तथा समवायेन कपाल एव घटस्य प्रमा । न तु घटे कपालस्यापीति दिक् । अथ घटस्तद्धटवानिति बुद्धेः प्रमात्वे विप्रतिपद्यसे । तदा तादात्म्यसम्बन्धन प्रमात्वस्य लक्षणे भेदमात्रस्य निवेशेऽपि तादाम्यान्यसम्बन्धेन प्रमात्वस्य लक्षणे औपाधिकभेदान्यभेदो निवेश्यताम् । घटत्वतद्धटत्वविशिष्टयोर्भेदस्यौपाधिकत्वान्नोक्तबुद्धेः प्रमात्वापत्तिः। सर्वेषां प्रमात्वानां लक्षणेषु शब्दैक्यं नोपयुज्यते । न चौपाधिकत्वं दुर्वचमिति वाच्यम् । तद्धर्मयोर्यो भेदस्तदन्यः यस्तद्धर्मोपहितयोर्भेदस्तद्धटितं तद्धर्मावच्छिन्नयोरेकस्मिन्नपरस्य प्रमात्वमित्यस्य सुवचत्वात् । न च घटादौ द्रव्यत्वघटत्वरूपाभ्यां भेदो न मानसिहः । उक्तव्यवस्थान्यथानुपपत्या कल्पनं तु तादृशानुयोगित्वस्याऽपि संभवतीति वाच्यम् । तादृशभेदो हि न तया कल्प्यते किंत्वनुभवसिद्धः । य एव हि द्रव्यत्वघटत्वयोर्भेदस्स एव तदुपहितयोरपि । अत एव द्रव्यत्वस्य तत्रेव तदुपहितेऽपि भेदासत्त्वान्न विशिष्टधीः । न चैवं द्रव्यत्वस्य स्वोपहिते व्यावर्तकत्वानुपपत्तिः, द्रव्यत्वभेदाभावे स्वोपहिते स्वस्य विशिष्टबुद्ध्यसम्भवादिति वाच्यम् । द्रव्यत्वत्वविशिष्टस्यैव शुद्धद्रव्यत्वोपहिते तत्सम्भवात् । अत एव 'गुणानां गुणत्वाभिसम्बन्ध' इत्यादिकं गुणभाष्यादावुक्तम् । अथवा द्रव्यं घट इत्यत्र द्रव्ये यस्य विशेषणस्य भेदो भाति । तस्य द्रव्यविशेषणे शुद्धद्रव्यत्वेऽपि विशेष्यविशेषणयोरेकभेदभाननियमात् । तथा च द्रव्ये शुद्धद्रव्यत्वस्य न विशिष्टधीः । भेदप्रतियोगिताऽपि द्रव्यत्वतदुपहितयोरेकैव । लाघवात् । एवं भेदानुयोगिताऽपि । तथा च द्रव्यत्वघटत्वयोश्शुद्धयोर्भेदानुभवे भासते यो भेदस्तस्यैव 'द्रव्यं घट' इत्यनुभवे द्रव्यत्वतदुपहितानुयोगिकतया घटत्वतदुपहितप्रतियोगिकतया भानमौपाधिकभेदधीस्थले । तथैवानुभवात् । द्रव्यत्वोपहितानुयोगिकतया तद्भाने घटत्वोपहितस्याभेदो नोक्तानुयोगिकतया भातुमर्हतीति सामानाधिकरण्यघटकतयैव द्रव्यांशे भेदभानमिति पूर्वोक्तम् । न चोक्तानुभवे द्रव्यत्वघटत्वयोर्भेदानुयोगिप्रतियोगितामाने तदवच्छेदकतया द्रव्यत्वत्वादेरपि भानापत्तिः, भेदप्रत्यक्षे प्रतियोग्यनुयोगिनोरुक्तावच्छेदकभानस्यावश्यकत्वादिति वाच्यम् । इतरविशेषणीभूते प्रतियोग्यादौ तद्भानस्यानवकाशात् । न चोक्ता
योगतयोगिकतया भारइत्यनुभवे कवटत्वयोइ
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
२९
तरस्य शुद्धद्रव्यत्वावशष्टादपि भेदस्य व्यकस्य विशेष्यवि
नुभवे द्रव्यत्वघटत्वयोरेव भेदो भाति । न तु तदुपहितयोः । तथा च विशिष्टधीमात्रे विशेषणताविशेष्यतावच्छेदकयोरेव भेदभानेनैकधर्मविशिष्टयोविशिष्टज्ञानप्रमात्ववारणसम्भवाद्विशेष्यविशेषणयोरपि भेदो भातीत्यत्र न मानमिति वाच्यम् । विनिगमकाभावादुक्तानुभवस्योपाध्योरिवोपहितयोरपि भेदे मानत्वात् । अनुभवान्तरस्य शुद्धद्रव्यत्वघटत्वयोमैदावगाहिनोऽभावात् । केवले घटे नीलत्वादिविशिष्टादिव द्रव्यत्वादिविशिष्टादपि भेदस्य पूर्वोक्तयुक्तिभिर्व्यवस्थापितत्वात् । तद्धटः तद्धटवा' नित्याकारकस्य तद्धटविशेष्यकस्य विशेष्यविशेषणयोभैदाभाने प्रमात्वापत्तेश्च । तस्माद्दव्यत्वघटत्वोपहितयोर्भेदस्योक्तानुभवसिद्धत्वात् पूर्वोक्तानुयोगिताविशेषस्याप्रामाणिकत्वात् विशिष्टज्ञानमात्रस्य विशेष्यविशेषणभेदविषयकत्वमव्याहतम् । न चैवं 'घटो द्रव्यं ने 'त्यादिधीरपि प्रमा स्यादिति वाच्यम् । नभेदादिपदाभिलप्यज्ञाने तादात्म्यविरोधित्वविशिष्टभेदस्य विषयत्वात् । अत एव वृक्षे कृष्णसंयोगो नेत्यादिज्ञानेऽपि कृष्णसंयोगविरोध्यत्यन्ताभावस्यैव विषयत्वम् । नञादिपदस्य विरोध्यभावबोधकत्वेन तेनैव ताढशाभावज्ञानस्यैवाभिलापात् । विरोधस्य पदानुपस्थाप्यत्वेऽपि संसर्गविधया भानसम्भवात् । अत एव विरोधित्वमेकावच्छेदेनैकाधिकरणावृत्तित्वरूपम् । अत एव उक्तज्ञानोत्तरं घटो द्रव्यमित्यादिज्ञानस्य नोत्पत्तिः । प्रतियोगिसामानाधिकरण्यरूपाव्याप्यवृत्तित्वविशिष्टसंयोगाद्यभावज्ञानस्य तु नत्रादिपदानभिलप्यतया न संयोगादिविशिष्टधीविरोधित्वम् । अत एव च मूले वृक्षे न कृप्णसंयोग इत्यादिधीरपि मूले वृक्षे कृष्णसंयोग इति ज्ञाने नियमेन विरोधिनी । प्रतियोगिविरोधित्वविशिष्टाभावनिश्चयत्वेनैव विरोधित्वस्वीकारात् तादशस्यैव तथात्वेन सर्वानुभाविकत्वात् । अत एव च भूतले घटोऽस्ति न वेति संशयनिवृत्तये भूतले घटाभावोऽस्तीति न प्रयुज्यते किं तु भूतले घटो नास्तीति । एतेन विशिष्टकेवलयोर्भदे विशिष्टसत्ता सत्ता नेति प्रमा स्यादिति शिरोमण्युक्तापत्तिरपास्ता । तस्मात् 'सामानाधिकरण्यप्रत्यये भेदाभेदौ भासेते' इति वाचस्पत्युक्तियुक्तैव । तत्र भेदो भेदत्वरूपाऽखण्डधर्मविशिष्टो भावोऽभावो वा यथा संभवं बोध्यः । अयं घटान्य इत्यादौ घटान्यस्य भेदो घटान्यत्वभेद एव। उपहितभेदस्योपाधिभेदात्मकत्वमित्युक्तस्वात् । तथा च तस्याभावप्रतियोगिकाभावत्वेनाधिकरणात्मकत्वादिदन्त्वनिष्ठत्वेनेदन्त्वरूपत्वात् भावरूप एव सः । 'अयं घट' इत्यादौ घटादिभेदोऽभावरूपः। अभेदस्तु तादात्म्यम् । तादात्म्यत्वञ्चाखण्डधर्मविशेष एव । ननु, तथाऽपि तादात्म्यं न विशेषणस्वरूपं द्रव्यं घट
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
इत्यादौ द्रव्यत्वोपहितस्य विशेष्यस्यापि विनिगमकाभावेन तादात्म्यत्वापत्तेः । अथ तस्य पटादिद्रव्येऽपि सत्त्वेन तत्रापि घटत्वोपहितप्रकारकज्ञानस्य भ्रमत्वानापत्त्या न तादात्म्यत्वापत्तिरिति चेत् सत्यम् । तथाऽपि विशेषणस्वरूपघटाद्यसम्बद्धपटादेरपि तत्तादात्म्यता स्यात् । विशेषणस्वरूपस्यापि तदसम्बद्धत्वेन विनिगमकाभावात् । न ह्यत्यन्ताभेदे सम्बद्धता सम्भवति । घटो घट इत्यादिप्रत्ययाभावात् । किञ्च खं न स्वीयमित्यनुभवेन स्वप्रतियोगिकत्वस्य स्वस्मिन्नसम्भवेन विशेषणस्य न स्वप्रतियोगिकतादात्म्यत्वसम्भवः । अथास्तां विशेषणतावच्छेदकघटत्वादेर्घटादितादात्म्यतेति चेन्न । शुद्धघटत्वादिविशेषणस्थले तदसम्भवात् । घटत्वत्वादिकमविषयीकृत्यैवायं घट इत्यादिबुद्ध्युदयात् तद्व्यक्तित्वस्य विशेषणतावच्छेदकत्वस्थले रूपरसाद्यनेकधर्मरूपस्य तद्व्यक्तित्वस्य तव्यक्तितादात्म्यत्वकल्पने गौरवात्तब्यक्त्युत्पत्तिकालावच्छेदेन रूपादेस्तव्यक्तावभावाच्च । तदन्यस्यैव तत्कालावस्थायिनस्तत्कल्पनाया आवश्यकत्वेन घटत्वादेविशेषणतावच्छेदकत्वस्थले ऽपि तादृशतादात्म्यभानसम्भवेन घटत्वादेस्तादात्म्यत्वाश्रयत्वकल्पने गौरवान्मानाभावाच्च । अथ घटादेस्तादात्म्यं तत्स्वरूपमेव । अभावादेः स्वरूपस्यैवाधिकरणे सम्बन्धत्वदर्शनात् । स्वरूपस्यापि सम्बन्धत्वोपपत्तेः । उक्तञ्च बौद्धा. धिकारे शिरोमणिना---'ज्ञानस्य स्वरूपमपि विषयतानामकस्तत्सम्बन्धः । अभावाधिकरणयोः स्वरूपवदिति चेन्न । स्वं न स्वीयमित्याधुक्तानुपपत्तेः । अभावाधिकरणयोरपि स्वरूपान्यस्यैव सम्बन्धत्वात् । अत एव विषयतापि न ज्ञानस्वरूपति तत्रैव तेनैव पश्चादुक्तम् । अथ घटादिविशेषणस्वरूपस्यापितादात्म्यत्वरूपेण घटादितो भेदसम्भवेन घटादिप्रतियोगिकत्वसम्भवात्तदीयतादात्म्यत्वमुपपद्यत इतिचेन्न। घटादौ तादात्म्यत्वकल्पनायाः पूर्वं तस्य तत्सम्बद्धत्वासिध्या तस्या असिद्धेः । न हि घटत्वविशिष्टप्रतियोगिकतादात्म्यत्वासिद्धेः पूर्वं तादात्म्येन तत्सम्बद्धं किञ्चित् सिद्धमस्ति । येन तत्सम्बद्धस्य तादात्म्यत्वमात्रं कल्प्येत । तथाच भेदे सिद्धे तादात्म्यत्वं कल्प्यं तादात्म्यत्वे क्लप्ते तद्रुपहितरूपेण भेदसिद्धिरित्यन्योन्याश्रयः । तस्मात्तादात्म्यत्वमिव तदाश्रयस्तत्र घटादिसम्बन्ध इति त्रयमपि क्लुप्तघटादिभ्योऽतिरिक्तं कल्प्यते । तत्र तादात्म्ये तदन्यस्य घटादिसम्बन्धस्य कल्पने अनवस्थानाद्वरं तत्स्वरूपसम्बन्धेन घटादिसंबद्धत्वं तस्य स्वीक्रियते । अनवस्थापेक्षया आत्माश्रयस्य युक्तत्वात् । अनवस्थायां हि तादात्म्ये घटस्यैकस्स्म्बन्धो वाच्यः । असम्बद्धस्य तादात्म्यस्य सम्बन्धत्वासम्भवात् । एवं तत्रापि घटस्य सम्बन्धान्तरमेवं तत्रापीत्यादि महागौर
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
वम् । यदि तु तादात्म्यद्वयं घटस्य स्वीक्रियते तयोः परस्परसम्बद्धता च स्वीक्रियते । तदान्योन्याश्रयः । तत्रापि गौरवञ्च । यदि तु तादात्म्यत्रयं स्वीकृत्य प्रथमस्य द्वितीयं सम्बन्धस्तस्य तु तृतीयं तस्य तु प्रथममित्युच्यते । तथापि चक्रकं गौरवञ्च । तादात्म्यमेकं स्वसम्बन्धिभ्यामतिरिक्तं तथैव प्रतीयनानत्वात् कल्प्यते। तदाऽनवस्थाद्यपेक्षया लाघवम् । अतः स्वस्यैव स्वं प्रति सम्बन्धत्वादात्माश्रयोऽपि स्वीक्रियते। अत एव बौद्धाधिकारशिरोमणौ घटाभावस्य स्ववृत्तित्वस्वीकारे आत्माश्रयेऽपि लाघवमुक्तम् । तच्च तादात्म्यं घटादौ रूपरसादेर्जायते। रूपादीनां नित्यत्वादुत्पत्तिनाशप्रत्ययस्य तादात्म्योत्पत्तिनाशविषयकत्वात् । पाकादिना घटादे शोत्पत्तिः रूपादीनां तादात्म्यस्य वेत्यत्र विनिगमकाभावादिति भट्टादिमतम् । मन्मते त्वविद्यादेः श्रुतियुक्तिसिद्धानादिताकात् भिन्नं दृश्यमात्रमुत्पत्तिनाशवदिति स्वीक्रियते । 'यावद्विकारन्तु विभागो लोकव' दिति न्यायात् । विभागः तादृशाविद्यादिभेदः यावद्विकारमुत्पत्तिमनतिक्रम्य वर्तते उत्पत्तिव्याप्य इति यावत्। 'यतो वा इमानि भूतानि जायन्त' इति श्रुताविमानि भूतानीति पदाभ्यामात्माविद्यादिभिन्नस्योत्पन्नमात्रस्योक्तेश्च । भूतानीत्युक्ते उत्पन्नत्वसामानाधिकरण्यमात्रेण ब्रह्मजन्यत्वं लम्यते इत्यतस्तदवच्छेदेन जन्यतालाभाय इमानीत्युक्तम् । सर्वाणीति तदर्थः । अथ वा भूतानि सत्तादात्म्यवन्ति । ब्रह्मभिन्नानीति यावत् । अविद्याद्यनादिवारणायेमानीति । अविद्याद्यनादिभिन्नानीत्यर्थः । विशेष्यतावच्छेदकीभूततादृशविशिष्टधर्मावच्छिन्नत्वस्योत्पत्तिमत्वे लाभस्त्वौत्सर्गिकव्युत्पत्या भवत्येव । तथा च कपालाद्यवच्छेदेन घटादेः घटाद्यवच्छेदेन कपालादेस्तादात्म्यं जायते । परस्पराध्यासोक्तरीत्या जन्यमात्रस्य तादात्म्यं जायते। यत्तु, कपालधटाभ्यामुपहिता सत्तैव तयोस्तादात्म्यमिति मतम् । तत्राध्यासिकतादात्म्येनैव चिद्रूपसत्ताया घटाद्युपहितत्त्वं वाच्यम् । तथा च कपालघटयोर्यत्तादात्म्यं सत्तायां सम्बन्धस्तदेव तयोरन्योन्यस्मिन्नपि सम्बन्धोऽस्तु । कपालादितादात्म्यापन्नसत्तानुयोगिकस्य घटादितादात्म्यस्य कपालाद्यनुयोगिकत्वसम्भवात् सत्तायामेकानुयोगिकत्वापरप्रतियोगिकत्वयोस्तादात्म्यत्वस्य च कल्पनापेक्षया एकप्रतियोगिकतया क्लुप्ते तादात्म्ये अपरानुयोगिकत्वमात्रस्य कल्पने लाघवात् । तस्मादयमाशयस्तत्रोन्नीयते उक्तरीत्या कपालघटयोस्तादात्म्यसम्बन्धस्वीकारे एकघटनिष्ठानां रूपरसादीनामपि मिथस्तादात्म्यापत्तिस्तेषामपि परस्परोपहिताया एकसत्तायाः स्वीकारात् । अतो यद्विशिष्टे सत्तारूपाधिष्ठानचैतन्ये आधारीभूते यस्यारोप्यस्य तादात्म्यमारोप्यते । तत्रैव तस्यारोप्यस्य तत्तादात्म्यं स्वीक्रियते । विशिष्टस्य तदनुयोगित्वेन विशेषणस्याऽपि तदनुयोगित्वात् । रूपादिविशिष्टे तु चैतन्ये
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
रसादीनां न तादात्म्यमारोप्यते । घटादिविशिष्टचैतन्ये रूपरसादीनां युगपदारोपात् । एवं च कपालोपहितसत्तायां वस्तुगत्या विद्यमानं घटस्य यत्तादात्म्यं तस्य तादात्म्यत्वरूपेणैवोक्तसत्तायामिव कपालेऽपि संबद्धत्वेऽप्युक्तसत्वोपहिततादात्म्यस्य स्वरूपपरिचयार्थमुभयोपहितसत्तासम्बन्ध इत्युच्यते । उक्तसत्ताया अपि तादृशतादात्म्यरूपसम्बन्धपरिचायकत्वात् यथाश्रुतं त्वसङ्गतम् । उक्तयुक्तः । 'सन् घट 'इति प्रत्ययस्येव 'कपालं घट' इति प्रत्ययस्यापि तादात्म्यत्वविशिष्टसंसर्गविषयकत्वस्य सर्वानभाविकत्वात् । उक्तसंसर्गेणैव घटाद्युत्पत्तौ कपालादेलाघवेनोपादानकारणत्वादिकल्पनात् तादात्म्योपहितसत्तात्वादिविशिष्टसंसर्गेण तदत्पत्तौ तत्कल्पने गौरवान्मानाभावाच्चेत्यास्तां विस्तरः । तस्मादुक्तरीत्या भेदाभेदयोरविरोधादिकमुपपादनीयम् । वेदान्तदर्शने तु एकाधिकरणकस्वाप्नभावाभावदृष्टान्तेन मूले वक्ष्यमाणः व्यावहारिकयोः प्रपञ्चतदभावयोरविरोध इव भेदाभेदयोरविरोधः । अथवा व्यवहारदशायामेवाऽवयवावयविगुणगुण्यादिभेदस्य विचारेण मिथ्यात्वनिश्चयात्तादृशभेदः प्रातीतिकः । अभेदस्तु व्यावहारिकः । अतो भिन्नसत्ताकत्वेन तयोरविरोध इत्यादियुक्तिरपि बोध्या । भेदाभेदवादीति । भट्टसाङ्ख्यपातञ्जलादिभिः तार्किकादीन् प्रति क्रियमाणे न्यायप्रयोगे । भिन्नत्वस्य गुणगुण्याद्योभिन्नत्वस्य । सिद्धौ निश्चितत्वे । उद्देश्यप्रतीतेः उक्तप्रयोगतात्पर्यविषयीभूतायाः गुणादौ गुण्यादेर्भेदाभेदोभयवत्ताप्रतीतेरित्यर्थः । प्रकृते उक्तमिथ्यात्वसाधकन्यायप्रयोगे । मिलितप्रतीतेः सदसद्भेदादिरूपोभयवत्ताप्रतीतेः । तथा चोभयत्वरूपेणानुमितौ प्रत्येकरूपेण सिद्धेरप्रतिबन्धकत्वात् नोक्तदोष इति भावः । ननु, दृश्यत्वस्य सदन्यसकलनिष्ठत्वेन सदन्यत्वमात्रस्य दृश्यत्वोपपादकत्वेन तदेव साध्यतामित्यत आह-यथाचेत्यादि । अभेदे अत्यन्ताभेदे । सामानाधिकरण्येति । भेदसमानाधिकरणाभेदसंसर्गविषयकेत्यर्थः । मिलितस्य तत्प्रयोजकतयेति । उभयत्वविशिष्टस्य दृश्यत्वोपपादकतयेत्यर्थः । यथा सामानाधिकरण्यप्रतीतिविशेष्यत्वं ‘याभयं विनाऽपि स्यात् , तदा घटकुम्भयोरपि घटपटयोरपि वा स्यादिति तर्केण व्याप्तिग्रहादुभयं हेतूपपादकम् । तथा दृश्यत्वं 'याभयं विनाऽपि स्यात् , तदा तुच्छेऽपि ब्रह्मण्यपि वा स्या' दिति तर्केण व्याप्तिग्रहादुभयं तथेति भावः । ननूभयस्योपपादकत्वेऽपि प्रत्येकरूपेणैव साध्यतास्तु । 'यदि भिन्नं न स्यात् तदा समानाधिकृतं न स्या' दित्यादे ईष्टान्ते । 'यदिसत्स्यात् तदा दृश्यं न स्यादित्यादेः दाष्टान्तिके प्रत्येकरूपेण व्याप्तिग्राहकस्य तर्कस्य सम्भवात् । न चोभयत्वेन रूपेणैकस्यामनुमितौ
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।।
लाघवान्यायप्रयोगोऽप्युभयत्वेनैवेति वाच्यम् । न्यायप्रयोगोत्तरं प्रत्येकांशाप्रयोजकत्वे वादिना शङ्किते प्रत्येकांशतर्कोपन्यासक्रमेण प्रत्येकानुमित्योरुत्पादेन लाघवानवकाशादिति चेन्न । प्रत्येकानुमित्योरुत्पादेऽपि तयोः न्यायवाक्यतात्पर्याविषयत्वेनोभयत्वावच्छिन्नविधेयकानुमितेरेवोक्तवाक्यतात्पर्यविषयत्वरूपोद्देश्यत्वेन लाघवानपायात् । न च 'भेदाभेदवत् सदसद्भिन्न'मित्येव प्रयोगोऽस्तु । भेदाभेदोभयवत् सद्भेदासद्भेदोभयत्र' दिति प्रयोगे गौरवादिति वाच्यम् । सिद्धसाधनदोषस्योक्तत्वेनोक्तलाघवस्यासम्भवात् । अत एव वाङ्मनसे अनित्ये इति समूहालम्बनानुमिति मात्र सिद्धिसत्त्वेऽपि न जायत एवेति नव्यतार्किकाः । अप्रसिद्धविशेषणत्वं विशिष्टस्य साध्यत्वे साध्यविशेषणाप्रसिद्धिः । उभयस्य साध्यत्वे तु साध्यरूपविशेषणस्य क्वाप्यप्रमितत्वमन्वयदृष्टान्ताभावेन व्याप्त्यग्रहपर्यवसितदोषः । शशीयशृङ्गेति । ननु, विशिष्टस्य साधने दूषणमिदम् । मिलितस्य साधने तु दूषणं नोक्तमिति न्यूनतेति चेन्न । शशीयशृङ्गसाधनमित्यस्यैव हि द्वावौँ । शशीयत्वविशिष्टशृङ्गस्य संयोगादिसंबन्धेन साधनमित्येकः । शशीचं शृङ्गं चेति द्वयोस्तादात्म्यसंबन्धेन साधनमित्यन्यः । तथा च तादात्म्यसंबन्धेन तदुभयस्य क्वाप्यज्ञातत्वेन साध्याप्रसिद्ध्या उभयसाधनेऽपि दूषणमेतदेवेति भावः । निर्मकखादित्यादि । सत्त्वादिधर्माणां तदुपहिते एव ब्रह्मणि सम्बन्धः । न तु शुद्धे । धर्मधर्मिणोस्तादात्म्यस्वीकारेण तत्वज्ञानेन धर्माणां नाशे धर्मिणोऽपि नाशापत्तेः । अथ धर्मिसमानसत्ताकधर्मनाशे सत्येव धर्मिणो नाशः । आरोपितस्य वास्तवधर्मत्वाभावेन तन्नाशेऽपि न धर्मिनाशः । तहि शुद्धस्य सत्वेऽपि कैवल्ये तत्र धर्माप्रत्ययाच्छुद्धे धर्मो न स्वीक्रियते । तदुक्तमाचार्यैः-- 'रागेच्छा सुखदुःखादिबुद्वौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तनाशे तस्माद्बुद्धेस्तु नात्मनः ॥' इति । तस्माद्यथा शुद्धस्य स्वप्रकाशत्वेन न वृत्तिज्ञानविषयत्वादिकं, किं तु तदुपहित एव ब्रह्मणीति वाचस्पतिसम्मतं, तथोक्तयुक्तेस्सत्त्वादिधर्मसम्बन्धस्तदुपहित एव ब्रह्मणीति सत्त्वादिधर्माभावधटितमिथ्यात्वलक्षणं शुद्धब्रह्मण्यतिव्याप्तमिति भावः । सद्रूपत्वेन बाध्यत्वाभाववत्वेन । तथा च भावरूपधर्मानाश्रयत्वेऽपि ब्रह्मणो बाध्यत्वादिशून्यत्वरूपाभावरूपधर्माश्रयत्वात् नातिव्याप्तिः । न चोक्ताभावस्य ब्रह्मरूपाधिकरणस्वरूपत्वेन तदभावो ब्रह्मण्यस्त्येवेति वाच्यम् । उक्ताभावत्वविशिष्टरूपेण व्रझणि तादात्म्यस्येव भेदस्यापि सत्त्वेन तत्रोक्ताभाववैशिष्टयस्यैव सम्भवेन तदभावासम्भवात्। तादात्म्यमेव हि अमावस्याधिकरणवौशष्ट्यं भट्टादिमते स्वीक्रियते।
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
उक्तं हि न्यायकुसुमाञ्जलौ - 'तादात्म्यमेव परस्य मते अभावाधिकरणयोस्सम्बन्ध' इति । परस्य भट्टस्येति तत्र वर्धमानादिटीका । न चैवमभावाधिकरणयोराधाराधेयभावानुपपत्तिरिति वाच्यम् । संयोगस्येव तादात्म्यस्यापि कस्यचिदाधारतानियामकत्वस्वीकारात् । घटाभावे घटो नास्तीत्यादौ सर्वैरपि तथा वाच्यत्वात् । अत एव घटे रूपमित्यादौ रूपत्वादिरूपेण तादात्म्येनैवाधारला । सम्बन्धान्तरास्वीकारात् । एतदभिप्रायेण द्वितीयमिथ्यात्वप्रस्तावान्ते आचार्येक्ष्यते । ब्रह्मणो भावरूपधर्मानाश्रयत्वेऽप्यभावरूपधर्माश्रयत्वेन सत्यत्वादिधर्मवत्त्वमिति ध्येयम् । न च मिथ्यात्वमेव बाध्यत्वम् । तथा चात्माश्रय इति वाच्यम् । ज्ञाननिवर्त्यत्वरूपबाध्यत्वस्य प्रकृते निविष्टत्वेन सदसद्विलक्षणत्वरूपबाध्यत्वस्याभावानिवेशात् । ननु, ज्ञानानिवर्त्यत्वरूपसत्त्वाभावस्य निवेशे असत्त्वाभाक्य वैयर्थ्यम् । असत्त्वाभावस्यैव विशेष्यतया लक्षणे निवेशेन धमप्रागभाववदवैयर्थेऽपि सत्त्वाभावविशिष्टत्वरूपेणैव लक्षणत्वमुचितम् । न तु सत्वाभावविशिष्टासत्त्वाभावत्वेन, अभावद्वयत्वेन लक्षणत्वपक्षे सत्त्वाभावेतरांशवैय
यमिति चेन्न । ज्ञानानिवर्त्यत्वरूपसत्त्वाभावत्वेन निवेशे हि तदितरांशस्य ज्ञाननिवर्त्यत्वेतरांशस्यैव वा वैयर्थ्यं भवत्येव । परं तु तथा न निवेशः । दूषणान्तरसत्त्वात् । ज्ञानोछेद्यत्वरूपज्ञाननिवयित्वस्य वक्ष्यमाणस्य वादिप्रतिवाद्यादिसम्मतस्यैकस्याभावेन तदभावस्यैकरूपत्वाभावात् । ज्ञानानिवर्त्यरूपसद्भेदस्य निवेशपक्षे अस्मन्मते ब्रह्ममात्रविषयकतत्तद्धीविषयत्वम्वरूपस्यैव लाघवेनोक्तभेदप्रतियोगितावच्छेदकत्वेन ज्ञानानिवर्त्यत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धेः । उक्तधीविषयत्वावच्छिन्नप्रतियोगिताकभेदनिवेशे सिद्धसाधनतापत्तेश्च । किं तु 'सत्यं सर्व वाच्य' मित्याकारकस्य पराभ्युपगतस्य कस्यचित् ज्ञानस्य यद्विषयत्वं तब्यक्त्यवच्छिन्नप्रतियोगिताकभेदत्वेन सद्भेदस्य तव्यक्त्यत्यन्ताभावत्वेन सत्त्वाभावस्य वा निवेशः । तादृशज्ञाने चास्मदभ्युपगतबाध्यत्वविरोध्यलीकव्यावृत्तसत्यत्वप्रकारकत्वं परैः स्वीक्रियते । तदीयमुख्यविशेष्यताव्यक्तेरत्यन्ताभावादिसाधने सिद्धसाधनं तैर्वक्तुमशक्यम् । मुख्यविशेष्यतात्वं च प्रकारतासांसर्गिकविषयतान्यविषयतात्वम् । तच्च विशेष्यताविशेष इव निर्विकल्पकज्ञानीयतुरीयविषयतायामप्यस्तीति परमते आद्यस्य मन्मते द्वितीयस्य नासङ्ग्रहः । मन्मते हि 'सत्यं सर्व वाच्य मिति वाक्ये सत्यादिसमानाधिकरणनामभिस्सत्यत्वाद्युपलक्षितशुद्धब्रह्मणो निर्विकल्पकधीरेव जायते इति तदीयविषयतालाभः । सर्वपदमहिम्ना सत्यत्वव्यापकविषयतालाभः । तेन किंचित् सत्यनिष्ठविषयतायाः कुत्र चित्सत्ये अ
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे द्वितीयमिथ्यात्वम् ] लघुचन्द्रिका ।
भावमादाय परेषां न सिद्धसाधनम् । वाच्यत्वेनोपलक्षितं शुद्धं ब्रह्मापि भवति विशिष्टब्रह्मनिष्ठस्य तस्य विशेष्यीभूतशुद्धेऽपि सत्त्वात् । वाच्यत्वस्थले ज्ञेयत्वं वा निवेश्यम् । तद्ज्ञानीयमुख्यविशेष्यतानिष्ठानवच्छिन्नावच्छेदकताकप्रतियोगितानिरूपकभेदत्वेन मुख्यविशेष्यतासम्बन्धावच्छिन्नतद्ज्ञानव्यक्तित्वावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वेन वा निवेशान्न व्यापकत्वादिनिवेशकतगौरवादिकम् । तेन 'घटादिकं ब्रह्मवृत्तित्वविशिष्टतादृशविशेष्यताकन्ने' ति प्रतीतेः घटादौ तादृशविशेप्यतावनेदसत्त्वात् सिद्धसाधनमिति परास्तम् । तादृशप्रतीतिविषयीभूतायाः भेदप्रतियोगितावच्छेदकतायाः ब्रह्मवृत्तित्वावच्छिन्नत्वेनानवच्छिन्नत्वविशेषणेन तस्याः वारणात् । ननु, बाध्यत्वाभावरूपो धर्मोऽपि न शुद्धे ब्रह्माणि । किं तु खोपहिते। भाववदभावेऽपि युक्तेस्तुल्यत्वात् तत्राह-निर्धमकत्वेनैवेति । अभावरूपधर्मानधिकरणत्वात् । सत्त्वाभावरूपधर्माधिकरणत्वस्याप्यसम्भवात् । तथा च सत्त्वाभावं ब्रह्मणि स्वीकृत्यातिव्याप्तिदानं तवासङ्गतम् । तस्मादभावरूपधर्मस्य न भावरूपधर्मतुल्ययुक्तिकत्वम् । प्रपञ्चे कल्पितस्य व्यावहारिकबाध्यत्वादेरमावस्याधिष्ठानब्रह्मस्वरूपत्वात् । अन्यथा तस्याऽपि व्यावहारिकत्वे उक्तबाध्यत्वप्रतिक्षेपकत्वासम्भवात् । तत्सम्भवस्वीकारपक्षेऽपि सत्यब्रह्मस्वरूपादतिरिक्तस्य तादशाभावस्वरूपस्य कल्पने गौरवात् अतिरिक्ततादृशस्वरूपस्वीकारपक्षेऽपि तस्य ब्रह्माणि त्वया सम्बन्धास्वीकारे सत्त्वाभावस्याप्यतिरिक्तस्य शुद्धब्रह्मसम्बन्धासम्भवात् न कोड पि दोष इति भावः । यत्तु, 'सत्त्वेन प्रतीयमानत्वरूपोऽसत्त्वाभावोऽलीकेऽप्यस्तीति तद्धटितं लक्षणमयुक्त मिति तन्न । सत्त्वेन प्रतीयमानत्वस्य सत्तादात्म्यतद्वदन्यतरत्वपर्यवसितस्य निवेशसम्भवात् । न चैवं सत्प्रतियोगिकत्वविशिष्टतादात्म्यस्य ब्रह्मण्यसम्भवात् ब्रह्मवारणस्य तेनैव सम्भवेन सत्त्वाभावोपादानं व्यर्थमिति वाच्यम् । परमते घटाद्यात्मकसत्प्रतियोगिकत्वविशिष्टतादात्म्यस्य सदूपघटत्वादौ सम्भवेन प्रपञ्चस्य सदूपायावृत्त्यसम्भवेन अनुमाने सिद्धसाधनात् । विजातीयव्यावृत्यसम्भवेन लक्षणालाभाच्च।
॥ इति सदसद्विलक्षणत्वरूपमिथ्यात्वविचारः ॥ 'नेहनानास्ती'त्यादिश्रुत्यत्थें विवदमानं प्रति साध्यान्तरमाह-प्रतिपन्नेत्यादि । प्रतिपन्नः स्वप्रकारकधीविशेष्यः य उपाधिरधिकरणं तन्निष्टो यस्त्रैकालिकनिषेघोऽत्यन्ताभावस्तत्प्रतियोगित्वमित्यर्थः । कपालादिनिष्ठभेदध्वंसादिप्रतियोगित्वमादाय सिद्धसाधनं स्यादतस्त्रैकालिकेति । अद्वैतहानिः ‘नेह
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
नाने'त्यादिश्रुतिबोधितस्य ब्रह्मणि दृश्यसामान्याभावस्य विरोधः । सिद्धसा. धनमिति । कपाले घटो नास्तीत्यादिभ्रमे प्रातीतिकस्यात्यन्ताभावस्य विषयत्वेन सिद्धसाधनमित्यर्थः । व्यावहारिकत्वे ब्रह्मज्ञानवाध्यत्वे । तात्विकसत्याविरोधितया प्रतियोगिनः प्रपञ्चस्याबाध्यत्वेऽपि तदधिकरणे सम्भाविततया । अर्थान्तरं प्रपञ्चे सत्यत्वविरोधिमिथ्यात्वसिद्धिरूपात् प्रकृतानुमानप्रयोजनादन्यस्य साध्यसिद्धिमात्ररूपप्रयोजनस्य सिद्धिः । अद्वतश्रुतेः 'नेह नानेत्यादि' श्रुतेः । अतत्वावेदकत्वं बाध्यविषयकत्वरूपम् । तत्प्रतियोगिनो व्यावहारिकात्यन्ताभावप्रतियोगिनः । पारमार्थिकत्वमिति । समानसत्ताकयोर्भावाभावयोर्विरोधादभावस्य व्यावहारिकत्वे प्रतियोगिनः प्रातिभासिकत्वासम्भवेन पारमार्थिकत्वमेव वलात्स्यादिति भावः । ब्रह्माभिन्नत्वात् ब्रह्मस्वरूपात्यन्ताभिन्नत्वात् । निषेधस्य प्रपञ्चात्यन्ताभावत्वविविशिष्टतादात्म्यापन्नस्वरूपस्य । तथाचोक्तविशिष्टरूपेण निषेधस्य बाध्यत्वात् केवलरूपेण ब्रह्मात्यन्ताभेदान्नाद्वैतहानिरिति भावः । तात्विकत्वापत्तिरिति । अन्यथा मिथ्याप्रतियोगिकत्वेनाभावस्यापि मिथ्यात्वापत्तिः।निरूपकस्य मिथ्यात्वे निरूप्यस्य सत्यत्वासम्भवात् । न हि शुक्तिरूप्यादेस्सादृश्यादिकमप्रातिमासिकम् । किं तु प्रातीतिकेन शुक्तिरूप्यादिना निरूप्यत्वात् प्रातीतिकमेवेति भावः । उक्तविशिष्टरूपस्यैव मिथ्याप्रतियोगिनिरूपितत्वान्मिथ्यात्वम् । केवलरूपस्य तु ब्रह्मण उक्तनिरूपितत्वाभावान्न मिथ्यात्वम् । अत एव शुक्तिरूप्याद्यभावोऽप्यधिष्ठानचिटूपः प्रातीतिकप्रतियोगिनिरूपितत्वविशिष्टरूपेणैव प्रातीतिकः । अधिष्ठानतावच्छेदकशुक्त्यवच्छिन्नरूपेण प्रातीतिकप्रतियोग्युपलक्षिताभावत्वविशिष्टेन व्यावहारि कः।तात्विकस्तु केवलचिद्रूपेणेत्याशयेन समाधत्ते-तात्विकेत्यादि । व्यभिचारात्। यो यस्तात्विकस्वरूपाभावप्रतियोगी स तात्विक इति व्याप्तौ व्यभिचारात् । तथा च 'निरूपकं निरूप्यतावछेदकविशिष्टसमसत्ताकमेवेति व्याप्ति स्माकं सतिकरीति भावः । ननु, तकाधिकरणे भावाभावयोरसमसत्ताकत्त्वाव्यावहारिकस्य घटादेः प्रकृतानुमानात् प्रातीतिकाभावो वाच्यः । तथा च सिद्धसाधनं तदवस्थम् । तस्मातात्विक एवाभावो वाच्यस्तताह-अतात्विकत्वेऽपीति । अत्यन्ताभावत्वरूपेणाभावस्य प्रतियोगिनिरूप्यत्वात्तेनैव रूपेण प्रतियोगिविरोधित्वेन विरोधभङ्गार्थं प्रतियोगिभिन्नसत्ताकत्वमभावस्याकांक्षितम् । तदस्वीकृत्य केवलब्रह्मरूपेण भिन्नसत्तास्वीकारस्य व्यर्थत्वेनाभावस्य ब्रह्मस्वरूपत्वस्वीकारो व्यर्थः । भावाभावयोरेकाधिकरणे समसत्ताकत्वे तु न दोष इति स्वप्नगततदभावदृष्टान्तेन वक्ष्यत इति भावः। तात्विकसत्त्वा
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे द्वितीयमिथ्यात्वम् ] लघुचन्द्रिका । विरोधित्वात् । निषेधसत्तापेक्षया प्रतियोगिनोऽधिकसत्तायामविघातकत्वात्। निषेधस्य पारमार्थिकत्त्वे सत्येव प्रतियोगिनोऽपारमार्थिकत्वमायाति । भावाभावयोरेकाधिकरणे पारमार्थिकत्वासम्भवात्। अत एव स्वसमानाधिकरणस्वाधिकसत्ताकात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वम् । न तु स्वाधिकसत्ताद्यघटितमेव । प्रातीतिकतादृशात्यन्ताभावप्रतियोगित्वेन ज्ञातेऽपि शुक्तित्वादौ मिथ्यात्वाव्यवहारादिति भावः । स्वाप्नार्थस्यस्वप्ने आरोपितस्य गजादेः । स्वाप्ननिषेधेन स्वप्ने आरोपितमभावमादाय । बाधदर्शनात् मिथ्यात्वव्यवहारदर्शनात् । न तन्त्रं न व्याप्यम् । न्यूनेति । निषेधस्येत्यनुषज्यते। प्रकृते प्रपञ्चतत्सामानाधिकरणनिषेधयोः। तुल्यसत्ताकत्वात् व्यावहारिकत्वात्। विरोधित्वं प्रपञ्चनिषेधस्य प्रपञ्चपारमार्थिकत्वव्याघातकत्वम् । तथा च स्वान्यूनसत्ताकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वं वाच्यम् । न तु स्वाधिकसत्ताघटितम् । स्वानार्थस्य स्वाप्नतदभावघटितमिथ्यात्वव्यवहारानुपपत्तेः । न च स्त्रप्ने प्रतीयमानेन व्यावहारिकात्यन्ताभावेनैव घटितं स्वानार्थस्य मिथ्यात्वं प्रतीयते ।. तथा . चाधिकसत्ताकात्यन्ताभावघटितमेव मिथ्यात्वं वाच्यमिति वाच्यम् । स्वप्ने व्यावहारिकस्य प्रत्यक्षज्ञानासम्भवादिन्द्रियाणामुपरतत्वादभावस्यानुभूयमानप्रत्यक्षत्वस्यापलापे स्वाप्नमात्रेऽपि स्मरणादेः वक्तुं शक्यत्वात् । तस्मात्तादशाभावे प्रातीतिकत्वस्यावश्यं वाच्यत्वात्स्वान्यनसत्ताकात्यन्ताभावघटितमेव मिथ्यात्वम् । ननु, किमिदमभावस्य स्वप्रतियोगिन्यूनसत्ताकत्वम् । उच्यते । प्रातिभासिकनिष्ठं व्यावहारिकपारमार्थिकान्यतरप्रतियोगिकत्वं व्यावहारिकनिष्ठं पारमार्थिकप्रतियोगिकत्वं चेत्यन्यतरवत्त्वम् । तथा च व्यावहारिकपारमार्थिकान्यतरनिष्ठं यत् प्रातिमासिकाभावप्रतियोगित्वं यच्च पारमार्थिकनिष्ठं व्यावहारिकाभावप्रतियोगित्वं तदन्यत् यत् स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् । तदेव मिथ्यात्वम् । 'व्यावहारिकः पारमार्थिको वा अयं घटः स्वसमानाधिकरणप्रातिभासिकात्यन्ताभावप्रतियोगीति ज्ञानकाले एतद्धटे मिथ्यात्वव्यवहाराभावात् 'पारमार्थिकमिदं पारमार्थिकान्यस्य स्वसमानाधिकरणात्यन्ताभावस्य प्रतियोगीति ज्ञानकाले इदं मिथ्येति व्यवहाराभावाच्च तदन्यदित्यन्तं प्रतियोगित्वविशेषणम् । ननु, पारमार्थिकत्वममिथ्यात्वम् । तथा च मिथ्यात्वघटितं मिथ्यात्वमित्यात्माश्रयः । ज्ञाननिवर्त्यत्वाभावरूपं पारमार्थिकत्वमेव घटकमित्युक्तावपि तद्धटितस्य प्रकृतमिथ्यात्वस्य मिथ्यालक्षणत्वानुपपत्तिः । ज्ञाननिवय॑त्वान्यवैयर्थ्यादिति चेन्न । धूमप्रागभावादौ धूमादेरिव ज्ञाननिवर्त्यत्वस्योक्तप्रतियोगित्वे विशेष
१. 'स्वानभावांशेऽपीति पाठान्तरम् ।
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
Page #51
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र ० दे द्वितीयमिध्यात्वम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
३९
1
1
षेधे प्रतियोग्यसत्त्वदृष्टान्तेन तस्याः खण्डनस्यासङ्गतेरिति ध्येयम् । प्रकृते प्रतिपनेत्याद्यनुमाने । बाधकेन मिथ्यात्वानुमापकदृश्यत्वादिहेतुना । बाधनात् मिथ्यात्वनिश्वयात् । बाज्यत्वे निषेधे । बाध्यतावच्छेदकस्य उक्तमिथ्यात्वानुमानपक्षतावच्छेदकस्य । दृश्यत्वादेः चिन्नित्वे सति सत्त्वेन प्रतीत्यर्हत्वरूपं यद्दृश्यत्वं तदादेः । आदिपदेन विशेषानुमानीयपक्षतावच्छेदकस्याकाशत्वाकाशा भावत्वादेः सङ्ग्रहः । उभयोस्तुल्यत्वात् मिथ्यात्वानुमितिविशेष्यतावच्छेदकत्वेनोभयत्र प्रतीयमानत्वात् । तथा च निषेधस्य निषेधमात्रं न प्रतियोगिनोऽधिकसत्तासाधकम् । किं तु निषेधस्य न्यूनसत्ताग्राहकं प्रमाणम् । प्रकृते च तदभावान्न तत्सिद्धिरिति भावः । श्रुतेः 'नेहनाने 'त्यादि श्रुतेः । अतात्विकं मिथ्या । अतात्विकत्वेन मिध्यात्वेन । असम्भवादिति । तथा च 'यजेते' त्यादिश्रुतेरिव व्यावहारिकप्रामाण्यमुक्त श्रुतेरक्षतम् । तात्विकप्रामाण्यं तु 'तत्वमसी' त्यादिश्रुतेरेवेति भावः । ननु कथमुक्तश्रुत्या मिध्यात्वेन प्रपञ्च तदभावयोवः । ब्रह्मणि प्रपञ्चस्याभावबोधनेऽप्यभावे प्रपञ्चसामानाधिकरण्यस्य प्रपञ्चान्यूनस ताकत्वस्य चाबोधनादिति चेन्न । इहेत्यस्य प्रपञ्चविशिष्टब्रह्मणीत्यर्थकत्वात् किञ्चनेत्यस्य च ' अतोऽन्यदार्त्त ' मित्यादिश्रुत्यादिमानेन विनाशितया प्रमितं दृश्यमात्रमित्यर्थकत्वात् 'विनाशिदृश्यविशिष्टे ब्रह्मणि विनाशिदृश्यं नास्ती'ति बोधस्य उक्तश्रुत्या संभवात् । विनाशिदृश्यवति विनाशिदृश्याभावस्य चोक्त शूतिप्रमितत्वेनैवाप्रातिभासिकत्वानुमितिसम्भवाद्विनाशिदृश्यत्वावच्छेदेनाप्रातिभासिकस्वसमानाधि
For Private and Personal Use Only
**
करणात्यन्ताभावप्रतियोगित्वनिश्चयस्यानुमितिद्वारोक्त श्रुतितात्पर्यविषयत्वसम्भवात् । न च 'विनाशिदृश्य विशिष्टे विनाशिदृश्यं नास्ती 'ति बोधस्य 'घटविशिष्टे घटो नास्ती 'ति बोधस्येवाहार्यत्वान्न शाब्दत्वम् । प्रत्यक्षस्यैवाहार्यत्वादिति वाच्यम् । नानेति पदस्य नाञ्प्रत्ययान्तनञ्पद सिद्धस्य भेदार्थकत्वात् ब्रह्मार्थकेहपदयोगेन ब्रह्मभेदबोधकत्वादुक्तानुपपत्तेर्विनाशिदृश्यत्वस्य तादृशबोधे अभाव - प्रतियोगितावच्छेदकतया भानासम्भवेऽपि प्रतियोग्यंशे विशेषणमात्रतास्वीकारेण वि - नाशिदृश्यानामात्मभिन्नत्वमात्र रूपेणाभाववोधस्याहार्यत्वासम्भवात् । तादृशबोधे हि विनाशिदृश्यत्वेनाभावो न विषयः । किं त्वात्मभिन्नत्वेनैव । किञ्च 'अत्यन्तवाधितेऽ प्यर्थे ज्ञानं शब्दः करोति ही 'ति खण्डनकारोक्तेः शाब्दबोधस्याहार्यत्वं स्वीक्रियते । न च तथाप्युक्ताभावे प्रतियोग्यवच्छेदकदेशकालावच्छिन्नत्वस्यावच्छिन्नवृत्तिकान्यत्वस्य वा असिद्ध्या मिथ्यात्वबोधनमसिद्धमिति वाच्यम् । निषेधस्य प्रसक्तिपूर्वकत्वेन निषेधवाक्यस्वाभाव्येन प्रतियोगिप्रसक्त्यवच्छेद कदेशाद्यवच्छेदेनैवोक्तवाक्येनोक्ताभावस्य बोधनीयत्वात्तत्तदवच्छेदकविशिष्टस्य दृश्यवत् ब्रह्मण एवाधिकरण
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
त्वेन इहेतिसर्वनामपदेनोक्तिसम्भवेन तात्पर्यवशात्तत्तदभावानां स्वस्वप्रतियोग्यवच्छेदकावच्छिन्नतया इहेति सप्तम्या अनवच्छिन्नविशेषणतासम्बन्धावच्छिन्नाधेयतया वोक्तशूत्या बोधनसम्भवात् । एतनिषेधेत्यादि । उक्तानुमाने उक्तशतौ च बुध्यमानं निषेधप्रतियोगित्वमित्यर्थः । स्वरूपेणेति । स्वं निषेधप्रतियोगि । तस्य यद्रूपमसाधारणम्सामान्यधर्मां दृश्यत्वादिः विशेषधर्मो वाकाशत्वादिस्तेनेत्यर्थः । पारमार्थिकत्वाकारेण पारमार्थिकत्वरूपेण । ननु, दृश्यत्वादिरूपेणैव प्रतियोगित्वस्य सर्वदृश्येषु सम्भवे दृश्यावृत्तिना पारमार्थिकत्वरूपेण प्रतियोगित्वं कुतो वाच्यं तत्राह-असद्विलक्षणस्वरूपानुपमर्दैनेति । ननु, दृश्यत्वादिविशिष्टस्य अधिकरणे दृश्यत्वादिरूपेणाभावो न सम्भवति । तद्रूपावच्छिन्नप्रतियोगिताकाभावस्य तद्रूपविशिष्टनिरूपिताधिकरणत्वेन सह विरोधात् । अत उक्ताधिकरणत्वं कुत्रापि न स्वीक्रियते। किं तु शशविषाणादेरिव दृश्यमात्रस्य देशकालासम्बन्धित्वमेवोच्यते । अत एव दृश्यसम्बन्धित्वस्य दृश्याभावविरोधित्वेऽपि न क्षतिरिति चेन्न । सर्वदेशकालसम्बन्धितया प्रतीयमानस्य दृश्यस्योक्तसम्बन्धित्वाभावासम्भवात् । अन्यथा दृश्यस्यालीकत्वापत्तेः । तस्मादसद्विलक्षणदृश्यस्य दृश्यत्वादिरूपावच्छिन्नाभावविरोधरूपोपमर्दपरिहारेण पारमार्थीकत्वेन ब्रह्ममात्रनिष्ठेन रूपेणाभावस्य निवेश इति भावः । असद्विलक्षणस्वरूपेणेति । असद्विलक्षणस्य दृश्यस्य यत् स्वरूपं धर्मस्तेनेत्यर्थः । त्रैकालिकेति । वक्ष्यमाणरीत्या प्रतियोगिप्रसक्त्यवच्छेदकावच्छिन्नस्यावच्छिन्नवृत्तिकान्यस्य वात्यन्ताभावस्योक्तानुमानश्रुतिबोध्यतायां वाच्यायां प्रतियोगिमति कालत्रयसम्बन्ध्यभाव इति पाठान्तरम् । तादृश एव प्रतियोग्यधिकरणे वाच्यः । स च न सम्भवति । उक्तविरोधादिति भावः । ननु, दृश्यस्य देशकालासम्बन्धित्वमेवास्तु । तथा च नासद्वैलक्षण्यम् । तथापि स्वसमानाधिकरणात्यन्ताभावघटितं मिथ्यात्वस्य लक्षणं मास्तु । वक्ष्यमाणसन्मात्रवृत्त्यत्यन्ताभावप्रतियोगित्वं तु स्यात्तत्राह-धीकाले विद्यमानेनेति । दृश्यधीकालसम्बन्धिनेत्यर्थः । कालसंसृष्टतया प्रतीय• मानदृश्ये विशेषणतया प्रतीयमानेनेति यावत् । तथा चोक्तासंबन्धित्वस्वीकारे प्रतीतिविरोध इति भावः । उत्पत्तिविनाशवत्त्वादर्थक्रियासामर्थ्यात् परिणामत्वाच न दृश्यमसदित्याशयेनाह-श्रुत्यादीत्यादि । 'इदं सर्वमसृजत सत्यञ्चानृतश्च सत्यमभव'दित्यादिश्रुत्या । सावयवत्वादिलिंगकानुमानादिना च ब्रह्माधीनोत्पत्तिकत्वेन रूपेण वियदादेश्शुक्तिरूप्यादेश्च बोधनान्नालीकतेति भावः । षप्ठ्यन्तचतुष्ठयं वियदादेः शुक्तिरूप्यादेश्च विशेषणम् । अर्थक्रिया कार्यम् । तत्र समर्थस्य प्र
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे द्वितीयमिथ्यात्वम् ] लघुचन्द्रिका ।
योजकस्य शुक्तिरूप्यादेरपि प्रवृत्त्यादिजनकधीविषयत्वात् तादृशजनकतावच्छेदकत्वेनोक्तप्रयोजकता । अविद्योपादानकस्य अविद्यापरिणामत्वेन 'अजामेकामित्यादि' श्रुत्या बोधितस्य । तत्वं अधिष्ठानम् । निरूप्यत्वेन घटितत्वेन । अन्योन्याश्रयादिति । 'मिथ्यात्वज्ञानं विना न मिथ्यात्वघटितस्य पारमार्थिकत्वस्य ज्ञानं पारमार्थिकलज्ञानं विना पारमार्थिकत्ववटितमिथ्यात्वस्य न ज्ञान मित्यन्योन्याश्रयादित्यर्थः । ननु, पारमार्थिकत्वं प्रकृते न बाध्यत्वाभावः । किंतु ज्ञानानिवर्त्यमात्रविशेष्यकधीः । तथा च विशेष्यतासम्बन्धेन तदवच्छिन्नस्य प्रतियोगित्वस्य निवेशे अन्योन्याश्रयानवकाशः । पारमार्थिकत्वस्य तद्धटितमिथ्यात्वाघटितत्वात् । न चोक्तधियस्तव्यक्तित्वेन निवेशासम्भवः । परार्थानुमाने तदादिसवनामशब्देन साध्यनिर्देशस्यासांप्रदायिकत्वात् । तद्व्यक्तित्वविशिष्टज्ञानापेक्षया लबोर्घटत्वादेरेव विशेष्यतासम्बन्धेन प्रपञ्चनिष्ठप्रतियोगितायामवच्छेदकत्वात् । नापितादृशधीत्वेन । तस्य तद्व्यक्तित्वाद्यपेक्षया गुरुशरीरत्वेन तेन रूपेण धियः प्रतियोगितावच्छेदकत्वस्य निवेशयितुमशक्यत्वादिति वाच्यम् । तादृशधीत्वोपलक्षितज्ञाननिष्ठावच्छेदकताया एव निवेशेन तादृशधीत्वस्य गुरुत्वेऽपि क्षतिविरहात् । न चैवं प्रपञ्चस्य तादृशपारमार्थिकत्ववत्त्वेऽपि पूर्वक्षणवृत्तित्वविशिष्टतादृशपारमार्थिकत्वरूपतत्तद्धीव्यक्तिरूपेण तत्तद्धटादेस्तदधिकरणे अभावसत्त्वेन सिद्धसाधनम् । 'एतक्षणे पूर्वक्षणवृत्तित्वविशिष्टतद्ज्ञानवन्नास्ती' ति प्रत्ययादिति वाच्यम् । अनवच्छिन्नोक्तावच्छेदकतायाः निवेशात् । स्वरूपतस्तत्तद्वीव्यक्तेरवच्छेदकत्वसम्भवात् । न च प्रपञ्चस्य मिथ्यात्वसंशयकाले प्रलतानुमानस्यावतारः । तथा च तत्काले तादृशधियः प्रपञ्चविशेष्यकत्वस्य सन्दिग्धतया प्रपञ्चवति तादृशधीरूपेण प्रपञ्चस्य अभावो ज्ञातुमशक्य इति वाच्यम् । उक्तधीरूपेण प्रपञ्चवत्त्वं यत्र निर्णीतं तत्रैव तद्रूपेण प्रपञ्चाभावस्य ज्ञातुमशक्यत्वेन प्रपञ्चे तादृशधीसंशयप्रयुक्ते तादृशधीरूपेण प्रपश्वस्य प्रमाणि संशये सत्यपि तद्रूपेण तस्य तत्राभावज्ञाने बाधकाभावात् । ग्राह्यसंशयस्य प्रतिबन्धकत्वपक्षेऽपि प्रत्यक्षं प्रत्येव तत्स्वीकारादनुमित्यात्मकोक्ताभावज्ञाने तदस्वीकारादत आह-पारमार्थिकत्वस्यापीत्यादि । स्वरूपेण स्वनिष्ठधर्मेण । अनवस्थेति । 'ज्ञानं सर्वं स्वविषयकमिति वादिनो मते ज्ञानानिवर्त्यमात्रविशेष्यकधीरप्रसिद्धा । ज्ञानत्वविशिष्टतया स्वग्राहकत्वेन ज्ञानमात्रस्य स्वविशेष्यकत्वात् । तथा च तादृशवादिनं प्रति स्वभिन्नं यत् ज्ञाननिवर्त्य तदविशेष्यकधीरूपपारमार्थिकत्वं निवेश्यम् । तस्य च विशेष्यतासम्बन्धेन स्वनिष्ठत्वात् तादृशधीरूपेण स्वस्वेतरसकल दृश्यनिषेधासम्भवात् तादृशधीतरसकलदृश्यानामेव तादृशधीरूपेण निषेधप्रा.
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
तियोगित्वम् । ताटशधियां तु 'एकस्या अन्यया तस्या अप्यन्यया तस्या अप्यन्ययेत्येवरीत्या निषेधप्रतियोगित्व'मित्यनवस्था । न च तादृशधीरूपावच्छिन्नं यत् तादृशधीभिन्ननिष्ठप्रतियोगित्वं यच्च तादृशधियां स्वेतरतादृशधीरूपावच्छिन्नं प्रतियोगित्वं तदुभयस्य प्रत्येकरूपेण साध्यत्वे दृश्यत्वादिहेतोयभिचारित्वमप्यस्तीति तदनुक्त्या न्यूनतेति वाच्यम् । उक्तप्रतियोगित्वयोरन्यतरवत्त्वे साध्ये व्यभिचाराभावात् । वस्तुतस्तु, ताढशधियां स्वेतरतादृशधीरूपावच्छिन्नप्रतियोगित्वमादाय साध्यवत्त्वपर्यवसानसम्भवेन तादृशधीत्वोपलक्षितावच्छिन्नप्रतियोगित्वरूपैकसाध्यस्यैव दृश्यमात्रेऽनुमानसम्भवान्न व्यभिचारप्रसक्किरिति भावः । लौकिकपरमार्थेति । परमार्थतया लोकसिद्धेत्यर्थः। व्यावहारिकेति यावत् । वैयधिकरण्यं भिन्नविषयकत्वम् । अप्रसक्तति। शुक्तौ व्यावहारिकरूप्यस्य तादात्म्येन ज्ञातत्वरूपप्रसक्तेरभावेन तत्र तन्निषेधे अप्रसक्तनिषेधः । तथा चानुभवविरोधः । भ्रमानन्तरमित्यादिनोक्तनिषेधस्य प्रसक्तनिषेधत्वानुभवस्योक्तत्वात् । तर्हि प्रपञ्चे शुक्तिरूप्यादौ च स्वरूपेण निषेधप्रतियोगित्वे उक्तप्रमाणसिद्धे । तन्त्रं समव्यापकम्। उत्पत्याद्यसम्भव इत्यत्रानिषिद्धस्वरूपत्वे उत्पत्त्यादिव्यापकत्वलाभात् । व्यापकाभावेन व्याप्याभावस्य तत्रापादितत्वात् । अग्रे व्यभिचारोक्त्या उत्पत्त्यादौ व्यापकत्वलाभात् । अनङ्गीकारादिति । न चोत्पत्त्यादौ व्याप्यताया अदूषणे न्यूनतेति वाच्यम् । किं तु वस्तुस्वभावादिकमित्यादिग्रन्थेन तस्याः दूषितत्वेन व्यापकतामात्रस्यात्र दूषणात् । वस्तुस्वभावो ‘जीव ईशो विशुद्धाचिद्विभागश्च तयोर्द्वयोः । अविद्यातच्चितोर्योगष्षडस्माकमनादय' इति रीत्या अविद्याद्यनादिषटभिन्नदृश्यत्वम्। आदिपदात् 'यतोवे' त्यादिश्रुत्यादिरूपस्य उत्पत्त्यादिग्राहकप्रमाणस्य लाभः । प्रयोजकं समनियतम् । अन्यदेवेत्येवकारेण उत्पत्त्यादिव्यापकत्वमपि अनिषिद्धस्वरूपत्वे नास्तीति ज्ञापितम्। उत्पत्त्यादिमतोप्यनुभवश्रुत्योनिषेधविषयकत्वस्योक्तत्वात् तत्र तव्यापकत्वमपि नेतिभावः।मतहानिः पूर्वाचार्योक्तिविरोधः।'प्रतिपन्नोपाधावभावप्रतियोगित्वमेव मिथ्यात्वं तच्च बाधकज्ञाने रजतं प्रतिपन्नोपाधावभावप्रतियोगतयाऽवभासत' इति प्रत्यक्षमिति विवरणकारोक्तेः प्रातीतिकमेव रजतं पुरोवर्तिनिष्ठात्यन्ताभावप्रतियोगित्वेन प्रतीयते।प्रतिपन्नपदेन स्वप्रकारकधीविशेष्यलामात् । तदनुसारेणोक्तपूर्वाचार्योक्तिर्व्याख्ययेत्याशयेनाह-अस्याचार्येत्यादि । तच्च प्रतियोगित्वं च । स्वरूपेणेत्यादि । तृतीयार्थस्यावच्छिन्नत्वस्य प्रतियोगित्वे ऽन्वयः। अनास्थायामिति । एकयैव पारमार्थिकत्वरूपोक्तधिया स्वेतरसर्वदृश्यानां तस्याश्चान्यया तादृशधिया निषेधप्रतियोगित्वसम्भवान्नोक्तानवस्था।वस्तुतस्तु,ज्ञानानिवर्त्यत्वरूपेण स्वस्वेतरसर्वदृश्यानां निषेधप्रतियोगित्वं सम्भवति। तस्याभावीयविशेषणतासम्ब
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे द्वितीयमिथ्यात्वम् । ] लघुचन्द्रिका ।
न्धेन स्वस्मिन्नसत्वात् स्वस्यापि ज्ञाननिवर्त्यत्वादिति स्वरूपतस्तस्यावच्छेदकत्वसम्भवेन लाघवात्तदेव निवेश्यत इति भावः । ननु, आपणस्थरूप्यशब्दस्य प्रातीतिकरजते व्यावहारिकरजततादात्म्येन प्रतीतत्वबोधकस्याचार्यवचसि किमर्थमुक्तिस्तत्राहएतावदुक्तिरित्यादि । तस्मात् बाधस्य भ्रमवैयधिकरण्यापत्त्यादिना प्रातीतिकस्यैव रजतस्य पुरोवर्तिनिष्ठात्यन्ताभावप्रतियोगितया बाधकधीविषयत्वात् । लौकिकेत्यादि। पूर्वाचार्याणां लौकिकेत्यादिवाचोयुक्तिः 'इदं प्रातीतिकरजतं परमार्थरजतं न भवतीति भेदात्मकनिषेधप्रतियोगित्वमङ्गीकृत्य नेयेत्यर्थः । ननु,प्रातीतिकरूप्ये व्यावहारिकरूप्यस्य तादात्म्येन प्रसक्त्यभावात् भ्रमवैयधिकरण्यापत्त्यादिना निषेधो न युक्तस्तत्राह-पुरइत्यादि ।रजतार्थिनः 'सद्रनतप्राप्तिर्मम भवत्वि'तीच्छावतः । लौ. किकपरमार्थरजतत्वेन सदनतमिदमित्येवरूपेण । तथा च प्रातीतिकरूप्ये व्यावहारिकरूप्यस्य सद्रजतत्वस्वरूपेण तादात्म्यं प्रसक्तमेव । अन्यथा प्रातीतिकरूप्ये व्यावहारिकरूप्यलिप्सोः प्रवृत्त्यनुपपत्तेः । न च व्यावहारिकरूप्यनिष्ठत्वोपलक्षितस्य रजतत्वस्य प्रातीतिकरूप्येऽपि स्वीकारात् शुक्तिगतस्येदत्वादेरिव सत्त्वस्यापि तत्र प्रत्ययाच 'सद्जतमिद'मिति प्रत्ययोपपत्तेर्व्यावहारिकरूप्यस्य प्रातीतिके तादात्म्यारोपस्वीकारो व्यर्थः । तं विनाप्युक्तप्रवृत्त्युपपत्तेरिति वाच्यम् । व्यावहारिकनिष्ठरजतत्वादिकं प्रातीतिके रजतादौ न स्वीक्रियते । प्राततिकादपि व्यावहारिकरजतादिकार्यापत्तेः । प्रथमपरिच्छेदान्ते मूले 'प्रातीतिकव्यावहारिकसाधारणमेकं रजतत्वादिकं व्यावहारिकमात्रेऽन्यत् प्रातीतिकमात्रेऽन्य ' दित्युक्तिस्तु, व्यावहारिकरजततादात्म्यस्य प्रातीतिकस्य प्रातीतिके अनङ्गीकारपक्षे प्रौढिवादमात्रे. ण। एकस्यैव रजतत्वस्य व्यावहारिकस्य व्यावहारिकमात्रनिष्ठस्य स्वीकारेऽपि तदाश्रयतादात्म्यविशिष्टस्य उत्पत्तौ तादृशतादात्म्यस्याप्युत्पत्त्या 'इदं स्जत' मित्यादिव्यवहारोपपत्तेः । तथा च व्यावहारिकेऽनुभूतं यद्रजतत्वादि तद्विशिष्टविषयकेच्छावतां प्रातीतिके प्रवृत्तेरुक्तविशिष्टस्य प्रातीतिके तादात्म्यारोपं विनाऽनुपपत्तेस्तादृशारोपावश्यकत्वम् । यदि तु “व्यावहारिकनिष्ठरजतत्वादेः प्रातीतिके स्वीकारेऽपि ततो व्यावहारिकरजतादिकार्यस्य नापत्तिः । व्यावहारिकत्वविशिष्टस्यैव कारणस्य कार्यप्रयोजकत्वदर्शनेन तदन्तर्भावेनैव कारणकूटस्य फलोत्पत्तिव्याप्यताखीकारात् । अत एव प्रातीतिकं न कुत्राऽपि का. रणं किं तु तस्य ज्ञानं चिद्रूपम् । अत एव यत्र व्यावहारिकविषयकात् प्रातीतिकविषयकाच्च ज्ञानादेकनातीय कार्य तत्रैकेनैव रूपेण तयोर्हेतुत्वम् । न चैवं व्याप्त्यादेर्व्यभिचारिहेत्वादौ सत्त्वापत्तिः । वह्निसमानाधिकरणस्य प्र
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तियोगिव्याधिकरणात्यन्तामावस्याऽप्रतियोगिप्रातीतिकधूमसामानाधिकरण्यस्य वह्नौ सत्त्वादिति वाच्यम् । व्यावहारिकमात्रवृत्तेरपि संयोगत्वादेः स्वीकारेण तदाश्रयस्यैव संयोगादेस्सामानाधिकरण्यघटकाधिकरणादौ साध्यादिसंसर्गतया निवेशेन व्यावहारिकस्य प्रातीतिकसाध्यसंसर्गत्वाभावेन च प्रातीतिकधूममादाय व्याप्तिघटनाया असम्भवात् । एवं च व्यावहारिकप्रातीतिकोभयवृत्तिसंयोगत्वादिकं व्यावहारिकमात्रवृत्ति च तत् स्वीक्रियते । न तु प्रातीतिकमात्रवृत्ति । अत एव बाष्पे धूमत्वभ्रमेण प्रातीतिकधूमत्वाश्रये बाष्पे वहिव्यापकतां गृहीत्वा वह्निव्यापकधूमसामानाधिकरण्यं यत्र गृह्यते वह्नौ, तत्र न धूमव्याप्यतापत्तिः । बाष्पत्वविशिष्टप्रतियोगिकस्य व्यावहारिकमात्रवृत्तिसंयोगत्वाश्रयस्य प्रातीतिकधूमत्वोपलक्षितप्रतियोगिकत्वेऽप्युक्तधूमत्वविशिष्ट प्रतियोगिकत्वाभावात् । किं च विशिष्टसामानाधिकरण्यस्य व्यावहारिकमात्रवृत्तिविशेषणतात्वाश्रयसंबन्धेनाश्रयत्वमेव व्याप्तिरिति स्वीकारात् प्रातीतिकधूमत्वादिघटितस्य न व्याप्तित्वम् । प्रातीतिकघटितधर्मावच्छिन्नस्य प्रातीतिकत्वेन व्यावहारिकस्य तत्प्रतियोगिकत्वाभावादि"ति नव्यमतमालंब्यते, तदा प्रातीतिके नियमतो व्यावहारिकतादात्म्यारोपस्तन्निषेधश्चोपेक्षणीय एव । कादाचित्को तावालब्य प्राचीनोक्तिर्नेया । न हि कदाचिदपि तौ न स्त इति वक्तुं शक्यम् । यत्तु प्रातीतिके तदधिष्ठानस्यैव तादात्म्यारोपाव्यावहारिकरजतादेः प्रातीतिके तादात्म्यारोपोक्तिः न युक्तेति । तन्न । प्रातीतिके तदुत्पत्तिकालोत्तरमुत्पन्नेन दूरत्वादिदोषेण सनिहितस्यानधिष्ठानस्याऽपि व्यावहारिकस्य तादात्म्यारोपदर्शनात् । व्यावहारिकरजतस्येन्द्रियासनिकृष्टत्वेऽपि तदंशे स्मृतिरूपस्य भ्रमस्य सम्भवात् । ननु 'नेदं रजतमिति बाधोऽपि रजतस्य मायामयत्वं सूचयतीति पञ्चपादि" कावाक्ये प्रतिपन्नोपाधावभावप्रतियोगित्वमेव मिथ्यात्वम् । तच बाधकज्ञाने रजतं प्रतिपन्नोपाधावभावप्रतियोगितया अवभासत इति प्रत्यक्षमिति विवरणवाक्यं व्याख्यानम् । तथा च तादृशबाधस्यात्यन्ताभावविषयकत्वेनैव विवरणे व्याख्यानात् कथं प्रातीतिकव्यावहारिकभेदविषयकत्वं भवद्भिरुच्यते । न च समानविभक्तिकनामद्वययुक्तना भेदस्यैव बोधनादुक्तबाधज्ञानस्य भेदविषयकत्वमेव युक्तमिति वाच्यम् । प्रत्यक्षज्ञाने शब्दस्वारस्येनार्थकथनस्यायुक्तत्वात् । अथ विवरणकारैरेव पश्चागुक्तबाधज्ञानस्य भेदविषयकत्वमुक्तम् । तथा हि-प्रतिपन्नोपाधौ स्वरूपेण रजतस्यात्यन्ताभावस्वीकारेऽपि कालभेदेनैव रजततदभावयोर्व्यवस्था स्यात्। अन्यथा 'रजतस्य शून्यतारूपमलीकत्वं स्या' दित्याशक्य लौकिकप
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे द्वितीयमिथ्यात्वम्] लघुचन्द्रिका । रमार्थरजतस्य कालविशेषमनन्तर्भाव्यैव निषेधात्तादृशनिषेधसामर्थ्याच्च 'प्रतिपन्नं प्रातीतिकरजतं मिथ्येति तैरुक्तम् । तथा च बाधकज्ञानस्योक्तभेदविषयकत्वं तेषां सम्मतमित्युच्यते । तथापि 'पूर्वापरविवरणवाक्ययोविरोध' इत्याशङ्कय उक्तविरोधं परिनिहीषुराह--अयमाशय इत्यादि । ( पदति । प्रातिपदिकेत्यर्थः । 'चैत्रो न पचती'त्यादावेकविभक्त्यन्तोपस्थाप्यस्याप्यन्योन्याभावाबोधकत्वात् । ) अ. मिलापति । नञ्युक्तवाक्यरूपाभिलापेत्यर्थः । पर्वतादौ वयादिप्रकारकानुमितेः 'पर्वतो वह्निमा'नित्यनेन तादात्म्येन वह्निमदादिप्रकारकधीजनकवाक्येनाभिलप्यमानत्वात् । 'उक्तवाक्यस्यापि संयोगेन वयादिप्रकारकधीजनकत्व' मिति प्राचीनमते तु यथाश्रुतमेव साधु । आर्थिकमिति । तथा चोक्तपञ्चपादिकावाक्येन तादृशभेदप्रतीतिरूपमेव बाधकप्रत्यक्षमभिलपितम् । तदभिप्रायेणैव पवाद्विवरणेऽपि तथोक्तम् । अत एव पञ्चपाद्यां सूचयतीत्युक्तम् । तेन हि पञ्चपादिकालता 'तस्य निरुपाख्यताबोधनपूर्वकं मिथ्यात्वं ज्ञापयति' 'नेदं रजतं मिथ्यैवाभासिष्टेति च हेतुवाक्यं पश्चादुक्तम् । परमार्थान्यत्वरूपनिरुपाख्यताबोधनद्वाराऽन्मिथ्यात्वं ज्ञापयतीति हेत्वर्थः । अर्थापत्तिप्रकारो नेदमित्यादिनोक्तः । यतो नेदं परमार्थरजतम् । अतो मिथ्यात्वेन प्रतिपन्नोपाधिनिष्ठात्यन्ताभावप्रतियोगित्वरूपेण इदमभासिष्टेति तदर्थः । एवं चार्थिकमुक्तमिथ्यात्वं बाधकोक्तभेदधीलभ्यमित्याशयेन तच्च बाधकज्ञाने रजतं प्रतिपन्नोपाधावभावप्रतियोगितयाऽवभासत इति व्याख्यानरूपं पूर्वविवरणवाक्यमविरुद्धम् । अत एवोक्तनिषेधसामर्थ्यात् 'प्रतिपन्नं रजतं मिथ्येति तत्रोक्तमिति भावः । प्रतीतिः भ्रमबाधकाले सर्वानुभवसिद्धधीः । प्रतीतरजतस्य प्रतीतरजतसाधारणरजतमात्रस्य रजतत्वेन पारमार्थिकत्वेन वेति शेषः । ननु, रजतत्वं प्रातीतिकं निषेध्यतावच्छेदकं व्यावहारिकं वा । आये तादृशबाधोत्तरं व्यावहारिकरजतत्वमादायेह रजतमिति विशिष्टबुद्ध्यापत्तिः । द्वितीये प्रातीतिकं तदादायोक्तापत्तिभ्रमबाधयोर्वैयधिकरण्यापत्तिश्च । न च द्वाभ्यां रजतत्वाभ्यां द्वे बाधबुद्धी जायेते । अनुभवविरोधादिति चेन्न । व्यावहारिकरजतत्वरूपेणैव रजतस्य शुक्तौ भ्रमे भानात् । तेन रूपेण च निषेधे वैयधिकरण्याद्यभावात् । भ्रमे हि व्यावहारिकरजतत्वस्य व्यावहारिकस्संसर्गः प्रातीतिकरजते भासते बाधज्ञाने
१. 'पदेति' एतदारभ्य 'अबोधकत्वा'दित्य-तं अधिकः पाठः क्वचित् कोशेषु न दृश्यते । किश्च एकविभक्त्यन्तत्वं सुबन्ततिङन्तयोरसम्भवि । यद्येतत् प्रामाणिकं तदा विभक्तित्वसमानाधिकरणमेकं यदेकवचनत्वं तदवच्छिन्नेत्यर्थकं व्याख्येयम् ।
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४६
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
व्यावहारिकस्य मिथ्यात्वस्य व्यावहारिकसम्बन्धभानवत् । न च प्रातीतिकं रजतत्वं प्रातीतिक्रमात्रवृत्तितादात्म्यत्वविशिष्टसम्बन्धं चादाय विशिष्टबुद्ध्यापत्तिरुक्तबाधसत्त्वे ऽपीति वाच्यम् । तादृशरजतत्वादौ तादृशतादात्म्यत्वे च मानाभावात् । व्यावहारिकवृत्तेर्व्यावहारिकस्यैव रजतत्वस्य प्रातीतिकरजते मानाव्यावहारिकतादात्म्यसाधारणव्यावहारिकतादात्म्यत्वस्य तत्संसर्गतावच्छेदकतया मानाच्च । अथ भ्रमस्थले दोषजन्यतावच्छेदकतया प्रातीतिकं रजतत्वादिकं प्रातीतिकमात्रवृत्तितादात्म्यत्वञ्च सिद्ध्यति । व्यावहारिकसाधारणं रजतत्वादिकञ्च न दोषजन्यतावच्छेदकम् । दोषं विनापि तदवच्छिन्नस्य व्यावहारिकस्योत्पत्या व्यभिचारादिति चेन्न । व्यावहारिकसाधारणस्य दोषजन्यतावच्छेदकत्त्वेऽपि प्रातीतिकतादात्म्यस्यैव उक्तजन्यतावच्छेदकसम्बन्धत्वेनोक्तव्यभिचारानवकाशात् व्यावहारिकसम्बन्धेनैव व्यावहारिकस्योत्पत्तेः । न चोक्तकार्यतावच्छेदकसम्बन्धे प्रातीतिकत्वं यत् प्रवेशितं तस्य व्यवहारकालवाच्यत्वरूपत्वे गौरवात् प्रातीतिकमात्रवृत्त्यखण्डधर्मरूपत्वं वाच्यमिति वाच्यम् । तथा सति दोषजन्यज्ञानात् व्यावहारिकसाधारणतादात्म्यत्वविशिष्टसम्बन्धविषयकप्रवृत्त्यादिकार्योत्पत्यसम्भवात् । अत एव चोक्तगौरवं प्रामाणिकम् । अत एव च रजतत्वादिकमपि न प्रातीतिकमात्रवृत्ति । प्राचीनोक्तिस्तु, रजतत्वादिकं स्वरूपेण व्यावहारिक प्रातीतिकरजतसाधारणमपि प्रातीतिकरजतादिसंसृष्टरूपेण प्रातीतिकमेव न व्यावहारिकसाधारणमित्यभिप्रायिका । अत एव व्यावहारिकसम्बन्धेन कपालादेर्घटादिहेतुत्वे न प्रातीतिककपालात् घटाद्युत्पत्यापत्तिः । किं च 'कपालादिरूपकारकूटविशिष्टं यत् यत्क्षणे भवति तत् तदुत्तरक्षणावच्छेदेन घटव' दिति व्याप्तिवलादुक्तापत्तिः कार्या । उक्तव्याप्तिरेव न सम्भवति । कपालादिकारणकूटनिष्ठव्यातौ कपालादेर्व्यावहारिकसम्बन्धस्य प्रवेशात् स्वव्यापकघटसमानाधिकरणवृत्तिकपालादिकारणकूटत्ववत्त्वस्य व्यावहारिकसम्बन्धावच्छिन्नस्य व्याप्तिस्वरूपत्वाद्वा । प्रातीतिककपालादिघटितस्य तादृशकूटत्वस्य प्रातीतिकत्वेन व्यावहारिकसम्बन्धेन तद्वत्त्वस्यालीकत्वात् । न च तथापि बाधोत्तरं व्यावहारिकरजतत्वस्य प्रातीतिकसंसर्गमादाय' इह रजत 'मिति विशिष्टबुद्ध्यापत्तिरिति वाच्यम् । रजतत्वीयप्रातीतिकसंसर्गस्यापि व्यावहारिकप्रातीतिकसाधारणेन तादात्म्यत्वरूपेणैव रजत्वोपरि भ्रमे बाधे च भानेन तादृशबाधे सति तादृशतादात्म्यत्वरूपेण प्रातीतिकतादात्म्यावगाहिन्या अप्युक्तविशिष्टबुद्धेरसम्भवात् । व्यावहारिकमिति । तदन्यूनसत्ताकमित्यर्थः । स्वाप्रभ्रमस्य स्वाप्नबाधे प्रातीतिकात्यन्ताभावविषयकत्वस्य पूर्वमुक्तत्वात् । अथव मिथ्यात्वं व्यावहारिकात्यन्ताभावघटितमेव । स्वाप्नबाधस्तु प्रातीतिकमेवा
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे द्वितीयमिथ्यात्वम् ।
लघुचन्द्रिका।
भावं व्यावहारिकत्वेन भासमानमवगाहते । तथा च व्यावहारिकमित्यस्य व्यावहारिकत्वेन भासमानमित्यर्थः । व्यावहारिकत्वं च व्यवहारकालाबाध्यत्वम् । तच्च प्रातीतिकत्वेनोक्तबाध्यत्वरूपेणागृह्यमाणे प्रातीतिकोऽपि बाधकज्ञानेन गृहीतुं शक्यत एवेति भावः । कण्ठोक्तं बाधकधीविषयः । ननु, स्वसमानाधिकरणस्वान्यूनसत्ताकात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वं बाधकज्ञानेन नियमतो गृह्यत इति वक्तुमशक्यम् । स्वाधिकरणत्वस्य भ्रमरूपोपस्थितेः बाधात्पूर्वं सत्त्वेऽप्यन्यूनसत्ताकत्वस्य पूर्वमनुपस्थितत्वात् चक्षुरादिमानायोग्यत्वादनुमानाद्यनवतारेऽपि बाधबुद्धयुदयाचेति चेदत्रोच्यते । न्यूनसत्ताकत्वेन रूपेण व्यवहारकाले यदज्ञातं तादृशामावस्यैव मिथ्यात्वघटकतास्वीकारेण 'अज्ञातत्वेन सर्व साक्षिभास्यमिति विवरणाद्युक्तेः स्वसामानाधिकरण्यादेश्च बाधकवृत्तिज्ञानविषयत्वादुक्तमिथ्यात्वस्य बाधकवृत्तिज्ञानावच्छिनसाक्षिणा नियमेन ग्रहणम् । एवं व्यावहारिकाभावघटितमिथ्यात्वपक्षेऽपि व्यवहारकालीनज्ञाननिवर्त्यत्वेनाज्ञाताभावस्य मिथ्यात्वघटकत्वं स्वीकृत्य निर्वहणीयमिति । नापसिद्धान्त इत्यादि । 'स्वरूपेण प्रातीतिकरूप्यस्य न निषेध' इति सिद्धान्तहानिने दोषः । तथा सिद्धान्तस्यैवास्मदाचार्यानभिमतत्त्वात् । अत एव व्यावहारिकरजतस्यैव स्वरूपेण निषेधस्वीकारे भ्रमबाधवैयधिकरण्यादिवारणाय तस्यैव भ्रमे भानस्य वाच्यत्वेऽन्यथाख्यात्यापत्तिरिति दोषोऽपि न । एवमुक्तपञ्चपादिकाविवरणादिग्रन्थविरोधोऽपि नेत्यर्थः । अत्यन्तासत्त्वापातइति । अवच्छिन्नवृत्तिकान्यसर्वदेशवत्तिकात्यन्ताभावस्य प्रतियोगित्वमत्यन्तासत्त्वम् । तदादाय प्रपञ्चेऽर्थान्तरापत्तिरुक्तानु. माने स्यादित्यर्थः । ननु, प्रतिपन्नोपाधिमात्रनिष्ठात्यन्ताभावप्रतियोगित्वमुक्तानुमानात्सिद्धम् । न तूक्तात्यन्तासत्त्वम् । अतः कथमर्थान्तरं तत्राह-प्रतीत्यादि । त्रैकालिकनिषेधेति। अवच्छिन्नवृत्तिकान्यात्यन्ताभावेत्यर्थः । अन्यत्रासत्त्वेन प्रतिपन्नोपाधिभिननिष्ठावच्छिन्नवृत्तिकान्यात्यन्ताभावप्रतियोगित्वेन । प्रतिपन्नस्य प्रमितस्य । पर्यन्तं निश्चयप्रयोजकं निश्चायकम् । तथा चोक्तानुमानेनान्यत्रासत्त्वनिश्चयसहकतेनोक्तात्य, न्तासत्त्वनिश्चयसम्भव इति भावः । ननु, तथापि सर्वत्रेत्ययुक्तम् । यत्किञ्चित्प्रत्तिपन्नोपाधेरेवोक्तमिथ्यात्वे निवेशात्तत्राह-अन्यथेति । उक्तमिथ्यात्वे सर्वस्य प्रतिपन्नोपाधेरनिवेश इत्यर्थः। अन्यत्रेति। स्वानधिकरणे प्रतिपन्नोपाध्यन्तर इत्यर्थः । सत्त्वापातात् सत्त्वमादायार्थान्तरतापातात् । किं चित्प्रतिपन्नोपाधिमात्रनिष्ठव्याप्यवृच्यत्यन्ताभावप्रतियोगित्वमादाय सिद्धसाधनतापाताच्च। ननु, प्रतिपन्नोपाधिभिन्नदेशेऽसवस्य सन्दिग्धत्वेन न प्रपञ्चस्यात्यन्तासत्त्वापत्तिस्तत्राह-न हीत्यादि । त्वदुक्तः त्वदाचार्योक्तेः । तथा च निश्चितमेव तदिति भावः । इतः सर्वदेशनिष्ठव्याप्यवृत्त्यत्य
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
ताभावप्रतियोगित्वात् । असत्त्व असत्त्वशब्दार्थः । निरुपाख्यत्वं शब्दवृत्त्यविषयत्वम् । ख्यायमानत्त्वात् वृत्तिसम्बन्धेन सम्बध्यमानत्वात् । निरुपाख्यादिपदानामलीकेऽनुभावकत्वरूपशक्तिविरहेऽप्यननुभवरूपमलीकविषयकं विकल्पं प्रति योगेन लक्षणया सङ्केतविशेषेण वा अलीकोपस्थितिद्वारा जनकत्वमावश्यकम् । तादृशविकल्पस्य साक्षिसिद्धत्वात् । 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पातञ्जलसूत्रेण तादृशविकल्पस्य सद्रूपवस्त्वविषयकस्य शब्दज्ञानजन्यत्वस्य उक्तत्वात् । अत एव 'वृत्तयः पञ्चतय्यः प्रमाणविपर्ययविकल्पनिद्रास्मृतय' इति वृत्तिज्ञानानां पञ्चधा विभागेन विपर्ययरूपात् सद्रूपाधिष्ठानविषयकात् भ्रमात्पार्थक्येन विकल्पः पातञ्जलसूत्र एवोक्तः । निद्रा सौघुप्तवृत्तिः । न च निर्धर्मकत्वादलीके निरुपाख्यादिपदानां योगादिवृत्त्यसम्भव इति वाच्यम् । तस्येतरधर्मशून्यत्वेऽपि अभावस्य विकल्पविषयत्वादेश्च धर्मस्य तत्र स्वीकारेण योगेन वाचकशब्दरूपोपाख्याविरहोपस्थित्योक्तविरहाश्रयालीकोपस्थितिसम्भवेन लक्ष्ःणासम्भवात् 'अनेन पदेनालीकं बोध्य'मिति सङ्केतसम्भवाच्च । तथा च वृत्तिविषय एवालीकमिति भावः । अपरोक्षतया अप्रतीयमानत्वं प्रमाणजन्यप्रत्यक्षाविषयत्वम् । यथाश्रुते नित्यातीन्द्रियस्यापीशं प्रति अपरोक्षत्वान्नित्येत्याद्यसङ्गतेः । नास्त्येवेति । प्रकृतानुमानीयपक्षे ज्ञायमानमित्यादिः । तथा च सामान्यानुमाने सत्त्वेन प्रतीत्यर्हमित्यस्य पक्षविशेषणस्योक्तत्वेन तादृशविशेषणविशिष्टप्रपञ्चे प्रतिपन्नेत्यादिमिथ्यात्वसिद्धावपि नालीकत्वमादायार्थान्तरमिति भावः ! ननु, शून्यवादिनो माध्यमिकस्य मते सर्वं मिथ्येति स्वीकारेऽपि घटसन्नित्यादिधीः स्वीक्रियते । सर्वानुभवसिद्धायास्तस्या अपलापासम्भवात् । तत्रचाबाध्यरूपसत्तादात्म्यं न भाति । किन्त्वर्थक्रियाकारित्वमिति तैः स्वीक्रियते। तथाचान्यैरपि तथैवोच्यतां तत्राह । न च बाधादित्यादि । सत्त्वेन अबाध्यरूपसत्तादात्म्येन । माध्यमिकान्यैस्सर्वैरपि वादिभिरिति शेषः । तथा च माध्यमिकभिन्नानामनुभवस्तादृश इति भावः । ननु, तथापि विशेषानुमानेषूक्तविशेषणस्य पक्षे अनुक्तत्वादर्थान्तरम् । उक्तमिथ्यात्वस्य मिथ्यालक्षणत्वासंभवश्वालोकेऽतिव्याप्तेस्तत्राह-एतदिति । प्रपञ्चस्य सत्तादात्म्येन प्रतीयमानत्वमेव । सदकेन अबाध्यार्थकेन । प्रतिपन्नपदयुक्तेनेति शेषः । उपाधिपदस्य स्वसमीपवर्तिनि स्वधर्मसंक्रामकार्थकत्वात् स्वसमीपवृत्तिदृश्यत्वावच्छेदेन स्वगतसत्त्वादिधर्मभ्रमजनकत्वस्य प्रकते तात्पर्यविषयत्वात् सर्वाधिष्ठानमेव प्रकृते उपाधिपदार्थइति भावः । लक्षणपक्षे तु उपाधिपदस्य सदर्थकत्वं विशेषानुमानपक्ष इवेति वक्ष्यते । सूचितमिति । प्रतिपन्नपदस्य स्वतादात्म्यधीविशेष्यार्थकतयोपाधिपदार्थे
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे द्वितीयमिथ्यात्वम् । ] लघुचन्द्रिका ।
सति प्रपञ्चरूपस्वतादात्म्यधीविशेष्यत्वस्य शब्दतो लाभेन प्रपञ्चे सत्तादात्म्येन प्रतीयमानत्वस्यार्थतो लाभ इति भावः । न चाबाध्यत्वापेक्षया कालसम्बन्धित्वमेव लघु । तस्य कालिकविशेषणतारूपविलक्षणसम्बन्धप्रतियोगित्वरूपत्वात् । तथा चोक्तप्रतियोगित्वे सति कालसम्बन्धित्वमेव साध्यतामिति वाच्यम् । एतस्येव तस्यापि साध्यत्वसम्भवात् । लक्षणत्वपक्षेऽपि यथासन्निवेशे वैयर्थ्याभावात् प्रतिपन्नेत्यादिविवरणायुक्तौ उपाधिपदसार्थक्याय तस्याबाध्यार्थकत्वस्योक्तत्वाच्च । ननु, सदर्थकोपाधिपदेनापि प्रपञ्चस्यालीकत्वमादायार्थान्तरं दुर्वारम् । उक्तालीकत्ववादिना माध्यमिकेन प्रपञ्चे क्षणिकत्वादिभावनानिवर्त्यस्थिरत्वादेरिवाबाध्यत्वस्यापि शून्यत्वभावनानिवर्त्यस्य व्यावहारिकस्य स्वीकारणाबाध्यत्वोपहितप्रपञ्चे प्रपञ्चतादात्म्यधीविशेष्यत्वस्वीकारात् । तत्राह-शन्येत्यादि । शून्यवादिभिः माध्यमिकमतानुयायिभिः । अबाध्यत्वोपहितास्वीकारादिति शेषः । सदधिष्ठानकेति । अबाध्यत्वोपहितविशेष्यकेत्यर्थः । अवश्यक्लप्तेनार्थक्रियाकारित्वेनालीकव्यावृत्तेन 'सन् घट'इत्यादिप्रत्ययोपपत्तेरुक्ताबाध्यत्वं माध्यमिकेन न स्वीक्रियते । न च बाधात्पूर्वमबाध्यत्वं प्रपञ्चेऽस्त्येव तन्मतेऽपीति वाच्यम् । त्रिकालाबाध्यत्वस्यैवास्माभिनिवेशात् । तच्च कालानवच्छिन्नं बाधकज्ञानाविषयत्वरूपम् । तच्च ब्रह्मणि मन्मतेऽस्ति । तन्मते तु न कुत्रापीति भावः । न चैवं तन्मते शून्यभावना व्यर्थेति वाच्यम् । तस्याः परमकाष्ठापन्नवैराग्यहेतुत्वेन प्रपञ्चवरूपबाधकत्वेन चात्महानिरूपमोक्षसम्पादकत्वेन तन्मते स्वीकारात् । अनङ्गीकारादिति । अबाध्यविशेष्यकपूपश्चभ्रमस्य स्वीकारे पूपञ्चेऽप्यबाध्यतादात्म्यभ्रमोऽवश्यं स्वीकार्यः। पररूपराध्यासानुरोधात् । अन्यथा तु तत्र मानाभाव इति भावः । सदधिष्ठानकभूमानङ्गीकारमात्रं विशेषानुमानोपयुक्तम् । अनङ्गीकारादित्यन्तं सामान्यानुमानोपयुक्तम् । एवं मिथ्यात्वस्य सर्वप्रतिपन्नोपाधिघटितत्वे सति । पर्यवसितमिति । मिथ्यात्वमिति शेषः । प्रतिपन्नेत्यस्य तु प्रयोजनाभावादनिवेश इति भावः । यदधिकरणं यस्याधिकरणम्। संयोगेत्यादि । संयोगेन घटस्य यदधिकरणं तन्निष्ठात्यन्ताभावस्य समवायेन प्रतियोगितया समवायेन यत् घटस्याधिकरणं तन्निष्ठात्यन्ताभावस्य संयोगेन प्रतियोगितया च सिद्धसाधनमित्यर्थः । सूचितखादिति । तथा च प्रतिपन्नपदमुक्तार्थलाभायैवेति भावः । अन्तरेण विनैव । सम्बन्धावच्छेदको निवेश्याधिकरणता न प्रतीयत इति नेत्यर्थः । एवकारान्तर्भावेन तादृशार्थलाभात् । तादृशप्रत्ययाभावस्य न हीत्यनेन निषेधः । यथाश्रुतं त्वसङ्कतम् । सम्बन्धावच्छेदको विनापि अधिकरणताधीसत्वात् । ननु, गगनाधिकरणत्वाप्रसिद्ध्या तस्य मिथ्यात्वानुपपत्तिरत आह-तथा चे.
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५.
अद्वैतमञ्जरी ।
ति। अहंतीति। प्रतीतिनिवेशे यावत्त्वमधिकरणे देयम् । अन्यथोक्ताधिकरणतायास्तच्छून्येऽपि प्रतीतिसम्भवेन सिद्धसाधनतापत्तेः । तथा च लाघवायेन सम्बन्धेन यदवच्छेदेन यस्य सम्बन्धि यत् तन्निष्ठेत्याद्येव निवेश्यम् । प्रतिपन्नपदेन तादृशसम्बन्धित्वेन प्रमायोग्यत्वस्य तादृशसम्बन्धित्वरूपस्य लाभात् । सम्बन्धित्वं भूतलादौ गगनादेरपीति न तत्राव्याप्तिरिति भावः । तेनैव सम्बन्धविशेषेणेति । प्रतियोगित्वमित्यत्रान्वेति । संयोगसमवायाधुभयसम्बन्धावच्छिन्नप्रतियोगित्वमादाय सिद्धसाधनात् तदन्यसम्बन्धानवच्छिन्नप्रतियोगित्वलाभाय एवकारः। तेनैवावच्छेदकविशेषेणेति । तदन्यावच्छेदकानवच्छिन्नेत्यर्थः । तस्य तदधिकरणकत्वेऽन्वयः । सिद्धान्ते अत्यन्ताभावमात्रस्य सर्वदेशकालवृत्तित्वेनावच्छिन्नवृत्तिकान्यत्वात्तदवच्छिन्नेत्यनुक्त्वा तदन्यानवच्छिन्नेत्युक्तम् । वस्तुतस्तु, अवच्छिन्नवृत्तिकान्यत्वमेव तदधिकरणकात्यन्ताभावे देयम् । अन्यथा व्याप्यवृत्तिसाधारणपक्षकानुमाने व्याप्यवृत्त्यंशे यथोक्तसाध्यासम्भवादिति ध्येयम् । ननु , नोक्तसिद्धसाधनस्यावकाशः । प्रकृतानुमानावतारात्पूर्वमेव अवृत्तिगगनादावत्यन्ताभावप्रतियोगित्वे वृत्तिमत्सु स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वे च वक्ष्यमाणरीत्या मानाभावातत्राह-यदि पुनरित्यादि । न स्यात् नास्ति । मिथ्यात्वानुमानावतारात् पूर्वमिति शेषः । ननु, गगनादेरप्रत्यक्षत्वमते तदभावस्य प्रत्यक्षत्वासम्भवेऽपि गगनादिकं भूतलादिनिष्ठात्यन्ताभावप्रतियोगि। भूतलादिनिष्ठस्य वृत्तिनियामकसम्बन्धस्याप्रतियोगित्वात् । नित्यरूपादिनिष्ठात्यन्ताभावप्रतियोगि। नित्यरूपादिनिष्ठसम्बन्धाप्रतियोगित्वात्तज्जलादिवदित्याद्यनुमानं मानमस्तु तत्राह-अनुमाने चेति । तर्काभावादिति। अप्रत्यक्षस्यापि गुरुत्वादेस्तेजआदावत्यन्तामावोऽनुमीयते । तत्र तदसत्त्वे गुरुत्वाद्यापत्त्या पतनाद्युत्पत्त्याद्यापत्तिरूपतर्कसत्त्वात् । प्रकृते तु न तर्क इति भावः । अन्यथेति शेषः । सामान्यतो दृष्टमात्रेण तर्कहीनेन अन्वयव्यतिरेकिणा गगनतज्जलान्यतरत्वादिहेतुना । नन्वेवमाकाशादौ घटादिभेदोऽपि न स्यात्, अयोग्याधिकरणे भेदस्याप्रत्यक्षत्वात् अनुमानस्याप्रयोजकत्वाच्च तत्राह—तव्यतिरेकेणेति । आकाशे घटाभेदे घटत्वस्यातिप्रसक्त्या तद्रूपेण कपालादिकार्यताप्रत्यक्षरूपकार्यस्य व्यतिरेकस्स्यात् । नित्यसाधारणरूपस्य कार्यतानवच्छेदकत्वादिति भावः । आकाशात्यन्ताभावस्य त्वस्वीकारे न तथेत्यर्थः । एवमिति । न घटादेरत्यन्ताभावसामानाधिकरण्यमित्यग्रिमेणान्वेति । एवंशब्दार्थ प्रत्यक्षानुमानाद्यभावरूपं हेतुं प्रकटयति-संयोगेत्यादि । ननु, प्रतियोग्यत्यन्ताभावयोविरोधित्वं सम्बन्धविशेषमन्तर्भाव्यैव कल्पनीयम् । तथाहि-विरोधित्वं सहानवस्थानम् । तदपि द्विविधम् । साक्षात ज्ञानद्वारकं च ।
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे द्वितीयमिथ्यात्वम्
लघुचन्द्रिका।
तत्राद्यं तद्देशतत्कालावच्छेदेन तेन सम्बन्धेन तद्रूपविशिष्टप्रतियोगिनोऽधिकरणे । तदेशकालावच्छेदेन वर्तमानत्वस्याभावः तत्सम्बन्धतद्रूपावच्छिन्नप्रतियोगिताकात्यन्ता भावनिष्ठः । द्वितीयं तु तादृशाधिकरणनिश्चयक्षणे तदुत्तरक्षणे च तादृशाभावस्य तादृशवर्तमानत्वज्ञानाभावः । तथा चोक्तविरोधितयोरन्यथानुपपत्तिरेव संयोगादिना घटाद्यधिकरणे समवायादिना तदभावसाधिका तत्राह-लाघवेनेत्यादि । लाघवेन अभावप्रतियोगितामात्रस्य सम्बन्धावच्छिन्नत्वाकल्पनया सम्बन्धविषयत्वघटितरूपेणाभावबुद्धेः प्रतिबन्धकत्वाकल्पनया च लाघवसम्भवेन । घटात्यन्ताभावत्वेन घटत्वाचच्छिन्नप्रतियोगिताकात्यन्ताभावत्वेन । घटसामानाधिकरण्यविरोधित्वेति। सामानाधिकरण्यघटितस्य साक्षाद्विरोधित्वस्य ज्ञानद्वारकविरोधित्वस्य चेत्यर्थः । देशकालावच्छेदं सम्बन्धं तदवच्छिन्नत्वं चानन्तर्भाव्यैवोक्तविरोधिते वाच्ये । उक्तलाघवसम्भवादिति भावः । गौरवात् संयोगादिनानासम्बन्धावच्छिन्नप्रतियोगिताकानन्ताभावानां कल्पनागौरवात्, सम्बन्धघटितरूपेणाभावबुद्धेः प्रतिबन्धकत्वकल्पने. संयोगादिसम्बन्धावच्छिन्नत्वघटत्वाद्यवच्छिन्नत्वयोः प्रतियोगितांशे विशेषणविधया निवेश्यतया प्रतियोगिताविषयतायामेकविषयतानिरूपितत्वविशिष्टस्यापरविषयतानिरूपितत्वस्य विशेषणत्वे वाच्ये विनिगमकामावेन अवच्छेदकभेदात् प्रतिबन्धकताभेदे गौरवाच्च । ननु, घटसंयुक्त समवायेन घटो नास्तीति प्रतीत्यन्यथानुपएत्याऽभावस्य सम्बन्धावच्छिन्नप्रतियोगिताकत्वं सिध्यतु । किं चाभावबुद्धेस्सम्बन्धावच्छिन्नप्रतियोगित्वविषयकत्वमनन्तर्भाव्यैव प्रतिबन्धकत्वे संयोगेनात्र घटो नास्तीति बुवेरपि समवायेनात्र घट इति धीप्रतिबन्धकत्वापत्तिः । अथ सम्बन्धावच्छिन्नमतियोगित्वविषयिका धीः न प्रतिबन्धिकेति चेत् । तर्हि समवायेन नात्र घट इति बुद्धेरप्युक्तप्रतिबन्धकत्वं न स्यात्तत्राह-घटसमवायाधभावमात्रविषयकतयति । घटसमवायत्वाद्यवच्छिन्नप्रतियोगिताकाभावत्वाद्यवच्छिन्नप्रकारतानिरूपितभूतलादिवि शेष्यताकत्वेनेत्यर्थः । प्रतीत्युपपत्तेः 'समवायेनात्र घटो नास्तीतिप्रतीतेविषयोपपत्तेः, 'समवायेनात्र घट' इतिधीप्रतिबन्धकत्वोपपत्तेश्च । मात्रेत्यनेन सम्बन्धावच्छिन्नप्रतियोगिता न विषयो न वा तद्धटितरूपेण प्रतिबन्धकतेत्यर्थः । 'शिखी चैत्रो नष्ट' इत्यादौ चैत्रीयशिखादे शप्रतियोगित्वमिव समवायेन घटो नास्तीत्यादौ समवायविशिष्टघटत्वादिरूपेण घटादेर्भानेऽपि घटीयसमवायादेरत्यन्ताभावप्रतियोगित्वं मातीति समवायेनात घट इति ज्ञानं प्रति घटसमवायोऽत्र नास्तीति निश्चयस्य परैरपि प्रतिबन्धकत्वं वाच्यम् । परं तु स्वरूपसम्बन्धावच्छिन्ना या घटसमवायत्वावच्छिन्ना प्रतियोगिता तन्निरूपकाभावविषयकत्वेन । तथा च लाघवादुक्तसम्बन्धावच्छि
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
अद्वैतमञ्जरी ।
नत्वमनन्तर्भाव्यैव तदुच्यताम् । न च घटसंयुक्तादिदेशे केनचित्सम्बन्धेन घटसमवायस्य सत्त्वात् तदभावोऽपि तत्र न सम्भवतीत्युक्तधीप्रमात्वोपपत्तये समवायेन घटाभाव एव तद्विषय इति वाच्यम् । स्वरूपसम्बन्धेन हि परैर्घटसमवायस्याभावो यः स्वीक्रियते स एवास्माभिर्घटसमवायाभाव उच्यते। तस्यैव घटसमवायीयदैशिकसाक्षात्सम्बन्धविरोधात् । अत एव केनचित्सम्बन्धेन घटादेः सर्वत्र जन्ये मूर्ते च सत्त्वात्तत्र घटसामान्याभावधीप्रमात्वोपपत्तये सम्बन्धविशेषावच्छिन्नप्रतियोगिताऽवश्यं वाच्येति परा स्तम् । घटीयदैशिकसाक्षात्सम्बन्धसामान्यामावस्यैव घटसामान्याभावत्वात् । तादृशश्च घटस्य सम्बन्धः संयोगः समवायश्च । न तु कालिकी दिनिष्ठा वा विशेषणता । न वा स्वाश्रयसंयोगादिः । अत एव तद्वत्यपि घटो नास्ती' ति धीः प्रमात्वेन सर्वसिद्धा । ननु, संयोगेन रूपं नास्तीत्यादौ रूपीयसंयोगादेरप्रसिद्ध्या तदभावो न विषयः । न च संयोगाद्यंशे रूपीयत्वादेर्भूमत्वं तत्रेति वाच्यम् । तादृशप्रतीतेः सवाशे प्रमात्वस्य सर्वजनसिद्धत्वादिति चेत्सत्यम् । रूपीयत्वादिना संयोगाद्यभावस्यैव तत्र विषयत्वात् । व्यधिकरणधर्मावच्छिन्नाभावस्वीकारात् । परैरपि तत्र व्यधिकरणसम्बन्धस्य प्रतियोगितावच्छेदकत्वस्वीकारात् । प्रतियोग्यंशे विशेषणतानापन्नस्यैव व्यधिकरणधर्मस्य प्रतियोगितांशे अवच्छेदकतया विशेषणत्वेन भूमत्वाभावात् । प्रतियोग्यंशे विशेषणस्यैव उक्तविशेषणत्वमिति नियमेऽपि व्यधिकरणधर्मावच्छिन्नाभावधीमात्रस्य प्रतियोग्यशे तादृशधर्मभूमत्वस्वीकारेण प्रकृतेऽपि भूमत्वे बाधकाभावात् न दोषः । न च घटो न पट इत्यादिनिश्चयकालेऽपि पटत्वेनात्र घटो नास्तीति ज्ञानोत्पत्तेर्घटादौ पटत्वादिवैशिष्टयाभाव एवोक्तज्ञाने विषयः । वैशिष्टयस्य साहित्यरूपस्य तृतीयार्थत्वेन तदत्यन्ताभावबोधने घटपदोत्तरं न सतम्यपेक्षेति वाच्यम् । उक्तनिश्चयकाले घटत्वादिविशिष्टे पटत्वादिभानासम्भवेऽपि एकत्र द्वयमिति रीत्या शुद्धघटादौ घटत्वपटत्वाद्युभयं विशेषणीकृत्योक्तज्ञानोत्पत्तिसम्भवात् उक्तज्ञाने घटादौ पटत्वादिवैशिष्टयाद्यभावभाने अत्र घटः पटत्वनास्तीत्याकारकस्यैकत्र द्वयमिति रीत्या घटत्वपटत्वाद्युभयविशिष्टविषयकस्य सत्त्वेऽप्युतज्ञानोत्पत्त्यापत्तेरित्याशयः । ननु, 'समवायेन घटो नास्ती'त्यादिज्ञाने प्रतियोगितांशे सम्बन्धावच्छिन्नत्वाभाने घटसमवायत्वाद्यवच्छिन्नत्वमपि न भातीति कुतो नो च्यते । तादृशावच्छिन्नत्वेन पराभ्युपगतप्रतियोगिताव्यक्तिसम्बन्धेन घटसमवायविशिष्टस्याभावस्य घटसमवायविरोधित्वं उक्तसम्बन्धेन घटसमवायत्वमात्रेण चावच्छिन्नाया अभावांशे प्रकारताया एव प्रतिबन्धकतावच्छेदकत्वमित्यस्य वक्तुं शक्यत्वात् । यदि च प्रतियोगिताया धर्मावच्छिन्नत्वं सर्वानुमाविकमित्युच्यते तदा
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे द्वितीयमिथ्यात्वम् ]
लघुचन्द्रिका।
सम्बन्धावच्छिन्नत्वमपि तथेति वक्तुं शक्यते इति चेत् अत्रोच्यते । जले वह्निर्नास्तीतिवज्जले द्रव्यं नास्तीत्यस्यापि प्रमात्वं स्यात् । यत्प्रतियोगिताव्यक्तिविशेषसम्बन्धेन वह्निविशिष्टो योऽभावस्तस्य तेन सम्बन्धेन द्रव्यात्मकवह्निविशिष्टत्वात्।अथ वह्नित्वावच्छिन्नं प्रत्येव सम्बन्धस्तत्प्रतियोगिता। न तु द्रव्यत्वावच्छिन्नं प्रतीति चेत्तहि तत्प्रतियोगिता वह्नित्वावच्छिन्नप्रतियोगिताका । न तु द्रव्यत्वावच्छिन्नप्रतियोगिताकेत्येवोक्तवाक्यार्थः । तथा च वह्नित्वावच्छिन्नप्रतियोगिताकत्वमपेक्ष्य वह्नित्वावच्छिन्नत्वमेव लघु तत्प्रतियोगितायां कल्प्यताम् । किं च विशिष्टस्य वैशिष्टयमिति रीत्या ज्ञानस्य विशेष्ये विशेषणं तत्रापि विशेषणान्तरमिति रीत्या ज्ञानाद्वैलक्षण्यसिद्धये विशिष्टस्येत्यादिज्ञाने विशेषणतावच्छेदकावच्छिन्नप्रतियोगिताकत्वरूपेण विशेषणसम्बन्धो भातीति स्वीक्रियते । तथा चाभावप्रत्यक्षस्य विशिष्टस्येत्यादिज्ञानत्वनियमात् घटोऽत्र नास्तीत्यादिप्रत्यक्षस्य घटत्वावच्छिन्नप्रतियोगिताकत्वरूपेणानुयोगिताविशेषरूपोऽभावे वटादेस्सम्बन्धो भाति । घटवदित्यादौ संयोगादेर्घटत्वावच्छिन्नप्रतियोगिताकत्वरूपेण भानवत् । न चैवं कम्बुग्रीवादिविशिष्टवदित्यस्येव कम्बुग्रीवादिविशिष्टमत्र नास्तीत्यस्यापि विशिष्टस्येत्यादिज्ञानस्य प्रमात्वापत्तिः । गुरुधर्मस्याभावनिष्ठानुयोगितासम्बन्धप्रतियोगितानवच्छेदकत्वे संयोगादिसम्बन्धप्रतियोगितायामप्यनवच्छेदकत्वेन द्वयोरप्युक्तज्ञानयोरप्रमात्वं स्यादिति वाच्यम् । गुरुत्वज्ञाने सत्यप्युक्तज्ञानयोरुत्पत्त्या प्रमात्वस्येष्ठत्वात् । गौरवस्य कारणतावच्छेदकत्वादिविरोधित्वेऽपि सम्बन्धप्रतियोगितावच्छेदकत्वाविरोधित्वात् । अथ वा विशिष्टस्येत्यादिज्ञाने विशेषणतावच्छेदकं विशेषणान्वयिनि विशेष्ये विशेषणतया भाति । यदेव हि स्वविशेष्यविशेष्ये विशेषणं तत् विशेषणम् । तदन्यत्तु प्रकारीभूतमप्युपलक्षणमुपाधिर्वा । तथा च घटः प्रमेयः दण्डिमदिदमित्यादौ विशेषणविशेषणतावच्छेदकयोरेकजातीयेन तादात्म्यादिसम्बन्धेन प्रमेयादौ विशेषणत्वेऽपि संयोगादिसाक्षात्सम्बन्धेन दण्डादेरिदमादौ बाधकाले स्वाश्रयसंयोगादिपरंपरासम्बन्धेनापीदमादौ विशिष्टस्येत्यादिरूपोक्तज्ञाने दण्डादेर्भानवत् घटोऽत्र नास्तीत्यादो घटाद्यभावे स्वप्रतियोगितानिरूपितानुयोगितासम्बन्धेन घटादेः प्रकारत्वेऽपि घटत्वादेस्तेन सम्बन्धेन तत्र बाधात् स्वाश्रयप्रतियोगितानिरूपितानुयोगितासम्बन्धेन तस्य प्रकारत्वे जले द्रव्यं नास्तीत्यस्यापि प्रमात्वापत्तेः । अन्यस्य चैकजातीयसम्बन्धस्य घटाभावे घटत्वादेर्वक्तुमशक्यत्वात् स्वावच्छिन्नप्रतियोगिताकानुयोगितैव तस्य तत्र सम्बन्ध उच्यते । 'दण्डिमदिदमित्यादावपि स्वावच्छिन्नप्रतियोगितानिरूपितानुयोगितासम्बन्धेन इदमादौ दण्डादेर्भानमिष्टम् । कदाचित्संयोगादेरिव तस्याप्यमापात् । तस्य दण्डावच्छिन्नमति
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
योगिताकाधिकरणतात्वात् सामानाधिकरण्येन सङ्ख्याविशिष्टं परिमाणमत्र नास्तीत्यादौ तु, स्वप्रतियोगिकत्वसम्बन्धेनैवैकस्मिन्नभावे सङ्ख्यापरिमाणयोर्भानम् । तस्य सम्बन्धस्य तत्राबाधात् । ननु, 'विशिष्टं केवलादन्य' दिति मते विशिष्टस्येत्यादिज्ञाने विशिष्टस्य विशेषणत्वम् । 'विशेष्ये विशेषण' मित्यादिज्ञाने तु न तस्य विशेषणत्वम् । किंतु भूतलादौ शुद्धघटादेः । तत्र घटत्वादेरित्यस्य वक्तुं शक्यत्वान्नोक्तयुक्तीनामवकाश इति चेत्सत्यम् । तथापि संयोगसम्बन्धेनेत्यादिमूले नानुपपत्तिः । घटात्यन्ताभावत्वेनेत्यस्य घटत्वविशिष्टप्रतियोगिताका भाव त्वेनेत्यर्थकत्वात् । घटसमवायाद्यभावेत्यस्यापि घटसमवायत्यादिविशिष्टप्रतियोगिताकाभावेत्यर्थकत्वात् । घटत्वादेः प्रतियोगितानवच्छेदकत्वेऽपि तद्विशिष्टस्य स्वाधिकरणनिष्ठाभावप्रतियोगित्वेन मिथ्यात्वसम्भवेनोक्तावच्छेदकत्वोक्तौ मूलकारस्यौदासीन्यात् । जले वह्रित्वविशिष्टस्याभावसत्त्वेऽपि द्रव्यत्वविशिष्टस्याभावासत्त्वात् 'जले द्रव्यं नास्तीति बुद्धेनापत्तिः । ननु, घटात्यन्ताभावत्वेनैव घटविरोधित्वस्वीकारेऽपि भूतलादौ घटात्यन्ताभावोऽस्तु । घटस्यावृत्तित्वस्वीकारेणोक्तविरोधित्वोपपत्तेः तलाह- आधाराधेयभावस्येति । भूतलघटाद्येोरित्यादिः । ननु, घटसंयोगी घटात्यन्ताभाववान् । घटसमवायाभावान्नित्यरूपवदित्यनुमेयं तत्राह-उक्तयुक्तेरिति । तर्काभावात् । भूतलं घटध्वंसवत् । कपालभूतलान्यतरत्वात् कपालवदित्यनुमानापत्तेः । तद्व्यतिरेकेऽनुपपत्त्यभावात् । ननु घटोत्पादानन्तरं पुनर्घटोत्पादवारणाय समवायेन घटं प्रति घटः प्रतिबन्धकः । तत्सम्बन्धावच्छिन्नतदभावः कारणम् । तथा च घटसंयुक्तकपालेषु घटोत्पत्तिर्न स्यात् । उक्तप्रतिबन्धकाभावघटितसामम्यभावादित्यत आह-उक्तेति । एकसम्बन्धं प्रत्यपरसम्बन्धस्यैव प्रतिबन्धकतासंभवेन तदभावस्यैव प्रतिबन्धकाभावविधया प्रयोजकत्वादित्यादियुक्तेरित्यर्थः । अमलयोरिति । औपाधिकभेदवतोस्तदवच्छिन्नवृक्षयोर्वेति शेषः । अग्रावच्छिन्नवृक्षात् मूलावच्छिन्नवृक्षे भेदस्वीकारेण तयोरेव संयोगतदभावौ भासेते इति नकुत्राप्यव्याप्यवृत्तित्वमिति भावः । उपपत्तेरिति । इत्यालोच्यत इति शेषः । सन्मात्रनिष्ठेति । सत्त्वव्यापकेत्यर्थः । अधिकरणमेवाभाव इति पक्षेऽपि केवलस्य सद्रूपस्याभावत्वविशिष्टेन सद्रूपेण तादात्म्यसम्बन्धसत्त्वात्तद्व्यापकत्वोपपत्तिः । न च उक्तपक्षे 'नेह नाने' त्यादिश्रुत्यनुपपत्तिः । तया ब्रह्मणि प्रपञ्चाभावाधारत्वबोधनादिति वाच्यम् । उक्तपक्षे घटाद्यभावस्य भूतलादौ तादात्म्यसम्बन्थस्यैव स्वीकारेण ब्रह्मणि प्रपञ्चाभावतादात्म्यस्यैवोक्तश्रुत्या बोधनात् । उक्तं हि न्यायकुसुमाञ्जलौ अभावीयसम्बन्धविचारप्रसङ्गे– 'परस्य तादात्म्यमस्तीतिचे' दिति । परस्याधिकरणस्वरूपाभाववादिनो भट्टादेर्मत इति तत्र टीकाकारः । अधिकरणातिरि
For Private and Personal Use Only
-
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे द्वितीयमिथ्यात्वम् ] लबुचन्द्रिका ।
काभावपक्षेऽपि चैत्रे गोशून्यता नास्तीत्यादौ गवादिरूपाभावस्याधारत्वेन चैत्रादिप्रत्ययाभावात् स्वामित्वसम्बन्धस्य वृत्त्यनियामकत्वाच्चाभावधीमात्रस्याभावाघारत्वविषयकत्वानियमात् । घटाभावे न घट इत्यादौ अभेदेऽप्याधाराघेयत्वस्य सर्वैरपि स्वीकार्यत्वेन उक्तश्रुत्यादिजन्यज्ञानस्य ब्रह्मादावभावाधारत्वविषयकत्वस्योक्तपक्षद्वयेऽपि सम्भवाच्च । अत्र यद्धर्मावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वं सत्त्वव्यापकतावच्छेदकं तद्धर्मवत्त्वं मिथ्यात्वम् । तेन मेयत्वादिरूपेण व्यापकतामादाय न सिद्धसाधनम् । न च यस्या अभावव्यक्तेस्सद्वृत्तिभेदप्रतियोगितावच्छेदकत्वमनवच्छिन्नं नास्ति तद्व्यक्तिप्रतियोगित्वं मिथ्यात्वमित्येव वक्तुं शक्यम् । घटादिमति पूर्वक्षणवृत्तित्वविशिष्टस्य घटाद्यभावस्याश्रयात् भेदो वेदान्तिमतेऽप्यस्तीत्यतोऽनवच्छिन्नमित्युक्तम् । एवं च घटसंयुक्तादौ समवायादिना घटाद्यभावनिराकरणं व्यर्थम् । तदभावव्यक्तेरतथात्वेन सद्वृत्तिभेदप्रतियोगितावच्छेदकत्वेन तामादाय सिद्धसाधनाभावादिति वाच्यम् । विशेषणतादिव्यधिकरणसम्बन्धेन घटाद्यभावव्यक्तेः केवलान्वयित्वेन तामादाय सिद्धसाधनात्। एवं उक्तानुमानस्योक्तमिथ्यात्वसाधकत्वे । बाध्यबाधकभाव इति । भावाभावयोस्सामानाधिकरण्यज्ञाने सति तयोरेकज्ञानमपरज्ञानस्य न बाधकमतउक्तज्ञानाभावविशिष्टं भावाभावयोर्विरोधविषयकं वा तयोरेकस्य ज्ञानमपरस्य ज्ञाने बाधकं वाच्यम् । तादृशज्ञानश्च न मिथ्यात्वज्ञानवतां सम्भवतीति भावः । वाच्यामिति । अधिकसत्ताकाभावेन अन्यूनसत्ताकाभावेन वा घटितं मिथ्यात्वमिति पक्षयोराद्यपक्षे इति शेषः । इदं भिन्नसत्ताकेत्युत्तरग्रन्थान्वयि । न व्यावहारिक इति । किंतु प्रातीतिक इति शेषः । रजतस्य व्यावहारिकलेति । रजते कल्पितस्य व्यावहारिकत्वस्य । अपहारे उच्छेदे । प्रातीतिकसत्त्वेति । प्रातिभासिकस्वरूपेत्यर्थः । पुरोवृत्तिप्रतीतरजतस्येत्यनुषज्यते । बाघोत्तरेति । उक्तज्ञानोत्तरेत्यर्थः । स्यादिति । तथा च समानसत्तामनन्तर्भाव्य प्रातीतिकान्यामावस्यैव भावविरोधित्वं स्वीकत्य तद्ज्ञानस्य भावबाधकत्वं वाच्यम् । अतः स्वाधिकसत्ताकात्यन्ताभावस्यापि भावविरोधित्वात् तद्धटितमिथ्यात्वमनुपपन्नमिति भावः । समानसत्ताकयोभीवाभावयोर्विरोधेऽपि न तादृशयोरेव बाध्यबाधकधीविषयत्वमुच्यते । येन प्रातीतिकत्वविशिष्टरजतस्य व्यावहारिकाभावधीर्वाधिका न स्यात् । किं त्वन्यादृशयोः । तथाहि-अभावज्ञानस्य भावज्ञानं प्रति बाधकत्वं भावोपादानाज्ञाननिवृत्तिप्रयोजकान्तर्गतत्वं वा, भावभ्रमे भ्रमत्वज्ञापकत्वं वा, अधिष्ठानधीविधया भावज्ञानोच्छेदकत्वं वा । आये ' अधिकसत्ताकरजतात्यन्ताभावव्याप्यं शुक्तित्व' मित्याकारकेण निश्चयेनोबुद्धसंस्कारेण वा विशिष्टस्य इयं शुक्ति'रित्याकारकसाक्षात्कारस्य प्रातिभासिकरज
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तोपादानाज्ञाननिवर्तकत्वेन व्यावहारिकाभावज्ञानस्य प्रातिभासिकरजतादिधीबाधकत्वं नानुपपन्नम् । द्वितीयेऽनुपपत्त्यभावस्त्वयैव स्वीकृतः । व्यावहारिकामावज्ञाने रजतव्यावहारिकत्वापहारकत्वस्योक्तत्वात् । व्यावहारिकत्वं हि विश्वमिथ्यात्वनिश्चयपूर्ववर्तिनो मिथ्यात्वनिश्चयस्याविशेष्यत्वम् । तदपहारश्चोक्तनिश्चयविशेष्यत्वादेव। तथा च मिथ्याविषयकत्वरूपभ्रमत्वं रजतज्ञाने उक्ताभावज्ञानेन ज्ञापितमिति स्वीकृतमेवेत्याशयेनाह-तत्रेयमिति । प्रमयेति । शुक्तित्वे रजतीयव्यावहारिकात्यन्ताभावव्याप्यताविषयकेन निश्चयेनोबुद्धसंस्कारेण वा सहितयेति शेषः । सत्त्वस्यापीत्यपिना व्यावहारिकत्वस्य समुच्चयादुक्तरीत्या रजतज्ञाने व्यावहारिकाभावज्ञानस्य भ्रमत्वज्ञापकत्वमुक्तम् । तदसत्त्व इति । असत्त्वमुच्छेदः । आवश्यकत्वादिति । परिणामिन उच्छेदे परिणामस्याप्युच्छेदस्तयोस्तादात्म्यादिति भावः । अत एव अज्ञानतत्प्रयुक्तोच्छेदयोरविप्रकर्षादेव । व्यावहारिकसत्त्वापहारे मिथ्यात्वनिश्चये । अधिष्ठानाज्ञानेति । व्यावहारिकेण तिक्तत्वाभावेन विशिष्टस्य गुडस्य जीवब्रह्मैक्यस्य चाज्ञानेत्यर्थः । प्रतिबन्धकदोषोत्सारणाधीनादधिष्ठानसाक्षात्कारादित्यादिः । एतेन तृतीयेऽपि बाधकत्वे नाभावस्य भावविरोधित्वापेक्षेति सूचितम् । निवृत्तौ उच्छेदे । जीवन्मुक्तस्य तु नाज्ञानमुच्छिन्नम्। संस्कारात्मना सत्त्वात् । अथ वा प्रारब्धभोगोपयोगिदेहादिकमज्ञानशब्देनोच्यते । तथा च 'भूयश्चान्ते विश्वमायानिवृत्ति'रितिश्रुत्या विश्वमायानिवृत्त्युत्तरं भूयोऽपि देहादिनिवृत्त्युक्तेः 'प्रारब्धनाशात् प्रतिभासनाश'इति स्मतेश्च देहाधुच्छेद एव प्रपञ्चाप्रतीतिप्रयोजक इति भावः । अत्रेदमवधेयम् । यत्क्षणे यस्याज्ञानस्य उच्छेदस्तत्क्षणे तत्प्रयुक्तस्यावश्यमुच्छेद इ. ति न नियमः । जीवन्मुक्तावज्ञानसंस्कारस्वीकारपक्षे व्यभिचारात् । नापि यदज्ञानप्रयुक्तोच्छेदप्रतिबन्धकशून्ये यत्क्षण इत्यादिनियमः । विदेहत्वप्रयोजकब्रह्मसाक्षात्कारोत्पत्तिक्षणे 'ब्रह्म साक्षात्करोमी'त्यनुभवेनाज्ञानासत्त्वेऽपि तत्प्रयुक्तमनःपरिणामरूपब्रह्मसाक्षात्कारादिसत्त्वेन व्यभिचारात्। एतादृशोत्पत्तिक्षणे हि नोक्तप्रतिबन्धकमस्ति तद्वितीयक्षणे विदेहत्वसम्पत्त्या सर्वदृश्योच्छेदात् । किं तु यत्क्षणे या प्रमा तत्क्षणे अवश्यं तत्समानविषयकाज्ञानोच्छेदः। उक्तप्रतिबन्धकशून्ये यत्क्षणे यस्याज्ञानस्योच्छेदः तदव्यवहितोत्तरक्षणे अवश्यं तत्प्रयुक्तस्योच्छेदः । या प्रमा यदज्ञानप्तमानविषयिका सा तदज्ञानाधिकरणक्षणावृत्तिः । यो यस्तत्प्रमावानुक्तप्रतिवन्धकशून्यक्षणः सः तदज्ञानप्रयुक्तदृश्याधिकरणकालपूर्ववृत्तिभिन्न इति यावत् ।तथाचाज्ञानसमानविषयकमनोवृत्त्युत्पत्तिक्षणे मनोवृत्यादिसत्वेऽपि न क्षतिः । अज्ञानस्यावरणविक्षेपरूपशक्तिद्वयस्वीकारपक्षे तु आवरणशक्तेरेव सविषयकत्वात् आद्यनियमे
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र° दे द्वितीयमिथ्यात्वम् । ] लघुचन्द्रिका । अज्ञानस्थाने अज्ञानीयावरणशक्तिर्वाच्या। यस्या आवरणशक्तस्समानविषया या प्रमा सा तस्था अधिकरणक्षणावृत्तिः । तेन विक्षेपशक्तेस्तदज्ञानस्य च जीवन्मुक्तिकाले सत्त्वेऽपि न क्षतिः । द्वितीयनियमे तु तदज्ञानप्रयुक्तस्थाने तदज्ञानतदीयविक्षेपशक्तितत्प्रयुक्तेति त्रितयं वाच्यम् । एतेन प्रतिपन्नोपाधावित्यादेरुक्तव्याख्यानेन । प्रतिपन्ने ब्रह्मसम्बन्धितया ज्ञाते । परमार्थतः पारमार्थिकत्वेन। स्वरूपेण चेति शेषः । अभावादिति । भावः प्राप्तिः । 'भूप्राप्ता वित्यनुशासनादिति तदभावादित्यर्थः । तथा च प्रतिपन्नोपाधौ कालादौ ब्रह्मसम्बन्धाभावस्य सर्वसम्मतत्वात् सम्बन्धसामान्याभावस्यैव सम्बन्धिसामान्याभावत्वात् तादृशाभावप्रतियोगित्वस्य ब्रह्मणि सत्वादतिव्याप्तिरिति भावः । निर्धर्मके अभावप्रतियोगित्वप्रयोजकधर्मवद्भिन्ने । येन रूपेण यस्याभावः प्रत्यक्षः येन वा हेतुना यत्राभावप्रतियोगित्वमनुमीयते तद्रूपमुक्तप्रयोजकम् । ब्रह्मणि तु तन्नास्त्येव । केनापि रूपेण ब्रह्मणोऽभावप्रत्यक्षाभावात् । शुद्धब्रह्मणस्तु नाभावः प्रत्यक्षस्सम्भवति । प्रतियोगितानुयोगितावच्छेदकरूपाभ्यामेवाभावः प्रत्यक्ष इति नियमात् । उपहितब्रह्मतादात्म्यादेः ब्रह्मणि सत्त्वेऽपि न तस्याभावप्रतियोगितानुमापकत्वम् । अप्रयोजकत्वादिति भावः । तत्र तत्स्वरूपे । श्रुतीति। स्वरूपात्मकसत्यत्वादिबोधक श्रुतीत्यर्थः । उक्तं हि पञ्चपाद्याम्-'आनन्दो विषया नुभवो नित्यत्वं चेति ब्रह्मणो धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते' इति । चकारात् सत्यत्वादिसङ्ग्रहः । पृथगिवेति निरुपाधीष्टत्वादिविशिष्टरूपेण कल्पितेन केवलचिद्रूपात् भिन्ना इवेत्यर्थः । केवलचिदेव हि उक्तविशिष्टरूपतादात्म्योपलक्षिता सती आनन्दरूपा। शुद्धायामपि चिति निर्विकल्पकवृत्तितन्नाश्याज्ञानयोर्विघयत्वस्येव विशिष्टचित्तादात्म्यस्यापि सत्त्वात् विशिष्टकेवलयोस्तादात्म्यस्यावश्यकत्वात् । धर्मान्तरस्य शुद्धचित्यस्वीकारेऽपि विशिष्टतादात्म्यादिस्वीकारात् । यत्तु, केवलचिदेव निरुपाधीष्टत्वाकारवृत्त्या भासमाना आनन्दरूपा । आवरणविरोधिविशिष्टत्वाकारवृत्त्या ज्ञानरूपा । एवं मिथ्यात्वाभावविशिष्टत्वाकारवृत्तिभिः सत्यत्वादिरूपा । तादृशेष्टत्वादीनां शुद्धब्रह्मण्यसत्त्वेऽपि तादृशेष्टचित्तादात्म्यसत्त्वात् तदाकारवृत्तिनिवेश्या । यदि चोक्ततादात्म्यं तदुपहितचित्येव स्वीक्रियते न तु शुद्धचितीति पक्षः स्वीक्रियते, तदा उक्ततादात्म्याकारवृत्तिद्वारकशुद्धब्रह्माकारवृत्तिनिवेश्या । अत एव पृथगिवेत्यस्यान्तःकरणवृत्त्युपाधौ भिन्ना इवेति विवरणकारव्याख्यानमिति । तन्न । तत्तद्रूपोपलक्षितचित एवानन्दादिरूपत्वसम्भवे तत्तदाकारवृत्त्युपलक्षितस्य तद्रूपत्वकल्पने गौरवात् । विवरणे वृत्तिनिवेशस्तु, निरुपाधीष्टत्वादौ प्रमाणसूचनायेत्याशयेनाचार्य आह-मिथ्या
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
अद्वैतमञ्जरी ।
त्वाभावरूपसत्यत्वस्येत्यादि । वस्तुतस्तु, निरुपाधीष्टत्वादिनोपलक्षितत्वं तत्रकारकमनोवृत्त्युत्तरं निर्विकल्पकमनोवृत्त्या विषयीकृतत्वम् । अन्यथा शुद्धस्यैव ततद्रूपोपलक्षितत्वेन सत्यत्वानन्दत्वादिधर्मभेदानुपपत्तेः। तत्तद्धर्मप्रकारकज्ञानोत्तरमतद्व्यावृत्तिधीविषयत्वस्यापि तत्रैव पर्यवसानम् । आनन्दादीनां विशिष्टरूपत्वे तु
खरूपात्मकता न स्यात् । तस्मात् मिथ्यात्वेत्यादिमूलमपि विवरणवाक्यानुसारेण व्याख्येयम् । परप्रकाश्यत्वेति । अन्याधीनव्यवहारकत्वेत्यर्थः । घटादेरिव चितो ऽपि व्यवहारः हि चिदधीनः न चिदन्याधीनः । व्यवहारविषयतामा चित्तादात्म्यस्य प्रयोजकत्वात् । न च चिति तत्तादात्म्यासम्भवः । व्यवहारपूर्वकालोपहितचिति केवलचित्तादात्म्यसत्त्वात् । कार्यपूर्वकालोपहिते कारणसम्बन्धस्यैव कार्येषु प्रयोजकत्वात् । कालपरिच्छेदो नाशप्रतियोगित्वम् । देशपरिच्छेदोऽत्यन्ताभावप्रतियोगित्वम् । वस्तुपरिच्छेदो भेदप्रतियोगित्वम् । ननु, ब्रह्मणो मिथ्यात्वाभावादिस्वरूपस्य सत्यतादिरूपत्वमनुपपन्नम् । उक्ताभावत्वादिविशिष्टस्य मिथ्यात्वात् । अत एवं नोक्ताभावत्वादिविशिष्टतादात्म्योपलक्षितस्वरूपस्य सत्यतादिरूपत्वं तादात्म्यस्यापि स्वोपहित एव सत्त्वेन तदुपलक्षितत्वस्य शुद्धब्रह्मण्यसत्त्वात् । शुद्धे तत्स्वीकारेऽपि प्रपञ्चेऽतिव्याप्तिः । मिथ्यात्वादेरपि मिथ्यात्वेन प्रपञ्चेऽपि तदभावस्य प्रपञ्चस्वरूपस्य सत्त्वेन तत्तादात्म्योपलक्षितस्वरूपत्वानपायात् । न हि यदधिष्ठानरूपमधिकरणं तदेवाभावस्वरूपं नान्यदधिकरणमित्यत्र मानमस्ति । अथ मिथ्यात्वादिविशिष्टात् भेदः सत्यत्वादिकं वाच्यम् । तथापि मिथ्यात्वादिधर्मस्य ब्रह्मण्येव कल्पितत्वात् कथं नत्रोक्तभेदः । तत्राह-तथा चेत्यादि । तथा च सत्यत्वादेरभावरूपत्वे च । भावरूपधर्मानाश्रयत्वेऽपि मिथ्यात्वादिधर्मान्प्रति सम्बन्धविशेषेणानाश्रयत्वेऽपि । सर्वधर्माभावरूपतया स्वाधिष्ठानकसर्वधर्माभावत्वविशिष्टतादात्म्योपलक्षितस्वरूपत्वेन । तथा चाध्यासिकतादात्म्येन ब्रह्मणः प्रतियोगित्वादिरूपमिथ्यात्वादिधर्मवत्त्वेऽपि विशेषणताविशेषादिसम्बन्धेन तद्विशिष्टाद्भेदसम्भवेन तत्समानाधिकरणो यो मिथ्यात्वात्यन्ताभावस्तद्वत्तादात्म्योपलक्षितस्वरूपमुक्तभेदवत्तादात्म्योपलक्षितस्वरूपं वा सत्यत्वादीति भावः । एतेन मिथ्यात्वाद्यभावतादात्म्यवति ब्रमणि भावानाश्रयत्वोक्तिर्न युक्तेत्यपास्तम् ॥
॥ इति लघुचन्द्रिकायां द्वितीयमिथ्यात्वनिरुक्तिः ॥ _ 'विद्वान्नामरूपाहिमुक्त' इत्यादिश्रुत्यर्थे विवदमानं प्रति साध्यान्तरमाह---ज्ञा ननिवर्त्यत्वं वेति । अतिव्याप्तिः सिद्धसाधनम् । ज्ञानत्वेन ज्ञाननिवर्त्यत्वेति ।
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे तृतीयमिथ्यात्वम् ] लघुचन्द्रिका ।
ज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यतावन्नाशप्रतियोगित्वेत्यर्थः । अयं उक्ताव्याप्तिरूपः। प्रपञ्चनाशं प्रति ब्रह्मज्ञानस्य न कारणता । चरमतत्त्वज्ञानजन्यनाशस्यानाशापत्त्या 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिविरोधापत्तेः । तस्य ज्ञानानिवय॑त्वात् तत्सत्यत्वापत्तेः 'अतोऽन्यदात'मित्यादि श्रुतिबाधाच्च । तथा च शक्तिरूप्यादावप्युक्तज्ञाननाश्यत्वे मानाभावात् साध्याप्रसिद्धिरित्यपि बोध्यम् । ज्ञानप्रयुक्तेत्यादि । ज्ञानप्रयुक्तोऽधिष्ठानतत्त्वज्ञानव्यापको यः अवस्थितिसामान्यस्य स्वस्वीयसंस्कारान्यतरस्याभावः तत्प्रतियोगित्वमित्यर्थः ।या या अप्रामाण्यज्ञानादिशून्यसाक्षात्कारप्रमा । सा समानविषयकाज्ञानक्षणावृत्तिः । या या खजन्यपटुतमसंस्कारसहितोक्तप्रमा सोक्ताज्ञानतत्संस्कारक्षणावृत्तिः । सहितान्तोपादानादुक्तसहितान्यशुक्त्यादिप्रमाया उक्तसंस्कारक्षणवृत्तित्वेऽपि न व्यभिचारः । अत एव जीवन्मुक्तनिष्ठब्रह्मप्रमाऽपि तादृशक्षणवृत्तिः । या योक्तप्रमा । सा स्वसमानविषयकाज्ञानप्रयुक्ततत्संस्कारवत् कालपूर्वभिन्ना । तथा च तादात्म्येनोक्तप्रमा प्रति स्वाधिकरणक्षणवृत्तित्वसम्बन्धेनोक्ताज्ञानतत्संस्कारान्यतरस्याभावः उक्ताज्ञानप्रयुक्ततत्संस्कारान्यतरस्य स्वाधिकरणकालपूर्वत्वसम्बन्धेनाभावश्च व्यापकः । तादृशाभावप्रतियोगित्वस्याज्ञानतत्प्रयुक्ततसंस्कारेषु सत्त्वाल्लक्षणसमन्वयः । तादात्म्येन तादृशप्रमा प्रति स्वसमानविषयकत्वं कालिकत्वं चेति सम्बन्धद्वयेनाज्ञानतत्संस्कारान्यतरस्याभावः स्वप्रयोजकाज्ञानसमानविषयकत्वं स्वाश्रयकालपूर्वत्वं चेति सम्बन्धद्वयेनाज्ञानप्रयुक्ततत्संस्कारान्यतरस्याभावश्च व्यापक इति तु निष्कर्षः । नानाज्ञानपक्षे तत्पुरुषीयत्वमपि प्रमाऽज्ञानयोनिवेश्यम् । अवस्थितिरिति । प्रकृतस्यावस्थितिपदस्यार्थः । स्वरूपेण कारणात्मना चेति । अज्ञानतत्प्रयुक्तस्वरूपेण स्थूलावस्थाकारणीभूतसंस्काररूपेण च ।झटिति अज्ञानसंस्कारस्य स्थूलावस्थोपधायकत्वं जीवन्मुक्तिदशायामस्त्येव। तदर्थमेव तत्स्वीकारात् । ननु, संस्काररूपे मानाभावः तत्राह-सत्कार्यवादेति । कार्याणां तदधिष्ठानतत्त्वसाक्षात्कारपर्यन्तं किश्चिदूपमवश्यं वाच्यम् । प्रलयकाले अदृष्टादिनन्यायाः काविस्थायाः तत्कालसाधकश्रुत्यादिसिद्धत्वात् । 'तद्वेदं तहव्यालतमासीदित्या'दिश्रुत्या तत्काले कार्यस्यानभिव्यक्तरूपेण स्थितिबोधनात् दण्डादिपातेन घटो नष्टइत्यादि प्रत्ययेन दण्डपातादिजन्यनाशावगाहनाच्च । न हि तार्किकादिमतेऽपि कायस्य नाशोऽपलप्यते। परं तूक्तश्रुत्या घटो नाशत्वमापन्नः पूर्वावस्थैवोचरावस्था जातेस्याद्यनुभवेन च सिद्धं नाशस्य पूर्वावस्थातादात्म्यापन्नोत्तरावस्थारूपत्वम् । न च पूपूर्वोत्तरावस्थयोस्तादात्म्यमनुपपन्नमिति वाच्यम् । भिन्नकालीनयोः प्रतियोग्यनुयोगिभावसम्बन्धस्येव तादात्म्यस्यापि अनुभवबलेन सम्भवात् । अन्यथा घटादिकालाव
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
त्तिज्ञानादेः घटादौ विषयतादिसम्बन्धस्यापलापापत्तेः । तथा च सर्वदा व्यवहारकाले कार्यस्य तादात्म्यापन्नं किञ्चित्कार्यरूपमस्ति । तत्त्वदर्शनं विना तदुच्छेदासम्भवादिति सत्कार्यवादः सांख्यानामिवास्माकमपि । परं त्वस्माकं तद्रूपं मिथ्येति विशेषः । ननु, ज्ञाननन्यनाशप्रतियोगित्वमेव ज्ञाननिवर्त्यत्वमस्तु । मुद्गरादिना तु घटादेर्नाशो न जन्यते । मुद्गरादितः पूर्वसिद्धस्य घटाद्युपादानस्य कपालादेरेव तत्तत्कालावच्छिन्नस्य घटादिनाशत्वात् । न चैवं तत्त्वज्ञानेनापि कपालादिरूपस्य नाशस्याजननात् घटादावव्याप्तिरिति वाच्यम् । श्रुतिप्रामाण्यादज्ञानकालीनकपालादिरूपाणां घटादिनाशानां ज्ञानाजन्यत्वेऽपि ज्ञानोत्तरकालोत्पन्नस्वेतरसर्वप्रतियोगिकनाशस्य ज्ञानजन्यत्वे सिद्धे कपालादिनाशस्यापि घटादिनाशत्वेन घटादिनाशस्य ज्ञाननन्यत्वानपायात्।तत्राह-तथाचेति । ज्ञानप्रयुक्तेत्यादिलक्षणे कृते चेत्यर्थः । ब्रह्मेत्यादि । एक्कारः स इत्यस्योत्तरं योजनीयः। तथा च स एव उक्तसम्बन्धेनाज्ञानप्रयुक्ततत्संस्कारान्यतराभावरूपोक्तावस्थितिसामान्याभाव एव । ज्ञानप्रयुक्तः ज्ञानाधीनः । न तु घटादिनाशो ज्ञानकालीनकपालादिनाशरूपः । तस्य ज्ञानजन्यत्वे पश्चान्नाशकाभावेन स्वनाश्यत्वस्वीकारे ज्ञानानाश्यत्वेन च सत्यत्वापत्तेः । नचोक्तावस्थितिसामान्याभावस्येव कपालादिप्रपञ्चनाशस्यापि ज्ञानोत्पत्तिक्षणे द्वितीयक्षणे वा ज्ञानस्याक्षणिकत्वपक्षे उत्पन्नत्वेन प्रपञ्चसमानकालीनत्वं स्वीकृत्य ज्ञानप्रयुक्तत्वमुच्यतामिति वाच्यम् । नाशस्य प्रतियोगिक्षणावृत्तित्वनियमात् । प्रतियोगिक्षणवृत्तिनाशे मानाभावात् । चरमक्षणस्य स्वेतरसकलदृश्यनाशत्वसम्भवेऽपि स्वनाशत्वासम्भवेन तस्य ज्ञानजन्यनाशप्रतियोगित्वोपपादनासम्भवादुक्तावस्थित्यभावविषयकतया ज्ञानात् दृश्यं सर्वंनष्ट' मिति प्रत्ययोपपत्तेः तत्त्वज्ञानजन्यनाशे मानाभावाच्च । तस्मात् स एव ज्ञानाधीनः । ज्ञानादुक्ताभाव इति प्रत्ययेन ज्ञानकालीनेऽप्युक्ताभावे ज्ञानाधीनत्वसम्भवात् । ज्ञाननाशकालीनस्य उक्ताभावस्य स्वीकारे तस्य नाशकाभावेन सत्यत्वापत्तेः । न तु कपालादिनाशो मानाभावादिति या अतीतवटादौ ज्ञाननाश्यत्वलक्षणस्याव्याप्तिः सा ज्ञानप्रयुक्तेत्यादिकरणान्नेत्यर्थः । ननूक्तावस्थित्यभावोऽपि न ब्रह्मज्ञानप्रयुक्तः प्रलयादौ ब्रह्मज्ञानं विनापि तत्सत्त्वेन तस्य ब्रह्मज्ञानानधीनत्वादित्यत उक्तम्-मुद्गरपातेनेति । उपलक्षणमिदम् । ब्रह्मज्ञानान्येनादृष्टादिनेत्यर्थः। प्रयुक्तत्वं तृतीयार्थः । तस्य च विरहपदार्थद्वयेऽन्वयः । तथा च घटादिस्वरूपप्रतियोगिकविरहस्य ब्रह्मज्ञानान्यप्रयुक्तत्वेऽपि घटादिसंस्कारप्रतियोगिकस्य उक्तावस्थितिसामान्याभावस्य ब्रह्मज्ञानान्याप्रयुक्तत्वेन ब्रह्मज्ञानप्रयुक्तत्वं तस्याक्षतमिति भावः । यदि च चरमक्षणे स्वेतरस्येव स्वस्यापि ध्वंसत्वं स्वीक्रियते, एकत्रापि तत्र रूपभेदेन ध्वंसत्वं प्रति प्रतियोगित्वानु
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
•
प्र • दे तृतीयमिथ्यात्वम् ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
६१
योगित्वयोः ः सम्भवात् । सकलदृश्यत्वेन हि तत्र प्रतियोगित्वम् । चरमतत्वज्ञानाश्रयवत्क्षणव्यक्तित्वेनानुयोगित्वम् । 'घटाभावे स नास्ती' त्यादिप्रत्ययबलेनाश्रमवामिनां मते घटाभावादिप्रतियोग्यनुयोगिकस्यात्यन्ताभावस्येव 'ज्ञानात् सर्वदृश्यं नष्टमित्यादिप्रत्ययवलेन सर्वदृश्यप्रतियोगिकस्य चरमक्षणानुयोगिकस्य ध्वंसत्वस्य सम्भवात् । तदा ज्ञानप्रयुक्तावस्थितीत्यादेर्ज्ञानाधीनो यः स्वस्वीयसंस्कारोभयस्य नाशस्तत्प्रतियोगित्वमर्थः । उत्तरज्ञाननाश्यत्वमादाय पूर्वज्ञाने सिद्धसाधनात् संस्कारनिवेशः । स्मृतिनाश्यसंस्कारकत्वमादायानुभवे सिद्धसाधनात् स्वेत्यस्य निवेशः । संस्कारस्य स्मृत्यनाश्यत्वे तु न तन्निवेश्यम् । अवस्थितिचेत्यादि । अवस्थितिपदार्थ: उभयरूप इत्यर्थः । ननु, मुद्गरपातादिनाऽपि घटतत्संस्कार योनीशसम्भवेन नोक्तनाशो ज्ञानप्रयुक्तः । तत्राह - तथाचेत्यादि । विरहपदे नाशपरे । विरहाभावादिति । तथाचोक्तश्रुत्यादिसिद्धो दण्डाद्यनाश्यो घटादिसंस्कारः प्रलयादिनिष्ठ आवश्यक इति भावः । सः स्वरूपसंस्कारो भयनाशः । ज्ञानप्रयुक्त एवेति स्वरूपनाशात्मकसंस्कारप्रतियोगिकस्य नाशस्यापि स्वरूपनाशत्वेनोभयप्रतियोगिकनाशो ज्ञानप्रयुक्त एवेति नातीतघटाद्यव्याप्तिरिति भावः । अथवा ज्ञानप्रयुक्तावस्थितीत्यादेरयमर्थः । अज्ञानप्रयुक्ततत्संस्कारान्यतरस्य पूर्वोसम्बन्धद्वयेन योऽत्यन्ताभावो ज्ञानाधीनस्तत्प्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति पूर्वमते नाशस्येव एतन्मतेऽत्यन्ताभावस्य ज्ञानसमानकालीनस्याऽपि ज्ञानाधीनत्वम् । 'तत्वज्ञानादज्ञानप्रयुक्तमुच्छिद्यते सर्वदृश्यमुच्छिद्यते' इति प्रत्ययात् । ननूक्तात्यन्ताभावस्याविद्यकत्वेन तस्याप्युक्तात्यन्ताभावो ज्ञानाधीनो वाच्यः । एवं तस्यापीत्यनवस्थेति चेन्न । पूर्वमते एकस्यैव स्वस्वेतरनाशत्ववदेतन्मतेऽप्येकस्यैव स्वस्वे - तरोक्तात्यन्ताभावत्वस्य सम्भवात् । ननु प्रलयादावुक्तात्यन्ताभावस्य ब्रह्मज्ञानं विनाऽपि सत्त्वेन न स तत्प्रयुक्तस्तत्राह – तथाचेत्यादि । मुद्गरपातेन ब्रह्मज्ञानान्येन । ज्ञानप्रयुक्तः ज्ञानाधीनः । अथवा ज्ञानप्रयुक्तो ज्ञानाधीनः योऽवस्थितिसामान्यस्य स्वात्मकसामान्यस्याभावः तत्प्रतियोगित्वं ज्ञाननिवर्त्यत्वम् । स्वात्मकञ्च स्वसमसत्ताकं ग्राह्यम् । तच्च स्वस्वीय संस्काररूपस्वीयपरिणामादिरूपमेव । न तु ब्रह्म । ज्ञानेन हि अज्ञानतत्परिणामसामान्यस्यात्यन्ताभावः स्वोत्पत्तिद्वितीयक्षणावच्छिन्नस्साच्यते । साध्यता च तत्र क्षेमसाधरणी । स चाभावः स्वान्यसर्वदृश्यविरोधी क्षणिक इति व्याख्या । तदेतद्व्याख्याचतुष्टयं दर्शितम् । अत एव यथाश्रुतस्य ज्ञाननिवर्त्यत्वस्यासाध्यत्वादेव । तद्वदेव पूर्वज्ञानस्योत्तरज्ञाननाश्यत्व इव । ननूक्तसम्बन्धद्वयेन कस्य चिद्येोऽत्यन्ताभावः तत्प्रतियोगित्वमेवास्तु । किं उक्तान्यतराभावस्याज्ञानप्र
I
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
युक्तत्वस्य वा निवेशेन । द्वितीयपक्षे च किमुक्तनाशत्वस्य ज्ञानप्रयुक्तत्वस्य च निवेशेन। तत्राह-शशेत्यादि । अवस्थितिसामान्यस्य विरहः उक्तसम्बन्धद्वयावच्छिन्नप्रतियोगिताकात्यन्ताभावप्रतियोगित्वम् । चतुर्थपक्षे तु तथा चेत्यादि नातिव्याप्तिरित्यन्तो अन्थः सङ्गच्छतेतमाम् । ननु, तत्पक्षे दृश्यसामान्यस्याध्यासिकतादात्म्यसम्बन्धेनात्यन्ताभावो ज्ञानाधीनः सम्बन्धान्तरेण वा सः । आद्ये तादात्म्यस्य भेदप्रतियोगितायामेवावच्छेदकत्वादसङ्गतिः । द्वितीये अध्यस्तसर्वसम्बन्धैरत्यन्ताभावस्य ज्ञानप्रयुक्ततया प्रतीतिविरुध्यतेति चेन्न । आध्यासिकतादात्म्यस्य विषयतायाः समवायस्य च स्थानापन्नत्वेनात्यन्ताभावप्रतियोगितायामेवावच्छेदकत्वात् भेदप्रतियोगितायाः सम्बन्धावच्छिन्नत्वे मानाभावात् । न चोक्ताभावस्य कैवल्येऽप्यनुवृत्त्यापातात् 'विद्वान्नामरूपाद्विमुक्त'इत्यादिश्रुतिविरोध इति वाच्यम् । क्षणिकत्वस्योक्तत्वात् । ननु, शुक्तिरजतादेरपि शशविषाणवदलीकत्वेनाज्ञानप्रयुक्ततत्संस्कारान्यतराभावाप्रतियोगित्वात्साध्यवैकल्यम् । तत्राह-शुक्तीत्यादि । तद्विरह इति । अत एव तस्याज्ञानप्रयुक्तत्वमिति शेषः । अत एव उक्तात्यन्ताभावस्य ज्ञानव्यापकत्वात् , ज्ञानाधीनत्वाद्वा, उक्तनाशस्य ज्ञानाधीनत्वाद्वा । स्वकार्येण स्वप्रयुक्तेन । विलीनेन संस्कारेण । वर्तमानेन स्थूलेन । सह सहितस्य । ज्ञानेन ज्ञानव्यापिका, ज्ञानाधीना वा । निवृत्तिः उक्तात्यन्ताभावः, उक्तनाशो वा । अत्रे बोध्यम्। निवृत्तेहानाधीनत्वपक्षे ज्ञानोत्पत्तिकालीनेऽप्यज्ञानतत्सम्बन्धयोनिवृत्तिस्वरूपे अखण्डधर्मरूपं ज्ञानाधीनत्वमविरुद्धम् । घटादिरूपे तत्प्रागभावनिवृत्तित्वविशिष्टे घटाद्यधीनत्ववत् । घटात्तत्रागभावो निवृत्त इति धीवत् 'तरति शोकमात्मवित्' 'सोऽविद्यापन्धि विकिरती'त्यादिप्रतीतेजानोत्पत्तिकाल एवाविद्यानिवृत्त्यनुभवाच्च । यदि च स्वोत्पत्तिक्षणावच्छिन्नायां निवृत्तौ ज्ञानाधीनत्वं न स्वीक्रियत इत्याग्रहः, तथापि घटादिजनकसामग्य एव घटादिप्रागभावनिवृत्तिजनकत्वस्वीकारादव्यवहितपूर्वत्वसम्बन्धेन घटविशिष्टत्वेनैव तस्य वाच्यत्वात्तजनकतावच्छेदकस्यापि कार्ये प्रयोजकत्वात् । घटात्तत्प्रागभावनिवृत्तिरिति प्रत्यये घटप्रयोज्यत्वं निवृत्तौ भाति । यदि चोक्तनिवृत्तिर्घट एव न तदन्या, तत्र च कपालत्वादिनैव हेतुत्वं न तु घटवत्त्वेनेति न घटस्य स्वस्मिन् प्रयोजकत्वमुच्यते, तदा घटात्तत्मागभावो निवृत्त इति व्यवहारो न मुख्यः । किं तु घटजनकात् घटप्रागभावनिवृत्तिरित्येव मुख्यो व्यवहारः । 'तरति शोक' मित्यादौ शोको नाविद्यादिकम् । किं तु दृश्यमात्रम् । आत्मविद्वा आत्मज्ञानसाधनवानिति दिक् । इतरदृश्यनिवृत्तौ तु ज्ञानसाध्यतापि सम्भवति । ज्ञानोत्पत्त्युत्तरकालीनत्वात् । उक्तसाध्यतापि ज्ञानाधीनाग्रिमसमयसम्बन्धरूपा तादृशदृश्यविरोधित्वविशिष्टे एवात्यन्ताभावे स्वीक्रियते ।
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे तृतीयमिथ्यात्वम्
लघुचन्द्रिका ।
ज्ञानपूर्वकालीनत्वविशिष्टे तादृशात्यन्ताभावे ज्ञानसाध्यत्वस्याप्रतीतेः । तादृशविरोधित्वञ्च तस्य नानुपपन्नम् । तत्वज्ञानस्योक्तात्यन्ताभावेतरदृश्याश्रयकालपूर्वत्वविशिष्टान्यत्वनियमात् । तादृशात्यन्ताभावस्यापि क्षणिकत्वम् । दृश्याश्रयकालपूर्वत्वविशिष्टान्यत्वनियमादिति । एवमज्ञानप्रयुक्तसाहित्यस्याज्ञाने कथनात् अज्ञानस्य निवृत्तिक्रियायां प्राधान्यलाभात् प्रथममज्ञानस्य पश्चादज्ञानप्रयुक्तस्य निवत्तिरिति सूचितम् । तत्रापि स्वसाहितस्य स्वप्रयोजकाज्ञानस्य ज्ञानप्रयुक्ता निवृत्तिरज्ञानप्रयुक्तस्य बाध इति बोध्यम् । अज्ञानप्रयुक्तस्यैव बाध्यत्वव्यवहारात् । स्वप्रयोजकाज्ञाने निवृत्तेऽपि जीवन्मुक्ते देहादिबाधाव्यवहारात् स्वसहितस्येति । प्रलयादौ घटादेनिवृत्तिरपि जीवन्मुक्तस्य नानाशरीरप्रापकप्रारब्धकर्मणाऽग्रिमकपे संसरिष्यत इन्द्रादेश्वाज्ञाननिवृत्तिसहितेति तस्यास्तं प्रति घटादिबाधत्वाभावात् ज्ञानप्रयुक्तेति । उक्तविवरणवाक्ये निवृत्तिपदमत्यन्ताभावपरमपि वक्तुं शक्यते । वक्ष्यमाणवार्तिकवाक्येन नासीदित्यादिना अविद्यातत्प्रयुक्तात्यन्ताभावस्य बोधनात् । अत एवोक्तं वासिष्ठादौ 'दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । संपन्नश्चेत्तदोत्पन्ना परनिर्वाणनिति 'रिति । ननु, मनस इत्यस्य बोधेऽन्वयो मार्जने वा । आद्ये तत्वज्ञानसाध्यस्य दृश्यसामान्याभावस्य स्वेतरसर्वदृश्यविरोधित्वस्य पूर्वोक्तस्य भङ्गः । तादृशविरोधित्वे सति तादृशाभावस्य तत्कालीनमनोनिष्ठवृत्तिरूपबोधविषयत्वासम्भवात् । अत एव न द्वितीयः । उक्तात्यन्ताभावरूपस्य मार्जनस्य मनोनिष्ठत्वासम्भवात् । अथ दृश्ये तदन्वयः । तथापि तादृशबोधस्य वृत्तिरूपस्य दृश्यत्वेनोक्तदोषानपाय इति चेन्न । उक्तात्यन्ताभावस्य स्वस्ववि षयकवृत्तिभिन्नसर्वदृश्यविरोधित्वस्यैव स्वीकारात् साक्षिभास्यत्वस्वीकाराद्वा इत्याशयेनाह-वार्तिकेत्यादि । लीनेन ज्ञानकालीनसंस्काररूपलयप्रतियोगिना । तथा चाज्ञानस्य वर्तमानत्वेऽप्यतीतकार्यसहितरूपेणातीतत्वादासीदित्यस्य प्रसक्त्या नासीदिति निषेधसम्भव इति भावः । भाविकार्येत्यादि । कार्यजनकस्यादृष्टादेरत्यन्तामावानात्कार्यस्यात्यन्ताभावरूपा या निवृत्तिस्तत्सहिताज्ञाननिवृत्त्यभिप्रायकमित्यर्थः । तथा चादृष्टादिकारणसत्त्वादने भाविता यजातीयस्य कार्यस्य प्रसक्ता तज्जातीयस्यादृष्टाद्यभावात् ज्ञानप्रयुक्तादभावो न भविष्यतीत्यनेन बोध्यत इति । अन्यदिति । कारणाभावप्रयुक्तस्य कार्याभावस्य ज्ञानं विनाऽपि सत्त्वेन न बाधरूपत्वमिति स प्रकृतानुपयुक्त इत्यर्थः । नन्वेकाज्ञानपक्षे शक्तिरूप्यादेब्रह्मज्ञानं विना निवृत्त्यभावेन तत्र ज्ञाननिवर्त्यत्वस्योक्तानुमानपूर्वमग्रहण व्याप्तिग्रहासम्भवस्तत्राह-रूप्येत्यादि । वैकल्यं अग्रहः । तथा च नामाज्ञानपक्ष एवेदं बोध्यम् । वस्तुतस्तु; एकाज्ञा.
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
अद्वैतमञ्जरी ।
नपक्षेऽपि दोषजन्यधीविषयत्वेन शुक्तिरूप्यादेर्ज्ञाननिवय॑त्वमनुमाय व्याप्तिग्रहसम्भवः । ननु, पूर्व इवोत्तरोऽप्यवधिदृश्याब्धेर्नास्त्येव । तदुक्तं प्रलयस्याप्यस्वीकर्तृभिर्मीमांसकैः--'न कदाचिदनीदृशं जगदिति । आस्तां हि तत्वज्ञानमात्यन्तिकदुःखनाशस्य नित्यसुखसाक्षात्कारस्य वा मोक्षस्य हेतुः । शोकं दुःखम् । आनन्दं आनन्दः । ब्रह्मणः बृहतः जीवस्येति यावत् । रूपं नित्यधर्मः । मोक्षे मोक्षहेतुज्ञाने अनुप्रतिष्ठितमित्यर्थिकायाः 'तरति शोकमात्मवित् आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठित मित्यादिश्रुतेः। उक्तनिवृत्तिप्रयोजकं तु कुतस्तत्राह-मुद्रेत्यादि । पातानन्तरं पातोत्पत्तिरूपव्यवधायकशून्यकाले । पातोत्पत्तिक्षण इति यावत् । घटो नास्तीति । स्वाश्रयकालपूर्वत्वसम्बन्धेन घटो नास्तीत्यर्थः । एवं ज्ञानानन्तरमित्यादि दृष्टान्तेत्यर्थः । रूप्यं चेति चकारात्तत्कारणाज्ञानसम्बन्धग्रहणम् । ज्ञानसाध्यनिवृत्तिपक्षे तु अनन्तरपदयोरुत्पत्त्यव्यवहितोत्तरक्षणोऽर्थः । नास्तीति शब्दस्याद्यस्य मुद्गरपातप्रयुक्ता द्वितीयस्य ज्ञानप्रयुक्ता निवृत्तिरस्तीत्यर्थः । नमो निवृत्यर्थत्वादिति भावः । अनन्तरमिति च सावधारणम् । तथा चास्तीत्यस्य वर्तमानत्वार्थकत्वेनेदानीमेव मुद्रपातप्रयुक्ता निवृत्तिर्न तु क्षणान्तर इति धीवत् एतत्क्षण एव ज्ञानप्रयुक्ता सर्वदृश्यनिवृत्तिर्न तु क्षणान्तर इति सार्वलौकिकधीबलादुक्तनिवृत्तिप्रयोजकत्वं ज्ञानस्य युक्तम् । तदनुसृत्य पूर्वोक्तव्याप्तीनां कल्पनमपीति भावः । ननूक्तव्याप्तीनां ग्राहकः कस्तर्क इति चेत् 'दण्डपातोत्पत्तिक्षणो यो यस्स घटसमवायितत्तद्देशावच्छेदेन घटवत्कालपूर्वो ने ति व्याप्तौ ‘स यदि तथा न स्यात् तदोक्तपूर्वत्वेन प्रमीयते'ति तर्क इव 'तत्त्वप्रमा या या सा स्वसमानविषयकाज्ञानप्रयुक्तवत्कालपूर्वाने' त्यादिव्याप्तौं 'सा यदि तथा न स्यात् तदोतपूर्वत्वेन प्रतीयेते'त्यादितर्को ग्राहकः । यदि चैवं न स्वीक्रियत तदा दुःखनाशस्य तत्वज्ञानसाध्यत्वेऽपि तदधिकरणक्षणे दुःखं कुतो नोपलभ्यते। कुतो वा नानुवर्तते । नाशस्य प्रतियोग्यसमानकालीनत्वनियमादिति चेन्न । उक्तनियम एव हेतोः पृष्टत्वात् । अथ नाशननकदण्डपातादिसमूहाश्रयक्षणस्य घटाद्याश्रयकालपूर्वत्वाभावनियमादिति चेत्तर्हि दण्डपातादेरुक्तविशेषणं विनाप्युक्तनियमस्य त्वया स्वीकारात् । प्राभाकरादिमते नाशस्य तत्तदधिकरणरूपस्य दण्डपाताद्यजन्यत्वेन तादृशनियमस्यैव स्वीकाराच्च । तत्वज्ञानस्थलेऽपि तत्वज्ञानादिसमूहाश्रयक्षणस्य दुःखाधिकरणकालपूर्वत्वाभावव्याप्तिः प्राभाकरादिभिस्त्वयाऽ पि स्वीक्रियते । तथा च तद्वदेव मन्मते प्रमायामुक्तपूर्वत्वाभावनियमे न कोऽपि दोषः । यदि चोक्तविशेषणविशिष्टदण्डपातादरेव तथा नियमः । प्राभाकरादिमते
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र • दे तृतीयमिथ्यात्वम् ]
लघुचन्द्रिका ।
ऽपि घटादिचरमक्षणरूपो नाशो दण्डपातादिनन्यः । तदुत्तरक्षणरूपस्य तत्क्षणनाशस्यापि घटादिनाशत्वादग्रेऽपि तन्नाशव्यवहार इत्युच्यते, तदा तत्वज्ञानस्थलेऽपि तथा दर्शितमेव । ब्रह्मज्ञानोत्पत्तिद्वितीयक्षणस्य तु उत्तरक्षणाप्रसिद्धेः न तन्नाशस्याये ऽनुवृत्तिरिति स एव दृश्याब्धेस्तीररूपा मर्यादा ब्रह्मज्ञानं वा । सर्वथाऽपि ब्रह्मज्ञानं स्थिराया निवृत्तेः न जनकमिति सिद्धम्। ज्ञानव्यापकतावच्छेदकं यदज्ञानतत्संस्कारान्यतराभावत्वाज्ञानप्रयुक्ततत्संस्कारान्यतराभावत्वयोरन्यतरत्, तदाश्रयप्रतियोगित्वमज्ञानतत्प्रयुक्ततत्संस्कारसाधारणं ज्ञाननिवर्त्यत्वं, ज्ञानाधीनतावच्छेदकं यदुक्तान्यतरत्, तदाश्रयप्रतियोगित्वं वा, ज्ञानसाध्यतावच्छेदकं यदज्ञाननाशत्वमज्ञानप्रयुक्तनाशत्वं च तयोरन्यतरवत्त्वं वा, तादृशं यदज्ञानाभावत्वमज्ञानप्रयुक्ताभावत्वं च, तयोरन्यतरवत्त्वं वा, ज्ञानप्रयुक्तनिवृत्तित्वं तदाश्रयप्रतियोगित्वं वा, ज्ञाननिवर्त्य - त्वमिति पूर्वोक्तरीत्या निष्कर्षो बोध्यः । पटुतरसंस्कारादिविशिष्टज्ञानस्य कालिकसम्बन्धेन या व्याप्यता तन्निरूपितविशेषणतासम्बन्धावच्छिन्नव्यापकतावच्छेदकं यत् कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाज्ञानतत्संस्कारान्यतराभावत्वं, कालिकसम्बन्धेनोक्तज्ञानं प्रति विशेषणतासम्बन्धावच्छिन्नव्यापकतायामवच्छेदकं यत् स्वाश्रयकालपूर्वत्वसम्बन्धावच्छिन्नदृश्यत्वावच्छिन्नप्रतियोगिताकाभावत्वं च, तयोरन्यतराश्रयप्रतियोगित्वमिति दिक् । उदीच्यात्मविशेषगुणत्वेन विभुविशेषगुणत्वेन । सामानाधिकरण्यस्वपूर्वत्वोभयसम्बन्धेन नाशकत्वमिति नातिप्रसङ्गः । यथाश्रुते समानाधिकरणयोग्यविभुविशेषगुणत्वेन नाश्यत्वाच्छब्दं प्रति नाशकत्वासम्भवात् । अथवा सामानाधिकरण्यस्य निवेशे प्रयोजनाभावात् आत्मगुणत्वेनैव नाशकत्वम् । लाघवादाह-उदीच्यत्वेनेति । उदीच्यत्वव्यापिका योग्यविभुविशेषगुणनाशकतेत्यर्थः । तथा च ज्ञानत्वेच्छात्वादिप्रत्येकरूपेण जातिविशेषेण वा सेति भावः । साधनादीत्यादिनोक्ताथान्तरम् । अनुभवसिद्धं विलक्षणस्मृतिरूपकार्यानुमेयम् । ननु, विलक्षणस्मृत्या विलक्षण एव संस्कारोऽनुमीयते । तथा च स्मृत्या पूर्वसंस्कारो नश्यत्येव । तत्राह---दृढत्वं चेति । समेत्यादि । तथा च समानविषयकत्वसामानाधिकरण्योभयसम्बन्धेन संस्कारविशिष्टसंस्कारत्वेन तत्समनियतजातिविशेषेण वा विलक्षणस्मृतिहेतुत्वे स्वीकृतेऽपि स्मृतेः संस्कार प्रति नाशकता न कल्प्यते। गौरवादिति भावः । न च स्मृतिधारापत्तिः । उद्बोधकविच्छेदात् । संशये विपरीतज्ञाने ।, ननु, विपरीतज्ञानस्यानादिसंसर्गाभाव एव निश्चयरूपप्रतिबन्धकप्रयुक्तः । न तु नाशः । अतः कथं विपरीतज्ञानेऽतिव्याप्तिः । ज्ञानजन्यनाशस्यैव हि प्रकृतलक्षणे निवेशः । अन्यथा उत्तरज्ञाननाश्यत्वमादाय सिद्धसाधनस्योक्त्यसम्भव इ
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
ति चेत्सत्यम् । यदि ज्ञानप्रयुक्तात्यन्ताभावप्रतियोगित्वं ज्ञाननिवर्त्यत्वं स्वीकृत्य तन्नाशकस्यापि तदत्यन्ताभावप्रयोजकत्वं स्वीक्रियते, 'उत्तरज्ञानात् पूर्वज्ञानात्यन्ताभाव' इति धीश्च स्वीक्रियते, तदापि साक्षात्कारत्वेन प्रयोजकतानिवेशेन विपरीतज्ञानातिव्याप्तिर्वारयितुं शक्यत इति भावः । ज्ञानप्रयुक्ताभावप्रतियोगित्वरूपं लक्षणं स्वीकृत्य वा पूर्वीपरग्रन्थसङ्गतिः । न च तथापि प्रवृत्तिप्रागभावेऽतिव्याप्तिः । उपादानप्रत्यक्षस्य साक्षात्कारत्वेन प्रवृत्तिरूपतन्नाशं प्रति प्रयोजकत्वादिति वाच्यम् । प्रागभावस्यानङ्गीकारात्, नाशत्वेनात्यन्ताभावत्वेन वा प्रयोज्यतानिवेशाछा । ननु, स्पार्शनादिरूपे शुक्त्यादिसाक्षात्कारे सत्यपि चाक्षुषादिरूपस्य रजतादिभ्रमस्योत्पत्त्या तदिन्द्रियप्रयोज्यरजतादिभ्रमहेत्वज्ञाने तदिन्द्रियप्रयोज्यशुक्त्यादिधीत्वेन निवर्तकत्वमावश्यकम् । तथा च साक्षात्कारत्वेन न तदिति चेत् । तथा सति वह्नयादेः स्पार्शनाद्युत्तरं तत्र तदन्यत्वचाक्षुषाद्यापत्तेः । तस्य इष्टत्वे अनुभवविरोधात् । क्वचिद्भिन्नेन्द्रियजन्यज्ञानस्यानिवर्तकत्वं तु तत्राप्रामाण्यज्ञानात् । समानेन्द्रियत्वान्तर्भावेण निवर्तकत्वस्वीकारेऽपि 'यद्विशेषयो' रिति न्यायेन साक्षात्कारत्वेनापि निवर्तकत्वस्वीकाराच । न च सेतुदर्शननाश्यपापेऽतिव्याप्तिः । 'सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्या व्यपोहती' त्यादिस्मृत्या सेतुचाक्षुषत्वेनैव तत्र निवलेकत्वबोधनादिति भावः ॥ इति लघुचन्द्रिकायां ज्ञाननिवर्त्यत्वनिरूपणम् ॥
अधिकरण एवेति । एवकारः अशेषार्थकः । अशेषत्वं च व्यापकत्वम् । तथा च वाच्य एव मेयत्वमित्यादौ वाच्यत्वे मेयत्वस्येव प्रकृते स्वात्यन्ताभावे स्वप्रकारकधीविशेष्यत्वस्य व्यापकतालाभात् उक्तव्यापकत्वाश्रयात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । पूर्ववैलक्षण्यं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपात् प्रतिपन्नेत्यादिनोक्तरूपाद्वैलक्षण्यम् । दूषणेति । कपालादौ संयोगादिसम्बन्धेन घटाद्यभावमादाय सिद्धसाधनादीत्यर्थः । पूर्ववदिति । येन सम्बन्धेन यद्वत्तया प्रतीतं यद्यत्, तन्निष्ठाभावीयं यत्, तत्सम्बन्धावच्छिन्नं प्रतियोगित्वमित्यादिविवक्षयेत्यर्थः । सं योगिनि देशे तदुत्पत्तिकाले प्रलयादौ वा प्रतियोगिसंयोगोच्छेदनात्यन्ताभावसत्त्वे विरोधाभावादाह-समवायिनीति । समवायेन नित्ययुक्त इत्यर्थः । तथा च घटादौ पाकेन रूपादेशिकाले तदुत्पत्तिपूर्वकाले वा तदत्यन्ताभावस्य दर्शनेन तयोरविरोधेऽपि घटत्वादेर्घटादौ समवायस्य घटाद्याधारे सर्वकाले सत्त्वेन तत्र घटत्वाद्यत्यन्ताभावस्य विरोधेनासम्भवः । अत्यन्ताभावस्य स्वप्रतियोगिविरोधग्राहकमानस्य मिथ्यात्वग्राहकमानेन नाभिभव इत्यभिमानः । ननु, कालभेदेन कपालादौ घटादित
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे चतुर्थमिथ्यात्वम् ]
लघुचन्द्रिका ।
दत्यन्ताभावयोः सम्भववदेककालेऽपि घटत्वादितदभावयोः सम्भवोऽस्तु । तत्राहसम्भवे विति । प्रतियोगितदत्यन्ताभावयोरेकदेशे युगपत् सम्भवे स्वित्यर्थः । उपादानत्वाद्यनुपपत्तिरिति । सदा घटशून्यस्यापि घटोपादानत्वे तन्त्वादेरपि तत्स्यादिति भावः । आदिपदात् घटादिप्रत्यक्षकाले घटाभावादेः कपालादावप्रत्यक्षतानुपपत्तिः । कपालादिकं सदा घटाद्यभाववदित्यादिज्ञानेष्वप्रमात्वव्यवहारानुपपत्तिश्च । अत्यन्ताभावाधिकरणे सदा घटादिशून्ये कपालादौ अनुपपत्तिरिति अत्यन्ताभावस्य स्वप्रतियोगिनेव तत्प्रागभावध्वंसाभ्यामपि विरोधादिति शेषः । व्यभिचारादिति । यदा यत्र यस्यात्यन्ताभावस्तदा तत्र न तस्य प्रागभाव इति व्याप्तौ व्यभिचारात् । इदानीं कालिकसम्बन्धेनैतत्कालवृत्तिः । सामानाधिकरण्ये दैशिकविशेषणतयैकाधिकरण्ये । प्रमाणत्वादिति । एतेन वटादावधिष्टानगतस्य सत्त्वस्यारोपो ऽनादिढढवासनासहितो दोषविधया तत्र मिथ्यात्वग्रहे प्रतिबन्धक इति घटादिप्रत्यक्षकाले चक्षुरादिना घटाभावादेर्न प्रत्यक्षम् । अत एवोक्ताप्रमात्वव्यवहारोऽपि । मिथ्यात्वग्राहकश्रुत्यादिनोक्तारोपस्योपमर्दे तु तस्य प्रत्यक्षमिति सूचितम् । किं च कालदेशयोरत्यन्ताभावस्य वृत्तिस्तुल्येत्यनेनेदं सूचितम् । मन्मते कस्यापि केवलान्वयित्वं न स्वीक्रियत इत्यस्य वक्ष्यमाणत्वेन व्यतिरेकिवस्तुमात्रस्य परेणापि कालेऽत्यन्ताभावस्वीकारेण च सर्वदृश्यानां व्यतिरेकित्वेन कालेऽत्यन्ताभावस्तावदवश्यं वाच्यः । तस्य च किञ्चिदेशावच्छेदेन काले किञ्चित्कालावच्छेदेन देशे वृत्तिरिति स्वीकारे देशकालनिष्ठानामनन्तावच्छेदकत्वव्यक्तीनां कल्पने महागौरवात् घटादेरत्यन्ताभादस्सर्वत्रैव स्वीक्रियते । अत एव सम्बन्धो न तत्प्रतियोगितावच्छेदक इत्युक्तम् । न च "एतत्काले गृहे घटो नास्तीति धीः कालादिनिष्ठमवच्छेदकत्वं गाहत इति वाच्यम् । गृहादिनिष्ठाया घटाद्यधिकरणताया अवच्छेदकत्वस्याभावं हि सा तत्कालादाववगाहते । न तु घटाद्यभावाधिकरणतायां गृहादिनिष्ठायामवच्छेदकत्वं तत्कालादौ । अत एव 'वृक्षे मूले न संयोग' इत्यादिधीरपि वृक्षादिनिष्ठसंयोगाद्यवच्छेदकत्वाभावं मूलादौ गाहते । नन्वेवं कार्याव्यवहितप्राक्कालावच्छेदेन कार्यवद्देशे वर्तमानस्याभावस्याप्रतियोगित्वे सत्यनन्यथासिद्धत्वं कारणत्वमित्यादिव्यवहारो नोपपद्यत इति चेन्नोपपद्यताम् । तथापि यत्क्षणावच्छेदेनोत्पद्यमानस्य कार्यस्य यद्देशे सम्बन्धः तत्क्षणाव्यवहितपूर्वक्षणावच्छेदेन कारणस्य तद्देशे सम्बन्ध इति यत् कायनिष्ठं कारणस्य सामानाधिकरण्यं, तदवच्छेदकघटत्वादिरूपस्य दण्डादिव्याप्यत्वस्य घटादिकार्ये सत्त्वेन साध्यसामानाधिकरण्यावच्छेदकधर्मस्यापि व्याप्तितया सर्वैः स्वीकृतत्वेन तद्भुटत्वस्यावच्छेदकत्वस्य स्वरूपसम्बन्धविशेषशब्दितस्याटण्डल्य पक्षधर
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
पर्यन्तप्राचीनतार्किकैस्स्वीकृतत्वेनाभावावच्छेदकत्वाद्यघटितत्वात् स्वसामानाधिकरण्या वच्छेदकघटत्वकत्वरूपस्य घटकारणत्वस्य दण्डादौ व्यवहार उपपद्यत एवेति दिक् । समानसत्ताकयोर्भावाभावयोर्विरोधे स्वीकृतेऽपि न क्षतिः । मिथ्यात्वघटकामावस्याधिष्ठानस्वरूपत्वेन प्रतियोगिभिन्नसत्ताकत्वादिति पूर्वोक्तं स्मारयति । विषमेत्यादि। सत्त्वेनेति । सत्त्वावच्छिन्नम्वप्रकारतानिरूपितधीविशेष्यताव्यापकात्यन्ताभावकत्वं वाच्यमित्यर्थः । सदेवेत्यादि । 'सदेवेत्यादि' श्रुत्या यत्र यत्प्रकारकबोधो जन्यते, तत्र तदभावप्रकारकधीरसदेवेत्यादिना बोच्यते । उक्तं हि छान्दोग्यभाष्ये'असतः पदानभिधेयत्वेऽपि नज्युक्तवाक्यस्य तदयुक्तवाक्यार्थविरोधिधीजनकत्वमानुभाविक' मिति । तत्रायं भावः । 'सदेवे'त्यादिवाक्यं बौहानां तार्किकादीनां च मतनिरासार्थम् । बौद्धमते हि सुषुप्ताविव प्रलये सतोऽभावात् कारणं विनैव सुषुप्त्युत्तरजागराद्यक्षण इव सृष्ट्यारम्भकाले आद्यकार्योत्पत्तिः । यद्यत् अर्थक्रियाकारित्वरूपस्य सत्त्वस्याश्रयः तस्य सर्वस्य क्षणिकत्वेन सृष्ट्यारम्भक्षण उत्पत्तिः कारणं विनैव वाच्या। तत्पूर्व क्षणिकस्यार्थक्रियाकारिणोऽभावात् । तथा च सृष्ट्यारम्भकाल एव जागराद्यक्षण इव विनापि कारणं कार्यमुत्पद्यत इति स्वीक्रियते । तदुक्तं पञ्चपाद्याम्'अकस्मादेव जागरादावहमिति धीदर्शना' दिति । विवरणेऽप्युक्तम्- 'सुषुप्ते विज्ञानलेशस्याप्यभावादिति । तार्किकादिमते तुं प्रलये सदात्मकमपि जगत्कारणं यदासीत् , तन्नाद्वितीयम् । गुणादिरूपद्वितीयविशिष्टस्वभावत्वात् । तयोर्मतयोनिरासाय 'सदेवेत्यादि' श्रुतिः । इदं जगत् । अग्रे प्रलये । अव्याकृतावस्थमद्वितीयसद्रूपकारणात्मकमासीदिति बोधयति । 'असदेवे'त्यादि वाक्यं तु इदं जगत् प्रलये नासीत् , न वा सदात्मकम् । किं त्विदानीमेवार्थक्रियाकारित्वेन सदिति बोधयति । नन्वसदिति समासान्तर्गतं नञ्पदं सद्भिन्नस्यैव बोधकम् । नत्वग्रे सत्त्वादेरभावबोधकमिति चेन्न । 'अमानोनाः प्रतिषेधवाचका' इत्यनुशासनात् अकारस्य प्रकते नविकारत्वाभावेनासदित्यस्यासमासत्वात् । अत एव मूले न त्यस्याकारेणेत्यर्थः । ननु, 'कथं नु खलु सोम्यैवं स्यात् कथमसतः सज्जायते'त्युत्तरवाक्येनासतः कारणात् सतः कार्यस्य बौद्धस्वीकृतोत्पत्तेनिराकरणादसदवेत्यादिपूर्ववाक्येनासत्कारणात्मकतया प्रलये जगतः सत्त्वमुच्यते । कार्याणां हि ध्वंसरूपा सूक्ष्मावस्था प्रलयकालव्यापकत्वादक्षणि कत्वेनास्ति । सृष्ट्यारम्भसमये स्थूलकार्यरूपेण परिणमते । तेनासदात्मकत्वं जगतो नानुपपन्नम् । भिन्नकालीनयोरपि तयोस्तादात्म्यम् । 'तद्धेदं तीव्याकृतमासीत्' इति श्रुत्याप्युक्तमेव । अत एव 'तस्मादसतः सजायत' इत्युत्तरवाक्यं तथैव बोधयति। तत्राह-न त्वसतस्सत्त्वं विरोधादिति । अघटो घट इति बोधस्येवासदासीदिति
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे पञ्चममिथ्यात्वम् । ]
लघुचन्द्रिका ।
बोधस्याहार्यत्वेन शाब्दधीत्वानुपपत्तेः नोक्तवाक्यादुक्तबोधः । द्वितीयोऽर्थ उच्यते । सत्त्वं नासत्कारणप्रयुक्तम् । सत्त्वविशिष्टे कार्ये असतः कारणत्वं नेति यावत् । विरोधात् असतोऽर्थक्रियारूपकार्यकारणत्वे स्वीकृते असत्त्वव्याघातात् । तथा च 'तस्मादसतस्सज्जायत' इत्यस्य यस्मादिदमग्रे नासीन्नवाने सदात्मकं तस्मात् प्रलये विद्यमानात् सत आद्यकार्यरूपं सन्न जायत इत्यर्थः । अग्रे इत्यस्यानुषङ्गेण प्रलये विद्य. मानादिति लब्धम् । तेनेदानी सतस्सदुत्पत्तावपि न बाधः । कथमसत इत्यादेरपि सतस्सन्न जायत इति कथं सद्रूपस्यैकस्य सर्वकार्यात्मकतया प्रत्ययेन ततस्तज्जायत एवेत्यर्थः। 'नन्वभावस्य निरुपाख्यत्वादपि न जगत्कारणत्व'मिति पञ्चपादिकावाक्यं विवर णे व्याख्यातम् । 'न च निरुपाख्योपादानता जगतः । सदन्वया' दिति तत्त्वदीपने च तदवतारितम् । 'निरुपाख्यकारणतावादिनं प्रति निरुपाख्यत्वादिति हेत्वसङ्गतेराहन च निरुपाख्यतेत्यादी ति। तथा च निरुपाख्यकारणवादी बौद्ध इति तत्त्वदीपने स्पष्टमिति चेन्न । उक्ततत्त्वदीपनवाक्यस्य यदि निरुपाख्यकारणं बौद्धो वदेत्, त. दा तं प्रति निरुपाख्यत्वहेत्वसम्भवादाहेत्यर्थकत्वात् । अन्यथा ह्यसतः कारणत्वेऽ र्थक्रियाकारित्वरूपसत्त्वापत्त्या विरोधः । अत एव 'नासतोऽदृष्टत्वा' दिति सूत्रे भामतीकल्पतर्वोबौद्धमते असन्न कारणमिति स्पष्टमिति भावः । ननु, तथापि सत्त्वेन असद्धीवादिनं प्रति किं मिथ्यात्वं वाच्यम् । तत्राह-अतो नातिव्याप्तिरिति । यतोऽसतस्सत्त्वेन न धीः । अतः प्रातीतिकस्यापि सत्तादात्म्यरूपसत्त्वस्यासत्यभावेन व्यावहारिकस्य तस्य सुतरामभावेन च स्वनिष्ठसत्त्वावच्छिन्नप्रकारतानिवेशासम्भवानातिव्याप्तिरित्यर्थः । यद्वा अतः स्वनिष्ठसत्त्वात्। ल्यब्लोपे पञ्चमीयम् । तथा च स्वनिष्ठसत्त्वं पुरस्कृत्यातिव्याप्त्यभावोऽस्तीत्यर्थः ।
इति लघुचन्द्रिकायां चतुर्थमिथ्यात्वनिरूपणम् ॥ दोषासहकृतेत्यादि। दोषविधया ज्ञाने निमित्तकारणमविद्या। तादृशकारणतानिरूपकं तत्त्वमस्यादिवेदान्तवाक्याजन्यज्ञानं । तस्य बोधस्य भ्रमत्वात् । नतूक्तवाक्यजन्यज्ञानम् । प्रमात्वात्। ननु, शुद्धब्रह्मणो वृत्त्यविषयत्वपक्षे तस्य ज्ञानस्य स्वविषयत्वोपहितब्रह्मविषयकत्वादुक्तब्रह्मणश्च मिथ्यात्वात् कथं तस्य प्रमात्वमिति चेदुच्यते । अबाधितस्य वृत्तिविषयत्वोपहितं रूपं यस्य ज्ञानस्य विषयः तत्त्वं प्रमात्वम् । यद्यपि घटादिकं वृत्तिविषयत्वानुपहितमपि वृत्तिविषयः । तथापि 'सर्वस्य ज्ञानस्य स्वविषयत्वो पहितमपि विषयः घटाद्याकारवृत्तिश्चामिथ्ये ' ति भ्रमकाले घटादेः सत्यत्वं जानतां घयद्याकारवृत्तेः प्रमात्वव्यवहारो जायत एव । तथा चोक्ताविद्यादोषनिष्ठोक्तकारणतानिरूपकान्यधीविषयो यस्तदन्यत्वं मिथ्यात्वम् । ज्ञानकारणादिनिवेशे प्रयो
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
जनाभावात् । इदं तु बोध्यम् । एतस्य लक्षणत्वे वृत्त्युपहितब्रह्मभिन्नं ब्रह्मालीकभिन्नं लक्ष्यम् । अन्यथा वृत्त्युपहितब्रह्मण्यव्याप्त्यापत्तेः । एवमनुमाने एतस्य साध्यत्वे ताह. शब्रह्मालीकाविषयकवृत्तिविषयत्वादिरूपमेव दृश्यत्वं हेतुः । अन्यथाव्यभिचारापत्तेः । ननु, घटाद्याकारवृत्तावविद्याया दोषविधया निमित्तकारणत्वे मानाभावस्तत्राह-तेनेत्यादि । स्वभादिवदिति ।घटादेरिति शेषः । प्रमाणसिद्धेति । दोषनिष्ठकारणतानिरूपकान्यधीविषयेत्यर्थः । तथा च स्वाप्नघटादेरिव व्यावहारिकप्रपञ्चस्य ‘विद्वान्नामरूपाद्विमुक्त 'इत्यादिश्रुत्या ब्रह्मज्ञानबाध्यत्वबोधनेन तदाकारवृत्तेर्धमत्वात् तत्राविद्यायाः कामकर्मणोश्च दोषविधया निमित्तकास्णत्वमावश्यकम् । विक्षेपशक्त्यंशेन विपरीतकार्यहेतुत्वेन आवरणशक्त्यंशेन वास्तवरूपे 'अस्तिभाती'तिधीप्रतिबन्धकत्वेन चाविद्यायाः पित्तादिदोषवन्निनिमित्तकारणत्वौचित्यात् । 'यद्विशेषयो' रि ति न्यायेन पित्तादिदोषरूपेण परिणताविद्यायाः पित्तत्वादिविशेषरूपेणेवा विद्यात्वरूपसामान्यरूपेण भ्रमत्वावच्छिन्नं प्रति हेतुत्वसन्भवादविद्यादोषरूपसामान्यकारणसत्त्वेऽपि प्रातिभासिकभ्रमेष्वन्वयव्यतिरेकाभ्यां पित्तादिदोषविशेषाणां व्यावहारिकभ्रमेष्विन्द्रियसान्निकर्षादीनां दोषविधया हेतुत्वात् । किं च वाचस्पतिमते अविद्यायाः कार्यमात्रे नोपादानत्वं । किं तु प्रमातृनिष्ठदोषविधया निमित्तकारणत्वमित्यस्य कल्पतर्वादौ निर्णीतत्वात्तन्मते मिथ्यात्वमीदशं सम्भवत्येव । तन्मत एवेदं लक्षणमिति, ब्रह्मणि च नातिव्याप्तिरिति मूले स्पष्टम् । विवरणादिमते शुद्ध ब्रह्मण एव दोषाजन्यवृत्तिविषयत्वेन तत्रानतिव्याप्तेः । किं चाविद्याया उपादानत्वमेव । न तु दोषविधया निमित्तत्वमित्याग्रहेऽपि घटादिज्ञानेप्विन्द्रियसन्निकर्षादीनामेव दोषविधया कारणत्वात्तेषां दोषजन्यत्वात् प्रकृते नानुपपत्तिः । न च भ्रमत्वघटितधर्मावच्छिन्नं प्रति निमित्तकारणत्वमेव दोषविधया कारणत्वम् । इन्द्रियसन्निकर्षादौ न तदिति वाच्यम् । एकभ्रमे हि यस्य दोषस्य कारणता तस्य तद्व्यक्तित्वावच्छिन्नं प्रत्येव सा । न तु तद्भमत्वावच्छिन्नं प्रति । गौरवात् । न चैवं दोषजन्यत्वेन भ्रमत्वस्यानुमानं न स्यादिति वाच्यम् । भूमजनकत्वरूपदोषत्वेन यानिश्चितं तज्जन्यत्वमेव हि भूमत्वस्यानुमापकम् । न तु वस्तुगत्या यो भ्रमजनकस्तजन्यत्वम् । न चेन्द्रियसन्निकर्षादिजन्यत्वानामनन्तानां प्रातिस्विकरूपेण निवेशे दुर्जेयता स्यादिति वाच्यम् । भूमाजनकजन्यधीविषयान्यत्वं मिथ्यात्वमिति सुज्ञेयताप्रकारस्य सत्त्वात् । भूमत्वस्यापि जातिविशेषरूपत्वेन भ्रमविषयघटितत्वनिबन्धनदुर्विज्ञेयत्वस्याभावाच्च । ननु, दोषासहकृतेत्यादिरूपं प्रमाणसिद्धत्वं कुतो निवे. शितम् । अबाध्यविषयकधीविषयत्वरूपस्यापि तस्य सम्भवात् । तत्राह-प्र... १. 'भ्रमजनकाजन्य'ति पाठान्तरम् ।
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे पञ्चममिथ्यात्वम्]
लघुचन्द्रिका ।
माणसिद्धत्वमिति। उक्तप्रमाणसिद्धत्वमित्यर्थः । अबाध्यत्वव्याप्यं अबाध्यस्य शुद्धब्रह्मणो यद्वृत्त्युपहितरूपं, तत्त्वस्य व्याप्यमिति हेतोः अन्यत् बाध्यत्ववटितादन्यत्। तथा च बाध्यत्वघटितस्य निवेशे बाध्यत्वेतरांशस्यानतिप्रयोजनकतया बाध्यत्वाघटितस्यैव निवेशो युक्त इति भावः । असतीति । अलीकं न वृत्तेविषयः । वृत्तेस्सत्वेन सदसतोः संसर्गासम्भवात् । अलीकाविषयकेणापि विकल्पेन शशविषाणादिपदोक्तिरूपव्यवहारोत्पत्तिसम्भवात् । तस्य तद्विषयत्वेऽपि स न भ्रमः । प्रमाणवाध्यविषयकस्यैव भ्रमत्वात् । अत एव 'प्रमाणविपर्ययविकल्पनिद्रास्मृतय' इति वृत्तिविभाजकं पातञ्जलसूत्रम् । तथा च तस्याः दोषाजन्यत्वेऽपि 'ही( रित्येतत्सर्वं मन एवेति श्रुत्या मनोवृत्तेरेव धीत्वोक्त्या विपर्ययादिरूपाविद्यावृत्तीनां धीत्वाभावात् । दोषाजन्यधीविषयान्यत्वमलीकेऽतिव्याप्तम् । ब्रह्म तु स्वप्रकाशत्वादुपहिततादात्म्यान्यभावरूपधर्मानाधारत्वाच्च न वृत्तिविषयः । अतस्तत्रापि तदतिव्याप्तमिति भावः । सत्त्वमुक्तधीविषयत्वमेव । न तु सत्ताजात्यादिमत्त्वमित्यत्र नियामकं दूषणान्तरमाहअत एवेत्यादि । आविद्यकोत ।अविद्यारूपेत्यर्थः । 'पडस्माकमनादय' इत्यादिसिद्वान्तादनादिनातेरविद्यान्यत्वासम्भवात् । चिद्रूपत्वपक्षस्येवाविद्यारूपत्वपक्षस्यापि सिद्धान्ते स्वीकारात् । उपपादयिष्यते चेदम् । उक्तेति । गुणादिकमित्यादिग्रन्थोकेत्यर्थः । अत्र भ्रमविषयत्वे, अविनाश्यवृत्तिधर्मवत्त्वे वा, तात्पर्यम् । लाघवात् । पक्षतावच्छेदकावच्छेदेन तस्य साध्यत्वान्न सिद्धसाधनमिति बोध्यम् । केचित्तु स्वाश्रयावृत्तिः सन् स्वानधिकरणवृत्तिर्यस्तदन्यो योऽत्यन्ताभावस्तत्प्रतियोगित्वं साध्यम् । संयोगादिदृष्टान्तः । अत्र साध्यप्रसिद्ध्यर्थमवृत्त्यन्तम् । व्याप्यवृत्तिघटत्वादिकं पक्षः । स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्य पक्षविशेषणत्वादव्याप्यवृत्त्यत्यन्तामावप्रतियोगित्वमादाय न पक्षे साध्यपर्यवसानम् । अव्याप्यवृत्त्यत्यन्ताभावाप्रतियोगित्वेन विशेषिते पक्षे स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा साध्यम् । व्याप्यवृत्तिस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमादाय पर्यवस्यतीत्याहुः । तत् प्रकारान्तरमात्रम् । न तु प्रतिपन्नेत्यादिमूलोक्तरीत्यसम्भवप्रयुक्तम् । स्वरूपेणावृत्तरप्यधिष्ठानस्वरूपस्य घटाद्यभावत्वविशिष्टरूपेण घटाद्यधिकरणब्रह्मवृत्तित्वसम्भवेन मूलोक्तरीतावदोषात् । न च शुक्तिरूप्यादेर्माध्वमतेऽलीकत्वस्वीकारेण स्वसमानाधिकरणेत्यादिमूलोक्तसाध्ये माध्वं प्रति शुक्तिरूप्यादेदृष्टान्तत्वासम्भव इति वाच्यम् । माध्वं प्रति शुक्तिरूप्यादेरपरोक्षत्वादिना अलीकान्यत्वं प्रसाध्योक्तानुमानसम्भवात् । अन्यथा संयोगादेर्मिथ्यात्वसाधने शुक्तिरूप्यादेदृष्टान्तत्वासम्भवात्। न च घटत्वादिकमेव तत्र दृष्टान्त इति वाच्यम् । संयोगादिदृष्टान्तेन यत् घटत्वा
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७२
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
दो साधितं तस्यैव संयोगादौ साधने सिद्धसाधनात् । संयोगादावव्याप्यवृत्त्यत्यन्ताभावाप्रतियोगित्वविशिष्टे तस्य साधने तु पक्षविशेषणासिद्धिः । किं च संयोगादौ मिध्यात्वानुमितेः पूर्वं शुक्तिरूप्यस्येव घटत्वादेरपि मिध्यात्वस्य प्रसाध्यत्वेन तयोदृष्टान्तत्वे न विशेषः । अवश्यं चास्माभिः सर्वदृश्यामिथ्यात्ववादिभिः शुक्तिरूप्यादेर्मिथ्यात्वं साधनीयमेवेत्याशयेनाह - अधिकं चेत्यादि । 'आद्यं स्यात् पञ्चपाद्युक्तं ततो विवरणोदिते । चित्सुखीयं चतुर्थं स्यादन्त्यमानन्दबोधजम् । इति पञ्चविधं प्रोक्तं मिथ्यात्वं ध्वान्तनाशकम् ॥'
॥ इति लघुचन्द्रिकायां मिथ्यात्वनिरुक्तिः ॥
प्रसक्तयोः ज्ञातयोः । एकमिथ्यात्वे एकतर मिथ्यात्वे । अपरसत्यत्वनियमात् अन्यतरस्याधिकसत्तानियमात् । तद्वदेवेति । यथा मिथ्यात्वसाधकमानं मिथ्यात्वे न प्रवर्तते । तथा प्रपञ्चेऽपीत्यर्थः । तत्रेदं बोध्यम् । ययोर्विरुद्धयोरेकं मिथ्या तयोरेकापेक्षया अपरमधिकसत्ताकमित्येव नियमः । न त्वविरुद्धयोः यन्मिथ्या, तदपेक्षया अपरमधिकसत्ताकमिति नियमः । शुक्तिरूप्ये व्यावहारिक मिथ्यात्वयुक्ते तात्विकसत्यत्वापत्तेः । ननु, परस्परविरहरूपयोः परस्परविरहव्यापकयोश्चैकमिथ्यात्वे अपरस्याधिकसत्ता आवश्यकी । अन्यथा समसत्ताकत्वे तयोः सहावस्थानं न स्या त् । तथा च गोत्वाश्वत्वयोः समानाधिकरणप्रातीतिकयोः परस्परविरहत्वाद्यभावात् समसत्ताकत्वसम्भवेऽपि प्रपञ्चगतयोः सत्यत्वमिथ्यात्वयोरुक्तविरहत्वादिमत्त्वान्न समसत्तेत्यत आह-यथेति । येन प्रकारेणेत्यर्थः । तथा स प्रकारः । उपपादितं सत्त्वासत्त्वे अधिकृत्य ज्ञापितम् । तथा च सत्त्वासत्त्वयोः परस्पराभावत्वं नास्ति । प्रपञ्चे तयोरेकासत्त्वेऽप्यपरासत्त्वादिति यथोक्तं प्रथममिथ्यात्वे । तथा सत्यत्वमिथ्यात्वयोरपि तन्न । तुच्छे द्वयोः प्रत्येकासत्त्वादिति भावः । ननु, तथापि परस्पराभावव्याप्यत्वात्तयोर्व्यावहारिकयोर्न सामानाधिकरण्यम् । किं च मिथ्यात्वाभावरूपं सत्यत्वमित्यस्य द्वितीयमिथ्यात्वोक्तिशेषे स्वयमेवोक्तत्वात् परस्परविरहत्वमप्यस्त्येव । एवं तुच्छास्वीकर्तृमते परस्परविरहव्यापकत्वमप्यस्ति । तवाह - परस्परविरहरूपत्वेति । परस्परविरहात्मकत्वे परस्परविरहव्यापकत्वे परस्परविरहव्याप्यत्वे चेत्यर्थः । परस्परविरहेण रूपणं यस्येति व्युत्पत्तेः, परस्परविरहस्य रूपणं यस्मादिति व्युत्पत्तेश्व व्यापकव्याप्ययोरपि रूपपदेन लाभसम्भवात् । ननु, प्रपञ्चे सत्यत्वं मिथ्यात्वविषमसत्ताकमपि तात्विकमेव । अन्यथा ‘सत्यं चानृतं च सत्यमभव' दित्यादिश्रुतौ सत्यस्य ब्रह्मणः प्रातीतिक सत्यत्वाश्रयाकाशादिप्रपञ्च शुक्तिरूप्यादौ च कारणत्वोक्तेरनृतपदं विनापि संभवेन
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३
प्र०दे मिथ्यात्वमिथ्यात्वम् ] लघुचन्द्रिका । तब्यर्थत्वापत्तेः । शुक्तिरूप्यादिव्यावृत्तसत्यत्वस्य सत्यपदेन ग्रहणे तु शुक्तिरूप्यादिग्राहकत्वेनानृतपदं सार्थकमिति माद्वैतहानेः उद्धारः । तत्राह-व्यावहारिकेति । व्यावहारिकसत्यत्वेति । प्रातीतिकान्यसत्यत्वेत्यर्थः । काल्पनिकेति । प्रातीतिकेत्यर्थः । शुक्तिरूप्यादौ व्यावहारिकस्य मिथ्यात्वस्य प्रातीतिकस्य सत्यत्वस्य च दृष्टत्वेन प्रपञ्चेऽपि तादृशे ते कल्प्येते । शुक्तिरूप्यादाविव प्रपञ्चे मिथ्यात्वाज्ञानेन सत्यत्वस्योत्पत्तेरिव प्रपञ्चे मिथ्यात्वप्रमया तादृशाज्ञानतत्कार्यसत्यत्वयोरुच्छेदम्य स्वीकारात् । ब्रह्मप्रमान्यप्रमाबाध्यत्वेन शुक्तिरूप्यादिगतस्येव प्रपञ्चगतस्यापि सत्यत्वस्य प्रातीतिकत्वं युक्तम् । उक्तश्रुतौ च सत्यपदस्य व्यवहारकालाबाध्यपरत्वेन नानृतपदं व्यर्थमिति भावः । ननु , प्रपञ्चे मिथ्यात्वाज्ञानं न तत्र सत्यत्वोत्पादकम् । किं तु प्रपञ्चोत्पादकाज्ञानमेव । तस्यैव ब्रह्मप्रपञ्चयोः परस्परतादात्म्याध्यास इव तद्धर्मयोः परस्पराधिकरणे संसर्गाध्यासेऽपि हेतुतया क्लप्तत्वेन नित्यत्वादेरिव सत्यत्वस्यापि. ब्रह्मधर्मस्य प्रपञ्चे तदुपादानाज्ञानादेव संसृष्टरूपेणोत्पत्तिसम्भवेन मिथ्यात्वाज्ञानस्य सत्यत्वोत्पत्तिहेतुत्वकल्पनागौरवस्यान्याय्यत्वात् । एवं च ब्रह्मप्रमयैव तादृशसत्यत्वोच्छेदः । प्रपञ्चमिथ्यात्वप्रमया तु तादृशसत्यत्वबुद्धावप्रमात्वधीमात्रं जन्यते । अत एव शुक्तिरूप्यादावपि तथैव स्वीक्रियते । किं च यत्र सत्यत्वस्यारोपस्तद्गतमिथ्यात्वाज्ञानस्य तहेतुतास्वीकारे सत्यत्वस्य तत्संसर्गस्य च प्रतीयमानस्योत्पत्तिः तादृशाज्ञानाधीना स्वीकार्या । शुक्तित्वाज्ञानाधीनेव शुक्तित्वाभावतत्संसर्गोत्पत्तिः । यत्र सत्यत्वारोपस्तजनकाज्ञानस्य तद्धेतुत्व स्वीकारे तु पूर्वसिद्धस्याधिष्ठानगतस्य सत्यत्वस्य संसर्गमात्रोत्पत्तिस्तादशाज्ञानाधीना स्वीकार्येति लाघवम् । तस्माच्छुक्तिरूप्यादिनिष्ठस्य सत्यत्वस्य ब्रह्मप्रमान्यबाध्यत्वात् प्रातीतिकत्वेऽपि प्रपञ्चनिष्ठस्य सत्यत्वस्य ब्रह्मप्रमाबाध्यत्वाघ्यावहारिकत्वमेव युक्तमित्याशंक्य व्यावहारिकयोरेव सत्यत्वमिथ्यात्वयोरविरोधं सदृष्टान्तमाह-संयोगेत्यादि । यथा गोत्वतदभावादिस्थले सामान्यतो दृष्टोऽपि विरोधः संयोगतदभावादिस्थले एकावच्छेदेनैव स्वीक्रियते तार्किकादिभिः। तथा सत्यत्वमिथ्यात्वयोः परस्परविरहादिरूपयोरविरोधोऽस्माभिः स्वीक्रियते । प्रमाणस्य तेषामिवास्माकमपि सत्त्वात् । न चैवमभेदोपादाना भेदकल्पनेत्यादिरूपा भेदाभेदयोभिन्नसत्ताप्रतिपादनपरा भामती विरुध्येत । सामानाधिकरण्यप्रत्ययबलात्तयोस्समानसत्ताकत्वस्यैव युक्तत्वादिति वाच्यम् । सम्भवप्राचुर्यात् भामत्यां तथोक्तत्वात् । समसत्ताकयोरपि भा. वाभावयोस्स्वप्नवदविरोध इत्युक्तमेवेति भावः । ननु,यत्र मिथ्यात्वावच्छेदकं नोभ
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
अद्वैतमञ्जरी ।
यवृत्ति तत्राप्येकमिथ्यात्वे अपरस्याधिकसत्तायां का युक्तिः । तत्राह-एकबाधकेत्यादि । प्रयोजकं व्याप्यम् । ययोर्विरुद्धयोरेकस्य बाधकं ज्ञानमपरस्य बाधक तयोर्मन्नसत्ताकत्वनियमः । 'यदि तयोभिन्नसत्ताकत्वं न स्यात् तदा बाध्यबाधकधीविषयत्वं न स्यात् शुक्तिरूप्ययोरिवेति हेतूच्छित्तिप्रसङ्ग एव विपक्षे बाधकः । अथवा । ननु, मिथ्यात्वावच्छेदकस्योभयावृत्तित्वेऽप्येकमिथ्यात्वे अपरस्याधिकसत्ता मास्तु । विरुद्धयोरेकत्र प्रसक्तयोरुभयावृत्तिरूपेणैकस्य मिथ्यात्वे अपरम्याधिकसत्तेति नियमाभावात् । गजे प्रसक्तयोर्गोत्वाश्वत्वयोरत्र गोत्वं नास्ति अत्राश्वत्वं नास्तीति प्रत्येकरूपेण निषेधेऽपि समसत्ताकत्वात्तत्राह-एकबाधकेति । तथा चोक्तनियमाभावेऽपि यत् यद्वाधकधीविषयःतत् तदधिकसत्ताकमिति नियमोऽस्त्येव । एकबाधकेनापरस्य बाध्यत्वमुभयावृत्तिरूपेणैवेत्यभिप्रायेणोभयवृत्ति न भवेदित्यादिकं पूर्वमुक्तमिति भावः । प्रपञ्चगतयोस्सत्यत्वमिथ्यात्वयोस्समसत्ताकत्वे संयोगतभावदृष्टान्तेन सम्भावनामात्रसुक्तम् । तत्रेदानी प्रमाणमाह-एकबाधकेति । 'यत् यद्वाधकबाधं तत् तत्समानसत्ताक'मिति व्याप्तौ यद्युक्तसाध्यं न स्यात् । तदोक्तहेतुर्नस्यात् । शुक्तिरूप्यघटयोरिव पौर्वापर्येण बाधसम्भवात् । ब्रह्मज्ञानबाचं शुक्तिरूप्यादिकं व्यावहारिकेण स्वाभावादिना समसत्ताकमेव । ब्रह्मप्रमाबाध्यत्वस्य व्यावहारिकत्वस्योभयत्रापि सम्भवात् । प्रपश्चेति । स्वसत्यत्वादिघटितप्रपञ्चेत्यर्थः ।अथवा एकत्र प्रसक्तयोविरुद्धयोरेकस्यापरापेक्षया अन्यूनसत्ताकत्वं प्रत्यमिथ्यात्वं न प्रयो कम् । किंतु स्वाश्रयसमसत्ताकत्वम् । अतो मिथ्याभूतमपि प्रपञ्चे मिथ्यात्वं प्रपञ्च"तसत्यत्वान्यूनसत्ताकम् । प्रपञ्चसमसत्ताकत्वात् । तदपि प्रपञ्चबाधकबाध्यत्वात् नासिद्धमित्याशयेनाह-~-एकबाधकेति । अत्रेदं विचारणीयम् । प्रपञ्चमिथ्यात्वस्य सत्यत्वमिथ्यात्वविकल्पनेनास्मान् प्रति दूषणोक्तिनित्यसमा जातिः । तदुक्तम्-- 'धर्मस्य तदतद्पविकल्पानुपपत्तितः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवे' दिति । न च मिथ्यात्वस्य सत्यत्वे धर्मिणि न तद्वैशिष्ट्यभङ्गः । किं त्वद्वैतहानिरिति वाच्यम् । विकल्पितकोव्योरेकस्या अद्वैतहानिप्रयोजकत्वेऽप्यन्यस्याः प्रपञ्चसत्यत्वतात्विकतापत्तिद्वारा प्रपञ्चे धर्मिणि मिथ्यात्ववैशिष्ट्यभङ्गप्रयोजकत्वात् । अन्यथा मिथ्यात्वकोटिमात्रस्यास्माभिराश्रयणे सत्यत्वकोटिप्रयुक्तस्याद्वैतहानिदोषस्याप्यसंभवात् । किं च मिथ्यात्वस्यापि मिथ्यात्वमित्वेन तस्य सत्यत्वे मिथ्यात्ववैशिष्टयभङ्गेन सत्यत्वकोटेरपि धर्मिणि तद्वैशिष्टयभङ्गप्रयोजकत्वमावश्यकम् । न च जात्युत्तरं येनोच्यते, तं प्रति व्याघातकत्वमेव तस्य दूषकताबीजम् ।प्रकृते च तदभावान्न जातिरियं दुष्टेति वाच्यम् । त्वदीयस्य सर्वदेशकालनिष्ठात्यन्ताभावप्रतियोगि
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे मिथ्यात्वमिथ्यात्वम् ] लघुचन्द्रिका ।
त्वरूपासत्यत्वस्यासत्त्वे तद्विरुद्धस्य 'असदेवेदमग्रआसी'दिति वाक्यादसति प्रतिपन्नतया त्वदभ्युपगतस्य सत्त्वस्यासति तात्विकतापत्तिः । सत्त्वे तस्य सतो असति सम्बन्धानुपपत्तिरित्याद्यभिप्रेत्याह-कृतमधिकेनेति । ननु, भेदः किं भिन्ने, उताभिन्न, इत्यादित्वदुक्तिरपि जातिरिति चेन्न । वैतण्डिकतामाश्रित्य वद तो मम स्थापनीयाभावेन मां प्रति जातेयाघातकत्वाभावात् । सर्वदृश्यानां खण्डनयुक्तिभिर्बाधस्य मदिष्टत्वात् । तदुक्तं खण्डने- 'अभीष्टसिद्धावपि खण्डनानामखण्डि राज्ञामिव नैवमाज्ञा । तत्तानि कस्मान्न यथावदेव सैद्धान्तिकेऽप्यध्वनि योजयध्वम् ॥ ,इति । परमतखण्डनरूपस्याभीष्टस्य सिद्धावपि खण्डनयुक्तीनां रा ज्ञामिवाज्ञा स्वातन्त्र्यं नाखण्डि नास्माभिनिराकृता । तत् तस्मात् । तानि खण्डनानि । यथावत् परमत इव सिद्धान्तसिद्धप्रक्रियायामपि । कस्मान्न योजयध्वमित्यर्थः । न चैवं ब्रह्मणोऽपि खण्डनयुक्त्या बाधापत्तिरिति वाच्यम् । ब्रह्मणोऽसंसृष्टत्वेन तर्काविषयत्वात्, सर्वसाक्षित्वेनाबाध्यत्वाच्च । यत्तु, सत्यत्वमिथ्यात्वयोस्समुच्चयोक्तिर्न युक्ता। उक्तं हि बौद्धाधिकारे - सदसत्त्वस्यैकत्र विरोधेन विधिवन्निषेधस्यायनुपपते' रिति । सत्त्वासत्त्वयोरिव तदभावयोरपि एकत्र विरोधेनासम्भव इति तदर्थ इति । तन्न । सत्त्वासत्त्वयोः परस्परात्यन्ताभावरूपत्वे हि विरोधः । तत्तु नास्त्येवेति मूल एवोक्तम् । किं चोक्तवाक्यं बौद्धमतनिराकरणपरम् । न त्वद्वैतमतनिराकरणपरम् । अ द्वैतमतस्य सर्वमतश्रेष्ठतया बौद्धाधिकार एवोक्तत्वात् । तथा हि-'न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिस्तद्वाधके बलिनि वेदनये जयश्रीः । नो चेदनित्यमिदमीदृशमेव विश्व तथ्यं तथागतमतस्य तु कोऽवकाशः ॥' इति । अस्मिन्विज्ञानवादिदूषणोपसंहाररूपे पद्ये अयमर्थः । ग्राह्यभेदं घटादिबाह्यार्थं तिरस्कृत्य घटादिरूपाकाराभिन्नरूपेण ज्ञानस्य वृत्तिसम्बन्धः क्वापि नास्ति । घटादिबहिरर्थवाधके अद्वैतब्रह्मरूपाधिष्ठानसाक्षात्कारे जाते तु बलिनि सर्वेभ्यो द्वैतवादिमतेभ्यो बलवति वेदनये वेदान्तदर्शने जयश्रीः जयोत्कर्षकाष्ठा । बौद्धमतापेक्षया तार्किकमते जयः। तदपेक्षयापि सांख्यादिमते। आत्मनोऽसङ्गत्वादिस्वीकारात् । तदपेक्षया वेदान्तिमते । द्वैतमिथ्यात्वादिस्वीकारात् । अतो जयोत्कर्षकाष्ठा । यदि तु निष्कामकर्माननुष्ठानाच्चित्तं न शुद्धं, तदा श्रवणादौ सत्यपि तादृशसाक्षात्काराभावेन विश्वमनित्यतया प्रतीयमानमपि तथ्यमेव । व्यावहारिकसत्यत्वात् । तत्रापाततस्तार्किकादिभिर्विश्वं ब्रह्मवत् परमार्थसत्यमिति वक्तुं शक्यम् । तथागतस्य बौद्धस्य तु मतस्य ज्ञानादत्यन्ताभिन्नं जगदलीकमित्येवंरूपस्य कोऽवकाश इति । किं चोदयनाचार्याणां वेदान्तदर्शन एव महती श्रद्धा । बौहाधिकार एव हि सर्वदर्शनानि निराकृत्य वेदान्तदर्शनमेव पुरस्कृतं तैः । तथा हि
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७६
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
1
तत्रोक्तं - ' अस्तु तर्हि शून्यतैव परमनिर्वाणमिति चेन्न । सा हि यद्यसिद्धा । कथं तदवशेषं विश्वं । परतश्चेत् सिद्धा । परोऽभ्युपगन्तव्यः । स च परो यदि संवृतिरेव विश्वशून्यतयोर्न कश्चिद्विशेषः । कथं तदप्यवशिष्येत । असंवृतिश्चेत् परः परतएव सिद्धानवस्था । स्वयमसिद्धा चेत् कथं शून्यत्वमपि साधयेत् । स्वतस्सिद्ध वेदायातोऽसि मा - र्गेण । तथाहि - स्वतस्सिद्धतया तदनुभवरूपं शून्यत्वादेव न तस्य कालावच्छेद इति नित्यम् । अत एव न तस्य देशावच्छेद इति व्यापकम् । अत एव निर्द्धर्मकमिति विचारास्टष्टम् । तस्य धर्मधर्मिभावमुपादाय प्रवृत्तेः । अत एव तस्य विशेषाभाव इत्यद्वैतम् । प्रपञ्चस्यापारमार्थिकत्वादेव निष्प्रतियोगिकमिति विधिरूपम् | अविचारितप्रपचाक्षेपात्तु शून्यमिति व्यवहारः । तथापि प्रपञ्चशून्यस्यानुभवमात्रस्य प्रपञ्चेन कः सम्बन्धः । येनायं प्रकाशत इति चेत् वस्तुतो न कश्चित् । संवृत्या तु गगनगन्धर्वनगरोराधाराधेयभाव इव विषयविषयिभावः । स च यथा नैयायिकैः समर्थयिष्यते तथैव । वेद्यनिष्ठस्त्वसावस्मिन् दर्शन इति विशेषः । अविद्यैव हि तथा तथा विवर्तते । यथानुभवीयतया व्यवह्नियते । तत्तन्मायोपनीतोपाधिभेदाच्चानुभूतिरपि भिन्नेव व्यवहारपथमवतरति । गगनमिव स्वप्नदृष्टवट कटाहकोटर कुटीकोटिभिः । तदास्तां तावत् । किमा कवणिजो वहित्रचिन्तयेति । तस्मादनुभकयवस्थितावनात्मापि स्फुरतीत्यवर्जनीयमिति प्रविश वा अनिर्वचनीयख्यातिकुक्षिं तिष्ठ वा मतिकर्दममपहाय न्यायानुसारेण नीलादीनां पारमार्थिकत्वे' इत्याद्युक्तवाक्यानां संक्षेपेण व्याख्यानम् | संवृतिः भ्रमः । शून्यत्वात् असङ्गत्वात् । तस्य विचारस्य । निष्प्रतियोगिकं प्रपञ्चप्रतियोगिकत्वस्य स्वनिष्ठस्य मिथ्यात्वेन तच्छ्रन्यम् । विधिरूपं निर्विकल्पकधीवेद्यम् | अविचारितप्रपञ्चाक्षेपात् । यतः प्रपञ्चोऽविचारसहः, अतस्तस्य श्रुत्यादिना निषेधः प्रकाशते । प्रकाशसम्बद्धः । संवृत्या अविद्यया । विषयविषयिभावः विषयिप्रतियोगिकं विषयत्वं नैयायिकैः मादृशैः समर्थयिष्यते । प्रकाशस्य सतः तदीयतामात्रनिबन्धनः स्वभावविशेषो विषयतेत्यादिना निरूपयिष्यते । तथा तादृशः । तार्किकमते तादात्म्यान्यसम्बन्धरूपोऽपि वेदान्तिदर्शने तादात्म्यरूपस्ताकिंकसम्मतविषयतात्वविशेष्यतात्वादिविशेषयुक्त इति भावः । वेद्यनिष्ठः वस्तुनिष्ठः । न तु वित्तिनिष्ठः । वित्तितादात्म्यस्य वित्तिभिन्नेष्वेव कल्पितत्वात् । वित्तेः स्वप्रकाशत्वेन वित्तिविषयत्वासम्भवाच्च । वित्तेस्तादात्म्यरूपा विषयतापि वित्तिभिन्नेष्वेव । न तु वित्ताविति भावः । अस्मिन्दशंने वेदान्तिदर्शने । तत्तन्मायेति मूलाविद्या पडवाविद्येत्यर्थः । मायोपनीततत्तदुपाधोनां भेदादिति वा योजना बोद्ध्या । वहित्रेति महानौकेत्यर्थः । यथा शूर्पादिपात्रे आर्द्रकाणि स्थापयित्वा विक्रीणतो वणिजो वहित्रमनुपयुक्तम् । प्रत्युत कार्यविरोधि |
I
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र० दे दृव्यत्वनिरुक्तिः । ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
७७
समुद्रगतवहित्रस्थस्यार्द्रकस्य तग्राहकसकलसाधारणजनैर्दृष्टत्वाभावात् । तथा हैतमतमेव परिष्कुर्वतो मम वेदान्तदर्शनमनुपयुक्तम् । द्वैतमतविरोधि च । द्वैतखण्डनयुक्तीनां मिथ्यात्वग्राहकमानस्य च तत्र पुरस्कारात् । तथापि वहित्रमिव वेदान्तदर्शनं पुरुषधौरेयस्य परमप्रयोजनं साधयत्येवेति वेदान्तदर्शने तदन्य सर्वदर्शनेभ्य उत्कर्षः आचार्याभिप्रेत इति ॥ इति लघुचन्द्रिकायां मिथ्यात्वमिथ्यात्वनिरुक्तिः ॥
For Private and Personal Use Only
अथ दृश्यत्वनिरुक्तिः ॥ वृत्तिव्याप्यत्वं वृत्तेराकाराख्यं विषयत्वम् | वृत्तित्वं तु ' ह्रीधर्भी' रित्यादिश्रुत्या अनूद्यमानो धीत्वरूपो जातिविशेषः । न च तस्य भ्रमरूपाविद्यावृत्तिनिष्ठत्वमस्ति न वा । आद्ये उक्त श्रुतौ ' एतत्सर्वं मन एवे ' त्यस्यासङ्गतिः । अविद्यावृत्तेः मनःपरिणामत्वाभावेन मनस्तादात्म्याभावात् । अन्त्ये शुक्तिरूप्यादौ साधनवैकल्यम् । सुखादौ वृत्त्यस्वीकारेण तत्रासिद्धिश्वेति वाच्यम् । पक्षद्वयेऽप्यदोषात् । उक्तश्रुतौ मनःपरिणामरूपाया एव धियो निर्देशेन तस्या एव मनस्तादात्म्योक्तेस्सम्भवात् । उक्तश्रुतौ धीमात्रस्य निर्देशेऽपि विशेष्यविशेषणाकारवृत्तिद्वयावच्छिन्नचित्यपि धीव्यवहारात् । तस्याश्र विशेष्याकारमनोवृत्तिघटितत्वेन मन एवेति निर्देशसम्भवात् । अत एव संशयरूपविचिकित्साया अप्युक्तश्रुतौ मनस्तादात्म्योक्तेरुक्तरीत्या निर्वाहः । एककोटिकस्यापातज्ञानस्यैव विचिकित्सापदेन निर्देशात् । द्विकोटिकस्यापि निर्देशे एकधर्मिणि कोटिद्वयाकारवृत्तिद्वयावच्छिन्नचित एव विचिकित्सात्वेन तस्या एककोव्याकारमनोवृत्तिघटितत्वेन मनस्तादात्म्यसम्भवात् धीत्वस्याविद्यावृत्तावस्वीकारेऽपि न दोषः । शुक्तिरूप्यादिकं मिथ्येत्याकारकमनोवृत्तिविषयत्वमादाय शुक्तिरूप्यसुखादौ साधनसत्त्वात् । फलव्याप्यत्वं स्वाकारवृत्तिप्रतिबिंवितचितो भग्नावरणकचितो वा तादात्म्यम् । साधारणं वृत्तिव्याप्यत्वफलव्याप्यत्वयोरन्यतरवत्त्वम् । अन्यतरत्वं च तदुभयमात्रमुख्यविशेष्यकं यत् ज्ञानं तन्मुख्यविशेष्यत्वम् । तव्यक्तित्वेन ज्ञानस्य निवेशः । तेन वृत्तिव्याप्यत्वस्यैव हेतुत्वसम्भवेनान्यवैयर्थ्यामित्यपास्तम् । कदाचित् कथंचित् । चिद्विषयत्वं किञ्चित्कालावच्छिन्नमावृतानावृर्तसाधारणं चिद्विषयत्वं चित्तादात्म्यमानं हेतुः । दैशिकसम्बन्धेन हेतु - तालाभायावच्छिन्नान्तम् । कालिकसम्बन्धेन हेतुत्वे हि अविद्याद्यनादिषु भागासिद्धिः । स्वव्यवहारेत्यादिपक्षद्वयं तु मूले प्रकटीभविष्यति । नित्यातीन्द्रिये कदाचिदिन्द्रियमतिक्रान्तं घटादिकम्। नित्यं तदतिक्रान्तं तु गुरुत्वादिकम् । तत्रोक्तयोः फलव्याप्यत्वयोरभावेन भागासिद्धिः । वृत्तेरावरणभङ्गार्थत्वपक्षे भग्रावरणेत्याद्येव फलव्याप्यत्वं वाच्यम् । वृत्त्यादौ चित्प्रतिबिम्बे मानाभावात् । तथा च शुक्तिरूप्यादौ साधनवैकल्यम् । न च धर्मिज्ञानेन भग्नावरणकम्य शुक्त्याद्यवच्छिन्नचैतन्यस्य
I
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
शुक्तिरूप्यादिकमपि विषय इति वाच्यम् । खावच्छिन्नस्याज्ञानविषयत्वस्य भङ्गविशिष्टचिद्विषयत्वमेव हि फलव्याप्यत्वशब्दार्थः । अन्यथा गुरुत्वादावपि तदापत्तेः । चिद्विषयत्वस्यैव फलव्याप्यतारूपतापत्त्येतरभागवैयापत्तेश्च । यत्र विषयत्वं स्थाप्यं तदेव स्वम् । नन्वीश्वरीयायां मायापरिणामरूपायां विद्यमानसर्वविषयि कायां वृत्तौ प्रतिबिम्बितस्य चैतन्यस्य गुरुत्वादि सर्व दृश्यं विषयः । उक्तं हि विवरणे-'ईशस्य सर्वकर्तृत्वादेव विद्यमानसर्वविषयज्ञते'ति । उक्तं च तत्र तत्वदीपने-'ईश्वरोपाधिः सत्त्वप्रधानमाया विद्यमानसर्वविषयाकारेण परिणमते । तस्मिश्च परिणामे प्रतिबिम्बितं चैतन्यं सर्वं पश्यत्याध्यासिकसम्बन्धा' दिति । अतः कथं भागासिद्ध्यादिकम् । न च तदापातत एव पूर्वपक्षिणोक्तमिति वाच्यम् । सिद्धान्ते फलव्याप्यत्वव्यतिरिक्तस्येत्यादिग्रन्थासङ्गतेरिति चेन्न । फलपदस्य प्रमाफलार्थकत्वात् ईश्वरीयमायावृत्तेश्च प्रमात्वाभावेन तत्प्रतिबिम्बितचितः फलपदार्थत्वाभावात् । येन हि पुरुषेण यदज्ञातं तद्विषयकवृत्तिः तत्पुरुषीयप्रमा । न चेश्वरेण किश्चिदज्ञातमस्ति । येन तदीया मायावृत्तिः प्रमा स्यात् । यदि च फलशब्दार्थमपहाय ईश्वरीयवृत्तिसाधारण एव हेतुरुच्यते, तदा नासियादि दोषः । ज्ञातं वृत्त्युपहितचिद्विषयः । अवेद्यत्वे सतीत्यादि । फलव्याप्यत्वासमानाधिकरणं यदपरोक्षव्यवहारयोग्यत्वं तदभाव इत्यर्थः । क्षोदक्षमत्वात् विचारसहत्वात् । अदृश्यं अदृश्यम् । उपहितं वृत्तिविषयत्वोपहितम् । ननु, वृत्तिदशायामुपहितमेवास्ति । तस्य मिथ्यात्वे सत्यरूपाधिष्ठानशून्यतापत्तिः । तत्राह-न हीत्यादि । वृत्तिदशायामनुपहितं शुद्धं यदधिष्ठानमरूपमस्ति । तन्नहि तदुपहितं भवतीत्यर्थः । तथा चानुपहितरूपस्योपहितदशायामपि सत्त्वान्नोपहितस्योक्तशून्यतेति भावः । उपहितपरत्वादिति। घटाद्याकारवृत्त्या घटाद्युपहितस्यैव सद्रूपस्य ग्रहणमिति भावः । सिद्धिः संशयाद्यगोचरत्वम् । स्वप्रकाशत्वासिद्धेरिति । न चेदमाकारमनोवृत्तिरजताकाराविद्यावृत्तिभ्यामवच्छिन्नस्य साक्षिण इदं रजतं न वेति संशयादिविरोधित्ववत् शुद्धाविषयक. खप्रकाशत्वाकारवृत्त्यवच्छिन्नसाक्षिण एव शुद्धे खप्रकाशत्वसंशयादिविरोधित्वमिति वाच्यम् । रजतादितादात्म्याशुपहितेदंविषयकवृत्तरेवाविद्यापरिणामभूमत्वेन हष्टान्तस्यासिद्धत्वात् । सिद्धत्वेऽपि वा नील इत्यादिज्ञानस्यापि शुद्धं नालं न वेत्यादिधीविरोधित्वापत्तेरुक्तसाक्षिण उक्तसंशयाद्यविरोधित्वात् । वृत्तिकाल इति । शुद्धस्य वृत्तिविषयत्वस्वीकार इत्यादिः । अत इति । शुद्धस्य वृत्तिविषयत्वे स्वप्रकाशत्वविरोधाचेति शेषः । अशुद्धत्वं उपहितत्वम् । न तु शुद्धभिन्नत्वम् । शुद्धस्य वृत्तिविषयत्वापत्तेः । तथा चोक्तव्यापकताधीसत्त्वे च । अशुद्धखव्यावृत्त्या शु
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे दृश्यत्वनिरुक्तिः }
लघुचन्द्रिका ।
हे स्वप्रकाशता पर्यवस्यतीति। उपहितत्वशून्यब्रह्मनिष्ठाभावप्रतियोगितारूपेण स्व प्रकाशत्वं न ज्ञायत इत्यर्थः । अस्वप्रकाशत्वज्ञानमनुपहितत्वविशिष्टविशेष्यकं नेति यावत् । तथा च स्वप्रकाशत्वाभावव्यापकाभावप्रतियोगित्वरूपायाः स्वप्रकाशत्वव्य तिरेकव्याप्तेः यदोपहितत्वामावरूपे शुद्धत्वे ज्ञानमुद्बुद्धसंस्कारो वा, तद। उक्तशुद्धत्वविशिष्टे स्वप्रकाशत्वस्याभावो न ज्ञायते । वयभावव्यापकाभावप्रतियोगित्वस्य धूमे निश्चये उबुद्धसंस्कारे वा सति धूमवति वह्नयभावज्ञानाभाववदिति ताढशव्याप्तिज्ञानस्य तादृशज्ञानाभावप्रयोजकत्वमेव स्वप्रकाशत्वविशिष्टशुद्धसाधकत्वमिति भावः । एतेन शुद्धत्वस्य हेतोब्रह्मण्यज्ञाने कथं तत्र स्वप्रकाशत्वस्यानुमितिरूपा सिद्धिरिति परास्तम् । शुद्धब्रह्मज्ञानं विनापि शुद्धत्वे तादृशव्याप्तिधीसम्भवात् । किं च 'उपहितत्वमस्वप्रकाशत्वव्यापक'मित्याकारकनिश्चये उबुद्धसंस्कारे वा सत्यपि उपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावो न ज्ञायते। 'वह्निधूमव्यापक' इत्याकारकनिश्चये उबुद्धसंस्कारे वा सति वयभावविशिष्टे धूमज्ञानाभाववत् उपहितत्वाभावरूपशुद्धत्वविशिष्टे अस्वप्रकाशत्वज्ञानासम्भवादुपहितत्वाभावरूपस्य शुद्धत्वस्याज्ञातत्वेऽपि न क्षतिः । न च उपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावो न ज्ञायत इति वाक्यजन्यज्ञाने शुद्धब्रह्मभानमावश्यकमिति वाच्यम् । उपहितत्वाभावावच्छिन्नविशेष्यतानिरूपितस्य ज्ञानप्रकारत्वस्यास्वप्रकाशत्वे उक्तवाक्ये. नाभावबोधनात् । न चोपहितत्वस्यास्वप्रकाशत्वव्यापकत्वे ज्ञातव्ये शुद्धत्वस्वप्रकाशत्वयोस्सहचारज्ञानमपेक्ष्यते । अन्यथोपहितत्वाभावववृत्तिः अस्वप्रकाशत्वमिति व्यभिचारज्ञानानुच्छेदेनोक्तव्यापकताज्ञानासम्भवादुक्तसहचारस्य च शुद्धघटितत्वेन तद्धीः शुद्धविषयिकेति वाच्यम् । शुद्धस्य वृत्त्यविषयत्वादेव तद्धटितव्यभिचाराकारवृत्त्यसम्भवात् । उपहिते शुद्धत्वभ्रमकाले तादृशव्यभिचाराशनाद्रुक्तव्यापकत्वज्ञानासम्भवेऽपि तदन्यकाले तत्सम्भवादुपहितरूपाधिकरणमादायोक्तसहचारभ्रमसम्भवाच्च । न चोपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावज्ञानं मास्तु । स्वप्रकाशत्वं शुद्धस्वरूपवृत्ति नवेति ज्ञानं तु स्यादेवेति वाच्यम्।शुद्धस्य वृत्त्यविषयत्वादेव तवृत्तित्वाभावाकारकभ्रमरूपवृत्तिसामग्य अकल्पनात् । न चैवं तादृशसामग्यकल्पनादेव शुद्धास्वप्रकाशत्वयोर्वैशिष्टयधीवारणे उक्तव्यापकताज्ञानस्योक्तधीप्रतिबन्धकस्य जनकं शुद्धं स्वप्रकाशमिति वाक्यमित्युक्तिव्यर्थेति वाच्यम् । तादृशोक्तेययमभिप्रायः । उक्तवैशिष्ट्यधियः कारणकूटाकल्पनादेव नोत्पत्तिः । तत्कल्पनेऽपि शुद्धत्वविशिष्टे तादृशधिय उक्तप्रतिबन्धकज्ञानान्नोत्पत्तिरिति । तस्मात् शुद्धत्वसत्यत्वादिविशिष्टस्य तदुपलक्षितव्यक्तिमात्रस्य वा नास्वप्रकाशत्ववैशिष्टयधीसम्भवः । यथेत्यादि । ता
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
दात्म्यात्यन्तामाकव्यापकस्यात्यन्तिकभेदरूपात्यन्ताभावरूपस्य निषेधज्ञानेन तादात्म्यरूपमभिन्नत्वं यथा सिध्यतीत्यर्थः। उपहितचित्तादात्म्यात्यन्ताभावव्यापकस्योपहितचिदत्यन्तभेदरूपात्यन्ताभावस्य शुद्धचिदन्यनिष्ठस्य प्रतियोगी उपहितचिद्भेदात्यन्ताभाव इति निश्चयोत्तरं तादृशात्यन्ताभावविशिष्टे उपहितचित्तादात्म्यं यथा पर्यवस्यतीति यावत् । तादृशात्यन्ताभावविशिष्टशुद्धचितो वृत्त्यविषयत्वेऽपि तस्यामुक्ततादात्म्यं यथोक्तरीत्या पर्यवस्यतीति भावः । सर्वमतसाधारणदृष्टान्तापेक्षायां त्वेवं व्याख्येयम् । यथा तद्धटत्वरूपतद्धटाभिन्नत्वाभावव्यापको यः, तद्धटभेदः तद्रूपस्यात्यन्ताभावस्य प्रतियोगी तद्धटभेदात्यन्ताभाव इति निश्चयोत्तरं तद्धटभेदात्यन्ताभाववति तद्धटत्वाभावज्ञानानुत्पत्त्या तद्धटत्वं पर्यवस्यतीति । पर्यवसितार्थमादायेति । शुद्धत्वविशिष्टे स्वप्रकाशत्वाभावज्ञानासम्भवरूपं पर्यवसितप्रयोजनमित्यर्थः । एवं शुद्धस्य वृत्तिविषयत्वं विनैव तत्रार्थसिद्धिसंभवे । एतेन मिथ्यात्वसाधकहेतोर्ब्रह्मावृत्तित्वस्थापनेन । स्वतः स्फुरत् स्वविषयः । ब्रह्म सर्वविषयकनिरूपष्टवक्षणिकविज्ञानसन्तानप्रविष्टं विज्ञानम् । ननु, ब्रह्मणस्त्वया वृत्तिरूपज्ञानविषयत्वा स्वीकारेऽपि ज्ञानस्वरूपत्वमेव मिथ्यात्वे हेतुरस्तु । शून्यवादिनो मते सर्वस्य ज्ञानस्वरूपत्वेन शुक्तिरूप्यादौ साधनावैकल्यात्तत्राहखतः स्फुरणरूपताया इति । हेतोरिति शेषः । ज्ञानतादात्म्यापन्नरूपतायाः शुक्तिरूप्ये सत्त्वेऽपि ज्ञानात्यन्ताभिन्न स्वरूपताया मन्मते शुक्तिरूप्ये विरहेण मां प्रति तेन हेतुना ब्रह्माणि मिथ्यात्वं साधयितुं न शक्यमिति भावः । ननु, तर्हि शुक्तिरूप्यादौ ज्ञानविषयत्वस्य सत्त्वात्तदेव हेतुरस्तु । मन्मते ज्ञानमात्रस्य स्वविषयत्वेन ब्रह्मण्यपि तत्सत्त्वात् नासिद्धिस्तत्राह-स्फुरणेति । मन्मत इत्यादिः । तथा च प्रतिनादिनं प्रत्यसिद्धो हेतुर्न प्रयोक्तव्यः । तत्र तस्यानुमितिजनकपरामर्शासम्भवादिति भावः । श्रुत्या गुणविशिष्टब्रह्मबोधकश्रुत्या। दृश्यत्वेन ज्ञेयत्वेन । विशिष्टस्य विशेषणविशेष्यसंसर्गेभ्योऽतिरिक्तस्य मिलितस्य विषयत्वं उभयपयाप्तम् । विशेष्ये विशेष्यमात्रे पर्याप्तम् । भागासिद्धोरिति । स्वरूपसम्बन्धेन विषयत्वस्य हेतुत्वे विशेष्ये व्यभिचारापत्तेः पाप्तिसम्बन्धेनैव तस्य वाच्यत्वात् भागासिद्धेः । उपहितात्मनेति । एवकारश्शेषः । न च विशिष्टज्ञाने शुद्धस्याभाने तदुत्तरं तत्र संशयादिकं स्यादिति वाच्यम् । विशिष्टविषयकनिश्चयस्यापि केवलसंशयप्रतिबन्धकत्वादिस्वीकारात् । यत्तु, घटादेरपि विशिष्टरूपेणैव वृत्तिविषवत्वम् । न तु केवलरूपेण । निर्विकल्पकास्वीकारात् । तत्स्वीकारेऽपि नित्यातोन्द्रियेषु तदस्वीकारात् । केवलस्य तस्य विशिष्टज्ञानाविष
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे दृश्यत्वनिरुक्तिः]
लघुचन्द्रिका ।
८१
यत्वात् तत्रैव केवलरूपे भागासिद्धिरिति । तन्न । घटादेः केवलरूपस्य ज्ञानाविषयत्वे अलीकत्वात् । ज्ञानान्तरेति । विशिष्टाविषयकज्ञानेत्यर्थः । तदानीं उक्तवृत्तिकाले । उपाध्यन्तराभावेनेति । ननूक्तवृत्तिकाले सुखादेरात्मन्यध्यस्तस्योक्तवृत्तिविषयत्वेऽप्युपाधित्वसम्भवात्तस्या एवेत्यसङ्गतमिति चेन्न । सुखादीनां तदानीं नियमेनानुत्पत्तेः । तस्मादुक्तवृत्तिकाले नियमेन यज्जातीय उपाधिस्सम्भवति तज्जायोपाधिः उक्तवृत्तिरेव । न तु सुखादिः । यत्तु स्थूलशरीरादिकमुपाधिस्सम्भवतीति । तन्न । शुद्धब्रह्मणो यत् वृत्त्युपहितं रूपं, तद्विषयकवृत्तेरेवाज्ञाननिवर्तकत्वात् । अन्यथा घटादियत्किश्चिदुपाध्युपहितविषयकज्ञानस्यापि तदापत्तेः । अत एव सखादेरपि नोपाधित्वसम्भवः । तस्यानियतोपाधित्वं त्वभ्युपगममात्रेणोक्तम् । तथा चोपाध्यन्तरेत्यस्याज्ञाननिवर्तकवृत्तिविषयत्वेन सम्भवदुपाध्यन्तरेत्यर्थः । अथवा ज्ञानमेवाज्ञानतत्प्रयुक्तदृश्यनाशः । ज्ञाननाशस्तु तदुपलक्षित आत्मैवेति मते ज्ञानकाले शरीरादेरभावे जीवन्मुक्तेरभावात् । तथा च यथाश्रुत एवार्थः । उपधायकत्वात् उपाधित्वात् । आपत्तिरिति । 'नीलो घटो ज्ञात' इत्यादौ नीलत्वाद्युपाधेरपि ज्ञातत्वप्रतीतेरिति शेषः । कथञ्चित् शाब्दवृत्तौ स्वभिन्नस्यैव शब्दानुपस्थितस्यामानमिति स्वीकारेण । अज्ञानतत्कार्ययोः मूलाज्ञानतत्प्रयुक्तयोः । अज्ञानेति । स्वनिवर्त्याज्ञानेत्यर्थः । अज्ञानेति । मूलाज्ञानेत्यर्थः । उपहितविषयत्वेन अज्ञानादिविशिष्टात्मविषयकत्वेन । प्रसङ्ग इति। ननूक्तप्रसङ्गे शुद्धविषयत्वान्यविषयत्वानिरूपितात्मविषयताकज्ञानस्यैवाज्ञाननिवर्तकत्वमस्तु । अज्ञानाद्यविषयकस्यैव तदिति नियमे तु किं मानम् । 'इयं शुक्तिरेतद्विषयकाज्ञानतत्काथै ज्ञाते'इत्यादिसमूहालम्बनस्येव 'अहं ब्रह्म मूलाज्ञानतत्कार्ये ज्ञाते' इत्यादिसमूहालम्बनस्याप्यज्ञाननिवर्तकतायां बाधकाभावात् । नचैतत् पूर्वपक्षिणोक्तमपि न सिद्धान्तसिद्धमिति वाच्यम् । सिद्धान्तेऽप्युपाध्यविषयकत्वे सत्युपहितविषयकस्यैवाज्ञाननिवर्तकत्वमित्यस्यैव वाच्यत्वादिति चेत् । अत्रोच्यते । शुद्धस्य वृत्त्यविषयत्वपक्षे शुद्धस्य वृत्त्युपहितं यद्रूपं तदंशे तदन्याविषयकज्ञानस्थैव निवर्तकता यद्यपि वक्तुं शक्यते । तथापि गौरवान्न तथोच्यते । किं तूक्तोपहितान्याविषयकज्ञानस्यैव । न चोक्तसमूहालम्बनसङ्ग्रहार्थत्वादुक्तगौरवं प्रामाणिकमिति वाच्यम् । उक्तसमूहालम्बनस्यैवासिद्धत्तात् । यथा हि तार्किकादिमते 'घटो न घट' इत्यादिज्ञानमाहार्यत्वान ज्ञानान्तरविरोधि, तथा मन्मतेऽप्युक्तसमूहालम्बनमाहार्यत्वान्नाज्ञानतत्कार्यभ्रमविरोधि । घटतदभावविषयतयोरिव द्वैताद्वैतविषयतयोरनाहार्यज्ञाने विरुद्धत्वात् । अथ विशेप्यतावच्छेदकत्वसम्बन्धेन घटभेदप्रकारकानाहार्यज्ञानोत्पत्तौ घटत्वनिष्ट
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८२
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
विषयतासम्बन्धेन ज्ञानस्य प्रतिबन्धकत्वादाद्ययोर्विषयतयोर्युक्तस्तादृशो विरोधः । अन्त्ययोस्तु स कुत इति चेन्न । अद्वैतत्वेन ब्रह्मज्ञानोत्तरमेव 'अहं ब्रह्मे'ति ज्ञानस्योत्पतेस्तत्काले अद्वैतत्वेन ब्रह्मण उबुद्धसंस्कारसत्त्वेन तस्यैव द्वैतधीविरोधित्वेनान्त्ययोरपि तयोरुक्तविरोधस्य युक्तत्वात् । शुक्तित्वं रजतभेदव्याप्यमित्याकारो डुद्धसंस्कारस्य ' शुक्तिः रजत' मिति ज्ञाने प्रतिबन्धकत्ववत् द्वितीयाभावो ब्रह्मनिष्ठो अज्ञानाद्यभावो ब्रह्मनिष्ठ इत्याकारो बुद्धसंस्कारस्यापि 'ब्रह्मरूपसदात्मकं द्वितीयं सदज्ञान'मित्यादिधीप्रतिबन्धकत्वात् । न च सत्तादात्म्यमविषयीकुर्वति तादृशसमूहालम्बने उक्तसंस्कारस्याप्रतिबन्धकत्वेन तदुत्पत्तौ बाधकाभाव इति वाच्यम् । सदन्यविषयतायाः सत्तादात्म्यविषयतानिरूपितत्वनियमस्य मूल एव वक्ष्यमाणत्वात् । अथवा ज्ञानमेव ज्ञानोत्तरकालीनभोगसाधनानामज्ञानतत्प्रयुक्तभ्रमतद्विषयदृश्यानां नाशः । ज्ञानस्य तु नाशो जीवन्मुक्तिस्वीकारे ज्ञानोत्तरोत्पन्नो मनःपरिणामः । तदस्वीकारे तु ज्ञानोपलक्षित आत्मैव । न च वृत्तिज्ञानविषयकसाक्षिणोऽपि भ्रमत्वादुक्तभ्रमनाशत्वं वृत्तिज्ञानस्यासङ्गतमिति वाच्यम् । भ्रमपदस्य स्वेतरविषयक भूमपरत्वात् । स्वपदं ज्ञानपरं स्वविषयकभूमो हि स्वकालत्वव्यापक इति तन्नाशत्वं स्वस्य न सम्भवत्येव । न चैवं ज्ञानोत्तरमनःपरिणामस्याप्युत्पत्तिर्न स्यात् । अदृष्टनाशस्य ज्ञानस्वरूपस्य जातत्वादिति वाच्यम् । 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य' इतिश्रुतेः 'भोगेन त्वितरे क्षपयित्वा सम्पद्यत इति न्यायाच्च भुज्यमानादृष्टान्यदृश्यानामेव नाशत्वस्य ज्ञाने स्वीकारेणादृष्टाधीनानां मनःपरिणामानां देहादिरूपाणां ज्ञानोत्तरमुत्पत्तिसम्भवात् । ज्ञानरूपापन्नस्य मनसो ज्ञानरूपनाशासम्भवेन मनसोऽपि ज्ञानोत्तरं सत्त्वेन तत्परिणामसम्भवात् । तथा च तादृशदश्यविषयकज्ञानध्वंसत्वस्य ज्ञाने स्वीकारेण तत्त्वज्ञानस्य नोकसमूहालम्बनरूपत्वम् । अत एव 'इयं शुक्ति' रिति ज्ञानस्येदं रजतमित्याकार भूमरूपत्वासम्भवः । तादृशज्ञानस्योक्तभूमनाशरूपत्वात् । न च ज्ञानोत्तरं भोगासाधनभूमरूपत्वं ज्ञानस्य मास्तु । उक्तभोगसावनदृश्यभूमरूपता तु स्यादिति वाच्यम् । तत्त्वज्ञानस्य भोगात्मकबन्धासाधनत्वात् । 'मनो हि द्विविधं प्रोक्तं कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मोक्षे निर्विषयं स्मृतम् । इति श्रुत्या मोक्षसाधनमनः परिणामस्य बन्धासाधनत्वोक्तेः । अथ 'विषयासक्त' मित्यनेन सत्यत्वेन विषयज्ञानयुक्तस्योक्तत्वात् तत्त्वज्ञानस्य विषया मिथ्येति ज्ञानात्मकत्वं सम्भवतीति चेन्न । मोक्षे निर्विषयमित्यनेन मोक्षसाधनरूपेण परिणतम१. 'अथ वा ज्ञानमेव तदुत्पत्तिक्षणवर्तिनां तत्पूर्वक्षणमात्रवर्तिनां च अज्ञानतत्प्रयुक्त भ्रमतद्विषयद" श्यानां नाशः । इति पाठान्तरम् ।
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
• दे दृश्यत्वनिरुक्तिः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
८३
नसोऽनात्मविषयकत्वनिषेधात् । तदेतत्पक्षद्वयमभिप्रेत्य विवरणे उक्तम्- ' द्वैताद्वैतदर्शनयोर्न यौगपद्यम् । किं तु कदाचिदद्वैतदर्शनं कदाचित् द्वैतदर्शन' मिति । तदीपनेऽपि तत्र व्याख्यातम् । 'सन्तमसबहुलालोकयोरिव द्वैताद्वैतदर्शनयोर्विरोधइति । यद्वा अज्ञानतत्कार्याविषयकज्ञानस्येत्यस्य आत्मांशे किञ्चिदविषयकज्ञानस्येत्यर्थः । इतरविषयत्वानिरूपितात्मविषयताशालिज्ञानस्येत्यर्थः । यथाही 'दं रजत 'मित्या दिभूममूलाज्ञाने शुक्तित्वांशे जातित्वादिप्रकारक' मियं जातिमती 'ति ज्ञानं न निवर्तकम् । अतः इतरप्रकारत्वानिरूपितशुक्तित्वविषयतानिरूपितविषयताशालिज्ञानत्वेन तन्निवर्तकता । तथा अज्ञानादिविशिष्टात्मज्ञानस्य ब्रह्माज्ञानतत्कार्यानिवर्तकत्वेनोक्तविषयताकज्ञानत्वेन तन्निवर्तकत्वम् । 'तमेव विदित्वातिमृत्युमेती' त्यादिश्रुत्या तु 'एकवैवानुद्रष्टव्यमित्यादिकेवलार्थकै कपदयुक्तश्रुत्यैकवाक्यतानुरोधेन केवलात्मज्ञानस्यैव अज्ञाननिवर्तकत्वं बोध्यते । न त्वात्मान्याविषयकस्य । न्यायसिद्धार्थस्य तच्छ्रुत्यानुवादात् । अत एवोक्तं ध्यानदीपिकायां विद्यारण्यस्वामिभिः'न बुद्धिं मर्दयन् दृष्टो घटतत्त्वस्य वेदिता । उपमृद्वाति चेत् बुद्धिं ध्यातासौ न तुः तत्त्ववित् ॥' इति । बुद्धेर्ज्ञानस्यात्मान्याविषयकत्वरूपोपमर्दनाय यतमानत्वं ध्यातुरुचितम् । ध्यानस्य ध्येयान्यविषयकज्ञानासहितज्ञानधासरूपत्वेनोक्तोपमर्दनं विना तदनिष्पत्तेः । तत्त्वज्ञाने तू उक्तोपमर्दनस्य नापेक्षा । घटादितत्त्वज्ञाने घटादिभिन्नविषयकत्वनिरासादर्शनादिति तदर्थः । शुद्धं ब्रह्मेतीति । इतिशब्दोऽत्र वृत्तिविषयसमाप्तौ । शुद्धं ब्रह्मेति शुद्धब्रह्मणो वृत्त्युपहितरूपमित्यर्थः । तथा च वृत्त्युपहितं ब्रह्मैव विषयीकुर्वाणेत्यर्थः । अथवा इतिशब्दो वृत्त्युपहितार्थकः । तथा च शुद्धशब्देनैव वृत्त्युपहितान्याविषयकत्वलाभः । स्वस्वेतरोपाधिनिवृत्तिः स्वः स्वेतः रश्च य उपाधिः दृश्यं तदुच्छेदव्याप्येत्यर्थः । तादृशव्याप्यत्वं च पूर्वमेव विवेचितम् । उपाधित्वेति । स्वनिवर्त्याज्ञानप्रयुक्तत्वेत्यर्थः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीय' इति कोशे आत्मनि आत्मीये च त्रिष्विति योजनाया वैयाकरणोक्तत्वात् स्वस्या इति स्त्रीलिङ्गत्वं युक्तमेव । एवं च वृत्तेः स्वोपहितब्रह्मस्वरूपान्याविषयिकाया एव सर्वदृश्योच्छेदकत्वे च । अनुपहितस्य वृत्त्युपहितान्यस्य शुद्धब्रह्मणो दृश्यस्य वा । ननु, वृत्त्युपहितस्य विषयत्वे वृत्तेरपि विषयत्वमावश्यकम् । नीलोपहितघटो ज्ञात' इत्यादौ नीलस्य ज्ञातत्वप्रत्ययात् । तत्राह — वृत्त्युपराग इति । अत्र वृत्त्युपहितं ब्रह्म विषय' इति व्यवहारे। वृत्तेरुपरागो विषयत्वरूपसम्बन्धः । सत्तया अविषयव्यावर्तकत्वे सति विद्यमानतया । ननूक्तविद्यमानतयोपयुक्तस्य विषयत्वमप्यास्ताम् । तत्राह - न तु भास्यतयेति । ननु, विषयत्वपर्याप्तिरूपं भास्यत्वं मयापि
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
अद्वैतमञ्जरी ।
नोच्यते । वृत्तिविशिष्टब्रह्मण्येव तत्स्वीकारात् । तत्राह-विषयकोटीति । विषयघटकतयेत्यर्थः । अनुपपत्तेरिति । अत्यन्ताभेदे सम्बन्धाभावादिति भावः । चैतन्यस्य विषयतां सम्पादयति विषयचैतन्यमविषयायावर्तयति । तथा च ब्रह्मान्विते स्वविषयत्वे अनन्वितत्वे सति विद्यमानत्वे च सति स्वविषयव्यावर्तकत्वात् वृ
तेः स्वविषयत्वं प्रत्युपाधित्वम् । यदनन्वितं विद्यमानं यद्विशिष्टस्येतरस्माट्यावर्तकं यत् भवति, तत्तत्र उपाधिः । यथा घटकारणत्वादौ दण्डत्वादिकम् । 'नीलघटो ज्ञात' इत्यादिव्यवहारे तु नीलत्वादिकं विशेषणमेव । नोपाधिरिति भावः । ज्ञानाज्ञानयोः ब्रह्मज्ञानाज्ञानयोः । एकविषयत्वं समानविषयत्वम् । उपाध्यविषयत्वे सति स्वोपहितान्याविषयकत्वे सति । उपहितविषयकत्वात् स्वोपहितविषयकत्वात् । स्वविशिष्टब्रह्मविषयकवृत्तेरपि स्वोपहितब्रह्मविषयकत्वात् सत्यन्तम् । स्वाविषयकत्वस्य सत्यन्तार्थत्वे वृत्त्युपहितांशे अज्ञानादिप्रकारकज्ञानस्य सङ्ग्रहापत्तेः स्वोपहितान्याविषयकत्वमेव सत्यन्तार्थः । तुच्छाकारज्ञानेऽपि सत्यन्तसत्त्वात्तद्वारणाय विशेप्यदलम् । न च सविषयकत्वमात्रेण तस्य वारणसम्भवात् स्वोपहितनिवेशे गौरवमिति वाच्यम् । स्वरूपसम्बन्धेन विषयिता विशिष्टत्वरूपसविषयकत्वापेक्षया स्वोपहिताखण्डव्यक्त्या विषयितासम्बन्धेन विशिष्टत्वस्यागुरुत्वात् । तुच्छाकारवृत्तेः सविषयकत्वमते तेन तदवारणाच्च । 'अहं ब्रह्म घटो विनाशी 'ति ज्ञानस्य मूलाज्ञाननाशकत्वस्वीकारे तु स्वोपहितब्रह्मनिष्ठा या विषयत्वानिरूपितविषयता तच्छालित्वं समानविषयकत्वं वाच्यम् । निवर्त्यनिवर्तकभावादिति । निवर्तकत्वं ज्ञानस्य तत्समानविषयकं तदाश्रयमनोनिरूपितं यदज्ञानं तदाश्रयकालपूर्वत्वशून्यत्वमित्यादिकं पूर्वोक्तरीत्या बोध्यम् । 'मया ब्रह्माज्ञातं न तु जीवन्मुक्तेने त्यादिप्रतीते नाज्ञानपक्षे मनोविशेषस्याज्ञानविशेषनिरूपकत्वं बोध्यम् । ननु,चैत्रो ब्रह्मेत्यादिवाक्यजन्यज्ञानस्यापि ब्रह्माज्ञानं प्रति उक्तनिवर्तकत्वमास्तामिति चेन्न । अहन्त्वादिधर्मोपस्थित्यादिद्वारकवाक्यजन्यज्ञानस्यैव तथात्वात् । अत एवावस्थात्रयविशिष्टजीवबोधकवाक्यानां महावाक्यशेषत्वम् । अवस्थात्रयवत्त्वेन जीवबोधने हि तद्वाक्येन कृते अवस्थात्रयवत्त्वाहन्त्वोपलक्षितशुद्धजीवस्य 'योऽयं विज्ञानमय' इत्यादिवाक्येन बोधनं सम्भवति । ननु, 'आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवले'ति सिद्धान्तविरोधेनाज्ञानोपहितं ब्रह्म न तद्विषयः । किं तु, शुद्धमिति चेन्न । आश्रयत्वेत्यादेः प्रस्थानान्तरत्वात्। केवलपदस्य वृत्तिभिन्नाज्ञानकार्यानुपहितपरतया व्याख्यानसम्भवाच्च । 'पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचर' इत्यनेन पश्चिमशब्दितकार्यत्वस्य पूर्वसिद्धा
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे दृश्य त्वनिरुक्तिः
लघुचन्द्रिका ।
ज्ञानानाश्रयत्वे हेतुतया निर्देशात् । अथ वाचस्पतिमते ब्रह्मसाक्षात्काररूपमनोवृत्तेः मनस्सम्प्रयोगजन्यत्वादुक्तवृत्त्युपहितस्य चोक्तवृत्त्युत्पत्तिपूर्वमसत्त्वात् तदा तत्रोक्तसम्प्रयोगासम्भवेन विषयतासम्बन्धेनोक्तवृत्त्युत्पत्तावुक्तसम्प्रयोगस्य हेतुत्वासम्भव इति चेन्न । उक्तवृत्तिर्हि स्वोपहित इव मनस्संयोगोपहितेऽप्यात्मनि जायते । कारणस्य स्वाश्रयदेशे कार्यजनकत्वस्वाभाव्यात् । तथा च मनस्संयोगोपहितवृत्तिलौकिकविषयतासम्बन्धेन मानसवृत्तौ मनस्संयोगस्य हेतुत्वे बाधकाभावात् । यदि तु वृत्त्युपहित एव वृत्तिविषयत्वम् । न तु मनस्संयोगोपहिते । तत्र तु वृत्तिविषयाभिन्नत्वमेव, तदा मनस्संयोगिनिष्ठं यत् स्वविषयाभिन्नत्वं तेन सम्बन्धेन मानसप्रत्यक्षे मनस्संयोगस्य हेतुत्वे न दोषः । न च विनश्यदवस्थेन मनसंयोगेनोत्पादितस्य मानसप्रत्यक्षस्य उक्तसम्बन्धेनोत्पत्त्यसम्भव इति वाच्यम् । तदसम्भवेऽप्यविनश्यदवस्थेनैव तत्सम्भवात् । विषयत्वेपीति । 'केवलो निर्गुण'इत्यादिश्रुत्या ब्रह्मणि परमार्थतो धर्मनिषेधात् अन्यथा उपहितब्रह्मतादात्म्यस्य शुद्ध अवश्यं वाच्यत्वेन श्रुतिबाधापत्तेः, स्वप्रकाशेऽपि ब्रह्माणि कल्पिताज्ञाननिवृ. त्त्यर्थं वृत्तिविषयत्वस्य युक्तत्वाच्च । शुद्धमपि ब्रह्म वृत्तिविषयः। किं च न स्वप्रकाशे चिदंशेऽज्ञानम् । किं तु पूर्णानन्दांशे । तथा च तस्य शुद्धस्यापि वृत्तिविषयत्वमावश्यकम् । तदुक्तम्- 'फलव्याप्यत्वमेवास्य शास्त्ररुद्भिनिराकृतम् । ब्रह्मण्यज्ञाननाशार्थं वृत्तिव्याप्यत्वमिष्यते॥' इति भावः । तुच्छशुद्धयोरित्यादि । 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पातञ्जलसूत्रात् शशविषाणादिशब्दैस्तुच्छव्यवहाराच तुच्छं शाब्दवृत्तेविषयः । उक्तरीत्या च शुद्धब्रह्मापि श्रुतिजन्यवृत्तिविषयः । शब्दान्यमानस्य तु तयोरप्रवृत्तेः न तज्जन्यवृत्तिविषयतेति भावः । ननूक्तशब्देनेव तुच्छं वृत्तिविषयः व्यवह्रियमाणत्वात् । तुच्छं न क्षणिकम्। अकारणत्वात् इत्याद्यनुमानेनापि तुच्छं ज्ञाप्यते । तत्राह--यद्वेति । कश्चिद्धम इति । ग्राह्य इति शेषः । तथा च सोपाख्यधर्मनिष्ठप्रकारताकवृत्तिविषयत्वं हेतुः । तुच्छेऽपि 'अस्ती'ति धीविषयत्ववादिनं माध्वं प्रति विषयत्वादीत्यत्रादिपदमुक्तम् । सत्तादात्म्यसत्तादात्म्यत्वान्यतरवत्त्वं तदर्थः । तुच्छनिष्ठस्य सर्वदेशकालनिष्ठात्यन्ताभावप्रतियोगित्वादेस्तुच्छत्वमेव । अधिकरणस्वरूपत्वात् तुच्छस्यातुच्छधर्मासम्भवात् सदसतोस्संसर्गाभावस्य बौद्धाधिकारादावुक्तत्वात् । ननु, तुच्छस्यातुच्छधर्मासंसर्गे कथमभावस्याभावत्वेनातुच्छेन संसर्गः। अभावत्वं हि 'घटाभावोनास्ति' 'घटो नास्ती' त्यादिधीसिद्धो भावसाधारणत्वादतुच्छोऽखण्डधर्मः । अभावस्तु तुच्छो बौद्धादिसम्मत इति चेदन ब्रूमः । अभावत्वस्य तुच्छसंसर्गो
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
ऽभावत्वादिसाधकोक्तधीवलादेव सिद्धः । तत्सिद्ध्यस्वीकारे ऽभावत्वस्याप्यसिद्धिप्रसङ्गात् । अत एवाभावत्वविशिष्टरूपेणाभावस्यातुच्छत्वात् प्रतियोग्यनुयोगिसंसर्गोऽप्युपपद्यते । तत्र भूतले घटो नास्तीत्यादिप्रतीतेः तद्भूतलघटः शशविषाणमित्यादिशब्दैः प्रतीयमानन्तु तद्भूतलानुयोगिकघटप्रतियोगिकाभावशशानुयोगिकविषाणप्रतियोगिकाभावादेः स्वरूपमखण्डं तुच्छमेव । घटशून्यतद्भूतलादिनिष्ठतया घटप्रतियोगिकतया च समानाधिकरणेन अभावत्वेन प्रतीयमानं यंत् , तस्यैवालीकाखण्डात्मकेन तद्भूतलघटरूपेण प्रत्ययात् । अत एव तेनैव शब्दान्यप्रमाणाग्राह्यत्वम् । अभावत्वादिविशिष्टरूपेण तु प्रत्यक्षेणानुपलब्ध्या वा ग्राह्यत्वमिति दिक् । यदि तुच्छेऽप्यतुच्छधर्मसंसर्ग इति कस्य चिदाग्रहः, तदास्तीतिधीविषयत्वादिसमानाधिकरणं वृत्तिविशेष्यत्वं हेतुबोध्यम् । प्रयोजकविषयत्वति । प्रयोजकयोश्चित्तादात्म्यवृत्तिविषयत्वयोरन्यतरेत्यर्थः । चितस्तादात्म्ये वृत्तेराकारे च विषयतात्वस्यैकस्यामावेनोक्तान्यतरत्वरूपेणैव हेतुतेति भावः । तुच्छान्यविशेष्यकेऽस्तित्वप्रकारके व्यवहारे चितस्तादात्म्यसम्बन्धेन हेतुत्वम् । चिद्विशेप्यके अस्तित्वस्य व्यवहारे असत्त्वापादकस्याज्ञानस्य विषयत्वसम्बन्धेन प्रतिबन्धकत्वम् । दृश्यविशेष्यकोक्तव्यवहारे विषयतावच्छेदकत्वसम्बन्धेन तस्य प्रतिबन्धकत्वम् । न च तादात्म्यसम्बन्धेन चितश्चित्यसत्वात् तत्रोक्तव्यवहारस्य उत्पत्त्यसम्भव इति वाच्यम् । उक्तव्यवहारविषये शुद्धचिति उक्तव्यवहारकारणत्वाद्युपहितचितस्तादात्म्येन सत्त्वात् । न चोक्तप्रतिबन्धकाभावेनैवोक्तव्यवहारजननसम्मवात् चितस्तत्र कारणत्वकल्पनं व्यर्थमिति वाच्यम् । प्रतिबन्धकेन हि कारणे शक्तिस्तिरस्क्रियते । न तु तदभावः कारणम् । तथा चासाधारणं कारणं चिदेव । किं चोक्तप्रतिबन्धकाभावः तुच्छेऽप्यस्तीति तत्राप्युक्तव्यवहारापत्त्या चित्तादात्म्यमवश्यं तत्प्रयोजकम् । तुच्छविषयकशब्दप्रयोगादिव्यवहारे तु विकल्परू. पवृत्तिविषयत्वमिति भावः । यथाकथञ्चित् साक्षात्परंपरासाधारणम् । चैतन्ये शुद्धचिति ।अभेदे अत्यन्ताभेदे । भेदनान्तरीयकस्य विनाशित्वादिरूपं यत् ब्रह्मवैलक्षण्यं तव्याप्यस्येत्यर्थः । सम्बन्धस्येति । चितं प्रति सम्बन्धावच्छेदकं यत् चिदवृत्तित्वविशिष्टतादात्म्यत्वं, तद्विशिष्टस्यर्थः । एतेन आनन्दं ब्रह्मणो रूपंचित् ब्रह्मणो रूपमित्येवं कल्पितभेदस्य तादात्म्यस्य च चितश्चिति सत्त्वाव्याभिचारो दुर्वारः । अथ प्रातीतिकान्यस्य चित्सम्बन्धस्य निवेशान्न दोषः । उक्ततादाम्यस्य प्रातीतिकत्वादिति चेन्न । साधनवैकल्यापत्तरित्यादिकमपास्तम् । ननु, चितस्खाश्रितवृत्तिविषयत्वरूपपरंपरासम्बन्धस्य तुच्छेऽपि सत्त्वाव्यभिचारस्तत्राह
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे दृश्यत्वनिरुक्तिः ]
लघुचन्द्रिका ।
नुच्छेति । अस्तित्वप्रकारकधीविषयत्वसमानाधिकरणत्वेन हेतोर्विशेषणेनेति शेषः । विषयाभिव्यक्तं विषयावच्छेदेन भग्नावरणं, विषयगतवृत्तिप्रतिबिम्बितं वा । वृत्त्यभिव्यक्तं मनोवच्छेदेन भग्नावरणं वृत्तिप्रतिविम्बितं वा । चैतन्यमानं विषयाभिव्यक्तत्वाद्यविशेषितचित् । तथा च विषयाभिव्यक्तादिचित्साधारणेन चित्त्वेनैव संवित्पदबोच्यतेति भावः । सर्वोऽपीति । घटादावपरोक्षत्वरूपो व्यवहारो घटाद्यभिव्यक्तचित्सापेक्षः । नित्यांतीन्द्रिये अस्तित्वादिव्यवहारो नित्यातीन्द्रियविषयकवृत्त्यभिव्यक्तचित्सापेक्षः । सुखादावपरोक्षत्वादि व्यवहारः सुखाद्यभिव्यक्तत्वाविशेषितसुखाद्यवच्छिन्नचैतन्यापेक्ष इति त्रिविधचित्साधारणरूपनिवेशफलं बोध्यम् । घटादेरसत्त्वापादकाज्ञानाविषयत्वप्रयोजकविशिष्टचिद्रूपं स्फुरणं शुद्धचिद्रूपसंविदपेक्षम् । शुद्धचिजन्यमनोवृत्त्योक्ताज्ञाननिवृत्तेविशिष्टचितरशुद्धचिति कल्पितत्वेन शुद्धचिदाश्रितत्वाच्च । वदनादीति । आदिपदादिच्छाप्रवृत्त्यादिसङ्ग्रहः । ननु, घटादेरिव ब्रह्मणोऽपि इच्छादावसत्त्वापादकाज्ञानशून्यचितो हेतुत्वात्तादशचितश्च ब्रह्मातिरिक्तत्वात् ब्रह्मणि व्यभिचारस्तत्राह-तत्रेत्यादि । स्फुरणरूपे असत्त्वापादकाज्ञानाविषयत्वप्रयोजकविशिष्टचिद्रूपे। नित्यसिद्धे अनादौ पूर्णानन्दांशे।उक्ताज्ञाननिवृत्तेस्तदाकारवृत्त्यधीनत्वेन तदंश एव स्फुरणं सादि । न तु चिदंशे। वृत्ति विनापि 'चिदस्ती'ति सर्वदा व्यवहारादिति भावः । स्वातिरिक्तसंविदिति । उक्तस्फुरणस्य शुद्धचिदपेक्षत्वेऽपि सा न ब्रह्मातिरिक्ता । उक्तस्फुरणेन क्षेमसाधारणजनकत्वेन ब्रमातिरिक्ताविद्याया अपेक्षणीयत्वेऽपि सा न संवित् । अत एव संवित्पदं सार्थकमिति भावः । नियतिपदेनेति । नियमघटितार्थेनेति शेषः । स्वव्यवहारं प्रति स्वातिरिक्तसंविदपेक्षाया नियमो व्यापकत्वरूपो घटकतया यत्रेति व्युत्पत्या तादृशव्यापकताघटितस्य हेतुता । तादृशघटितत्वं च स्वव्यवहारत्वावच्छिन्नव्यापकस्वातिरिक्तसंवित्सापेक्षत्वकत्वम् । यथाश्रुतं त्वसङ्गतम् । नियमस्य हेतुत्वासम्भवात् । स्वगोचरेति । स्वविषयकस्फुरणाद्यन्यतमत्वव्यापकं यत् स्वातिरिक्तचिदधीनत्वं, तत्सम्बन्धित्वं पर्यवसितहेतुः । अधीनत्वञ्च क्षेमसाधारणजन्यगताखण्डधर्मविशेष इति भावः । अत्र स्वातिरिक्तचिदधीनस्वस्फुरणकत्वं लघु हेतुर्बोध्यम् । स्वापरोक्षत्वइति । अपरोक्षत्वमज्ञानाविषयत्वप्रयोजकविशिष्टचित् । ननु, नोक्तरूपमपरोक्षत्वम् । गौरवात् । किं त्वज्ञानशून्यचिद्रूपमिति चेन्न । साक्षात्करोतेस्सकर्मकत्वानुरोधेनापरोक्षताया उक्तरूपत्वावश्यकत्वात् । धात्वर्थतावच्छेदकफलशालित्वं हि कमत्वम् । फलप्रयोजकव्यापारघटितवाचकत्वं धातोरसकर्मकत्वमिति तार्किकादयः । स्ववाच्यव्यापारस्य व्यधिकरणं यत् फलं, तद्वाचकत्वं धातोरसकर्मकत्वम् । तथा च
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
फलतत्प्रयोजकयो/तुवाच्याघटकत्वे धातोः सकर्मकत्वानुपपत्तिः । अत एव जानात्यर्थरूपस्य स्फुरणस्याप्युक्तरूपत्वमेव । न त्वसत्त्वापादकाज्ञानशून्यचिद्रूपत्वम् । जानातेः सकर्मकत्वानुपपत्तेः । तादृशप्रयोजकञ्च चिति घटादिप्रत्यक्षस्थले घटाद्याकारवृत्तिजनकसामग्री। सुखादिप्रत्यक्षस्थले सुखादिजनकसामग्री । तत्पूर्वभाविताकालावच्छिन्नसुखादौ विद्यमानस्याज्ञानविषयत्वस्य सुखाद्युत्पत्तिक्षणावच्छेदेनाभावो हि तादृशसामग्रीप्रयुक्तः । इदानोमज्ञानाविषयत्वं सुखादौ चन्दनयोगादिप्रयुक्तमित्यनुभवात् । विवेचितमिदं रत्नावल्याम् । स्वातिरिक्तेति । स्वान्यचिदि त्यर्थः । चिदंशनिष्ठस्यापरोक्षत्वस्य चिदंशान्याविद्याद्यपेक्षत्याच्चिदिति विशेष्योपादानम् । आनन्दांशस्य तु स्वान्यचिदंशाधीनापरोक्षताकत्वात् न स्वप्रकाशत्वम् । न च चिदंशेऽपरोक्षतालक्षणस्यासम्भवः । तदन्यचिदप्रसिद्धेरिति वाच्यम् । स्वान्यत्वाद्यभावविशिष्टस्वनिष्ठापरोक्षत्वापेक्षणीयचित् यस्य तत्त्वं स्वप्रकाशत्वम् । स्वापरोक्षतापेक्षणीयचित् यदन्या न भवति तत्त्वमिति यावत् । स्वपदाभ्यां स्वपदयत्पदान्याञ्चैका व्यक्तिर्नाद्या । साक्षादपरोक्षात् उक्तस्वप्रकाशत्ववत् । तनिरूपितभेदेति । तदवच्छिन्नानुयोगिताकभेदेत्यर्थः । प्रतियोग्यनुयोगिनोरिव प्रतियोगितावच्छेदकानुयोगितावच्छेदकयोरपि निरूपकत्वसम्भवात् । कारणीभूतद्रव्ये परिच्छेदकतया जात्यादेः कारणत्वस्येव निरूपकीभूतप्रतियोग्यनुयोगिपरिच्छेदकधर्मस्यापि निरूपकतायाः युक्तत्वात् , साक्षात् परंपरया वा सम्बन्धिमात्रस्य निरूकत्वाच्च । अत एवोत्पत्तिवादे प्रत्यक्षपरिच्छेदे मणिकारैरुक्तम्-'यदि प्रमा अप्रमात्वासमानाधिकरणधर्मनिरूपितकार्यत्वप्रतियोगिककारणजन्या न स्यात् अप्रमास्या'दिति । अत्र हि निरूपितपदस्यावच्छिन्नार्थकत्वेनावच्छेदकस्यापि निरूपकत्वं व्यवहृतम् । नित्यपरोक्षइति । अपरोक्षत्वरूपविशेष्याभावादिति शेषः । घटादाविति । तदीयापरोक्षताया अन्यानधीनत्वाभावादिति शेषः । धर्मानिरूपितत्वात् धमानवच्छिन्नानुयोगिताकत्वात् । जीवत्वेत्यादि । 'जीवो ब्रह्म न ईशो ब्रह्म ने त्याद्यनुभवसिद्धभेदस्य शुद्धचिद्रूषब्रह्मप्रतियोगिकत्वेऽपि जीवत्वाद्युपहितब्रह्मनिष्ठत्वेन तदनुयोगिता जीवत्वादिनैवावच्छिद्यते । न तु स्वप्रकाशत्वनेत्यर्थः । ननु, 'स्वप्रकाशं ब्रह्म' 'साक्षादपरोक्षाद्ब्रह्मे'त्यादिलौकिकवैदिकसामानाधिकरण्यप्रत्ययात् स्वप्रकाशत्वविशिष्टेऽपि ब्रह्मभेद आवश्यकः । अन्यथा तत्र ब्रह्मतादात्म्यसम्बन्धानुपपत्तेरिति चेन्न । म्वप्रकाशत्वोपहिते तत्प्रतियोगिकभेदाभावेन मिथ्याभूते तत्र भागासिद्ध्यापत्तेः । स्वप्रकाशत्वोपहितानुयोगिकभेदस्य हेतावनिवेशेन स्वप्रकाशत्वोपलक्षितानुयोगिकभेदस्यैव निवेशात्तादशोपलक्षितशुद्धचैतन्यनिष्ठानुयोगि
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे दृश्यत्वानरुक्तिः] लघुचन्द्रिका । तायां उपलक्षणविधया स्वप्रकाशत्वस्यावच्छेदकत्वसम्भवेन तन्निरूपितेत्यादिमूलस्थासङ्गत्यभावात्तादृशोपलक्षितशुद्धचैतन्ये शुद्धचिद्रूपब्रह्मप्रतियोगिकभेदाभावेनादोषात् । न च ‘ब्रह्मणश्चैतन्यम् ।' 'आनन्दं ब्रह्मणो रूप'मित्यादिधीनियामकभेदमादा य दोष इति वाच्यम् । तादृशभेदस्य ज्ञानत्वादिधर्मनिरूपितत्वात् । ब्रह्मनिष्ठज्ञानत्वादिधर्मस्य चिन्मात्ररूपत्वेऽप्युपलक्षणतया धर्मान्तरस्य तादृशभेदनिरूपकत्वात् । एवं च यथाश्रुतमनादृत्य व्याख्याने च । अवेद्यत्वेत्यादि । अवेद्यत्वसमानाधिकरणं यदपरोक्षताव्यवहारयोग्यत्वं तदभावरूपमित्यर्थः । वेद्यत्वं स्वावच्छिन्नचिद्विषयकं यत् अभानापादकाज्ञानं तन्निवर्तकवृत्तिव्याप्यत्वरूपफलव्याप्यत्वम् । तच न बह्मणि । यत्रोक्तव्याप्यत्वं स्थाप्यं तस्यैव स्वपदार्थतया बह्मावच्छिन्नचिदप्रसिहेः । नापि शुक्तिरूप्यादौ । अतीतादिदशायां तस्यासत्त्वापादकाज्ञाननिवर्तकानुमित्यादिवृत्तिव्याप्यत्वेऽप्युक्ताज्ञाननिवर्तकवृत्त्यव्याप्यत्वात् । ब्रह्मणीवेत्यादि । अपरोक्षताव्यवहारयोग्यत्वमभानापादकाज्ञानाविषयत्वं तद्विशिष्टचित्तादात्म्यं चेत्यन्यतरवत्त्वम् । तत्राद्यस्य ब्रह्मणीव द्वितीयस्याविद्यादौ सत्त्वादसियादिकमित्याशयः । नोक्तान्यतरवत्त्वमपरोक्षताव्यवहारयोग्यता । किं त्वज्ञानसामान्यविरोधिमनोवृत्तिविषयतायोग्यत्वम् । अतो नोक्तदोष इत्याह-अज्ञाननिवर्तकेत्यादि । उक्तविषयताया अव्याप्यवृत्तित्वेन तदभावस्य ब्रह्मण्यपि सत्त्वात्तदीययोग्यत्वस्येत्युक्तम् । तादृशयोग्यत्वं च अभानापादकाज्ञानविषयत्वतदवच्छेदकत्वविशिष्टयोरन्यतरत्वम् । उक्तविषयत्वं ब्रह्मण्येव । उक्तविषयतावच्छेदकत्वं घटादावेव । न त्वविद्यादौ । अ तीतत्वादिदशायामपि शुक्तिरूप्यादौ नाभानापादकाज्ञानविषयतावच्छेदकत्वम् । साक्ष्यसम्बन्धादेव तदा तदभानोपपत्तेः । न चोक्तविषयतातदवच्छेदकयोरव्याप्यवत्तित्वेन तत्स्वरूपोक्तान्यतरत्वस्याप्यव्याप्यवृत्तित्वात्तदभावो ब्रह्मण्यपीति वाच्यम् । ब्रह्मतद्धटान्यतरत्वपर्यवसितस्योक्तान्यतरत्वस्य निवेशात् । अज्ञानकालवृत्तित्वमिति। अज्ञानाप्रयुक्तं सत् यत् जन्यं तदन्यत्वे सति कालसम्बन्धित्वमित्यर्थः । उक्तकालसम्बन्धित्वं ब्रह्मण्यपीति दृश्यत्वमुपात्तम् । सत्यन्तस्य तुच्छेऽपि सत्त्वात् कालमम्बन्धित्वमुक्तम् । तावन्मात्रस्य पञ्चमप्रकारेऽपि सत्त्वात् सत्यन्तमुक्तम् । अज्ञानाप्रयुक्तत्वं तु अज्ञानतल्लेशान्यतरतादात्म्यानापन्नत्वम् । तेनाज्ञाननिवृत्तौ प्रतियोगि. विधया अज्ञानस्य प्रयोजकत्वेऽपि न क्षतिः । जीवन्मुक्तभोगादिकमज्ञानानात्मकमपि तल्लेशात्मकम् ॥
॥ इति लघुचन्द्रिकायां दृश्यत्वहेतूपपत्तिः ॥ १२
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
अज्ञातृत्वं ज्ञातृभिन्नत्वम् । अज्ञानत्वं ज्ञानमिन्नत्वम् । अनात्मत्वं आत्मभिन्नत्वम् । पक्षनिक्षिप्तस्य मिथ्यात्वं येष्वनुमेयं तदन्तर्गतस्य । अहमर्थस्य स्थूलमनोविशिष्टस्य । ननु, नाहमर्थो ज्ञाता । सुषुप्तौ तदभावेऽपि अविद्यावृत्त्यात्मकस्य सुखादिज्ञानस्य साक्षिणि दर्शनात् तत्राह-शुद्धेत्यादि । अविद्याविशिष्टस्वरूपेण सुषुप्तिस्वप्नयोरहङ्कारविशिष्टरूपेण जाग्रति ज्ञातृत्वेऽपि केवलात्मनोऽज्ञातृत्वेन तत्र व्यभिचार इति भावः । वृत्युपरक्तेति । यदाकारवृत्त्युपरक्तं चैतन्यं यत् तत् तद्विषयकज्ञानमित्यर्थः । सुखादावपि वृत्तिः स्वीक्रियते । अन्यथा सुखाद्यवच्छिन्नचित एव सुखादिज्ञानत्वे सुखादौ संस्कारासम्भवात् ज्ञानसूक्ष्मावस्थाया एव संस्कारत्वात् कार्यस्यैव सूक्ष्मावस्थास्वीकारात् । न चोक्तचिद्रूपेण चितोऽपि जन्यत्वेन तत्सूक्ष्मावस्थासम्भव इति वाच्यम् । तादृशावस्थाया हि संस्कारविधया स्मृतिकारणत्वं मुखादिविषयकत्वेन वाच्यम् । सुखादिविषयकत्वं च तस्यां सुखादितादात्म्यापनचित्परिणामरूपायां सुखादितादात्म्यम् । विद्यमानसुखादौ वृत्तेः स्वीकारे तु नोककारणत्वं कल्प्यते । वृत्तिसंस्कारस्य अनुमित्यादिवृत्तिसंस्कारसाधारणेनाकाराख्यगौणविषयतासम्बन्धेन सुखादिविशिष्टसंस्कारत्वेन कारणतायाः क्लुप्तत्वेन तयैवाविद्यमानसुखादिस्मृतिनिर्वाहादिति भावः । विशिष्टात्मनां जीवानाम् । भेदे नानात्वे । निक्षिप्तत्वादिति । तथा च तेष्वसिद्धिः। वैषयिकानन्दे चन्दनादिसंयोगजन्यमनोवृत्त्यवच्छिन्नचिति । तव्यतिरेकस्य आनन्दभेदस्य । तस्य वैषयिकानन्दस्य । आत्मत्वे आत्मस्वरूपत्वस्वीकारे । अज्ञानपक्षेत्यादि । केवलचितो अनानन्दत्वेन तत्र व्यभिचारः । केवलचिति व्यभिचारोक्त्या सत्यत्वसूचनेन वैषयिकानन्दादेः केवलचिदन्यस्यानात्मत्वसूचनेनासिद्धितादवस्थ्यं सूचितम् । मैवामिति । एवंशब्दानुक्तौ प्रथमपक्षदूषणस्यापि निषेधापत्तेः । एवंशब्देन द्वितीयतृतीयपक्षयोर्दूषणे निषेयत्वमुक्तम् । न च प्रथमपक्षेऽपि ज्ञातृत्वोपलक्षितचिद्भेदस्य हेतुत्वसम्भवात् तत्त्यागो नोचित इति वाच्यम् । यथा हि वक्ष्यमाणरीत्या ज्ञानपदजन्यधीमुख्यविशेष्यत्वरूपेण ज्ञानपदवाच्यस्य निवेशेन तद्भेदो हेतुस्सम्भवति । तथा ज्ञातृपदनन्यधीमुख्यविशेष्यत्वेन ज्ञातृपदमुख्यार्थनिवेशेन तद्भेदो हेतुर्न सम्भवति । ज्ञानानुकूलव्यापारवत्त्वेन चित इव मनसोऽपि ज्ञातृपदजन्यधीमुख्यविशेष्यत्वेनोक्तभेदस्य मनस्यसिद्धत्वात् । ज्ञानपदस्य तु वाच्यं वृत्त्यवच्छिन्नं असत्त्वापादकाज्ञानाविषयत्वप्रयोजकविशिष्टं वा चैतन्यम् । न तु चैतन्यविशिष्टवृत्त्यादिरूपम् । विशेष्य. त्वेनैव चितो ज्ञानपदात् प्रतीतेः । अत एव 'सत्यं ज्ञान' मित्यादिश्रुतौ ज्ञानपदशक्त्यैव केवलचिबोध इति वक्ष्यते मूले । न हि वाच्यविशेषणस्य शक्त्या विशेष्यत
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र०दें जडत्वनिरुक्तिः ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
९१
या वोधो व्युत्पत्तिसिद्धः । पारपशुरित्यादितः पश्वादिभिन्नत्वेन पशुत्वादेर्बोधापत्तेः । वृत्त्यवच्छिन्नत्वं च वृत्तिसुखादिनिष्ठप्रतिबिंबप्रयोजकं यत् मनोमायान्यतरावच्छिन्नचैतन्यं तदात्मकत्वम् । सुखादौ वृत्तेरभावेऽपि तस्यैव स्वच्छत्वेन प्रतिबिंबवत्वम् । तत्र वृत्तेश्चिदुपरागार्थत्वपक्षे स्वाश्रयवृत्तिविषयत्वसम्बन्धेन चित्प्रतिबिंबविशिष्टत्वरूपं ज्ञानक्रियायाः फलमादाय घटादिविषयस्य तत्कर्मता । वस्तुतस्तु, प्रतिबिंबप्रयोजकत्वरूपेणैव वृत्त्यादिनिष्ठप्रतिबिंबप्रयोजकस्य जानातिवाच्ये निवेशः । न तु वृत्तिसुखादेरपि निवेशः । तथा च घटादेरपि वृत्त्युपहितरूपेण साक्षात्सम्बन्धेनैव जलाद्युपहितरूपेण पाषाणादेरिव प्रतिबिम्बवत्त्वसम्भवः । ईशो जानातीत्यत्रेशस्य जगदनुपादानत्वपक्षे मनोवच्छिन्नचित्तादात्म्याभावात् मायानिवेशः । साक्षिणरशुद्धचिद्रूपस्यैवाधिष्ठानत्वेन ज्ञानत्वादुक्तान्यतरावच्छिन्नचिदात्मकचितो ज्ञानत्वमुक्तम् । वृत्तेरावणभङ्गार्थत्वपक्षे त्वसत्त्वापादकाज्ञानाविषयत्वरूपतत्फलमादाय तस्य तत्कर्मतेति पक्षभेदेनोक्तफलघटितं ज्ञाधातुवाच्यं बोध्यम् । 'घर्ट जानामि' इत्यादौ घटाद्यवच्छिन्नस्याज्ञानविषयत्वाभावस्य धीः । 'ब्रह्म जानामी' त्यादौ च ब्रह्मनिष्ठस्याज्ञानविषयत्वाभावस्य धीः । न चाज्ञानविषयत्वसामान्याभावघटितस्य वाच्यत्वे उक्तविशेषाभावबोधनानुपपत्तिरिति वाच्यम् । अज्ञानविषयत्वेऽभावादौ च खण्डशक्तिस्वीकारात् । प्रतिकर्मव्यवस्थायामधिकं वक्ष्यते । अर्थोपलक्षितमकाशस्येति । वृत्त्यादिरूपढश्योपलक्षितचित इत्यर्थः । ज्ञानत्वेन अज्ञानत्वरूपहेतुमविष्टज्ञानपदलक्ष्यचित्स्वरूपत्वेन । मोक्षदशायामिति । मोक्षो दशा स्वरूपं यस्यास्तस्यां शुद्धचितीत्यर्थः । तदनपायात् तादृशचित्स्वरूपत्वानपायात् । तथा च कृच्यवच्छिन्नस्याज्ञानविशेषा वियत्वप्रयोजकविशिष्टस्य वा चैतन्यस्य ज्ञानपदवाच्यत्वे Sपि ज्ञानपद जन्यतीविषयत्वरूपेण शुद्धचित एव भेदः प्रकृते हेतुरिति भावः । अत्र शुद्धचितीत्यनुक्त्वा मोक्षस्वरूपत्वेन शुद्धचितो निर्देशात् 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिसिद्धशुद्धचिद्रूपस्य प्रत्याख्यातुमशक्यलया तद्वेदस्य हैतुत्वसम्भव इति सूचितम् । पुनस्तमेवार्थं युक्त्या दृढीकर्तुमाक्षिपति । नचाभाव इत्यादिना । स्वाभाविकत्वात् अनारोपितत्वात् । यथा गगने नैस्यमारोपितं न तथा ज्ञाने सविषयकत्वमारोपितम् । अतो ज्ञानसमसत्ताकं तत् । तथा च सर्वदृश्योच्छेदे मोक्षे ज्ञानत्वोपलक्षितस्त्वरूपसत्वासम्भवात् तद्भेदस्य हेतुत्वासम्भव इति भावः । ज्ञानोपाधिकस्य ज्ञानीयस्य । जनकज्ञानीयविषयत्वमिच्छादेर्विषयेषु सम्बन्धः ! ज्ञानविषययोस्तादात्म्येष्वेव विषयतात्वस्य क्लृप्ततया ज्ञानीयतादात्म्यमेव सः । यद्यपि स्वजनकज्ञानीयतादात्म्यत्वेन तादात्म्यस्य नेच्छाया
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२
अद्वैतमञ्जरी ।
विषये सम्बन्धत्वम् । समूहालम्बनज्ञानविषये सर्वत्रेच्छाया विषयत्वप्रसङ्गात् । तथापि खजनकतावच्छेदकं ज्ञानीयविषयत्वमिच्छायास्सम्बन्धः । घटत्वप्रकारकवटविशेष्यकज्ञानत्वेन तादृशज्ञानविशिष्टेच्छां प्रति हेतुत्वस्वीकारात् । अथवा ज्ञानोपाधिकस्य ज्ञानोपाध्यविद्याप्रयुक्तस्य । ज्ञान इवेच्छादावपि विषयसम्बन्धम्य दुर्वचत्वात् । तत्राकाराख्यो विषयसम्बन्ध आविद्यक इति भावः । मुतरामिति । ज्ञानस्वरूपस्य सत्यत्वात्तद्गतो विषयसम्बन्धः कथंचित् सत्य उच्येत । इच्छादिस्वरूपस्य तु मिथ्यात्वात्तद्गतस्स कथमपि न सत्यो वक्तुं शक्य इति भावः । आनन्दाप्रकाशे आनन्दसम्बन्धिनः प्रकाशस्याभावे । न त्वानन्दस्येति । तथा च मोक्षे आनन्दसम्बन्धिप्रकाशाभाव इष्टः । पुमर्थत्वमपि पूर्णानन्दावरणविरोधिवृत्तिविशिष्टत्वरूपेणैव । तदपि तदा नास्त्येव । किं तु तादृशवृत्तिकाल एव । तावतैव तदुद्देशेन श्रवणादौ प्रवृत्तिसम्भवः । न च, तदेत्युक्तिरसंगता । परममुक्तात्मनि कालासम्बन्धादिति वाच्यम् । इदानी कल्पितेन कालेन तदेति व्यवहारादिति भावः । ननु, तथापि परममुक्तात्मनि ज्ञानत्वाभावेनाज्ञानत्वहेतोर्व्यभिचारस्तत्राह-प्रकाशत्वमिति। ज्ञानत्वोपलक्षितस्वरूपत्वमित्यर्थः। तादृशात्मनो ज्ञानत्वोपलक्षितत्वमावश्यकम् । व्यवहारकाले तस्यैव सर्वदृश्यभासकत्वेन सर्वज्ञेयोपलक्षितत्वादित्याशयेनाहअर्थोपलक्षितप्रकाशत्वं वेति । सर्वज्ञेयोपलक्षितत्वं वेत्यर्थः । ज्ञानत्वेति । ज्ञानत्वोपलक्षितस्वरूपत्वेत्यर्थः । तादृशात्मा ज्ञानत्वोपलक्षित इति यावत् । तथाच तद्भेदस्य हेतोस्तत्राभावान्न व्यभिचार इति मावः। ज्ञातुरभावादिति। तदा ज्ञातुरभावादित्यर्थः । तत् मुक्तात्मरूपम् । ज्ञानं ज्ञानत्वोपलक्षितस्वरूपम् । न हीत्यादि । कर्तृत्वस्य सकलकारकप्रयोक्तृत्वरूपस्वातन्त्र्यविशिष्टकारकत्वरूपत्वात् कारकत्वस्य च क्रियानिमित्तत्वरूपत्वात् कर्तृनिरपेक्षक्रियास्वरूपं न सम्भवतीति भावः । न चंति । ज्ञानत्वविशिष्टस्य सादित्वेऽपि ज्ञानत्वोपलक्षितस्येति शेषः । क्रियारूपत्वेति । कारकनिमित्तकक्रियारूपत्वेत्यर्थः । अर्थानक्षत्वे स्वविषयानपेक्षत्वे । तन्निरूप्यत्वेति । स्वविषयविशिष्टरूपेणैव प्रकाशमानत्वेत्यर्थः । ज्ञातृज्ञेयनिरूप्यत्वं ज्ञातृज्ञेयविशिष्टरूपेणैव प्रकाशमानत्वम् । तथा च ज्ञेयज्ञात्रविशेषितशुद्धचिपेणाप्यसंप्रज्ञातसमाधौ मोक्षे चात्मनः प्रकाशमानत्वात् न ज्ञानत्वोपलक्षितस्वरूपत्वमिति भावः । विवरणविरोध इति । वृत्त्यवच्छिन्नस्यासत्त्वावरणयत्किञ्चिदज्ञानाविषयत्वप्रयोनकविशिष्टस्य वा चैतन्यस्य ज्ञानपदार्थस्य ज्ञातृज्ञेयाद्यघटितत्वेऽपि ज्ञातृज्ञेयनिरूप्यं ज्ञानस्वरूपमिति ज्ञापनाय ज्ञातुरर्थेत्युक्तं विवरण इति भावः । जातेः शुद्धजातेः । व्यक्तिनिरूप्यत्वेऽपि कदाचियक्तिसंसृष्टरूपेणैव प्रकाशमानत्वेऽपि।
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे जडत्वनिरुक्तिः ।
लघुचन्द्रिका ।
शुद्धजातिप्रकाशस्य व्यक्तिप्रकाशव्याप्यत्वेऽपीति यावत् । कदाचित्तदसम्बन्धवत् गोत्वादेरश्वादौ संसर्गारोपकाले गोत्वादौ गवादिव्यक्तेर्निरूप्यत्वरूपसम्बन्धाभाववत् । उपपत्तेः ज्ञानत्वोपलक्षितस्य कदाचिद्विषयादिनिरूप्यत्वेऽपि कदाचिद्विषयाद्यनिरूप्यत्वोपपत्तेः । तथा च भ्रमभिन्नजातिप्रत्यक्षत्वस्य व्यक्तिप्रत्यक्षत्वव्याप्यत्ववत् ज्ञानत्वविशिष्ट प्रकाशत्वस्य विषयादिप्रकाशत्वव्याप्यत्वम् । न तु ज्ञानत्वोपलक्षितप्रकाशत्वस्य । ताढशप्रत्यक्षीय नातिविषयतायाः व्यक्तिविषयतानिरूपितत्वनियमवत् ज्ञानत्वविशिष्टविषयताया विषयवैशिष्ट्यविषयतानिरूपितत्वनियमइति भावः । शुद्धज्ञानस्वरूपस्य विषयाद्यविशेषितरूपेण भाने शुद्धजातेः व्यक्त्यविशेषितरूपेण भानं सुसटशो दृष्टान्त इति स एवोक्तः । प्रागभावादेस्तु प्रागभावत्वादिविशिष्टरूपेणैव ज्ञानम् । न तु तद्विशिष्टशुद्धरूपेण । अत एव सुषुप्तौ 'न किञ्चिदवेदिष'मिति सविषयकत्वाज्ञानत्वरूपाभ्यामेवाज्ञानस्य भानम् । न तु शुद्धरूपेणेति भावः । ननु, नाश्वादौ गोत्वादेः भ्रमप्रत्यक्षमस्ति । किं तु गवादेस्तादात्म्यारोप एव । तथा च नोक्तदृष्टान्तसम्भव इति चेन्न । 'पटे घटत्वप्रकारकं घट इत्याकारकं ज्ञानं भवतु' इत्याकारके विषयान्तरजिज्ञासादिरूपे प्रतिबन्धके सति जायमाने प्रत्यक्षे घटादिभानासम्भवात् । यथाश्रुतं तु तदसम्बन्धवदित्यसङ्गतम् । विषयादिनिरूप्यत्वनियमपुरस्कारेण कृतस्य पूर्वपक्षस्य दृष्टान्तेनानुद्वारात् । न च यथोक्तव्याख्यानेऽपि दृष्टान्तासम्भवः । शुद्धजातेः कदाचियक्तिनिरूप्यत्वात् ज्ञानत्वोपलक्षितस्य कदाचिदपि विषयादिनिरूप्यत्वस्याभावात् ज्ञानत्वविशिष्टस्यैव कदाचिद्विषयादिनिरूप्यत्वादिति वाच्यम् । ज्ञानत्वतदुपलक्षितव्यक्त्योस्सविकल्पकैकवेद्यत्वमते ज्ञानत्वविशिष्टस्य विषयादिनिरूप्यत्वेऽपि तयोस्तदस्वीकारमते ज्ञानत्वांशे निर्विकल्पकस्य विषयाद्यंशे सविकल्पकस्य ज्ञानत्वोपलक्षितविशेष्यकप्रत्यक्षस्य स्वीकारेण ज्ञानत्वोपलक्षितस्य विषयादिनिरूप्यत्वसम्भवात् । तस्मात् कदाचित्पदावृत्त्या यथोक्तव्याख्यानमतिरम्यम् । अत एव मोक्षे ज्ञेयसामान्यस्य ज्ञातुश्चाप्रकाशेऽपि ज्ञानत्वोपलक्षितस्य प्रकाशादेव । ज्ञानस्य ज्ञानत्वोपलक्षितस्य ! स्वाभाविकं अनारोपितम् । ईश्वरज्ञाने चेति । परमते ईश्वरज्ञानस्यानन्यत्वान्मन्मतेऽपि इन्द्रियसन्निकर्षस्येव विषयस्यापि तत्राहेतुत्वात्तदभावो बोधः । यदाज्ञानमित्यादि । यदा यस्यार्थस्य जानम्, तदासोऽर्थ इत्यर्थः । पूर्ववत् परोक्षज्ञाने ज्ञेयजन्यत्वाभाववत् । दूरोत । ज्ञातरि ज्ञानवत्यर्थाभावात् । यदापरोक्षेत्यादि । पूर्ववद्यस्यार्थस्येत्यादि बोध्यम् । योगिज्ञान इति। परमतमाश्रित्य । स्वमते तु तस्य नापरोक्षत्वमिति वक्ष्यते । यद्यपि ज्ञानस्यो
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
अद्वैतमञ्जरी
त्पत्तिद्वितीयक्षणे अर्थसत्त्वानियमादयोगिजीवज्ञानेऽपि व्यभिचारसम्भवः । तथापि स्वोत्पत्त्यव्यवहितपूर्वत्वसमानाधिकरणकालिकसम्बन्धेन यदा अपरोक्षज्ञानं, तदा अर्थ इत्युक्तावयोगिजीवज्ञाने व्यभिचारामावाद्योगीत्युक्तम् । न च ज्ञानत्वोपलक्षितस्य चैतन्यस्य तादृशसम्बन्धाप्रसिद्ध्या सिद्धान्तिनस्तादृशव्याप्तिर्न क्षतिकरीति वाच्यम् । तादृशव्याप्त्यनिर्वाहस्यैव सिद्धान्तिनं प्रति दोषत्वात् । ऐन्द्रियकं यस्यार्थस्येन्द्रियसन्निकर्षेण जन्यं ज्ञानमुक्तसम्बन्धेन यदा तदा सोऽर्थ इत्यर्थः । ननु, यदेत्यादि । अपरोक्षज्ञानस्य वृत्तिरूपस्य द्रव्यगुणादिविषयेषु संयोगसंयुक्तसमवायादिसम्बन्धेनावच्छेदकतासम्बन्धेन वोत्पत्तिस्वीकारात् । भवन्मते यदा स्वोत्पत्तिविशिष्टकालिकसम्बन्धेन यदर्थस्यापरोक्षज्ञानं, तदा सोऽर्थ इति व्याप्तिर्वाच्या। अत एव भवन्मते 'इदं रजत'मित्यादिभ्रमस्थले अनिर्वाच्यरजतादेश्शुक्त्याद्यवच्छिन्नचैतन्ये उत्पत्तिः स्वीक्रियते । तां विना हि संयोगादिसम्बन्धेन अवच्छेदकतासम्बन्धेन वा रजतादौ तदाकाराविद्यावृत्तेरुत्पत्त्यसम्भवः । रजतादेस्तादृशोत्पत्तौ स्वीकृतायां तु आकाराख्यविषयतासम्बन्धेनाविद्यावृत्ति प्रति स्वपरिणामनिष्ठेन यत्किञ्चिज्ज्ञानीयविषयतासम्बन्धेनाविद्यापा हेतुत्वात् । तेन सम्बन्धेन रजतादौ तदुत्पत्तिपूर्वमविद्यायास्सत्त्वादाकाराख्यविषयतासम्बन्धेनाविद्यावृत्त्युत्पत्तिसम्भव इति भावः । इत्यनुसन्धीयमानं इदमवच्छिन्नचित्तादात्म्यविशिष्टरजतनिष्ठतया ज्ञायमानम् । तथा च यादृशं रजतं भ्रमेण विषयीक्रियते तादृशमेव तत् सिध्यति । ज्ञानस्य स्वविषयशूरत्वात् । व्यवहारकाल एव तद्वाधाब्यावहारिकत्वं परं तस्य न स्वीक्रियते । किं तु प्रातीतिकत्वम् । तादृशस्य तस्य भ्रमेणासिद्धौ घटादेरपि रूपादिमतः सिद्धिर्न स्यात् । तद्ज्ञानस्यापि अद्वैतभुत्यादिना बाधात् । यद्वा इत्यनुसम्धीयमानं इदं चित्तादात्म्यरू पविषयतावच्छिन्नं यत् रजतचित्तादात्म्यरूपविषयत्वं तादृशत्वेन ज्ञायमानम् । तथा च देशान्तरस्थस्य रजतादे मे माने तदीयचित्तादात्म्यस्येदंचित्तादात्म्यावच्छिनत्वासम्मवेन शुक्त्याद्यवच्छिन्नचिति रजताद्युत्पत्तिः स्वीक्रियत इति भावः । अ. परोक्षज्ञानस्यार्थव्याप्तता नानिर्वाच्यरजताद्युत्पत्तिसाधिका । परोक्षभूमे तदभावात् । अतोऽस्मदुक्तयुक्तिरेव भूममात्रे तत्साधिकेत्याशयेनाह-अत एवेत्यादि । भवदुक्तयुक्तिर्जन्यापरोक्षज्ञानान्तर्भावेनैव व्याप्तिसाधिका । सा च नास्मदनिष्टा । वृत्त्यवच्छिन्नचिद्रपस्य जन्यत्वेनार्थव्याप्यताया उक्तरीत्या मयापि स्वीकारात् ।
१. तदाकाराविद्याइतरुत्पत्त्यसम्भवेन शुक्त्यायवच्छेदेन जायमानाविद्यापत्तिरूपापरोक्षज्ञानस्य रजतादेः संयोगेनावच्छेदकतारूपेण वा सम्बन्धेनासम्बन्धित्वात् भ्रमस्थले रजतादिसम्बन्ध्यपरोक्षजा नाप्रसिद्ध्या तस्य रजतादिव्यप्यस्वासम्मवात् । न हि रजतादेरपरोक्षज्ञानेनान्यः सम्बन्धोऽस्ति । वि. षयपायाः विवेत्ययोरेव स्वीकारातू आकाराच्यमुख्यविषयतायाः नव्यैरेव स्वीकाराय।' इति ख.ग.पाठः
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे जडत्वनिरुक्तिः ]
लघुचन्द्रिको ।
तावताप्यपरोक्षज्ञानत्वोपलक्षितस्य नोक्तव्याप्यतासिद्धिरित्याशयेनाह---जन्येति । ईश्वरज्ञानं तु यत् अपरोक्षं विद्यमानमात्रविषयकं, तत् उक्तसम्बन्धेनाप्यर्थव्याप्यमेव । यत्तु, भौविविषयकमनुमितिरूपमतीतविषयकं वा स्मृतिरूपं च विवरणोक्तं तस्यार्थाव्याप्यत्वेऽपि नोक्तव्याप्तिहानिरिति भावः । ननु, तथापि योगजधर्मजन्यापरोक्षज्ञानस्यार्थाव्याप्यत्वात् नोक्तव्याप्तिः । तत्राह-आर्पज्ञानस्यति । योगजधर्मनन्यज्ञानस्येत्यर्थः । अनभ्युपगमादिति । अनावृतसाक्षितादात्म्यविशिष्टविषयकत्वं ज्ञानस्यापरोक्षस्वम् । आर्पज्ञानस्यानावृतत्वसम्पादकत्वेऽपि तद्विषयेऽतीतानागते तत्काले साक्षितादात्म्याभावात्तदशे तस्य नापरोक्षता । विद्यमानविषयांशे त्वपरोक्षं तत् ज्ञानं तादृशार्थव्याप्यमेवेति भावः । सिध्यनुपपत्तिः उक्तव्याप्त्या या सि हिः, तदनुपपत्तिः । ज्ञातृव्याप्यत्वं 'यद्यत् ज्ञानं तत्र समवेतत्वसम्बन्धेन ज्ञाते'ति व्याप्तिः । ईश्वरज्ञान इति । तस्य नित्यतावादिमतेनेदम् । वाचस्पतिमते सिद्धान्ते. ऽपि मायावृत्तिरूपेश्वरज्ञानाभावात्तन्मतनापीदम् । न च तन्मतेऽपि विषयावच्छिन्नचिद्रूपेण ज्ञातजन्यतेति वाच्यम् । अविद्याद्यनादिविषयस्य तदभावात् । ज्ञाननित्यत्वेति । ज्ञानत्वोपलक्षितस्य नित्यत्वेत्यर्थः । ज्ञानत्वविशिष्टस्य तु ज्ञातृनन्यत्वमिष्टमेव । विवरणमते ईशस्य मायावृत्त्यवच्छिन्नचिद्रूपज्ञानस्य तत्सम्भवात् । द्वितीयेऽपीत्यादिकं ज्ञानत्वोपलक्षिताभिप्रायकम् । ब्रह्मसत्तां ब्रह्मणः सत्ताम् । नित्यत्वेन ब्रह्मसत्ताया अनादित्वेन । साधुत्वार्थ इति । यथा मणिकारादिमते 'चैत्रो जानाती, त्यादौ ज्ञानकर्तृत्वादेरननुभवात्, ज्ञानाश्रयत्वादिलक्षणायां गौरवाच अवच्छेदकतासम्बन्धेन ज्ञानप्रकारकधीस्वीकारादाख्यातं न कर्तृत्वमाह । किं तु साधुत्वमात्रार्थम् । तथा प्रकृते ब्रह्मसत्ताया अनादित्वेन तत्कर्तृत्वबोधासम्भवात् घटोऽस्तीत्यादावपि क्रि यात्वाभावेन कारकान्वयबोधासम्भवादाश्रयत्वस्यैवाख्यातेन बोधाच्च ब्रह्मास्तिपदाभ्यामखण्डब्रह्मबोधस्वीकारेणाख्यातं साधुत्वमात्रार्थम् । कल्पितभेदेन ब्रह्मणः स्वात्मकसत्ता श्रयत्वसम्भवेऽपि निर्धर्मितावच्छेदककशाब्दबुद्ध्यसम्भवेनाश्रयत्वस्याप्याख्यातेनाबोधा त्। ब्रह्मपदस्य उत्कृष्टार्थकत्वे तु तत्राश्रयत्वप्रकारकधीरिष्टैव । ननु, यथा अमानापादकाज्ञानविरोधि चित् भानम् । अनानन्दापादकाज्ञानविरोधि चित् आनन्दः । तथा असत्त्वापादकाज्ञानविरोधि चित् सत्ता । तथा च वैयाकरणमते धात्वर्थमुख्यविशेष्यकशाब्दधीस्वीकारात् सत्तामुख्यविशेष्यकब्रह्मकर्तृकत्वप्रकारकबोधः प्रकृते स्यात् । ब्रह्मनिष्ठोक्तसत्तायाश्च यद्यप्यनादित्वम् । चिदंशे तादृशाज्ञानाखीकारात् । तथाऽपि तस्याः क्षेमसाधारणसाध्यत्वस्याखण्डधर्मरूपप्रयुक्तत्वस्य वा सम्भवात् । तस्य च ब्रह्मरूपकर्तृनिरूपितत्वसम्मवादिति चेन्न । क्रियात्वाभावेन
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
कारकान्वयासम्भवस्योक्तत्वात् । सिद्धकर्तृकत्वं हि यत्र नियमेन सम्भवति । तत्रैव धात्वर्थस्य क्रियारूपत्वं वैयाकरणैः धात्वर्थविशिष्टाख्यातार्थस्य मीमांसकैश्च स्वीक्रियते । तच्च गच्छतीत्यादौ । न ह्यसिद्धकर्तारमादाय तत्प्रयोगस्सम्भवति । भवतीत्यादौ तु न सिद्धकर्तृकत्वनियमः । न हि भवति आकाशं भवतीति । अस्त्यादौ च न तन्नियमः । आकाशमस्तीतिवदुत्पद्यमानमस्तीत्यादिप्रयोगात् । तदुक्तं भट्टवार्तिके'सिद्धकर्तृक्रियायोगादाख्यातप्रत्यये सति । सामानाधिकरण्येन करोत्यर्थोऽवगम्यत' इति सिद्धकर्तृयोगस्यावश्यकत्वे हेतुः । सामानाधिकरण्येनेति सिद्धकर्तनिष्ठस्यैव कर्तृत्वस्य भावनायां सामानाधिकरण्यसम्भवेनेत्यर्थः । स्वयमसिद्धस्य कर्तृत्वासम्भवात् । अस्तीत्यादौ भावनाप्रत्ययाभावः सर्वेषामपि तुल्य इति असिद्धनिष्ठस्य कर्तृत्वस्य भावनायां सामानाधिकरण्यासम्भवेन क्रियाया अप्रत्यये सर्वेषां मते कर्तृकारकाप्रत्ययोऽपि तुल्य इत्यर्थः । न च 'भूतले घटोऽस्ती' त्यादौ भावनां विनाऽपि आधारकारकस्येव कर्तुः प्रत्ययोऽस्तीति वाच्यम् । क्रियाया एव कारकान्वयित्वेन तदभावे सप्तम्यास्सम्बन्धमानवाचकत्वात् । अथ घटो भवतीत्यादौ घटं भावयतीत्यर्थे भवनेनाक्षिप्तभावनाया आख्यातेन बोधात् भूधातुनैव कपालभवनस्य करणत्वेन कपालावयवभवनस्येतिकर्तव्यतात्वेन लक्षणया बोधनादंशत्रयविशिष्टभावनाधीः । तथा च भावनाप्रत्ययेनाध्याहृतचैत्रादिपदात् कर्तृप्रत्ययसम्भवः । उक्तश्चायमपि पक्षः भट्टवार्तिके- 'अस्त्यादावपि कशे भाव्येऽस्त्येव हि भावने 'ति । इति चेदास्तामेवम् । सत्तारूपक्रियायाः कर्तृत्वानन्वये प्रकृतार्थे हानिस्तु नैवास्तीति सिद्ध उक्तसत्ता ब्रह्मश्रितेति बोधः । किं च प्राचीनसिद्धान्ते नोक्तरूपा सत्ता । किं तु शुद्धचिदेव । यथा हि एकस्या एव चितः कल्पितभेदेनांशत्रयं सत्ता स्फुरणं आनन्दश्च । तदुक्तं वृद्धैः- 'अस्ति भाति प्रियं रूपं नाम चेत्यंशपश्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥' इति । तत्र सत्तांशस्य व्यवहारे असत्त्वापादकाज्ञानं प्रतिबन्धकम् । स्फुरणांशस्याभानापादकमज्ञानम् । आनन्दांशस्यानानन्दापादकाज्ञानम् । सत्तांश एव ज्ञानांशः । तस्य त्रितयस्याखण्डस्यैव अस्तिस्फुरत्यानन्दतिवाच्यत्वेन घटोऽस्तीत्यादौ शुद्धचित्प्रकारको बोधः । घटं जानामीत्यादौ च ज्ञाने घटादे वान्तरबोधः । निर्द्धर्मितावच्छेदकबोधासम्भवात् । किं तु 'विशेष्ये विशेषणं तंत्रापि विशेषणान्तर'मितिन्यायेन घटज्ञानप्रकारकधीः । घटस्य ज्ञानमित्यादौ तु ज्ञानपदं षष्ठ्या ज्ञानीयविषयितालक्षकत्वे तात्पर्यग्राहकम् । न तु ज्ञानांशबोधकम् । निमितावच्छेदकबोधासम्भवात् । एवं च ब्रह्मास्तीत्यादौ
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे जडत्वनिरुक्तिः] लघुचन्द्रिका । ब्रह्मणि सत्ताश्रयत्वबोधे निर्द्धर्मितावच्छेदकबोधापत्त्या वैयाकरणरीत्या सत्तायां - ह्माश्रयकत्वबोधेऽपि तदापत्त्या सत्तायां ब्रह्मकर्तृकत्वबोधे बाधस्याप्यापत्त्या 'सत्यं ज्ञान'मित्यादिवाक्यवदखण्डार्थकत्वादेको द्वावित्यादौ सर्वमतेष्विव प्रत्ययस्साधुत्वार्थ इति भावः । प्रमा त्रिकालाबाध्यविषयकत्वघटितप्रमात्वाश्रयः । दोषेति । सिद्धान्ते प्रमात्वस्य स्वतस्त्वस्वीकारेण गुणजन्यतानवच्छेदकत्वेन प्रमाया गुणजन्यत्वं नापादितम् । भ्रमस्य तु दोषजन्यत्वं सिद्धान्ते स्वीक्रियते । ज्ञानसामान्यसामग्न्या प्रमात्वविशिष्टमेव स्वकार्यतावच्छेदकावच्छिन्नं जन्यत इत्युत्सर्गः । दोपसहकृतया तु तया भ्रमत्वविशिष्टमित्यपवाद इति हि सिद्धान्तः । स्वभावतः वृ. त्यनुपरक्तचित्स्वभावेन । उभयवैलक्षण्येनेति । प्रमात्वभ्रमत्वशून्यत्वेनेत्यर्थः । वैलक्षण्येनापीत्यपिशब्देनेदं सूचितम् । घटाद्याकारवृत्ताविव घटाद्यवच्छिन्नचिति व्यावहारिकप्रमात्वं सम्भवति । गुणजन्यता तु सिद्धान्ते नास्त्येव । तेनाविद्याद्यवच्छिनचिद्रूपेण चितोऽनादित्वेऽपि न क्षतिः । वस्तुतस्त्वविद्यादेरज्ञातत्वाभावेनैव तदवच्छिन्ना चित् न प्रमा। ब्रह्मसाक्षात्कारोत्तरं तत्र भ्रमत्वसिद्धावपि न क्षतिः । अविद्याकामकर्मरूपदोषजन्यत्वस्य क्षेमसाधारणस्य सम्भवात् । शुक्तिरूप्याद्यवच्छिन्नचिद्रूपेण तु चिदागन्तुकदोषजन्येति । ननु, तार्किकमते ईशज्ञानं प्रमैव । यदि हि प्रमात्वं सर्वप्रमासाधारणं गुणजन्यतावच्छेदकं तार्किकमते स्यात्, तदा तस्य नित्यसाधारणतावारणाय जन्यत्वघटितत्वमुच्येत । तत्तु, न सम्भवति । प्रमामात्रे गुणस्यानुगतस्य कारणत्वासम्भवात् । उक्तं च मणौ-प्रमामात्रे नानुगतो गुणः । किं तु तत्तत्प्रमायां भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां यथायथं गुणत्वमिति । तत्राह-तत्रापीति। तार्किकमतेऽपीत्यर्थः । यथा मन्मते आत्मरूपज्ञानस्य प्रमात्वादिस्वीकारे दूषणमुक्तं, तथा तन्मते ईशज्ञानस्य तत्स्वीकारे गुणजन्यत्वाद्यापत्तिरित्यर्थः । यद्यपीह प्रत्यक्षानुमित्यादिसाधारणं घटप्रमात्वं नानुगतगुणजन्यतावच्छेदकम् । तथापि घटीयप्रत्यक्षप्रमात्वं भूयोऽवयवेन्द्रियसन्निकर्षजन्यतावच्छेदकं वाच्यमेव । तस्य च नित्येश्वरधीसाधारणस्य जन्यतावच्छेदकत्वासम्भवेन जन्यत्वघटितत्वमावश्यकम् । अत एव तद्वति तत्प्रकारकज्ञानत्वरूपं प्रमालक्षणमुक्त्वा 'तत्प्रकारकत्वं तद्वैशिष्ट्यविषयकत्वं तज्ज्ञानजन्यत्वं वा ईश्वरस्य तद्वैशिष्ट्यविषयकं ज्ञा मतत्प्रकारकं निर्विकल्पकं च प्रमाप्रमाबहिर्भूतम् । व्यवहारानङ्गत्वात् , इत्युक्तं मणौ । व्यवहारानङ्गत्वात् गुणजन्यतावच्छेदकप्रमात्वविशिष्टतया विप्रतिपत्तिर्व्यवहारः । तदविषयत्वादीश्वरज्ञानं निर्विकल्पकं च प्रमाप्रमाबहिर्भूतमित्यर्थः । किं च 'प्रमामात्रे नानुगतो गुण'इत्यादिमणिवाक्यं प्रत्यक्षानुमित्यादिसाधारणघटादि
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
प्रमात्वं न गुणजन्यतावच्छेदकमित्येतत्परम् । दीधितौ हि तत् तथैव व्याख्यातम् । प्रत्यक्षादिप्रमासु गुणविशेषाणां हेतुत्वे सिद्धे घटप्रमात्वघटितधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्त्वेन घटप्रमात्वावच्छिन्नं प्रति कारणता सम्भवति। न तु भूयो घटावयवेन्द्रियसन्निकर्षत्वादिरूपेण । अननुगमात् । इत्यभिप्रायकं प्रमामात्रे इत्यादि वाक्यम् । वस्तुतो घटप्रमासामान्ये घटप्रकारकमीश्वरज्ञानं हेतुः । घटाभावभ्रमसामा- . न्ये दोषोऽपि । तदेव विशेषणसंसृष्टासंसृष्टविशेष्यज्ञाने वा गुणदोषौ । लौकिकसन्निकर्षवत् सामान्यलक्षणापि निर्विकल्पकहेतुः । अप्रसिद्धसाध्यकानुमितिस्वीकारे तु विशेष्यसंसृष्टासंसृष्टविशेषणज्ञाने गुणदोषावित्यादि । उत्पत्तिवादे मित्रैरप्युक्तम्'कार्ये प्रमासामान्ये ईश्वरीयज्ञानं गुण' इति । यत्तु, समीचीनो ह्यनुभवः प्रमा । न तु तत्रानित्यत्वं विशेषणम् । व्यर्थत्वात् । तत्करणं प्रमाणम् । न चैवमाप्तप्रामाण्यादिति गौतमसूत्रविरोधः। ते न हि आप्तस्येश्वरस्य प्रामाण्यमावेदितम् । न तु प्रमातृत्वम् । प्रमातृत्वसत्त्वे तदेवोक्तं स्यादिति वाच्यम् । 'प्रमासमवायात् प्रमातृत्वस्येव प्रमाया अयोगव्यवच्छेदेन प्रमाणत्वस्यापि सम्भवा दिति कुसुमाञ्जलावुक्तम् । तत् गुणजन्यतावच्छेदकत्वरूपपरतस्त्वायोग्यं चतुर्विवत्वेन विमज्यमाने प्रमाणे घटकं यत् प्रमात्वं तदभिप्रायकम् । तत्रैवानित्यत्वप्रवेशवैयर्थ्यस्य सङ्गतत्वात् । यदपि निर्विकल्पकमपि प्रमा । विशेष्यावृत्त्यप्रकारकज्ञानत्वरूपं प्रमात्वं निर्विकल्पकेऽप्यस्तीति कथं तत् प्रमाबहिर्भूतमिति तन्न । विशेष्यावृत्तीत्यादेः स्वतोग्राह्यत्वविप्रतिपत्तिरूपव्यवहारानङ्गत्वेन तद्विशिष्टस्यापि निर्विकल्पकस्य तादृशव्यवहाराङ्गतद्वतीत्यादिप्रमात्वप्रत्याख्याने बाधकामावात् । तदिदमुक्तम्-निष्पकारे चेत्यादि । विलक्षणेत्यादि। स्वभावतः वृत्त्यनुपरक्तचिद्रूपेण । प्रमाभ्रमविलक्षणस्यापि प्रमाभ्रमरूपविलक्षणवृत्त्युपरक्तरूपेण । तदुभयरूपेण प्रमात्वभ्रमत्वोभयरूपेण व्यवहारोपपत्तेरित्यर्थः। ज्ञानपदवाच्योति । ज्ञाधातुवाच्येत्यर्थः।ज्ञानपदस्य ज्ञानवाचकत्वात् । ज्ञानपदजन्येत्यादि।तादृशविशेष्यमात्रवृत्तिना तत्तद्धीविषयत्वेनावच्छिन्नप्रतियोगिताको भेदो विवक्षित इत्यर्थः । तेनोक्तविशेष्यत्वस्य तत्तद्धीविषयत्वापेक्षया गुरुत्वेऽपि नाप्रसिद्धिः । न चोक्तविशेष्यत्वस्य घटादिसमूहालम्बनीयस्य घटादिसाधारण्येऽप्यसिद्धिः । लक्षणया ज्ञानपदजन्यायाः ब्रह्ममात्रधियो निवेशात्। ननु, ब्रह्मणो वृत्त्यवच्छिन्नचिद्रूपानन्दपदार्थभिन्नत्वात्तत्र व्यभिचारस्तत्राह-वैषयिकानन्दस्येति । विषयसेवाजन्यवृत्त्यवच्छिन्नचिदूपानन्दत्वोपलक्षितस्येत्यर्थः । तथा च तद्भेद एव हेतुः । अतो न ब्रह्मणि व्यभिचार इति भावः । ज्ञानभिन्नत्वस्य ज्ञानं ब्रह्मेतिवाक्यजन्यतद्धीविषयान्यत्वस्य । आनन्दभिन्नत्वस्य 'आनन्दो ब्रह्मे'त्यादिवाक्यजन्यतहीविषयान्यत्वस्य । ब्रह्मणीति ।
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र० दे परिच्छिन्नत्वनिरुक्तिः ] लघुचन्द्रिका !
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
९९
1
'आनन्दं ब्रह्मणो रूप' मित्यादिवाक्यजधीसिद्धो भेदो ब्रह्मण्यपीति भावः । धर्मीति । यत्र भेदः स्थापनीयस्स धर्मी । ब्रह्मसमसत्ताकभेदाप्रसिद्धेः ब्रह्मणि भेदः स्थापयितुमशक्यः । स्वसमसत्ताकभेदवत्त्वस्य हेतुत्वादिति पर्यवसितार्थः । ननु, भेदस्याद्यापि मिथ्यात्वानिश्चयात् ब्रह्मसमसत्ताकभेदो ब्रह्मण्यपि निश्चेतुं शक्य इति चेन्न । प्रपञ्चे मिथ्यात्वसन्देहेन भेदे ब्रह्मसमसत्ताकत्वानिश्रयात् । लाघवादाह - अनौपाधिकत्वेनेति । अभेदज्ञाने सत्यपीच्छादिरूपोपाधिना प्रतीयमानत्वादानदं ब्रह्मणो रूपमित्यादिभेद औपाधिकः । अयं घटो न घट इत्यादिभेदवदाहार्यमनोवृत्तिविषयत्वात् । तथा च तादृशभेदान्यभेदो हेतौ निवेश्यत इति भावः । वस्तुतस्तु, उपाधिं प्रतियोगिनमर्हतीत्योपाधिकः, स्वप्रतियोगिवृत्तिः । तदन्योऽनौपाधिकः । ब्रह्मावृत्तिरिति यावत् । तेनौपाधिकत्वस्यानुगतस्य दुर्वचत्वेऽपि न क्षतिः । न वा ज्ञानानन्दसत्तांशानामनौपाधिककल्पितभेदसत्वेऽपि क्षतिः ॥
For Private and Personal Use Only
॥ इति लघुचन्द्रिकायां जडत्व हेतूपपत्तिः ॥
देश इत्यादि । कचिद्देश एवं विद्यमानत्वं देशतः परिच्छेदः । क्वचित्काल एव विद्यमानत्वं कालपरिच्छेदः । केनचिदेव वस्तुना तादात्म्यापन्नत्वं वस्तुपरिच्छेदः । यथा ह्यारुण्यादिगुणेन क्रयसाधनगवादिकं परिच्छिन्नमिति व्यवहारः । आरुण्यादेस्तादृशगवादेस्तदन्यस्माद्व्यावर्त्तकत्वात् । तथा तत्तद्देशो घटादेराधारविधया तदन्याधारविशेषिताद्यावर्त्तक इति घटादितत्परिच्छिन्नमिति व्यवह्रियते । एवं तत्तत्कालोऽपि कालान्तरावच्छिन्नादाधारविधया घटादेर्व्यावर्त्तक इति स तत्परिच्छिन्नो व्यवह्रियते । एवमेतद्वस्तु ता दात्म्येन घटादेर्विशेषणं सदितरवस्त्वात्मकाव्यावर्तकमिति स तत्परिच्छिन्न उच्यते । एवमयं घट एतद्देशपरिच्छिन्न इत्यादिवाक्यस्यैतद्भटः एतद्देशेन देशान्तरावच्छिन्नेभ्यो व्यावर्त्तित इत्यर्थः । एवमेतत्कालपरिच्छिन्न इत्यादावपि देशान्तरवृत्त्यत्यन्ताभावप्रतियोगित्वं कालान्तरवृत्तिध्वंसप्रतियोगित्वं वस्त्वन्तरनिष्ठभेदप्रतियोगित्वञ्चाथलभ्यते । तादृशशब्दात्तदप्रतीतेः । वस्तुतस्तदेशस्याधारविधया परिच्छेदकत्वमन्ययोगव्यवच्छेदकतया विशेषणत्वं परिच्छेद्यघटादेर्देशान्तरवृत्त्यत्यन्ताभावप्रतियोगित्वपर्यवसितम् । एतत्कालस्य ध्वंसानधिकरणतया विशेषणत्वं कालान्तरध्वंसाधिकरणत्वपर्यवसितमिति परिच्छिन्नशब्दादेव देशान्तरवृत्त्यत्यन्ताभावादिप्रतियोगित्वलाभः । तत्रापि देशान्तरादिघटितस्य हेतुत्वे तस्य सर्वदृश्याननुगतत्वादत्यन्ताभावप्रतियोगित्वादिभिन्नांशवैयर्थ्याच्चो प्रतियोगित्वादेरेव हेतुत्वमित्याशयेनाह —— तत्रेत्यादि । आकशादावित्यादिपदेनेश्वरादिसङ्ग्रहः । सर्वमूर्ते
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
अद्वैतमञ्जरी ।
प्वाकाशमित्यादिप्रतीतेः वृत्तिनियामकसंयोगेनापि सर्वमूर्तप्वाकाशस्यात्यन्ताभावविरहात् तत्सम्बन्धावच्छिन्नमत्यन्ताभावप्रतियोगित्वमप्याकाशादावसिद्धमिति भावः । अभिप्राय इति । संयोगावच्छिन्नप्रतियोगितात्वेनैव हेतुता । तादृशप्रतियोगिता चामूर्तनिष्ठात्यन्ताभावीया आकाशादावप्यस्तीत्यभिप्राये इत्यर्थः । व्यभिचार इति । तथा च तद्वारणाय मूर्तनिष्ठात्यन्ताभावनिवेशे आकाशादावसिद्धितादवस्थ्यमिति भावः । सर्वसम्बन्धशून्यति । उपहितात्मन एवोपादानत्वात् , साक्षित्वाच्च शुद्धे सर्वासंबन्धिनि । सर्वसंबन्धिनि स्वोपहितचिदास्यत्वसंबन्धेन सर्वसंबन्धिनि । धर्मीति । स्वाश्रयेत्यर्थः । वपदं हेतुपरम् । ननु, आत्मघटान्यतरत्वरूपेण यो भेदः तत्प्रतियोगित्वस्य स्वाश्रयो घटोऽपि । तत्समसत्ताकभेदप्रतियोगित्वमात्मन्यपीत्यत आह-अज्ञानेत्यादि । खसमानेति । यत्र हेतुः स्थापनीयः सः स्वपदार्थः । तथा च आत्मनि हेतोः स्थापने तस्यैव स्वपदेन धार्यत्वात्तत्समानसत्ताकाप्रसिद्धिः । अतो अनात्मैव खपदार्थ इति भावः । सत्ताकेतीति । सत्ताकेत्येव । वस्तुतस्तु, लाघवादात्मावृत्तित्वविशिष्टप्रतियोगितासम्बन्धेनात्यन्ताभावो भेदो वा हेतुर्बोध्यः । नन्वाकाशादावत्यन्ताभावप्रतियोगित्वस्यासिद्धिः । प्रत्यक्षेणानुमानादिना वा तत्र तदसिद्धेरुक्तत्वात् । अथ दृश्यत्वादिहेतुना स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वानुमानात्तत्सिद्धिरिति चेत् तर्हि मिथ्यात्वं सिद्धमेवेति साध्याविशेषः । हेतुसिद्धेरेव साध्यसिद्धित्वात् । तत्राह-निरुक्तेति । सदसद्विलक्षणत्वादित्यर्थः । एवंरूपत्वेति । अत्यन्ताभावप्रतियोगितारूपत्वेत्यर्थः । तथा च प्रकृतहेतुसिद्धेः स्वसमानाधिकरणेत्यादिमिथ्यात्वसिद्धिरूपत्वेऽपि सदसद्विलक्षणत्वादिरूपमिथ्यात्वसिद्वित्वाभावात्तादृशमिथ्यात्वमेव प्रकृतहेतुनानुमेयमिति नोक्तदोष इति भावः । जन्यत्वेनेति । जन्यमात्रस्य प्रलये संस्काररूपनाशोत्पादाजन्यत्वेन नाशप्रतियोगित्वानुमानम् । ननु,'आकाशवत् सर्वगतश्च नित्य' इति श्रुतौ सर्वगतपदमाकाशस्य सर्वमूर्तसंयोगित्वबोधकम् । नित्यपदमविनाशित्वबोधकम् । तथा च प्रलयकालीनसंस्कारादिसंयोगित्वादिप्राप्त्या विनाशित्वं कथं तत्राह-आकाशवदित्यादि । सवंगतत्वेन सर्वमूर्तसंयोगित्वेन । आभूतसंछवस्थायित्वेन सृष्टिकालाविनाशित्वेन । प्रलये संयोगस्यासिद्धेः संस्काररूपसूक्ष्मावस्थायास्संयोगादिमत्त्वे मानाभावाच्चोक्तार्थकत्वं सर्वगतपदस्य युक्तमिति भावः । खानुगतप्रतिभासे स्वतादात्म्येन स्वरूपतो भानयोग्ये । स्वतादात्म्यविषयतानिरूपितनिरवच्छिन्नप्रकारतावतीति यावत् । सप्तम्या व्यापकत्वमर्थः । व्यापकतानिरूपकत्वं च तादात्म्येन । तथा च यद्यत् उक्त
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे परिच्छिन्नत्वनिरुक्तिः ] लघुचन्द्रिका । प्रकारताविशिष्टं तत्र ते कल्पिता इत्यर्थः । कल्पितत्वं ज्ञाननिवर्त्यत्वं, स्वाभाववति ज्ञेयत्वं वा । तथा चोक्तप्रकारताव्यापकस्वनिवर्तकधीविषयताकत्वं उक्तप्रकारताव्यापकस्वात्यन्ताभावकत्वं वा पर्यवसितार्थः । उक्तप्रकारतासामानाधिकरण्यमात्रस्य विषयतादौ निवेशे पटादेः स्वतादात्म्यभ्रमविषयघटत्वादौ कल्पितत्वमादाय परैरीन्तरं वाच्यम् । अतो व्यापकत्वमुक्तम् । स्वमते हि पटादेरुक्तभूमे नारोपितत्वम् । किं तु तत्तादात्म्यस्येति तन्निवर्तकधीविषयत्वमेव घटत्वादेः । न तु पटादिनिवर्तकधीविषयत्वमिति स्वानभिमतं तत् । परानभिमतमपि । परस्य तार्किकादेरन्यथाख्यातिस्वीकारेण पटादिनिवर्तकधीविषयत्वस्य घटत्वादिजातावनङ्गीकारात्। अत उभयवाद्यसम्मतसिध्यार्थान्तरं स्यात् । व्यापकत्वनिवेशे तु तादृशप्रकारतायास्सद्रूपेऽपि सत्त्वात्तस्य स्वनिवर्तकधीविषयत्वासिध्या मदिष्टसिद्धिः । न च स्वमते बाधः । घटत्वादे
र्व्यावहारिकपटादिनिवर्तकबुद्ध्यविषयत्वादिति वाच्यम् । जातिमात्रस्य सद्रूपतायाः मूल एव वक्ष्यमाणत्वात् । तादृशप्रकारतावति द्रव्यगुणादौ स्वनिवर्तकधीविषयत्वाभावादनवच्छिन्नेति प्रकारतायामुक्तम् । प्रतियोगिताविषयतादेरनवच्छिन्नप्रकारतास्वीकारे तत्र स्वतादात्म्यभूमीयतादात्म्यविषयतानिरूपितानवच्छिन्नप्रकारतावति स्वनिवर्तकधीविषयत्वाभावेन व्यभिचारात् निरूपितान्तस्थले स्वतादात्म्यसामानाधिकरण्येति वाच्यम् । तथा च 'प्रतियोगी घट' इत्यत्र प्रतियोगितादेविशेषणतासम्बन्धेनैव स्वनिष्ठत्वात् स्वतादात्म्याभावान्न व्यभिचारः । एवं च सामानाधिकरण्यमपि व्यापकत्वस्थाने वक्तुं शक्यम् । द्वितीयसाच्ये तु न प्रकारतायामनवच्छिन्नत्वं देयम् । द्रव्यादौ जातौ च सर्वत्र स्वाभावस्य सिषाधयिषितत्वात् । यथेत्यादेरुदाहरणे तात्पर्यम् । यद्यद्विभज्यते तत् स्वानुगतप्रतिभासे कल्पितम् । यथा रज्जुसादिकमित्यर्थः । एवमित्यादेरुपनयनिगमनयोस्तात्पर्यम् । प्रथमसाध्याभिप्रायेण शङ्कते-न चेत्यादि। गोत्वादिकमनपेक्ष्य कार्यप्रयोजकतायां दृष्टान्तमाह--गोत्वाद्यभ्युपगमेऽ पीत्यादि । व्यक्तिविशेषाणामिति । जातिनिष्ठलौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति स्वविषयसमवेतत्वसम्बन्धेन प्रत्यक्षस्य कारणत्वात् जातिप्रत्यक्षप्रयोजकस्योक्तसम्बन्धत्य घटकतया व्यक्तीनामुक्तप्रत्यक्षे प्रयोजकत्वाजातिव्यञ्जकत्वमिति भावः । अननुगतानां गोत्वाद्यविशेषितानाम् । ननु, गोत्वादिप्रत्यक्षे सास्नाद्यवच्छिन्नेन्द्रियसंयोगवत् समवायादेविशिष्य हेतुताया आवश्यकलात् । उक्तहेतुत्वे मानाभावस्तत्राह-सास्नादीति । अनुगतानां विशेषितानाम् । सास्नाद्यवच्छिन्नचक्षुस्संयोगवत् समवायादिनिष्ठकारणतावच्छेदकघटकतया व्यक्तीनां गोत्वादिव्यञ्जकत्वमिति भावः। व्यक्तिविशेषविशिष्टत्वेन गवादितत्तव्यक्तिसंसृष्टरूपेण । तद्व्यवहारेति । गौरित्या
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
अद्वैतमञ्जरी ।
दिव्यवहारेत्यर्थः । गोत्वजातिमत्त्वेन पराभिमताः यावत्यो व्यक्तयस्तावदन्यतमोपरक्तसद्रूपं गौरित्याकारव्यवहारे कारणम् । एवं घट इत्यादिव्यवहारेऽपि बोध्यम् । नन्वेवं गवादिपदानां तत्तव्यक्तिविशिष्टसपे सद्रूपविशिष्टतत्तव्यक्तिषु वा शक्तिर्वाच्या। तथा च तेषां नानार्थकत्वापत्तिः । एवं गवादेः कारणत्वादिकमपि तत्तव्यक्तिघटितावच्छेदकभेदेनानन्तं स्यादिति चेन्न । सर्वगोव्यक्तिषु एकस्या एव शक्तेस्सम्भवेन नानार्थकत्वाभावात् । न चानुगतमेकमवच्छेदकं विना तावद्व्यक्तिनिष्ठा कथमेका शक्यतेति वाच्यम् । तावयक्तिवीजननानुकूला शक्तिर्गोपदे स्वीक्रियते । सा चाखण्डकारणतारूपा । उक्तधीनिष्ठा कार्यताप्यखण्डा । तयोश्चावच्छिन्नत्वे मानाभावान्न कोऽपि धर्मस्तदीयाखण्डावच्छेदकताश्रयः । अत एव शक्तिग्रहनिष्ठकारणत्वमप्येकमेव । 'सद्रूपविशिष्टतव्यक्तिशक्तं गौरिति पद'मित्याकारकेषु शक्तिज्ञानेषु एकस्या एव कारणताया अनवच्छिन्नायाः 'सद्रूपविशिष्टतव्यक्तिरित्याकारकशाब्दबोधं प्रति स्वीकारात् गोत्वजात्याश्रयत्वेन पराभिमतव्यक्तीनामन्यतमस्यैव तव्यक्तिशब्देन कारणकार्यको योनिवेशात् । अत एव घटव्यक्ति तव्यक्तित्वेनावगाहमानादुक्ताकारशक्तिज्ञानान्न गोव्यक्तीनां शाब्दबोधः । तत्र तत्कारणत्वस्यास्वीकारात् । न च तथाप्येकां गोव्यक्तिमवगाहमानाच्छक्तिग्रहादन्यगोव्यक्तिशाब्दधीः स्यादिति वाच्यम् । इष्टत्वात् । गोत्वादिजातिस्वीकारेऽपि गोत्वेनैकगोव्यक्तिविषयकशक्तिज्ञानात् गोत्वेन गोव्यक्त्यन्तरशाब्दबोधस्य मीमांसकादिभिः स्वीकारात् । ननु, कारणत्वादेरखण्डत्वस्वीकारेऽप्यन्वयव्यतिरेकज्ञानस्यैव तद्राहकत्वं वाच्यम् । उक्तज्ञानं च नानुगतैकरूपं विनेति तादृशं गोत्वादिकमवश्यं वाच्यमिति चेन्न । तृणारणिमण्यादिस्थल इवोपस्थितानां त्रिचतुरादिव्यक्तीनां प्रत्येकान्वयव्यतिरेकज्ञानेन कारणता तास्वेव प्रथमतो गृह्यते । पश्चाद्यक्त्यन्तरादपि कार्योत्पत्तिदर्शनात्तत्रापि तस्याः स. म्बन्धोऽस्तीति कल्प्यते । न तु सर्वकारणव्यक्तीनामन्वयव्यतिरेकीस्ताहिका । न हि तृणारणिमणिभ्य एव वह्निरुत्पद्यत इति नियन्तुं शक्यम् । तैलघृतमांसवसादिभ्योऽपि दर्शनात् । न च तावतां प्रथममुपस्थितिरस्ति । येन प्रथमत एव प्रत्येकमन्वयव्यतिरेकधीसम्भवः । यत्तु, कारणत्वादरवच्छिन्नत्वनैवानुभव इति । तन्न । 'धूमो वहिव्याप्य' इत्याद्यनुभवे धूमत्वादौ व्याप्यतावच्छेदकत्वाभानस्य दीधितिकाराद्यक्तत्वेन तद्वदेव 'दण्डो घटकारण मित्याद्यनुभवे दण्डत्वादेः कारणतावच्छेदकत्वामानात् । अथवा तावद्यक्तीनां यावन्ति सद्रूपेण सह तादात्म्यानि तावदन्यतमत्वविशिष्टसम्बन्धेन सद्रूपविशिष्टं गौरिति व्यवहारविषयः । तेन सम्बन्धेन सद्रूपं तत्तत्कारणतादेरवच्छेदकम् । न च गौरवाद्दुर्जेयत्वाञ्चोक्तान्यतमत्वस्य तथा
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र ० दे परिच्छिन्नत्वनिरुक्तिः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१०३
त्वासम्भवात् गोत्वादेः कल्पनमेव युक्तमिति वाच्यम् । अखण्डस्योक्तान्यतमत्वस्य स्वरूपत एव निवेशेनोक्तदोषाभावात् । क्लृप्तेनैव तेन निर्वाहे गोत्वादिकल्पनस्यायुक्तत्वात् । न चैवं गोव्यक्तीनामन्यतमत्वेनैव गवादेः कारणत्वादिकमास्ताम् । किं सद्रूपस्य तत्कल्पनयेति वाच्यम् । गोत्वादिजातिस्वीकारेऽपि तादृशान्यतमत्वस्य कारणतावच्छेदकत्ववारणाय तस्यावाभ्यामन्यथासिद्धिनिरूपकत्वस्वीकारात् । अत एव सद्रूपास्वीकर्तृबौद्धैरुक्तान्यतमत्वस्यान्यापोहनात्मकस्य गवादिपदवाच्यत्वादिकं स्वीक्रियते । तदेतत्पक्षद्वयमपि भगवतो भर्तृहरेरुक्तिमनुगच्छति । उक्तं हितेन - 'सम्बन्धभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ||' तथा 'सा जातिस्सा महासत्ता तामाहुस्त्वतलादयः ।' इति । ताम - हुरिति । गोत्वमित्यादौ सद्रूपमेव त्वादिभावप्रत्ययार्थः । तत्र तादात्म्यसम्बन्धेन प्रकृत्यर्थस्यान्वय इत्यर्थः । न च सद्रूपमात्रस्य त्वादिप्रत्ययशक्यत्वे aa प्रकृत्यर्थस्य भाने निधर्मितावच्छेदक बोधापत्तिरिति वाच्यम् । सद्रूपेण सदन्याप्रकारकधीप्रकारत्वस्वरूपेण तच्छक्यत्वात् । सम्बन्धभेदादिति । तत्तद्भवादिव्यक्त्युपहितत्वरूपस्य तावद्व्यक्तितादात्म्यानामन्यतमत्वविशिष्टरूपस्य वा सम्बन्धस्य भेदादित्यर्थः । न च प्रकृत्यर्थोपलक्षितसद्रूपस्य सर्वत्र सत्त्वात् 'गोस्वमश्ववृत्ती' त्यादिव्यवहारः स्यादिति वाच्यम् । प्रकृत्यर्थविशिष्टसत्ताया एवान्यान्वयात् । अत्रेदं बोध्यम् । गोत्वादिजातीनां सद्रूपतानङ्गीकारेऽपि प्रकृतानुमाने न व्यभिचारः । गवादिव्यक्तीनां गोत्वादिजात्यवच्छिन्नचिति कल्पितत्वेनोक्त जातावपि कल्पितत्वात् । यथा हि पूर्णानन्दरूपे अधिष्ठाने जायमानप्रपञ्चस्य सद्रूपं साधारण आधारः, तथा गवाद्यवयवो गोत्वादिजातिश्वासाधारणाधार इति तत्रापि गवादयः कल्पिताः । न चैवं कल्पितपदस्य तज्ज्ञाननिवत्यर्थकत्वपक्षे व्यभिचार इति वाच्यम् । ब्रह्मसिद्धिकारोक्तानुमान एव तत्पक्षस्वीकारात् । अत एव रज्ज्वा इदमंशे विभज्यत इति मूलम् । न हीदमंशज्ञानेन सर्पादिनिवृत्तिरिति । आचार्यैस्तु यत् जातीनां सद्रूपत्वं विवरणाद्युक्तं व्यवस्थापितम् । तत्रायं भावः । जातीनां सद्रूपत्वं अविद्याशक्तिविशेषरूपत्वं वेति पक्षद्वयमस्मदीयैः कैय्यादिभिश्वाचार्यैरुक्तम् । तत्राद्यपक्षस्य दुष्टत्वात् प्रकृतानुमाने व्यभिचार इति यत् परैरुक्तं तदसङ्गतम् । तस्योक्तयुक्तिभिरदुष्टस्वात् । द्वितीयपक्षे व्यभिचाराभावस्तु स्फुट एव । न च तादृशाविद्याया घटाद्यवच्छिन्नचिद्विषयकत्वे घटादिधीकाले तन्निवृत्त्यापत्तिः । ब्रह्मविषयकत्वे घटत्वपटत्वादिनानाजात्यसम्भवः । न ह्येकपुरुषं प्रति भासमाना ब्रह्माविद्या ना
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
अद्वैतमञ्जरी ।
नेति सिद्धान्त इति वाच्यम् । अनन्ता हि मूलाज्ञानीयाः कार्यजननानुकूलाः विक्षेपनामकशक्तयो निर्विषयिकाः । आवरणशक्तरेव सविषयकत्वात् । तथा च घटव्यक्तिभिरवच्छिन्ना जलाहरणादिकार्यानुकूला तादृशशक्तिः घटत्वम् । एवं पटत्वादिकमपीति न कोऽपि दोष इति । अत एव उक्तपरिच्छेदानां हेतुत्वसम्भवादेव । सद्रूपे कल्पितं सद्रूपज्ञाननिवर्त्यम् । तदनुविद्धत्वेन सद्रूपतादात्म्येन । प्रतीयमानत्वादित्यत्र प्रत्येकमित्यस्यान्वयः । तथा च घटादीनां सर्वेषां सत्तादात्म्येन प्रतीयमानत्वात् घटादिकं सर्वं सद्रूपज्ञाननिवर्त्यमित्यर्थः । तादृशप्रतीयमानत्वं च तद्योग्यतारूपं ग्राह्यम् । तच्च सदवृत्तित्वविशिष्टं भेदप्रतियोगित्वम् । प्रत्येकं चन्द्रेत्यादि । चन्द्रतादात्म्यधीविषयतायोग्याः जलतरङ्गस्थचन्द्रा इवेत्यर्थः । तादृशयोग्यत्वं च उक्तभेदप्रतियोगित्वमेव । ' चन्द्रोऽयं तरङ्गस्थः सन्निति सत्तादात्म्यमादायैव चन्द्रतादात्म्यप्रतीतेः । अत्र यद्यत् उक्तप्रतियोगित्ववत् तत्तत् सद्रूपधीनिवर्त्यम् । यथा तरङ्गचन्द्र इत्युदाहरणार्थे तात्पर्यम् । कथमिति । तथा च प्रथमानुमाने स्वानुगतप्रतिभासे सद्रूपे कल्पितं घटादीत्युक्तिरसङ्गता । द्वितीयानुमानेऽपि सत्तादात्म्यधीयोग्यतात्वेनोक्तप्रतियोगित्वस्य निवेशो न युक्तः । तस्मात् 'घटः सन्नि' त्यत्र भासमानं घटगतमेव सत्त्वं त्रिकालाबाध्यत्वम् । न तु त्रिकालाबाध्यत्वोपलक्षिताधिष्ठानसद्रूपस्य घटे कल्पितं तादात्म्यमिति भावः । अवच्छेदेनेवेति । तथा चानवच्छिन्नरूपेणैव सद्रूपमावृतमिति भावः । आपातादिति । तथा च शुद्धस्यावृतत्वे विशिष्टस्यापि तदावश्यकम् । अत एव विशिष्टरूपेणापि गुरुत्वादिकमावृतमिति भावः । सदात्मनेति। सद्भानानन्दांशानां मध्ये आनन्दांशरूपेणैव ब्रह्म मूलाज्ञानेनावृतम् । 'पूर्णानन्दो मे न भाती'ति प्रत्ययात् सद्भानरूपे भात इति प्रत्ययाच्च । ननु, तर्हि सद्भानांशयोरनावृतत्वात् घटाकारवृत्त्यभावकालेऽपि 'घटः सन् घटो भाती'ति धीः स्यात् । तत्राहकिं त्वित्यादि । शक्त्यज्ञानेन मूलाज्ञानावस्थारूपाज्ञानेन । नन्वेकाज्ञानपक्षे शक्यज्ञानास्वीकारेण मूलाज्ञानेनैव सद्भानांशाम्यामावृतत्वं ब्रह्मणो वाच्यम् । तत्राह-- तथा चंति । तथा स्वीकारेऽपीत्यर्थः। मूलाज्ञानेनैव सद्भानात्मना ब्रह्मण आवृतत्वस्वीकारपक्षेऽपीति यावत् । अपिशब्दात् पूर्वकल्पसङ्ग्रहः । तदावरणेति । घटाद्यवच्छिन्नावरणेत्यर्थः । भने अभिभवे । यद्येकमेवाज्ञानं, तदा तद्विषयताया घटाद्याकारवृत्तिकाले घटाद्यवच्छेदेनाभिभवात् घटाद्यवच्छेदेन सदानांशयोर्व्यवहारः। तस्याभिभवस्तु, तत्तदाकारवृत्त्यभाववैशिष्ट्यविघटनेन 'सन् घटो भाती'त्यादिव्यवहारे प्रतिबन्धाक्षमत्वम् । तादृशव्यवहारं प्रति हि घटाद्याकारवृत्त्यभावविशिष्टाया एव मूला
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे परिच्छिन्नत्वनिरुक्तिः ] लघुचन्द्रिका । ज्ञानविषयतायाः प्रतिबन्धकत्वम् । यदि तु मूलाज्ञानस्यावस्थारूपाणि घटाद्यवच्छि. न्नानि अनन्तान्यज्ञानानि स्वीक्रियन्ते, तदा घटाद्याकारवृत्त्या तदुच्छेदेन तथा व्यवहार इति भावः।प्रतिनियतेन्द्रियग्राह्येति । सर्वेन्द्रियाग्राह्येत्यर्थः । हीनत्वेऽपीति। ननु, सदूपस्य चाक्षुषाविषयत्वमेवास्ताम् । न च तथा सति सद्रूपावरणानाशे उक्तव्यवहारानुपपत्तिरिति वाच्यम् । घटादिविषयकवृत्त्यैव घटाद्यवच्छेदेन सद्रूपावरणाभिभावकत्वसम्भवादिति चेन्न । आवरणामिभवाय कल्प्याया वृत्तेविषयत्वस्यावारकाज्ञानविषये सद्रूप एव कल्पनौचित्यात् । अज्ञानस्येव वृत्तेरपि घटाद्यवच्छिन्नविषयताकत्वात् । ननु, सद्रूपस्य सर्वेन्द्रियग्राह्यत्वं विप्रतिपन्नम् । तत्राह-सत्ताया इत्यादि। परैः मीमांसकादिभिः । प्राभाकरमते हि ज्ञानविषयत्वमेव सत्ता । नान्या जात्यादिरूपा। गणादौ जात्यस्वीकारात् । सा च सर्वेन्द्रियजन्यधीविषयः । ज्ञानमात्रस्य घटादिविषयकत्वरूपेण स्वविषयिताशालित्वस्वीकारेण 'घटो मया ज्ञात' इत्याकारकत्वस्यापि स्वीकारात् । न्यायवैशेषिकादिमतेऽपि सत्ताजातिः सर्वेन्द्रियजन्यधीविषयः । सन्निकृष्टतया सत्ताया भाने सामग्रीसत्त्वात् । तथा च तस्यास्सर्वेन्द्रियग्राह्यत्वं न कस्या पि विप्रतिपन्नमिति भावः । अपिशब्दसमुच्चितं सत्तायाः स्वकीयाचार्यसम्मतं सर्वेन्द्रियग्राह्यत्वं प्रकटयति-तदुक्तमिति । अतः अनुभवान्यस्याज्ञातत्वाभावेन प्रमाणाविषयत्वात्।अनुभवः सद्रूप आत्मैव विषयः । तत्र हेतुः-अज्ञातलक्षण इति । जडस्याज्ञातत्वाभावेन न विषयत्वम् । किं तु विषयीभूतसद्रूपावच्छेदकत्वम् । अक्षादीनां इन्द्रियादिजन्यमनोवृत्तीनां दोषजन्याविद्यावृत्तीनां च । स्वतस्सिद्धः अनारोपितः । तस्याविषयत्वे प्रमाणानां प्रमाणता न स्यात् । अज्ञाताबाधितविषयकत्वस्यैव प्रमाणतारूपत्वादित्याह-योति । यत्रैवेत्यर्थः । भूमस्यापि बाधात्पूर्वं प्रमात्वं सद्रूपमादायैव इदमंशावच्छिन्नसद्रूपतादृशविषयकत्वरूपस्य हि इदमंशधीनिष्ठप्रमात्वस्य संसर्गो भूमे समारोप्यते । ननु, ज्ञानविषयत्वरूपा सत्ता प्राचीनप्राभाकराणां मते न सर्वेन्द्रियग्राह्या । ज्ञानस्य स्वविषयत्वाभावेऽपि तादात्म्येन स्वस्यैव स्वस्मिन् स्वव्यवहारप्रयोजकत्वम् । अत एव ज्ञातापि न ज्ञानविषयः । ज्ञानसमवायस्यैव तव्यवहारप्रयोजकत्वादिति हि तैः स्वीक्रियते । मणिकाराद्युक्तनव्यप्राभाकर मत एव हि ज्ञानं स्वस्वाश्रयविषयकमुच्यते। तथा च कथं सत्तायास्तथात्वं सर्वसम्मतम् । तत्राह-कालस्य चेति । 'न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते ।' इति मीमांसकोक्तेज्ञान सर्व किञ्चित्कालावच्छिन्नमेव स्वविषयं गृह्णाति। तत्र स्वाधिकरणक्षणावच्छिन्नत्वेन गृह्णातीत्युत्सर्गः। अत एव धारावाहिज्ञानस्थले ज्ञानानां स्वस्वाविकरणक्षणविशिष्टतया स्वस्वविषयग्राहित्वेनाज्ञातज्ञापकत्व'मिति मीमांसकाः । तस्य
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
શ્
www.kobatirth.org
भद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
बांधे तु सम्भवत्क्षणान्तरावच्छिन्नत्वेन यथा पाकरक्ते घटे 'श्यामोऽय' मिति धीः पाकपूक्षणावच्छिन्नत्वेन श्यामत्वं गृह्णाति स्मृतिः स्वकारणची गृहीतकालावच्छिन्नं स्वविषयम् । आदिभिरित्यादिपदात् तार्किकादिमते प्रत्यक्षे सन्निकर्षसत्त्वात् सत्ताजातिर्भात्येव । अनुमित्यादिज्ञानेऽपि सत्ताविशिष्टतया नियमतो वह्रचाद्यनुभवात्तद्भाननियमो वाच्यः । अत एव 'पर्वतादौ वहयादिकं सन्न वे' त्यादिसंशयानामनुमित्यादिस्थलेऽनुत्पादः । नन्वास्तामनुभवसिद्धं सत्तायास्सर्वधीविषयत्वम् । कथं तु तदुपपद्यते । केवलवह्निव्याप्त्यादिज्ञानात् सत्ताविशिष्टवह्न्याद्यनुमित्यादेरसम्भवादिति चेन्न । व्याप्त्यादिज्ञानेऽपि सद्वह्यादिभानाभ्युपगमात् । वह्निः न सन्नित्यादिधीकालेऽपि सत्तावह्नित्वयोरेकत्र द्वयमिति रीत्या प्रकारत्वसम्भवात् । सत्तायामवृत्तित्वज्ञानकाले सत्ताप्रकारकज्ञानानुत्पादेऽपि वह्निविशिष्टसत्ताप्रकारकानुमित्यादिसम्भवात् तादृशानुमित्यादौ वहयादेर्विशेषणत्वेन पर्वतादौ प्रकारत्वसम्भवात् व्याप्तिज्ञानेऽपि सत्ताव्याप्तेर्भानस्वीकारात् । आस्तां वा तत्र वहौ सत्ताया अभानाद्वहेरप्यभानम् । पर्वतादौ सत्ताभासक सामग्रीसहिताया एव सामग्रया वहचाद्विभासकत्व स्वीकारात् । नव्यप्राभाकरमते विषयभासकसामग्र्या एव ज्ञानग्राहकत्वस्येव मीमांसकमते कालिग्राहक सामन्याः कालग्राहकत्वस्येव च सत्ताश्रयग्राहकसामग्य्यास्सत्ताग्राहकत्वसम्भवाच्चेति भावः । आवरणेन घटाद्यवच्छिवावरणेन । प्रतिरुद्धेति । घटाद्यवच्छेदेन प्रतिरुद्धेत्यर्थः । ब्रह्म सद्रूपम् । घटाद्याकारवृत्येति शेषः । स्वभावायोग्यं इन्द्रियेण गृहीतुमशक्यम् । श्रोत्रस्य हि शब्दशब्दत्वादिप्रत्यक्ष प्रत्येव शक्तिः । न तु नभोग्रहेऽपि । चक्षुस्त्वग्भ्यां तु द्रव्यप्रत्यक्षजनने रूपस्पर्शापेक्षणात् नीरूपस्पर्शस्य नभसो न ताभ्यां प्रत्यक्षमिति भावः । नन्वेवं ताभ्यां सद्रूपं द्रव्यमपि गृहीतुमशक्यम् । रूपस्पर्शाभावात्तत्राह - यद्वेति । रूपापेक्षा समवायेन रूपं कारणम् । ननु, परिमाणवत्यपि ब्रह्मणि परमार्थतस्तत्प्रतिषेधात् ब्रह्म द्रव्यमेव । तत्राह — अस्तु वेति । अच्यस्तद्रव्यत्ववति अद्ध्यस्तेन सम्बन्धेन द्रव्यत्ववति । धर्म्यन्यूनसत्ताकद्रव्यत्ववति धर्म्यन्यूनसत्ताकसम्बन्धेन द्रव्यत्ववति । यथाश्रुते कर्मधारयान्मतुपोऽसाधुत्वं द्रव्यनिष्टद्रव्यत्वस्य गुणादौ संसर्गाध्यासेऽपि तादृशगुणचाक्षुषे रूपानपेक्षणात् असङ्गतिश्च । स्वसमसत्ताकसम्बन्धेन द्रव्यत्ववतीति फलितार्थः । चक्षुः चक्षुरादि । रूपं रूपादि । वस्तुतस्तु ब्रह्मणश्चाक्षुषादिप्रत्ययविषयत्वेऽपि नास्माकं क्षतिः । घटादिविषयकवृत्त्यापि घटाद्यवच्छेदेन सद्रूपस्यावरणाभिभवात् घटादौ सद्रूपतादात्म्यमानसम्भवेन प्रकृतानुमानेऽनुपपत्त्यभावात् । अज्ञाताविषयकत्वेऽपि घटाद्याकारवृत्तेरज्ञाततावच्छेदकाविषयकत्वेन प्रमात्वसम्भवा
For Private and Personal Use Only
-
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे अंशित्वनिरुक्तिः]
लघुचन्द्रिका ।
त्तात्विकप्रमात्वमेवाज्ञातविषयघटितं ब्रह्माकारवृत्ताविति वक्तुं शक्यत्वात् । परंतु ब्रह्मणश्चाक्षुषादिविषयत्वे न काप्यनुपपत्तिरित्याशयेन नानुपपत्तिरिति पूर्वमुक्तम् । ब्रह्मणः परिमाणादिमत्वे च न मानम् । उक्तं च पदार्थखण्डने शिरोमणिना--- 'ईश्वरस्य परिमाणवत्त्वे मानाभावः । द्रव्यत्वस्य त्रुटित्वादेरिव परिमाणासाधकत्वात्' । तदीयटीकायां च सार्वभौमैरुक्तम्-‘एवमीशस्य जीवस्य च द्रव्यत्वे संयोगादौ च मानाभावः । आत्ममनस्संयोगादेः 'ज्ञानादिहेतुत्वेऽपि न मान' मित्यादि । कल्पितत्वम् उक्तसाध्ययोः प्रविष्टः कल्पितशब्दार्थः ।।
॥ इति लघुचन्द्रिकायां परिच्छिन्नत्वहेतूपपत्तिः ॥ अंशित्वात् कार्यत्वात् । ननु, पटे तन्त्ववच्छिन्नचिदेवोपादानम् । न तु तन्तुरिति मते सिद्धसाधनम् । तादात्म्यसम्बन्धेन तन्तौ पटस्यात्यन्ताभावसत्त्वात् । किंच पटान्तरे तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वानुमानसाधारण्या एकोक्तेरलाभश्च । तत्राहं
-तत्रेति। एतत्पदं तु पक्षीभूतव्यक्तिपरमित्याशयेन तत्स्थाने स्वपदमाह-स्वेति। सिद्धसाधनमिति । यथा तत्पटे तस्यात्यन्ताभावः स्वीक्रियते । तदधिकरणत्वस्यैव' तदत्यन्ताभावविरुद्धत्वेन तत्तादात्म्यस्य तदत्यन्ताभावाविरुद्धत्वात् । तथा तदभिन्नतन्तावपीति भावः । अनाश्रितत्वेनेति । तत्पटस्येत्यादिः । अन्येति । तत्तन्तुभिन्नेत्यर्थः । उपपत्त्या स्वात्यन्ताभावसामानाधिकरण्योपपत्त्या । यैस्तन्तुपटयोस्तादात्म्यमुच्यते, तेषां परिणामवादिनां सिद्धसाधनम् । यस्त्वाधाराधेयभावस्तेषामारम्भवादिनामर्थान्तरम् । एतदनुमानबलादनाश्रितत्वादिसिद्धिः । अन्यथा तत्पटाश्रयत्वतत्पटाभावयोस्तत्तन्तौ विरोधात् । न हि तावता मिथ्यात्वरूपोद्देश्यसिद्धिः । तदनधिकरणे तदत्यन्ताभावस्य सर्वसम्मतत्वादिति भावः । अभेदे अत्यन्ताभेदे । कथञ्चित् स्वकीयर्मिप्रतियोगिनोर्यस्तादात्म्यरूपः सम्बन्धः तत्समसत्ताकस्य । भेदस्यति । परिणागवादिभिरिति शेषः । तथा चासम्बद्धयोः कार्यकारणत्वासम्भवेन तन्तुपटयोस्तादात्म्यसम्बन्धोऽवश्यं वाच्यः । स च भिन्नयोरेवेति भेदोऽप्यावश्यकः । एवं च ययोर्यसम्बन्धस्तयोरेकत्र परस्य तेन सम्बन्धेनात्यन्ताभावस्यासम्भवात्तादात्म्यसम्बन्धेन तन्तुपटयोन परस्परात्यन्ताभाववत्त्वं परिणामवादिभिर्वक्तुं शक्यम् । ततश्च तन्तुनिष्ठस्यासन्ताभावस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगित्वं तत्पटे न तेषां सिद्धम् । न चात्यन्ताभावप्रतियोगितायास्तादात्म्यसम्बन्धावच्छिनत्वस्यासम्भवः । सम्भवे वा भेदप्रतियोगिताया ऐक्यसम्बन्धावच्छिन्नत्वमेव वाच्यम्। तादात्म्यवतोरपि भेदसत्त्वेन तत्प्रतियोगितायास्तादात्म्यसम्बन्धावच्छिन्नत्वासम्भवातु। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वस्य भेदलक्षणत्वासम्भवेनैक्यसम्ब
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
न्धावच्छिन्नप्रतियोगिताकाभावत्वस्यैव तल्लक्षणत्वात् । तच्चानिष्टम् । ऐक्यस्य सम्बन्धत्वे 'घटः कलश' इत्यादिप्रत्ययापत्तेरिति वाच्यम् । भेदप्रतियोगितायास्सम्बन्धानवच्छिन्नत्वस्वीकारेण सम्बन्धानवच्छिन्नकिञ्चिद्धावच्छिन्नप्रतियोगिताकाभावत्वस्यैवभेदलक्षणत्वात् । ध्वंसप्रागभावयोहि प्रतियोगिता सम्बन्धेनेव धर्मेणाऽपि नावच्छिद्यते । न च तथाऽपि प्रतियोग्याश्रयत्वेनैवात्यन्ताभावस्य विरोधात् तन्तौ पटात्यन्ताभावः परिणामवादिनां सिद्ध इति · वाच्यम् । प्रतियोगितावच्छेदको यः प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिताकः सम्बन्धः तदनुयोगित्वेनैव सममत्यन्तामावस्य विरोधात् । अत एव धनानधिकरणे धनस्वामिनि पुरुषे अयं स्वामित्वसम्बन्धेन धनाभाववानिति धीन प्रमा । मण्यादिवृत्तितृणादौ च न दाहाद्युत्पत्तिः । तत्र संयोगेन मण्याद्यभावस्यासत्त्वात् । 'बदरे कुण्डं ने त्यादिधीस्तु वृत्तिनियामकसंयोगेन कुण्डादेरभावं गाहते । अत एव च पृथिवीत्वादिकं प्रति संयोगेन गगनादेापकत्वं गगनाद्यभाववतोऽपि पृथिव्यादेः संयोगेन गगनादिसम्बन्धित्वेन प्रतियोगिव्यधिकरणगगनाद्यभावविरहादित्यर्थके दीधितिवाक्ये उत्पत्तिकालावच्छेदेन पृथिव्यादौ संयोगेन समवायेन वा गगनादेरभावो विद्यमानोऽपि स न प्रतियोगिव्यधिकरण इत्यर्थ इति व्याचक्षते । बाधात् अनाश्रितत्वबाधात् । कारणानाश्रितत्वस्वीकारेऽपि पटादेर्भूतलाद्याश्रितत्वादिति शेषः । तन्मात्राश्रितत्वेन स्वोपादानान्यस्मिन् स्वोपादानजन्यतावच्छेदकसम्बन्धेनासम्बन्धित्वेन । प्रामाणिकत्वेति । तात्विकत्वेत्यर्थः । प्रागेवेति । तात्विको व्यावहारिको वेत्यादिनेति शेषः । ननु, 'तन्तुषु दशायां न पट' इति प्रत्ययात् पटस्य तादात्म्यादिसम्बन्धेन तन्ताकव्याप्यवृत्तित्वम् । तत्राह-संयोगेति । अनभ्युपगमादिति । तथा च 'अग्रे वृक्षे संयोगो न तु मूले' इति धीः वृक्षनिष्ठाग्रमूलवृत्तिसंयोगतदभावाववगाहते । न तु वृक्षनिष्ठौ ताविति न कस्याप्यव्याप्यवृत्तित्वमिति भावः । नन्वेवं मलादावपि न संयोगादिसत्वं स्यात् । 'भूतले उपरिभागे संयोगो न त्वन्यभागे' 'उपरिमागे तदिशि संयोगो न त्वन्यदिशि' इत्यादिप्रत्ययात् । तस्मान्मूलादेरवच्छेदकत्वावगाहनात् वृक्षादेरधिकरणत्वावगाहनात्संयोगादेर्मूलाधवच्छिन्नवृक्षादिनिष्ठाधिकरणता नापलप्या । तत्राह-अभ्युपगमे चेति । एतत्तन्तुत्वावच्छिन्नवृत्तित्वमेतत्पटानवच्छेदकावच्छिनवृत्तिकान्यत्वम् । तेन मिथ्यात्वघटकात्यन्ताभावस्यावच्छिन्नवृत्तिकत्वास्वीकारेऽपि न क्षतिः । अनवच्छेदकेत्यत्र देशकालसाधारणमवच्छेदकत्वं निवेश्यमित्याशयेनाहएवमिति । प्रयोजकं समव्यापकम् । न तु व्याप्यमात्रं व्यापकमात्रं वा । आये तदुक्तर्व्यर्थत्वात् । द्वितीये केवलान्वयिनि वक्ष्यमाणापत्त्यसम्भवात् । केवलान्वयी
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे अंशित्वनिरुक्तिः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१०९
1
1
1
ति । उपलक्षणमेतत् । केवलव्यापकमपि न भवति । तत्त्वग्राहकतकीभावात् । ननु, प्रागभावप्रतियोगित्वमपि न व्यापकम् । तत्तन्तुसमवेतद्रव्यत्वादौ तदभावात्तत्राह - एतत्समवेतत्वमिति । एतत्तन्तुनिष्ठेत्यादि । उक्तसाध्याभाववान् । तत्पटोपादानोपादानकत्वादित्यर्थः । यथाश्रुते तत्पटस्याव्याप्यवृत्तित्वेन बाधः । तत्संयोगजन्यत्वरूपस्य तदारब्वत्वस्य परिणामवादादिष्वसिद्धिश्च । प्रतियोगित्वं प्रतियोगितात्वम् । प्रतियोगि प्रतियोगितावच्छेदकम्। उद्देश्यतावच्छेद के विधेयावच्छेदकत्वस्य व्युत्पत्तिलम्यत्वाद्वोक्तार्थलांभः । किञ्चिन्निष्ठेत्याद्यनुमानं न सम्भवदुक्तिकम् । संसर्गाभावप्रतियोगित्वस्यैव तादात्म्येन हेतुत्वसम्भवेन व्याप्यत्वांशवैयर्थ्यात् । किं च व्याप्यत्वं यदि केनचिद्रूपेणोच्यते, तदा आकाशाभावस्यापि घटादिवृत्तित्वविशिष्टरूपेण तदस्त्येवेति व्यभिचारः । न च व्याप्यतावच्छेदको क्तरूपेण साध्यस्यापि तत्र सत्त्वान्न व्यभिचार इति वाच्यम् । तथा सति न चाकाशात्यन्ताभावस्ये 'त्यादिशङ्काग्रन्थस्य निरालम्बनत्वेन भ्रान्तशङ्कापरत्वापत्तेः । न च संसर्गाभावप्रतियोगित्व व्याप्यत्वं येन केनचिद्रूपेण । अत्यन्ताभावप्रतियोगित्वं तूभयावृत्तिधर्मेणेत्यभिप्रेत्याशङ्का । उत्तरं तु उभयावृत्तिधर्मेणैव व्याप्यत्वमपि निवेश्यमित्यभिप्रायणेति नोक्तदोष इति वाच्यम् । तथा सति एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपपक्षे उभयावृत्तिना तत्प्रतियोगिताव्यक्तित्वेनात्यन्ताभावे सिद्धेऽप्यस्मदीयसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावानुमानासिच्या सत्प्रतिपक्षासिद्धेः । अथोक्तमूलवाक्यमुपेक्ष्य येन रूपेण व्याप्यत्वं, तेनैवात्यन्ताभावप्रतियोगित्वमप्युच्येत ! तथापि तद्व्यक्तित्वेनात्यन्ताभावसिद्ध्या न सत्प्रतिपक्षसिद्धिः । अथ येन येन व्याप्यत्वं तेन तेनोक्तप्रतियोगित्वमित्युच्यते । तथापि येन येनेति वीप्सालब्धयावद्रूपमध्येऽत्यन्ताभावप्रतियोगितात्वसंसर्गाभावप्रतियोगितात्वयोरपि पतितत्वेन ताभ्यामेव तदुक्तिर्युक्ता । अत्यन्ताभावप्रतियोगितात्वेन तदुक्तौ साधनवैकल्यम् । संसर्गाभावप्रतियोगितात्वेन तदुक्तौ स्वव्यापकसाध्यसमानाधिकरणवृत्तिहेतुतावच्छेदकरूपव्याप्तिरूपे साधने संसर्गाभावप्रतियोगितात्वस्य प्रविष्टत्वेन तस्यैव हेतुतावच्छेदकत्वसम्भवेनेतरांशवैयर्थ्यम्, अत्यन्ताभावप्रतियोगितात्वस्योक्तव्याप्तौ प्रविष्टत्वेन तस्यैव हेतुतावच्छेदकत्वसम्भवेनेतरांशवैयर्थ्यं च । न चास्तु तथैवेति वाच्यम् । अप्रयोजकत्वात् । तथापि तदभ्युपेत्य दूषणान्तरमाह – यत्रैतदिति । प्रागभावास्वीकारपक्षे एतदुपादानकान्यत्वमेवोपाधिः । तादृशप्रतियोगित्वेन सन्दिह्यमाने पक्षे यद्युपाधिनिश्चयः स्यात्, तदा तादृशप्रतियोगित्वरूपसाधनव्यापकत्वमुपाधौ निश्चीयेत । स तु नास्तीत्याशयेन पक्षावृत्तेरित्युक्तम् । पक्षावृत्तित्वेन निश्चितस्येत्यर्थः । सन्दिह्यमानेत्यादि ।
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
सन्दिह्यमानं यत् उक्तं प्रतियोगित्वं तद्यापकत्वानिश्रयादित्यर्थः । तथा चैतदारउधत्वाभावव्यापकस्योपाधेर्व्यभिचारित्वेन हेतुना एतदारब्धत्वाभावव्यभिचारित्वमेतन्निष्ठात्यन्ताभावप्रतियोगित्वे अनुमेयम् । अत एतदनारब्धत्वे तादृशप्रतियोगित्वव्यापकतानिश्वयो न सम्भवतीति भावः । न चोक्तोपाध्यभाववति तादृशप्रतियोगित्वस्य संशयात्तादृशप्रतियोगित्वे उक्तव्यभिचारित्वरूप हेतोरनिश्चय इति वाच्यम् । एतत्तन्तुपदस्य तत्पटोपादानपरतया तत्पटोपादानीभूतं यत्तन्त्वव-च्छिन्नचैतन्यं तन्निष्ठप्रागभावाप्रतियोगित्वरूपोपाध्यभाववति तादृशचैतन्यारोपितसर्पादौ स्वोपादानवृत्तिस्वावच्छेदकावच्छिन्नात्यन्ताभावप्रतियोगित्वनिश्चयस्य परेणापि वाच्यतयोक्तव्यभिचारित्वरूपहेतोर्निश्चयानपायात् । तादृशव्यभिचारित्वस्यानिश्वयेऽपि तत्संशयाहितेनैतदारब्धत्वाभावव्यभिचारित्वसंशयेनोक्तव्यापकतानिश्चयप्रतिबन्धसम्भवाच्च । उक्तत्वादिति । उपाध्यभावे साध्याभावस्य व्य तिरेकव्याप्तेरेव वाच्यतया तत्रैतन्निष्ठप्रागभावाप्रतियोगित्वस्योपाधेरुक्तत्वादित्यर्थः । तत्र व्यभिचारादिति । दशावच्छिन्नसंयोगादौ तत्पटावच्छेदकावच्छिन्नात्यन्ताभावप्रतियोगित्वरूपस्य साध्याभावस्य तत्तन्त्वारब्धत्वरूपस्य हेतोश्च सत्त्वाव्यभिचार इति भावः । अत्यन्ताभावे तत्पटावच्छेदकावच्छिन्नवृत्तिकत्वं विशेषणं देयमित्यभिप्रेत्येदम् । यदि तु उक्तरीत्या तत्पटानवच्छेदकानवच्छिन्नत्वं विशेषणं दीयते, तदा तत्पटावच्छेदकावच्छिन्ने संयोगध्वंसादौ व्यभिचारो बोध्यः । ध्वंसस्यापि परिणामवादे सूक्ष्मावस्थारूपपरिणामत्वेन तत्तन्त्वारब्धत्वात् । न च स्वावच्छेदकावच्छिन्नसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्यैव साध्यतया संयोगादौ तादृशप्रतियोगित्वस्थापनकाले व्युत्पत्तिस्वाभाव्येन तस्यैव स्वपदेन धायतया नो व्यभिचार इति वाच्यम् । प्रकृतानुमानस्य नव्यमत एव स्वीकारात् । तत्र स्वत्वस्याननुगतत्वेन तत्पटावच्छेदकत्वेनैव साध्ये निवेशात् साध्योपाध्योः तत्तन्तुपदस्य तत्पटोपादानपरतया तत्तन्त्ववच्छिन्नचिदुपादानकसर्पादौ स्वावच्छेदकावच्छिन्नवृत्तिकात्यन्ताभावप्रतियोगित्वस्य तदुपादानकत्वरूपंतदारब्धत्वस्य च सत्त्वाच्च । अत एव स्वानवच्छेदका नवच्छिन्नवृत्तिकत्वनिवेशेऽपि तत्र व्यभिचारः । तस्य परेणापि मिथ्यात्वस्वीकारेण तदत्यन्ताभावस्यावच्छिन्नवृत्तिकत्वाभावात् । तत्संयोगजन्यत्वरूपं तदारब्धत्वं तु पक्षेऽपि मन्मते नास्त्येवेति भावः । चिदाभासेत्यादि । चिदाभासं स्वावच्छिन्नचितं विनानुपलभ्यमानत्वम् । तादृशचितंमनपेक्ष्यैव यत् प्रकाशते तदन्यत्वम् । स्वप्रकाशान्यत्वमिति यावत् । ननु विमतं मिथ्या । धीकाल एवान्यथा प्रतीतत्वात् । चित्रनि
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे अंशित्वनिरुक्तिः ]
लघुचन्द्रिका ।
म्नोन्नतादिवत् । भारूपवस्तुसंलग्नत्वात् सवितृच्छिद्रादिवत् । न चासिद्धिः । धीकाल एव 'इदं सर्वं यदयमात्मेत्यादिश्रुत्या सर्वानात्मन आत्मत्वेन प्रमितत्वात् । 'घटादि स्फुरती'ति भारूपसंलग्नत्वा'च्चेति कौमुदीकाराः । तत्रान्यथेत्यस्य आत्मत्वेनेत्यर्थकत्वे सद्रूपात्मत्वेन प्रतीतत्वस्यामिथ्यात्वव्याप्यत्वेन विरुद्धो हेतुः । प्रतिपन्नोपाधिनिष्ठात्यन्ताभावप्रतियोगित्वेनेत्यर्थकत्वे त्वसिद्धिः व्यर्थविशेषणता च । द्वितीयहेतुः सवित्रात्मनोर्व्यभिचारी । 'सविता प्रकाशते' 'आत्मा स्फुरती' ति तयोर्भासंलग्नत्वात्तत्राह- एवमिति । अन्यथाप्रमितत्वादित्यस्य प्रपञ्चविलक्षणरूपेण यत् प्रमितं तत्तादात्म्यादित्यर्थः । तच्च कल्पितं ब्रह्मण्यपीति धीकाल इत्युक्तम् । स्वधीकाल इत्यर्थः । ब्रह्मधीकाले च ब्रह्मणि तन्नास्ति । तस्याः स्वेतरकल्पितनाशकत्वात् । स्वधीसमुत्पत्तिद्वितीयक्षणो वा स्वधीकालपदार्थः । तथा च ब्रह्मधीसमुत्पत्तिद्वितीयक्षणाप्रसिद्धेर्न ब्रह्मणि तदस्ति । ब्रह्मावृत्तिचित्तादात्म्यं पर्यवसितम् । भारूपे संलग्नत्वं स्वप्रकाशस्वरूपावृतिधर्मवत्त्वम् । सवितरि तु न व्यभि
चारः । तस्यापि पक्षत्वात् । ननु यत्रतत्तन्तुनिष्ठेत्यादिकं यदुक्तं, तदयुक्तम् । तथा सति व्यतिरेकिमात्रोच्छेदापत्तेः । 'पृथिवीतरेभ्यो भिद्यते, पृथिवीत्वा'दित्यादावपि 'यत् पृथिवीतरत् , तत्र दृथिवीत्वाभाव' इत्यादिव्याप्तिग्रहे पाकजरूपाभावस्य पृथिवीत्वाभावव्यापकस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानष्टथिवीतरव्यापकत्वाभावादिति चेन्न । साध्यासमानाधिकरणधर्मवत् यत् साधनवत्' तन्निष्ठाभावप्रतियोगितावच्छेदकः साध्यसमानाधिकरणवृत्तिर्योधर्मस्तद्वत्त्वरूपस्य दीधितिकाराद्युक्तस्योपाधिलक्षणस्य पाकजरूपाभावे विरहात् । पृथिवीतरतादात्म्येन निश्चिते जलादौ पृथिवीत्वाभावरूपसाध्यासमानाधिकरणधर्मस्याभावात् । पाकजरूपाभावरूपोपाधिव्यभिचारित्वस्य पृथिवीतररूपसाधने निश्चयाभावेन तेन हेतुना तत्र एथिवीत्वाभावरूपसाध्यव्यभिचारित्वानुमानासम्भवात् । सत्प्रतिपक्षोन्नायकतया दूषकत्वस्य तत्रासम्भवाच्च । न च तथापि सन्दिग्धोपाधित्वेन दूषकत्वं तत्रापि स्यादिति वाच्यम् । साध्योपाध्योाप्तिग्राहकतर्कसत्त्वात् । उक्तं हि मणौ –'यत्र साध्यहेत्वोस्साध्योपाध्योश्च व्याप्तिग्राहकसाम्यात् नैकत्रापि व्याप्तिनिश्चयस्तत्रैव सन्दिग्धोपाधित्व'मिति । उक्तोपाधौ तु उक्तलक्षणमस्त्येव । उक्तप्रतियोगित्वरूपसाधनवत्त्वेनोभयवादिनिश्चिते तत्तन्त्ववच्छिन्नचिदुपादानकसर्पादौ तत्पटोपादानोपादानकत्वाभावरूपसाध्यासमानाधिकरणधर्मनिश्चयात् । नचैवमुक्तसादावुभयो,दिनोः निरुक्तसाधननिश्चयसम्भवेन साधनाव्यापकत्वसौलभ्यात् पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानेत्याद्युक्तिर्मूले १. 'साध्यहेत्वोः' इति पाठान्तरम् ।
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११२
www.kobatirth.org
अद्वैतमञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
।
व्यर्थेति वाच्यम् । यद्युक्तसर्पादेर्नोपस्थितिः, तदापि तत्रैतत्तन्त्वित्यादिव्याविलाहकतकाभावात् उक्तोपाधेः सन्दिग्धोपाधित्वमित्याशयेन तथोक्तेः सार्थक्यात् । ननु, मिथ्यात्वघटके अत्यन्ताभावे तात्विकत्वस्वीकारे अद्वैतश्रुतिविरोधः । न च ब्रह्मस्वरूपत्वस्य तत्र स्वीकारान्न स इति वाच्यम् । मण्डनमते भावाद्वैतस्वीकारेणैव तत्परिहारात् । उक्तस्वीकारे च श्रुतिसङ्कोचेन विरोधस्य स्फुटत्वात् । किं च अभावस्य सत्यत्वे तत्राभावत्वस्य ब्रह्मणि चाभावसम्बन्धस्यावश्यवाच्यत्वात् भावाद्वैतमपि दुर्लभमिति चेन्न । अभावत्वस्याभावाश्रयत्वादेश्च स्वाश्रयरूपत्वात् । न च द्वितीयाभ:वस्य तात्विकत्वं तत्त्वावेदक प्रमाणवेद्यत्वाद्वाच्यम् । तादृशप्रमाणं च श्रुतिरेव वाच्यम्। तथा चानुपपत्तिः । 'एकमेवाद्वितीय' मित्यादिवाक्यस्याखण्डार्थकत्वेन अभावसम्बन्धाप्रमापकत्वादिति वाच्यम् । मिथ्यात्वानुमाने स्वसमानाधिकरणस्य स्वाधिकसत्ताकात्यन्ताभावस्य मण्डनमते साध्ये निवेशेन तस्यैव तत्त्वावेदकत्वात् तात्विकद्वैताभावविषयकत्वादेव हि तस्य द्वैतग्राहकप्रत्यक्षादिबाधकत्वमिति मण्डनाभिप्रायः । किं च तत्त्वज्ञानोद्देशेन मुमुक्षूणां प्रवृत्तेस्तत्त्वज्ञानकार्योऽविद्याध्वंसस्तात्विको वाच्यः । तस्य मिथ्यात्वे तत्त्वधी बाध्यत्वेन तत्कार्यत्वानुपपत्तेः । एवं च मिथ्यात्वघटकोऽत्यन्ताभावो विद्याध्वंसश्च मण्डनमते तात्विकः । न त्वभावान्तरम् | अभावत्वस्यातिरिक्तत्वस्वीकारे तदपि मिथ्या । प्रतियोगिताया इवानुयोगिताविशेषरूपस्य तस्य मिथ्यात्वसम्भवात् । दृश्यत्वादिकं घोक्ताभावव्यावृत्तमेव मिथ्यात्वे हेतुरिति न व्यभिचारः । तस्मात् मण्डनमतमप्यदोषम् ॥
1
॥ इति लघुचन्द्रिकायां अंशित्वहेतूपपत्तिः ॥ स्वबाधकेत्यादि । यत्रोपाधिः स्थाप्यः सः स्वपदार्थः शुक्तिरूप्यादिः । तद्वाधकत्वेनाभिमतं 'इयं शुक्ति' रित्यादिज्ञानम् । तदबाध्यदोषप्रयुक्तं भानं शुक्तिरूप्यादेर्यस्य तत्त्वं तत्रैव साध्यव्यापकम् । वियदादेस्तु स्वबाधकावाध्यदोषाप्रसिद्ध्या शुक्तिरूप्यादावेव प्रसिद्धं तत् वियदादिनिष्ठसाधनाव्यापकं बोध्यम् । पूर्वपक्षिणा माध्वेन शुक्तिरूप्यादेरलीकत्वस्वीकारात्तद्वाधकं न स्वीक्रियते । अतोऽभिमतेत्युक्तम् । स्वबाधकत्वेन सिद्धान्त्यभिमतेत्यर्थः । तथा च सिद्धान्तिना तद्वाधकस्वीकारात्तं प्रत्यु कोपाधिर्वक्तुं शक्यते । तस्योपांधिज्ञानात् कार्यसम्भवादिति भावः । स्वबाधकावा - ध्यबाधकमिति । स्वं शुक्तिरूप्यादि । तद्वाधकं शुक्तिज्ञानादि । तदबाध्यं बाधकं 'नात्र रूप्य' मित्यादिज्ञानम् । तादृशबाधकं प्रति निषेध्यत्वेन विषयः शुक्तिरूप्यादिः । स्वबाधकाबाध्यविषयत्वं वियदादावप्यस्ति । तादृशचिद्विषयत्वस्य तत्र सत्त्वात् । अतो बाधकं प्रति निषेध्यत्वेनेति । तथा च स्वबाधक बाध्यस्वाभावधीर्यस्य तत्त्वं
For Private and Personal Use Only
هه لمه
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे उपाधिभङ्गः]
लघुचन्द्रिका।
पर्यवसितार्थः । आकाशाद्यमावधिय आकाशादिबाधकब्रह्मज्ञानबाध्यत्वात् आकाशादावुक्तोपाध्यभावेनोक्तोपाधेस्साधनाव्यापकता । विपक्षेत्यादि । विपक्षात् ब्रह्मणः तुच्छाच्च व्यावृत्तम् । अतस्समव्याप्तमित्यर्थः । उदयनादिमते समव्याप्तस्यैवोपाधित्वादिदमुक्तम् । अत एव समव्याप्तत्वादेव । व्यतिरेकव्याप्तिमदिति । ययोः व्यतिरेकव्याप्तिः तयोरेव व्याप्यवृत्तिव्यतिरेकिणोरन्वयव्याप्तिः । अत एव पक्षेतरत्वं नोपाधिः । व्यर्थविशेषणत्वेन व्यतिरेके व्याप्त्यमावादिति मते । साध्यान्वयव्यतिरेकोन्नायकस्वान्वयव्यतिरेकवत्त्वरूपसाध्यप्रयोजकत्वघटितमुपाधित्वम् । अत एव पक्षेतरत्वे न तदिति मते चोपाधित्वसम्पादनायेदमुक्तम् । साध्याभावव्याप्यस्वाभावकत्वमिति तदर्थः । साधनवदित्यादि । पर्वतावयवावृत्तित्वस्य विशेषणस्य पर्वतावयवरूपादितो विपक्षायावर्तकत्वमस्ति । एवं स्वबाधकेत्यादिविशेषणस्यापि वासनादिदोषप्रयुक्तविकल्पविषयादलीकाव्यावर्तकत्वमस्तीत्यतस्साधनवदित्युक्तम् । तथा च साधनवत्पक्षव्यावर्तकं यत् साधनवद्विपक्षाव्यावर्तकं विशेषणं तद्वत्त्वेनेत्यर्थः । साधनवद्विपक्षनिष्ठभेदप्रतियोगितावच्छेदकताया यनिष्ठाया अनवच्छेदकं यत् विशेषणं तत्र तत् साधनवद्विपक्षाव्यावर्तकम् । अन्यत्वादिनिष्ठाया उक्तावच्छेदकताया अनवच्छेदकं पर्वतावयववृत्त्यादिकम् । 'पर्वतो धूमवान् वढे'रित्यादौ साधनवद्विपक्षे अयःपिण्डादौ पर्वतावयववृत्त्यन्यत्वादिमतो भेदासत्त्वात् । यद्यपि स्वबाधकेत्याशुपाधौ प्रकृतसाधनवान् विपक्षोऽप्रसिद्धः, तथापि यद्विशेषणघटितस्य यस्योपाधेराश्रयात् भिन्ने यावधर्मिणि प्रकृतसाधनवत्त्वविपक्षत्वोभयाभावोऽस्ति । तत् तत्र साधनवद्विपक्षाव्यावर्तकमिति बोध्यम् । आऽन्धनस्य तु आर्द्रत्वविशेषणं साधनवद्विपक्षव्यावर्तकमिति तदुपाधिः । पक्षेतरतुल्यत्वादिति । यथा साधनवत्पक्षमात्रव्यावर्तकविशेषणत्वात् पक्षेतरत्वादिकं नोपाधिः । न वोपाधित्वेन कथायामुद्भाव्यते, तथा पर्वतावयववृत्त्यन्यत्वादिकं स्वबाधकेत्यादिकं च तर्काभावेन पक्षे व्यभिचारसंशयेन प्रतिबन्धेन साध्यव्यापकत्वानिश्चयात् । उक्तं हि मणौ-'न हि पक्षेतरत्वे स्वव्याघातकत्वेनानुपाधावुपाधिलक्षणस्यातिव्याप्तिः । तत्रानुकूलतर्काभावेन व्यापकत्वानिश्चयात् । बाधोन्नीते च तर्कोऽस्त्येव । एवं पर्वतावयववृत्त्यन्यत्वादिकं नोपाधिः । पक्षमात्रव्यावर्तकविशेषणवत्त्वात्' इति । उक्तं चतत्र दीधितौ---' तर्कादिना व्यापकत्वनिश्चये तु पक्षेतरत्वमपि बाधोन्नीतपक्षेतरत्ववत् निश्चितोपाधिः । पक्षमात्रव्यावर्तकविशेषणवत्त्वं तु नानुपाधितायां बीजम् । परिभाषामात्रत्वात् । किं तूक्तविशेषणस्थले अनुकूलतर्काभावेन व्यापकत्वानिश्चय' इति । तथा बाधानुन्नीतः पक्षेतरो नोपाधित्वेन कथायामुद्भाव्यः । कथकसंप्रदा
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
यानुरोधात् इति । वस्तुतस्तु, तादृशसम्प्रदायो युक्त्यभावाद्धेयः । अत एव दीधितावे. वोक्तम्-'तादृशसम्प्रदायमननुरुन्धानस्य शपथनिराकरणीयतापत्ते'रिति । ईश्वरवादे चमणावुक्तम्-'पक्षेतरत्वादौ विपक्षबाधकतळभावान्न साध्यव्यापकतानिश्चय इत्येवानुपाधित्वे बीज मिति । अत एव स्वबाधकेत्यादेस्सन्दिग्धोपाधित्वमपि नास्ति । दृश्यत्वादिहेतोस्साध्ये व्यापकताग्राहकतर्कसत्त्वात् उक्तोपाधेस्साध्यव्यापकताग्राहकनकर्कासत्त्वात् । उक्तं हि मणौ–'यत्रोपाधिसाध्ययोस्साध्यहेत्वोश्च व्याप्तिग्राहकसाम्यात् नैकत्र व्याप्तिनिश्चयस्तत्रैव सन्दिग्धोपाधित्वम् । व्यभिचारसंशयाधायकत्वात् । यत्र तु एकत्र तर्कावतारः, तत्र हेतुत्वमुपाधित्वं वा निश्चित' मिति । अत्र विपक्षव्यावर्तकत्वेऽपि साधनवद्विपक्षाव्यावर्तकत्वं प्रकृतोपाध्योरस्ति । पर्वतावयववृत्त्यन्यत्वादावप्यस्तीति स एव दृष्टान्तीकृतः । न तु पर्वतेतरत्वादिकम् । तत्र तदभावात् । तथा च पक्षतरतुल्यत्वेन पर्वतावयववृत्त्यन्यत्वादेर्यथा उक्तमणिवाक्येऽनुपाधित्वमुक्तम् । तथा तत्सदृशयोस्स्वबाधकेत्याधुपाध्योरिति भावः । बाधोनीतत्वादिति । पक्षे साध्याभावनिश्चयरूपेण बाधेन निर्णीतसाध्यव्यापकताकत्वादित्यर्थः । यथा 'वह्निरनुष्णः । कृतकत्वा'दित्यादौ पक्षस्य साध्याभाववत्त्वेन निश्चितत्वरूपाद्विपक्षत्वाद्विपक्षाव्यावर्तकविशेषणशून्यत्वेन वहीतरत्वमुपाधिः । तथा स्वबाधकेत्यादिकमपीति भावः । यदिति । यदवच्छिन्नप्रतियोगिताकेत्यर्थः । साधकत्वं व्याप्यत्वम् । तस्य तद्विशिष्टस्य । व्यापकत्वं व्यापकत्वधीः । तथेत्यादि । 'शरीरजन्यत्वं यदि कर्तृजन्यत्वव्यापकं न स्यात् , तदा कर्तृनन्यत्वाभावव्याप्याभावप्रतियोगि न स्या'दिति तर्को नावतरति । लाघवेन जन्यत्वसामान्याभावत्वेनैव व्याप्यतासम्भवेन शरीरविशेषणवैयर्थ्यादिष्टापत्तित्वादिति यथा मण्यादावुक्तम् । तथा 'स्वबाधकेत्यादिकं मिथ्यात्वव्यापकं यदि न स्यात् तदा तदभावव्याप्यस्वाभावकं न स्यादि'त्यापत्तेरिष्टत्वात् लाघवात् दोषप्रयुक्तभानत्वाभावत्वेनैव व्याप्यतासम्भवेन स्वबाधकेत्यादिवैयर्थ्यादित्यर्थः। यत्र तु विशिष्ट प्रतियोगिकाभावत्वेनैव व्याप्यता ।व्यर्थविशेषणत्वाद्यभावात् । तत्र विशिष्टरूपेणापि व्यापकत्वम् । तर्कप्रसरात् । उक्तं हि मणावीश्वरवादे-'धूमविशेषादौ चन्दनवह्नयादेः कारणत्वाद्विपक्षबाधकेन विशिष्टस्य व्यापकत्वात् विशिष्टप्रतियोगिकाभावत्वेनैव हेत्वभावव्याप्यता । यत्र तु विपक्षे बाधकं नास्ति, तत्र विशिष्टव्यापकता नास्ती'त्यादि । न च शरीरजन्यत्वाभावे जन्यत्वसामान्यामावत्वस्यासत्त्वात् तत्र शरीरांशस्य तेन न वैयर्थ्यम् । धूमत्वेनेव धूमप्रागभावत्वादेः । स्वसमानाधिकरणव्याप्यतावच्छेदकान्तरघटितत्वस्य व्यर्थ१. 'धूमत्वेनेव धूमप्रागभाव प्रागभावत्वादेः' इंति पाठान्तरम् ।।
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र ० दे उपाधिभङ्गः ]
www.kobatirth.org
लघुचन्द्रिका |
विशेषणतारूपत्वादिति वाच्यम् । विशेष्यविशेषणाभावयोरेव विशिष्ठाभावत्वात् येन विशेषणेन विनापि व्याप्तिर्गृह्यते, तदेव व्यर्थविशेषणमिति स्वीकाराच्च । उक्तं हि मणौ-‘उक्तस्थले शरीराजन्यत्वे व्यर्थविशेषणत्वम् । लाघवेनाजन्यत्वस्यैव व्याप्यत्वात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते । तस्यैव व्याप्यतावच्छेदकत्वनियमात् । अत एव घ्राणं पार्थिवम् । रूपादिषु मध्ये गन्धस्यैव व्यञ्जकत्वात् । इत्यादौ रूपादिषु मध्ये इति असिद्धिमात्र वारकमपि न व्यर्थम् । तेन विना व्यात्यग्रहादिति । किं च तर्काप्रसरादित्यनेन व्यापकता ग्राहकतर्कमात्रमुपाधित्वे बीअमित्युक्तत् । पूर्वोक्तमणिवाक्येऽपि तथोक्तम् । तथा च व्यर्थविशेषणत्वाभावेsपि शरीरजन्यत्वं यथा नोपाधिः । तादृशतर्काभावात् । तथा स्वबाधकेत्या - दिकमित्यत्र प्रकृतग्रन्थतात्पर्यम् । व्यतिरेके व्यर्थत्वं तु तादृशतकमसरबीजोपलक्षणत्वेनोक्तम् । ननु, यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वम्। तस्मिन् साध्ये श्यामत्वमुपाधिः । तथा दृश्यत्वादिना मिथ्यात्वे साध्ये दोषप्रयुक्तभानत्वम् । तस्मिन् साध्ये मिथ्यात्वमुपाधिरस्तु । युगपदुभयसाधने तु अप्राप्तकालत्वम् । मिध्यात्वे एव केवले विप्रतिपत्तेः । तत्राह - दृश्यत्वादिनेति । युगपदुभयसाधनेऽपि नाप्राप्तकालत्वम् । मिथ्यात्वत्वावच्छिन्नविधेयताकानुमितेरेव प्राप्तकालत्वात् । समूहालम्बनानुमितेरपि तथात्वात् । अथ यथा पर्वतावयववृत्तीतिविशेषणकृता पर्वतावयवरूपादेर्व्यावृत्तिर्नोपाधितायां उपयुज्यते । किं तु पक्षव्यावृत्तिरेव । साधनाव्यापकत्वसम्पादकत्वात् । अत उपाधित्वौपयिकी या विपक्षव्यावृत्तिः तदसम्पादकत्वादुक्तविशेषणस्य पक्षमात्रव्यावर्तकत्वं मण्यादायुक्तम् । स्पष्टं चेदं दीधित्यादौ । तथा: समव्याप्तिसम्पादकस्याप्यधिष्ठानेत्यादिविशेषणस्य यत् ब्रह्मव्यावर्तकत्वं तस्य साध्यासमानाधिकरणस्याधिकरणं यत् साधनवदित्यादिपूर्वोक्तोपाधिलक्षणानौपयिकत्वात् । साधनाव्यापकत्वसम्पादकविपक्षव्यावृत्त्यसम्पादकत्वेन पक्षमात्रव्यावर्तकत्वमक्षतम् । आर्द्रेन्धनादेस्तु आर्द्रत्वादिविशेषणकृतायोगोलकादिव्यावृत्तिः साधनाव्यापकत्वसम्पादकत्वादुपाधित्वौपयिकीत्याशयेनाह — अतएवेति । समव्याप्तिसम्पादकत्वेऽप्युक्तरीत्या पक्षमात्रव्यावर्तकत्वादेवेत्यर्थः । ब्रह्मणीवेत्यादि । स्वजनकाज्ञानविषयावच्छेदकत्वरूपाधिष्ठानत्वघटितोतोपाधिर्यथा ब्रह्माणि नास्ति । तज्जनकाज्ञानाप्रसिद्धेः । तथा तत्र कल्पिते क्षणिकत्वादावपि । तज्जनकाज्ञानविषयब्रह्मावच्छेदकत्वाप्रसिद्धेः ॥ तत्प्रसिद्धिस्तु शुक्तिरूप्यादौ । खंजनकाज्ञानविषयसमसत्ताकदोषनिवेशे तु तत्राव्यप्रसिद्ध्या साध्याव्यापकत्वमपि । ब्रह्ममात्रेति । अवान्तरसात्पर्यविषयत्वं यागादिनिष्ठे स्वर्गादिसाधनत्वे । न तु यागादौ । 'अर्गेऽनुपलब्धे तत्प्रमाण' मिति जै
-
4
Acharya Shri Kailassagarsuri Gyanmandir
११५
For Private and Personal Use Only
-
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११६
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
मिन्युक्तेरज्ञातार्थ एव श्रुतितात्पयाक्तेः साधनत्वादिविशिष्टतया यागादाविव मिध्यात्वविशिष्टतया दृश्यमात्रे श्रुतितात्पर्यात् साध्याव्यापकत्वापत्तेः परमतात्पयमेव निवेश्यमिति भावः । ( दोषजन्यधीविषयत्वं परोक्तं साधनव्यापकम् । प्रतिभासमात्रशरीरत्वं अज्ञानविषयतानवच्छेदकत्वं प्रातीतिके सर्वत्र स्वकालावच्छेदेनास्ति । स्वकालान्यकालावच्छेदेन तत्रोक्तविषयतावच्छेदकत्वम् । तथा च तदनवच्छेदकत्वं साध्यं व्यामोति । न तु साधनमिति भावः । परेषां माध्वानाम् । शु क्तिरूप्यादीनामत्यन्तासत्त्वेन तेषु तदसिद्धेः । अपरोक्षतया भासमान एव ह्यज्ञानविषयतानवच्छेदकत्वं नित्यपरोक्षे त्वली के तत् न भातीति प्रत्ययादज्ञानविषयतावच्छेदकत्वमेव । न च शुक्तिरूप्यत्वादिकं दोषवशादपरोक्ष भ्रमकाले अपरोक्षतया मातीति तदा अज्ञानविषयतानवच्छेदकत्वं सम्भवति । कालान्तरे तु उक्तविषयतावच्छेदकत्वम् । न भातीति प्रत्ययात् इति वाच्यम् । कालस्यालीकासम्बन्धित्वेनावच्छेदकत्वासम्भवात्। तस्मादधिष्ठानतादात्म्यादेव भातीति प्रत्ययो भ्रमविषय इति साध्याव्यापकत्वमित्यर्थः । न चात्यन्तासत्त्वादेव नाज्ञानविषयतावच्छेदकत्वम् । उक्तविषयता हि चित्येव वाच्या । विषयासम्बन्धस्य त्वलोकस्य तदवच्छेदकत्वासम्भव इति वाच्यम् । असम्बद्धस्याप्यलीकस्यातीतानागतयोरिव ज्ञानविषयितायामिवाज्ञानविषयितायामप्यवच्छेदकत्वसम्भवात् । ) स्वकालत्वव्यापकस्वधीकत्वं प्रतिभासमात्रशरीरत्वमित्युक्तावपि शुक्तिरूप्यादौ तदसिद्धिः । असतः स्वकालाप्रसिद्धेः । चकारः उक्तोपाधिषु दोषान्तरसमुच्चायकः । तथा हि स्वबाधकेत्यादौ स्वबाधकबाध्यत्वं यदि स्वजनकाज्ञाननिवर्तक निवर्त्यत्वं तदा जनकत्वस्य स्वावच्छेदकघटितत्वात् स्वजनकत्वस्य शुक्त्यवच्छिन्नचिद्विषयकाज्ञानत्वादिरूपावच्छेदकभेदेन भिन्नत्वात् स्वनिवृत्तिजनकत्वस्य शुक्तित्वप्रकार केदविशेष्यकत्वादिरूपावच्छेदकभेदेन भिन्नत्वादननुगमः । न हि स्वत्वस्यानुगतत्वेऽपि तदनुगमसम्भवः । द्रव्यजनंकतात्वेन रूपेण कपालतन्तुत्वाद्यवच्छिन्नजनकतानामनुगमापत्तेः । पल्लवाज्ञानास्वी - कारपक्षे शक्तिरूप्यादिबाधकब्रह्मज्ञानावाध्यदोषाप्रसिद्धिः । यदि च स्वबाधकबाध्यत्वं स्वमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वं तदा निश्चयत्वस्य तत्तद्धर्मितावच्छेदकादिभेदेन नानात्वादननुगमः । 'नेह नानास्ती' त्यादिश्रुत्यादिना दृश्यमात्रस्य मि
"
१. 'प्रतिभासमात्रेति । दोषजन्यधीविषयत्वं परोक्तं साधनव्यापकम् । प्रतिभासमात्रशरीरत्वं अज्ञानविषयानवच्छेदकत्वं प्रातीतिक एव सत्त्वात् साध्य व्याप्नोति । न तु साधनमिति भावः । परेषां माध्वानाम् । शुक्तिरूप्यादीनामत्यन्तासत्त्वेन तेषु तदसिद्धेः साध्याव्यापकत्वमित्यर्थः । न च अत्यन्तासत्त्वादेव तत्र नाज्ञानविषयावच्छेदकत्वमिति वाच्यम् । असतः सत्त्वेन धीवादिनां भवतां तत्सम्भवात् 'शशशृङ्गं सदि' ति धीवत् शशशृङ्गाज्ञानस्य युक्तत्वात् ।' इति क.ख. पाठः ।
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आभाससाम्यभङ्गः.]
लघुचन्द्रिका ।
थ्यात्वेन निश्चितत्वात् तादृशदोषाप्रसिद्धिः । एवं दोषत्वस्यैकस्याभावात्तेन रूपेण सर्वदोषाणामनुगमासम्भवः । अन्यतमत्वरूपेण दोषाणां निवेशे अनन्तदोषघटितान्यतमत्वस्य दुर्जेयतापत्तिः । तावदन्यतमत्वव्यक्तः स्वरूपतो निवेशे अविद्याद्यन्यदोषाणामेव तावदन्यतमत्वस्वरूपेण निवेशसम्भवेन अबाध्यान्तवैयर्थ्यापत्तिः । तेन रूपेण साध्यव्यापकताग्राहकतर्काभावश्च । अन्यथा प्रातिभासिकानामन्यतमत्वरूपेणैव तादात्म्यसम्बन्धेनोपाधित्वस्यापत्तिः । किं च स्वान्नादिभ्रमे प्रातीतिकदोषस्यापि सम्भवेन तस्य स्वबाधकजाग्रदादिबोधबाध्यत्वेन साध्यव्यापकत्वहानिश्च । एवमुपाध्यन्तरेष्वपि दोषा बोध्याः ॥ इति लघुचन्द्रिकायां उपाधिभङ्गः ॥
आभाससाम्यमिति । उक्तानुमानाभासः यथा न साधकः, तथा प्रपञ्चमिथ्यात्वानुमानमित्यर्थः । प्रपञ्चमिथ्यात्वानुमाने नानुपपत्तिः । उक्तानुमाने तु सास्तीत्यतो न तयोः साम्यमित्याशयेनाह-जगत इत्यादि । जगतो व्यावहारिकमात्रस्य । व्यावहारिकसत्त्वेति । अज्ञातसत्त्वेत्यर्थः । व्यवहारोति । चक्षुरादिजन्यवृत्तिप्रत्यभिज्ञानादीत्यर्थः । अज्ञातत्वावच्छेदकघटाद्यस्वीकारे चक्षुरादिजन्यवृत्तेविषयेन्द्रियसम्बन्धजन्याया अनुपपत्तिः । पूर्वदृष्टस्य दृश्यमानेनैक्यप्रत्यभिज्ञादेश्चानुपपत्तिरिति भावः । अप्रयोजक इति । मिथ्यात्वाभावेऽपि ब्रह्मणि मिथ्याभूतवृत्तिविषयत्वस्य सम्भवादिति भावः । ब्रह्मणस्साक्षित्वादिना तत्र बाधकप्रमाणं नावतरतीत्यपि बोध्यम् । तच्चेति । सत्तादात्म्यतत्वान्यतरवत्त्वरूपमुक्तार्हत्वम् । निर्धर्मके शुद्धब्रह्मणि नास्ति । किं तु तदुपहितब्रह्मणीत्यर्थः । शुढे स्वीकृतमपि तदप्रयोजकमित्याशयेनाह-शून्यवादस्येति । दृग्दृश्ययोस्तादात्म्यमनुपपन्नम् । तस्य हि सम्बन्धान्तरसत्त्वे तस्यापि सम्बन्धान्तरमित्यनवस्था । सम्बन्धान्तरासत्त्वे तु न तस्य सम्बन्धत्वमुपपद्यते । असम्बन्धत्वात् । अतस्तस्य मिथ्यात्वं स्वीक्रियते । तथा च स्वप्नेन्द्रनालादाविवानुपपत्तिः न दोष इत्यसम्बन्धस्याऽपि सम्बन्धत्वम् । एवं तस्येव तदनुयोगित्वप्रतियोगित्वविशिष्टरूपेण दृश्यदृशोरपि मिथ्यात्वं युक्तम् । शुद्धायास्तु दृशस्तदसंसर्गेण न मिथ्यात्वसिद्धिः । ढग्दृश्यसम्बन्धानुपपत्तिरूपतर्कस्य तादृशसम्बन्धानुयोगिप्रतियोगिनोरेव मिथ्यात्वप्रापकत्वात् । अत एवोक्तं आचार्यैौद्धाधिकारे–'तस्यासंसृष्टत्वेनं न तत्र तर्कावतारः । तस्य संसृष्टमादायैव प्रवृत्तेः।' इति ॥
॥ इति लघुचन्द्रिकायां आभाससाम्यभङ्गः ॥ चक्षुरादीति । चक्षुरादिरूपं यदध्यक्षं प्रत्यक्षप्रमाणं, तद्योग्यस्य मिथ्यात्वविरोधिनः सत्त्वस्य निरूपणासम्भवादित्यर्थः । मिथ्यात्वाभावरूपं स.
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११८
www.kobatirth.org
अद्वैतमञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
1
वं मिथ्यात्वविरोधि । न तु चक्षुरादेर्योग्यम् । तद्योग्यमपि सद्रूपब्रह्मतादात्म्यरूपं सत्त्वं न मिथ्यात्वविरोधीति भावः । प्रमाणाप्रवृत्तेः प्रमारूपवृत्तेर्विषयतासम्बन्धेन उत्पादकसामग्य्यभावात् । प्रमाविषयत्वात् विषयितासम्बन्धेन प्रमोत्पत्तेः । तस्य सस्वस्य । तदन्यत्वात् प्रमाविषतयान्यत्वात् । व्यबसायेति । इदं रजतं जानामीत्यस्यां भ्रमस्य प्रमायां व्यवसायांशे रजतस्य विशेषणत्वात् नेदं रजतमित्यस्यां निषेधस्य प्रमायां निषेधांशे रजतस्य विशेपणत्वादित्यर्थः । सर्वस्येति । क्षणिकार्थास्वीकर्तृभिरिति शेषः । अत एव सर्वत्र क्षणिकत्वादिभ्रमविशेष्यत्वादेव | अविषयत्वमपीति । तादृशसत्त्वमित्यनुषज्यते । आत्माश्रयादिति । यद्यपि पूर्वोक्तान्योन्याश्रयस्थले आत्माश्रयत्वमप्यस्ति । प्रकृतेऽप्यन्योन्याश्रयत्वमस्ति । सत्त्वप्रमानिरूपणे तद्विषयत्वरूपसत्त्वनिरूपणं तन्निरूपणे च तादृशनमानिरूपणमिति, तथाप्यन्योन्याश्रयत्वस्य पूर्ववत्मकते ज्ञातुं शक्यत्वादात्माश्रयत्वस्यापि प्रकृतवत् पूर्वं बोद्धुं शक्यत्वादेकैकमुतम् । प्रतिपन्नेत्यादि । त्रैकालिकस्य स्वसत्ताभावस्य स्वधीविशेप्यदेशकालावच्छिन्नत्वरूपेण स्वस्मिन् या धीः 'रजतमत्र नास्ति नासीन्न भविष्यती' त्यादिरूपा । तद्विषयत्वस्य शुक्तिरूप्यादिनिष्ठस्याभाव इत्यर्थः । स्वपदैरेशुक्तिरूप्यादेरेव ग्रहणम् । एतेषां प्रमाविषयत्वादीनामसद्विलक्षणत्वपर्यन्तानामुक्तानाम्। मिथ्यात्वाविरोधित्वेन मिध्यात्वात्यन्ताभावमिथ्यात्ववद्भेदमिथ्यात्वासमानाधिकरणधर्मरूपत्वाभावेन । बाधाभावात् बाधहेत्वाभासस्य त्वया वक्तुमशक्यत्वात् । तत्मत्यक्षेणेति । सत्तायाः प्रत्यक्षसम्भवेऽप्यन्ययोर्न सइत्यपि बोध्यम् । प्रत्यक्षबाधस्यैवोपक्रान्तत्वेनाप्रत्यक्षवाघस्य प्रकृतानुपयोगात् । अस्तित्वेत्यादि । अस्तित्वप्रकारत्वनिरूपितं प्रमाविशेष्यत्वमित्यर्थः । वर्तमानत्वं कालसम्बन्धित्वम् । न तु तत्तत्कालवृत्तित्वम् । अननुगमात् प्रयोजनाभावाच्च । चक्षुराद्ययोग्यत्वेन चेति । अनेन मिथ्यात्वाभावादिरूपपूर्वोक्तस्याप्ययोग्यत्वं सूचितम् । बाधेन तात्विकेति । तात्विकत्वेन कालसम्बन्धस्य निषेधेऽपि कालसम्बन्धत्वेनानिषेधात् । कालसम्बन्धत्वेन निषेधपक्षेऽपि प्रतियोग्यभावयोर्मिनसत्ताकत्वेनाविरोधादित्यर्थः । अनिर्वाच्यं निर्वक्तुमशक्यम् । इह प्रपञ्चे । तथा चावयोन्निर्वचनासामर्थ्ये मामेव प्रति न पर्यनुयोग इति भावः । तुच्छस्येति । स्वसमानसत्ताकाभावप्रतियोगित्वस्यैव परिच्छेदरूपत्वेनेत्यादिः । न च प्रपञ्चेऽपि परिच्छेद इव तदत्यन्ताभावोऽप्यस्ति । परिच्छेदस्य मिथ्यात्वात् । तथा च तुच्छानुधावनं व्यर्थमिति वाच्यम् । परिच्छिन्नभेदस्यैवोक्तत्वेन तस्य प्रपचे विरहात् । अन्यदेव अवाध्यत्वेोपलक्षितस्वरूपत्वमेव । स्वप्रकाशेत्यादि । वस्तुगत्या स्वप्र
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षबाधोद्धारः]
लघुचन्द्रिका ।
१.१९
काशा अद्वितीया च अबाध्यत्वोपलक्षिता या चित् । तत्स्वरूपं ब्रह्मणो धर्मत्वेन कल्पितं सत्त्वम् । तदेव यदि जगतस्सत्त्वं, तदा जडेभ्योऽत्यन्तभिन्नत्वात् जडधमत्वं वक्तुमशक्यम् । अत्यन्तभेदे धर्मधर्मिभावस्य त्वयाप्यस्वीकारात् । तथा च जडात्यन्तभिन्नत्वेन जडत्वविरोध्यपि तादृशसत्त्वं कल्पिताजडतादात्म्यात् । धर्म इति वाच्यम् । ततश्च ब्रह्मणः अत्यन्ताभिन्नमपि तत् कल्पितेन ब्रह्मभेदेन यथा ब्रह्मधर्मः, तथा जडादत्यन्तभिन्नमपि कल्पितेन जडतादात्म्येन जडानां धर्म इति युज्यते । परन्तु यत् ब्रह्मण्यारोपितं तत्रैव ब्रह्मधर्मस्य तादृशसत्त्वादेः संसर्गारोपः । शुक्तिधर्मस्य सत्वेदन्त्वादेश्शुक्त्यारोपितरजतादावेव संसर्गारोपवत् । तथा च रजतत्वविरोधिनः शुक्तिसत्त्वादेस्संसर्गारोपान्यथानुपपत्त्या रजतस्य शुक्तावारोपितत्वसिद्ध्येव जडत्वविरोधि ब्रह्मसत्त्वादेरारोपान्यथानुपपत्या जडानां ब्रह्मण्यारोपितत्वसिद्ध्या मिथ्यात्वसिद्धिरिति भावः । नतु, ब्रह्मणोऽबाध्यत्वोपलसितस्वरूपत्वे भ्रमाधिष्ठानत्वमेव प्रयोनकम् । तथा च शुक्त्यादिव्यावहारिकप्रपञ्चस्यापि तत एव तदस्तु । ततश्च यथा ब्रह्मस्वरूपं सत्ता । तथा शुक्त्यादिस्वरूपमपि भेदकल्पनया शुक्त्यादिधर्मः । न तु ब्रह्मधर्मसत्तादेः शुक्त्यादौ संसृष्टतयारोपः । यद्वलात् ब्रह्मणि शुक्त्यादेरारोप आनीयते । तत्राह-चैत. न्यस्यैवति । अवच्छिन्नेत्यादि । अवच्छिन्नञ्चानवच्छिन्नञ्च तत् अवच्छिन्नानवच्छिनमिति समाहारद्वन्द्वः । तादृशं यदज्ञानविषयत्वं तेनेत्यर्थः । रुप्यादिभ्रमोपादानाज्ञानविषयत्वं शुक्त्याद्यवच्छिन्नम् । शुक्त्यादिप्रपञ्चभ्रमोपादानाज्ञानविषयत्वमनवच्छिन्नम् । तदुभयमपि चित्येव । जडे स्वतः प्रकाशत्वाप्रसक्त्या तद्वैयर्थ्यादिति भावः । सर्वदेशीयकालिकनिषेधेति। कालानवच्छिन्नं यत् सर्वदेशावृत्तित्वं तद्विशिष्टात्यन्ताभावेत्यर्थः । अनिर्वचनीयेति । प्रातीतिकेत्यर्थः । प्रातीतिके औपनिषदमते तादृशप्रतियोगित्वं सिद्धम् । माध्वमते तु तस्यैव तुच्छत्वात्तत्रैव सिद्धम् । जगति वियदादौ । कस्मिंश्चिदित्यादि । मूर्तेषु संयोगेन विभुषु संयोगेन संयुक्तमत्तसंयोगेन वा गुणादौ संयुक्तसमवायादिना आकाशस्य सत्वेनाकाशात्यन्ताभावस्यासम्भवात् । उत्पत्तिक्षणावच्छेदेन द्रव्ये तत्सम्भवेऽपि तस्य व्याप्यवृत्तित्वाभावेन प्रकतानुपयोगात् । यद्यपि कस्मिंश्चिद्देशे काले वाकाशाभावो विद्यमानोऽपि प्रकृतानुपयुक्तः, तथापि कैमुतिकन्यायेन तथोक्तम् । कस्मिंश्चिद्देशे काले तदसत्त्वे सर्वत्र तत्र सुतरां तदसत्त्वमिति भावः । नित्यत्वे. त्यादि । यंदा आकाशस्य तादृशोऽत्यन्ताभावः, तदा तस्य ध्वंसः प्रागभावो वा वाच्यः । तथा चानित्यत्वं स्यात् । यत्र द्रव्ये आकाशस्यात्यन्ताभावः तत्र तस्य सं.
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
अद्वैतमञ्जरी ।
योगो न जात इति वाच्यम् । अन्यथा हि तत्संयोगतदत्यन्ताभावयोः विरोधः । न च तत्संयोगस्य वृत्त्यनियामकत्वेन तदत्यन्ताभावाविरोधित्वमिति वाच्यम् । चित्सुखीयानुमाने तस्यापि तद्विरोधस्योक्तत्वात् । 'अत्राकाश मिति प्रत्ययेन तत्संयोगस्य वृत्तिनियामकत्वाच्च । तथा चाकाशस्य यत्र द्रव्ये अत्यन्ताभावः तत्र तत्संयोगानुत्पत्तेरावश्यकत्वे सर्वमूर्तसंयोगित्वरूपं विभुत्वं न स्यात् । यद्यपि तत्संयोगिनि समवायादिना तदत्यन्ताभावो न विरुद्ध इति वक्तुं शक्यते, तथापि तदीयसंयोगस्य तदत्यन्ताभावेनैव विरोधो लाघवादिति प्रतिपन्नेत्यादिमिथ्यात्वलक्षणोक्ताभिप्रायकमिदम् । अत एव नित्ये जलीयरूपादावपि संयुक्तसमवायादिसम्बन्धेनाकाशसत्त्वात् न नदत्यन्ताभावः । अन्यथा हि तादृशरूपादिमति आकाशसंयोगस्य वक्तुमशक्यतया आकाशस्य विभुत्वं न स्यात् । अथवा यावन्तस्सम्बन्धाः प्रसिद्धाः तावदन्यतमावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य प्रकते निवेशात् नित्यरूपादौ तादृशस्याकाशाद्यभावस्यासत्त्वान्न दोषः । यत्तु सर्वकालवृत्तित्वमेवाभावे विशेषणं देयम् । न तु सर्वदेशीयत्वम् । अश्वाद्यवच्छेदेन गोत्वाद्यभावो न कदापि वर्तते । मानाभावात्। इदानीमश्वे गोत्वं नास्तीति धीस्तु गोत्वाश्वत्वयोरलीकसंसर्गस्यात्यन्ताभावमवगाहते । न तु गोत्वस्य । तथा च गोत्वादौ सर्वकालवृत्त्यत्यन्ताभावप्रतियोगित्वाभावसत्त्वात् तत्र नाव्याप्तिः । सर्वदेशवृत्त्यत्यन्ताभावप्रतियोगित्वाभावस्तु, न लक्षणम् । घटादौ तादृशप्रतियोगित्वसत्त्वात् तत्राव्याप्तेः । घटादेहि स्वाधिकरणभूतलादितो अपसारणकाले तत्रात्यन्ताभावः प्रतीयते । 'अत्र भूतले इदानी घटो नास्तीति धार्हि घटस्यैवात्यन्ताभावं गृह्णाति । घटस्यैवोक्तकाले उक्तभूतले आरोपसम्भवादारोपितस्यैवालीकत्वेनात्यन्ताभावप्रतियोगित्वा दिाते माध्वेनोक्तमयुक्तम् । गोत्वादेरप्यश्वादावारोपसम्मवेन तत्राव्याप्तितादवस्थ्यात् अलीकस्यैवात्यन्ताभावप्रतियोगित्वमिति नियमे मानाभावाच्च । यदि च तादृशनियमस्स्वीक्रियते, तदा अत्यन्ताभावप्रतियोगिता न केनापि धर्मेण सम्बन्धेन वा अवच्छिन्ना । अलीकस्य सर्वदेशकालासम्बन्धेन धर्मविशेषसम्बन्धविशेषावच्छेदकत्वेऽनपेक्ष्यैव तदत्यन्ताभावस्य सर्वत्र सम्भवात् । अत एव 'ध्वंसप्रागभावप्रतियोगिता तादृशी' ति नव्याः । तथा च तव मते सम्बन्धधर्मविशेषाणां संसर्गाभावप्रतियोगितावच्छेदकत्वस्यानुभूयमानस्यापलापापत्तिः । वृत्तिमत्पतियोगिकत्वेति । वृत्तिमत्त्वेन यत् माध्वभिन्नस्य सम्मतं तन्मात्रनिष्ठप्रतियोगिताकत्वेनेत्यर्थः । यथाश्रुते सवदेशकालवृत्तेर्वृत्तिमत्प्रतियोगिकाभावस्याप्रसिद्धेः गगनघटोभयाभावादेरवारणा
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र ० दे प्रत्यक्षबाधोद्धारः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
१२१
1
च । नहीत्यादि । ( तादृशवृत्तिमव्यतियोगिकाभावस्यातीन्द्रियघटितत्वात् तद्घटितरूपावच्छिन्नं यद्यत्र स्यात्तदोपलभ्येतेत्यापादनासम्भवात् अतस्सतोऽपि तस्यातीन्द्रियत्वेनानुपस्थितिसम्भवात् । ) सर्वदेशीयत्वत्रैकालिकत्वादिरूपेण तु सुतरामभावोन प्रत्यक्षः । तादृशरूपस्यायोग्यत्वात् । तथा च तादृशाभावप्रतियोगितात्वरूपेणापि प्रतियोगित्वस्य प्रत्यक्षासम्भवेना योग्यतादृशरूपावच्छिन्नप्रतियोगिताकाभावो न प्रत्यक्ष इत्यर्थः । प्रतियोगित्वाभाव इति । योग्यत्वादिति शेषः । वर्तमानकालेति प्रकृतदेशेति च स्वकालदेशार्थकम् । तत्र निषेधेति । स्वकालदेशवृत्तिनिषेवेत्यर्थः । तत्संवलितेत्यादि । स्वदेशकालवृत्तिवटितो यः कालत्रयवर्ती सर्वदेशीयनिषेधः तत्प्रतियोगित्वरूपमित्यर्थः । यद्यपि नेदं दूषणं सम्भवदुक्तिकम् । न हि सर्वदेशकालवृत्तीत्यत्र देशकालानां सर्वेषां तत्तद्व्यक्तित्वैर्निवेश सम्भवति । तादृशोपस्थितेर्युगसहस्त्रेणाप्यसम्भवात् । किं तु देशत्वकालत्वव्यापकत्वेनात्यन्ताभावो निवेश्यः । तथाच तादृशव्यापकत्वस्य सर्वदेशकालव्यक्त्यघटितत्त्वेन स्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वाभावधीकालेऽपि तादृशमिथ्यात्वस्य धीस्सम्भवत्येव । स्वदेशनिष्ठात्यन्ताभावाप्रतियोगित्वविशिष्टबुद्धिर्हि स्वदेशनिष्ठात्यन्ताभावप्रतियोगित्वविशिष्टबुद्धौ प्राह्यामावनिश्वयविधया विरोधिनी । न तु देशनिष्ठात्यन्ताभावप्रतियोगित्वविशिष्टबुद्धौ । न हि नीलघटाभावबुद्धिर्घटवत्ताधीविरोधिनी । देशत्वव्यापकात्यन्ताभावप्रतियोगित्वधियस्तु सुतरां न विरोधिनी । देशवृत्त्यत्यन्ताभावाप्रतियोगित्वस्य तद्धटे तस्यामभानात् । अथैवमपि घटादेस्सत्यत्वमतेऽपि किञ्चित्कालावच्छेदेन सर्वदेशेषु किश्चिदेशावच्छेदेन सर्वकालेषु चात्यन्ताभावस्वीकारात् सर्वकालावच्छेदेन सर्वदेशवृत्तिको योऽत्यन्ताभावः तत्प्रतियोगित्वमेवासत्त्वं वाच्यम् । सर्वदेशवृत्तित्वं च देशत्वव्यापकत्वमेव । तथा चाप्रसिद्धिः । असत्प्रतियोगिकाभावस्य कालावच्छिन्नत्वे मानाभावादिति चेन्न । अत्र हि देशत्वव्यापककालानवच्छिन्नाधिकरणताकत्वेन कालत्वव्यापकदेशानवच्छिन्नाधिकरणताकत्वेन वा विशिष्टोऽत्यन्ताभावो निवेश्यः । देशत्वं च कालिकान्यसम्बन्धावच्छिन्नाधिकरणत्वम् । कालत्वं कालिकसम्बन्धावच्छिन्नाधिकरणत्वम् । एवं च ता'दृशात्यन्ताभावप्रतियोगी तद्धट' इति ज्ञानं प्रति 'स्वदेशकालवृत्त्यत्यन्ताभावाप्रतियोगी तद्धट' इति ज्ञानस्य प्रतिचन्वकत्वं नास्त्येव । तथापि सम्भवदुक्तिकतामङ्गीकृत्य दूषयति न स्वदेशेति । सकलेत्यादि । तादृशनिषेधानां मध्ये अतीन्द्रियप्रतियोगिकाभावस्यापि सम्भवेन तत्प्रतियोगित्वस्यायोग्यत्वात् तत्साधारणतादृशप्रतियोगि
For Private and Personal Use Only
१. वृत्तिमत्प्रतियोगि काभावो न प्रत्यक्षः । ' यद्यत्र वृत्तिमान् स्यात् तदोपलभ्येत ' इत्यापादनासम्भवात् । अत्र सतोऽपि वृत्तिमतः अतीन्द्रियत्वेनानुपलब्धिसम्भवात् । इति पाठान्तरम् ।
१६
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
अद्वैतमञ्जरी
तात्वावच्छिन्नाभावो न प्रत्यक्षः । 'यद्यत्र तादृशप्रतियोगित्वं स्यात् तदोपलभ्येते त्यापादनासम्भवादिति भावः । पूर्वोक्तति । स्वात्यन्ताभावीयसकलाधिकरणवृत्तित्वस्यायोग्यत्वेन सुतरां तदभावस्यायोग्यत्वादित्येवंरूपेत्यर्थः । तथा च व्यवहितविप्रकृष्टतादशाधिकरणवृत्तित्वस्य सत्त्वेऽप्यनुपलब्धिसंभवात्तदुपलब्धेरापादनासम्भवात्तादृशाभावो न प्रत्यक्ष इति भावः । अयोग्यत्वमिन्द्रियासनिकर्षेण प्रत्यक्षाविषयत्वमेव । तच्च उक्ताभावे नास्ति । सामान्यप्रत्यासक्तिरूपस्यालौकिकस्यन्द्रियसन्निकर्षस्य सत्त्वादित्याशयेन शङ्कते-नन्वित्यादि । अयोग्यत्वं यदस्माभिरुक्तं तल्लौकिकप्रत्यक्षविषयत्वायोग्यत्वमेव । लौकिकप्रत्यक्षरूपस्यैव बाधस्योपक्रान्तत्वात् । तन्मूलीभूतापादनविषयस्य प्रतियोग्युपलम्भस्य लौकिकस्यैवापेक्षितत्वेन तस्यैव मया खण्डनीयत्वात् । तादृशायोग्यत्वं च उक्ताभावे अस्त्येवेत्याशयेन समाधत्ते-मैवमिति । योग्यप्रतियोगिक इति । स्वप्रतियोग्युपलम्भापादकतायोग्यप्रतियोगिक इत्यर्थः । यादृशप्रतियोगिनस्सत्त्वेन इन्द्रियसन्निकर्षादिविशिष्टेन तदुपलब्धिरापादयितुं शक्यते, तादृशप्रतियोगिक इति यावत् । संसर्गाभाव इति । अभावमात्रं विवक्षितम् । येन संसर्गेण प्रतियोगिनो वैशिष्ट्यं तदुपलम्भस्यापादक, तेन संसर्गेणावच्छिन्नप्रतियोगिताकोऽभावः प्र. त्यक्ष इति ज्ञापयितुं संसर्गपदमुक्तम् । तत्संसगावच्छिन्नत्वं च तदन्यसंसर्गानवच्छिन्नत्वरूपं बोध्यम् । तेन प्रागभावप्रतियोगितानां संसर्गानवच्छिन्नत्वेऽपि न क्षतिः । तथा च यद्युक्तप्रतियोगितात्वविशिष्टं प्रतियोगित्वं स्यात् , तदोपलभ्येतेत्यापादनासम्भवात् नोक्ताभावो लौकिकप्रत्यक्षः। उक्तं हि दीधित्यादौ 'यथा विद्यमानमपि वद्वित्वे रासभादिदेशनिष्ठाभावप्रतियोगितावच्छेदकत्वं न गृह्यते । अभावदेशविप्रकर्षादिनेन्द्रियसन्निकर्षादिरूपग्राहकाभावात् , तथा धूमवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वमपीति नानुपलब्धेः प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितमतियोगिकरवाणयोग्यतेति तदभावो नाध्यक्ष इति । अत्रायं भावः । यद्यपि प्रतियोगितातदवच्छेदकयोस्सत्त्वेन्द्रियसन्निकृष्टत्वापत्त्या प्रत्यक्षापत्तिः । तथा पि धूमवदादेरिन्द्रियासन्निकर्षादतीन्द्रियपिशाचपरमाण्वादिरूपत्वस्यापि सम्भवाच्च। तन्निष्ठाभावानामपि तथात्वाच्च तद्धटितरूपेणोक्तावच्छेदकत्वस्य प्रत्यक्षापत्त्यसम्भवात् नोक्तरूपावच्छिन्नाभावः प्रत्यक्षः । न हि प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणस्य लौकिकप्रत्यक्षापत्त्यसम्भवे अभावस्य लौकिकप्रत्यक्षम् । किञ्चाभावादिप्रत्यक्ष विना प्रतियोगिताया अपि न प्रत्यक्षापत्तिः । सम्बन्धप्रत्यक्ष सम्बन्धिप्रत्यक्षस्य हेतुत्वात् । एतेन योग्यप्रतियोगिक इत्यादेः योग्यप्रतियोगिकान्यः
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षबाधोद्धारः]
लघुचन्द्रिका ।
संसर्गाभावो न योग्य इति नार्थः । उक्तप्रतियोगित्वाभावस्य योग्यायोग्यप्रतियोगिकत्वेन योग्यतापत्तेः । नाप्ययोग्यप्रतियोगिकः संसर्गाभावो न योग्य इत्यर्थः। महावायौ योग्यायोग्योद्भूतरूपसामान्याभावस्य प्रत्यक्षमिति दीधित्यादावुक्तत्वात् । नाप्ययोग्यधविच्छिन्नप्रतियोगिताकात्यन्ताभावो न योग्य इत्यर्थः। तावतापि स्तम्भे पिशाचादेरिव योग्ये घटादावुक्तप्रतियोगित्ववद्रोदस्य प्रत्यक्षत्वानिराकरणेन बाधसामान्यानुद्धारादित्यादि परास्तम् । उक्तप्रतियोगित्ववद्वेदप्रत्यक्षेऽप्युक्तयोग्यतायाः प्रतियोग्यनुपलम्भे अपेक्षणेन तदभावे ताढशप्रत्यक्षाभाव इत्यस्याप्युक्तग्रन्थेन प्रतिपादनात् । अत एवोक्तदीधितिवाक्ये तादृशावच्छेदकत्ववद्भेदस्यापि अनध्यक्षतायां तात्पयम् । अत एव च 'मूर्तसामान्यतद्वतोरिवोपाधिसामान्यतद्वतोरत्यन्ताभावान्योन्याभावौ न योग्या' वित्यादिकं व्याप्तिग्रहोपायदीधित्यादावुक्तम् । अतीन्द्रियसाधारणं अतीन्द्रियतादृशाभावतत्प्रतियोगित्वघटितत्वेनातीन्द्रियं यत् तादृशाभावप्रतियोगितात्वं तद्विशिष्टं चक्षुरादियोग्यं यस्य सत्त्वेन तदुपलब्धिरापादयितुं शक्यते,तादृशम् । यदि त्वयोग्यधर्मानवच्छिन्नयोग्यमात्रवृत्तिप्रतियोगिताकाभाव एव योग्यः । वाय्वादौ रूपाद्यभावस्तु न प्रत्यक्षः । किन्त्वनुमेय इति मतमवलम्ब्यते,तदा यथाश्रुतमेव योग्येत्यादिकं सम्यक् । यत्तु तादृशाभावप्रतियोगित्वं यदि घटे स्यात्, तदोपलभ्येतेत्यापादनं सम्भवत्येव । घटवृत्तेः संसर्गाभावप्रतियोगित्वस्य योग्यत्वात् । प्रागभावप्रतियोगित्ववत् । अत एव अयं घटोऽत्रैव नान्यत्रेत्यन्यदेशनिष्ठात्यन्ताभावप्रतियोगित्वस्य घटे प्रत्यक्षम् । अन्यदेशनिष्ठात्यन्ताभावस्तु न प्रत्यक्षः । विशेष्यसन्निकर्षाद्यभावात् । एवं सर्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वमपि साक्षिवेद्यत्वाद्योग्यम् । अत एव शुक्तिरूप्यादौ मन्मते तस्य साक्षिवेद्यता स्वीक्रियते इति माध्वोक्तम् । तन्न । प्रागभावस्य हि सत्त्वे किं तत्प्रतियोगित्वं प्रत्यक्षं तदसत्वे वा । नाद्यः। तदोक्तप्रतियोगित्वस्याश्रयासन्निकर्षणाप्रत्यक्षत्वात् । अन्त्ये तु प्रागभावप्रतियोगितात्वेन प्रतियोगितात्वेन तव्यक्तित्वेन वा । नाद्यः। प्रागभावासन्निकर्षात् । प्रागभावप्रत्यक्षासम्भवेन तद्धटितरूपेण प्रत्यक्षासम्भवात् । न तदृष्टान्तेन तादृशात्यन्ताभावप्रतियोगित्वे योग्यतां प्रसाध्य तादृशप्रतियोगितात्वरूपेणोपलम्भापादनस्यासम्भवात् । न चाभावांशे अलौकिकस्य प्रतियोगित्वांशे लौकिकस्योपलम्भस्यापादनं सम्मवतीति वाच्यम् । गुरुत्वविशेषवत् घटत्वावच्छिअप्रतियोगिताकात्यन्ताभावस्य प्रत्यक्षापत्त्या प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणांशे प्रतियोग्यंशे च लौकिकस्थैवोपलम्भस्यापादनस्याभावप्रत्यक्षे प्रयोजकत्वात् । अत एव न द्वितीयः । घटत्वादिरूपेण घटादेः प्रत्यक्षं दिना तत्संयोगादेस्सं
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भदैतमझरी ।
योगत्वादिरूपेण प्रत्यक्षामावेन सम्बन्धप्रत्यक्षं प्रति सम्बन्धितावच्छेदकरूपेण सम्बन्धिप्रत्यक्षस्य हेतुत्वेन प्रागभावत्वरूपेणाप्रत्यक्षे तेन रूपेण प्रत्यक्षासम्भवात् । अन्त्यकल्पे वक्ष्यमाणदोषस्यात्रापि सम्भवाच्च । नान्त्यः । तादृशदृष्टान्तेन घटादौ स्वदेशकालवृत्त्यत्यन्तामावप्रतियोगित्वस्यापि तव्यक्तित्वेनैव प्रत्यक्षसिद्ध्या तदवच्छिनामावस्यैव प्रत्यक्षसिद्धावपि तादृशामावप्रतियोगित्वत्वावच्छिन्नाभावप्रत्यक्षानुपपादनात् । अयमत्रैव नान्यत्रेति प्रत्यक्षं तु सम्भवत्येव । सन्निकृष्टदेशान्तरनिष्ठात्यन्तामावस्य प्रत्यक्षत्वेन तत्प्रतियोगित्वाश्रयस्यापि सन्निलष्टत्वेन च तादृशप्रतियोगित्वप्रत्यक्षसम्मवात् । देशान्तरासन्निकर्षे तु तादृशप्रत्यक्षं न सम्भवत्येव । किं च अयमत्रैव नान्यत्रे' त्याकारज्ञानस्य देशान्तरनिष्ठात्यन्तामावप्रतियोग्ययमित्यर्थकत्वे घटत्वमत्रैव नान्यत्रेति ज्ञानस्यापि प्रमात्वापत्तिः । अथात्रैवेत्येवकारार्थस्यैव नान्यत्वेत्यनेनानुवादात् , एवकारस्य चैतदन्यासंयुक्तत्वबोधकत्वे 'द्रव्यं द्रव्यमेव ' त्यादौ द्रव्यान्यासंयुक्तत्वस्याप्रसिद्धस्य बोधकत्वासम्भवात् एतद्देशान्यत्वाक्च्छेदेन वर्तमानात्यन्ताभावप्रतियोग्ययमित्यर्थकत्वं वाच्यम् । तत्र विशेष्यासन्निकर्षस्यामावाप्रत्यक्षत्वे त्वदुक्तहेतुत्वासम्भवः । न ह्यत्र देशो विशेष्यः । किं तु विशेषणम् । 'अयमेव देश एतद्वा' नित्यादावेव देशस्य विशेष्यत्वात् । अथ देश एव विशेष्यपदेनोक्तः, तेथाप्ययुक्तम् । कस्य चिद्देशस्य सन्निकर्षात् । न ह्यत्रैतदन्यसर्वदेशमानम् । तस्माध्यापकत्वमेवायोग्यम् । न च मनोभिन्नावृत्तित्वादिघटितेन मनस्त्वत्वेन मनस्त्वोपलब्ध्यापादनासम्भवेऽपि . घटादौ मनस्त्वाभाव इव तादृशप्रतियोगितात्वेन तादृशप्रतियोगित्वोपलम्भापादनासम्भवेऽपि तदमावः प्रत्यक्षोऽस्त्विति वाच्यम् । मनस्त्वत्वरूपेण हि न मनस्त्वस्याभावः प्रत्यक्षः । तादृशरूपस्यायोग्यघटितत्वात् । अत एव 'घटत्वत्वादिना न घटत्वाद्यभावस्य प्रत्यक्षते'ति शिरोमणिः । किं तु मनस्समवेतत्वेनैव । घटादौ हि मनस्त्वसत्त्वे मनसो योग्यत्वापत्त्या 'मनस्त्वं यदि घटे स्यात् , तदा मनस्समवेतत्त्वेनोपलभ्येते' त्यादिरीत्या मनस्समवेतत्वविशिष्टस्योपलम्मापादनसम्भवेन तदभावस्य प्रत्यक्षसम्भवः । न च घटादौ मनस्त्वसत्त्वे गुरुत्वादेरपि मनस्समवेतत्वापत्त्या तेन रूपेणोपलम्भापादनासम्भव इति वाच्यम् । मनस्त्वीयसमवायेनाधेयत्वस्यैव मनस्समवेतत्वरूपत्वात् । सर्वदेशेत्यादिकं तु स्वपित्रादीन् प्रत्येव वाच्यम् । यादृशाभावो हि तार्किकादीनां प्रत्यक्षः तस्यैव त्वया साक्षिमास्यतायाः मां प्रति वाच्यत्वात् । अन्यथा अतिप्रसङ्गात् । तार्किकादिवाक्यं तु उक्तमेव । ननु, उक्तप्रतियोगित्वाभावस्य लौकिकप्रत्यक्षासम्मवेऽपि सामान्य प्रत्यासक्त्या वा
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षबाधोद्धारः]
लघुचन्द्रिका ।
ज्ञानप्रत्यासक्त्या वा अलौकिकप्रत्यक्षमस्तु । तावता मिथ्यात्वानुमानासम्भवः ! न ह्यनुमितौ लौकिकप्रत्यक्षस्यैव बाधविधया विरोधित्वम् । किं तु तदभावनिश्चयमात्रस्य । तत्राह-वस्तुत इति । सामान्यं इन्द्रियलौकिकसन्निकर्षविशिष्टविशेष्यकज्ञानप्रकारीभूतधर्मः । इन्द्रियप्रत्यासक्तिः । तादृशसामान्याश्रयनिष्ठेनालौ - किकविशेष्यतासम्बन्धेन प्रत्यक्ष प्रति कारणीभूतस्येन्द्रियस्य सन्निकर्षविधया कारणम् । तस्यापि पर्वतीयधूमस्यापि । बिशेष्यन्द्रियसमिकर्षेति । मुख्यविशेष्यन्द्रिययोः लौकिकसन्निकषैत्यर्थः । बहिरिन्द्रियाणां स्वकीयलौकिकसन्निकर्षाश्रयमुख्यविशेष्यकज्ञानजनकत्वनियमान्मुख्यविशेष्यांशे लौकिकसन्निकर्षस्य बहिरिन्द्रियजन्यप्रत्यक्षे अपेक्षेति भावः । यो यत्र पुरावगतः, स एव तत्र संस्कारवशादलौकिकप्रत्यक्षे भाति । यत्र यो न पुरावगतः, तत्र तस्य धीरनुमित्यादिरेवेति प्राचीनतार्किकादिमते उपनयसन्निकर्षास्वीकर्तृमते हेतुनिष्ठं सामानाधिकरण्यमेव व्याप्तिः । न तु साध्यसमानाधिकरणवृत्तिहेतुतावच्छेदकमिति पक्षे च महानसीय एव धूमे गृहीतस्मृतव्याप्तेः पर्वतीयधूमे प्रत्यक्षासम्मवादाह-व्याप्तिस्त्वितीति । यथाश्रुतार्थकमिदं प्रामाकारादिमते बोध्यम् । मन्मते तु प्रकारेण प्रकारतायोग्येन । विषयो विषयतायोग्यः । तादृशयोग्यत्वं चोबुद्धसंस्कारज्ञानयोप्तिविषयकयोः यत् अन्यतरत् तद्विषयत्वम् । तथा च -प्राभाकरादिमते धूमत्वाद्यकरूपेण व्याप्तिपक्षधर्मताज्ञानयोरिव मन्मते तयोर्वा तेन रूपेण व्याप्तिविषयकोबुद्धसंस्कारपक्षधर्मताज्ञानयोर्वा हेतुत्वम् । व्याप्तिविशिष्टवैशिष्ट्यज्ञानस्य तन्मते अनावश्यकत्ववत् मन्मते व्याप्तिज्ञानस्याप्यनावश्यकत्वात् । तादृशज्ञानद्वयोत्तरमुक्तवैशिष्ट्यधीव्यक्तीनामिव व्याप्तिविषयकोबुद्धसंस्कारपक्षधमताज्ञानोत्तरं व्याप्तिस्मृतिव्यक्तीनामनुमित्युत्पत्त्यर्थ कल्पने महागौरवात् । उक्तं हि पञ्चपाद्याम्-'लिङ्गज्ञानव्याप्तिसंस्कारयोस्सम्भूय लिङ्गिज्ञानहेतुत्वम् । संस्कारानुबोधे तदभावात् । तस्माल्लिङ्गज्ञानमेव लिङ्गिसम्बन्धसंस्कारमुबोध्य - तत्सहितं लिङ्गिज्ञानं जनयतीति । उद्बोध्य स्वतः स्वजन्यवह्रिज्ञानादितो वा, स्वपूर्ववर्तिनो अन्यस्माद्वा, उद्बोध्य । तेन धूमवत्ताज्ञानस्य कदाचिदुद्बोधकत्वाभावेऽपि न क्षतिः । स्वपूर्ववर्तिन उद्बोधकत्वेऽपि पूर्ववर्तितासम्बन्धेन स्वस्य तव्यावतकत्वेन परम्परयोद्बोधकत्वम् । करणीभूतव्यक्तिव्यावर्तकत्वेन जातिगुणयोः करणत्ववत् । अतो लिङ्गज्ञानमेवोद्बोध्यं. जनयतीति नासङ्गतम् । अन्यस्योद्वोधकत्वेऽपि लिङ्गज्ञानस्य तव्यावर्तकत्वेन प्राधान्यविवक्षया तदुक्तेः । व्याप्तिस्मृतिप्रयोजकत्वेन पराभिमतानामुबोधकानां शक्तिविशेषरूपे संस्कारोबोधे
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.org
अद्वैत ।
Acharya Shri Kailassagarsuri Gyanmandir
हेतुत्वसम्भवेन तादृशशक्तिमत्संस्कारसहितं लिङ्गज्ञानमनुमितिहेतुः । प्राचीनमते उद्बोधकजनितशक्तिकस्यैव संस्कारस्य स्मृत्यादिहेतुत्वात् । 'संस्कारेण स्मृत्यादौ जननीये तत्सहकारित्वमेवोद्बोधकत्व' मिति नव्यमते तु तादृशोद्बोधकैस्सहितमेव लिङ्गज्ञानं तथा । संस्कारहेतुत्वे मानाभावात् । न च व्याप्तिस्मरणोत्तरं यत्र धूमवताज्ञानं यत्र वा व्याप्तिविशिष्ट धूमवत्तास्मृतिः प्रथमत एव जाता, तत्रानुमित्युत्पत्तये व्याप्तिधीत्वेनाऽपि हेतुत्वस्यावश्यकत्वात् गौरवमिति वाच्यम् । उद्बुद्धसंस्कारव्याप्तिज्ञानयोरेकशक्तिमत्तया हेतुत्वस्य प्राचीनमते स्वीकारात् । केवलसंस्कारात् उद्बुद्धसंस्कारस्यातिरिक्तत्वेन तत्रैव शक्तिविशेषस्वीकारात् । अनतिरिक्तत्वेऽपि नानुद्बुद्धसंस्कारादनुमितिः । उद्बोधकालावच्छिन्नशक्तिस्वीकारात् । नव्यमते संस्कारोद्बोधकेषु व्याप्तिज्ञानेषु व्याप्तिज्ञाने च पर्याप्ताया एकशक्तेरस्वीकारात् । अत एव नानालिङ्गकपरामर्शेभ्यः अनुमितिरुपपन्ना । तावत्सु तस्यास्सम्भवात् । यदि चानुमितौ पक्षसाध्यसंसर्गेतरस्य घटादेः स्मृत्यादिसामग्रीतो भानं नानुभवविरुद्धं, तदा तादृशोshahयो व्याप्तिस्मृत्यादिसामग्रीतः पक्षधर्मतायाश्च तस्यां भानमास्ताम् । अत एवो बुद्धसंस्कारोत्तरं व्याप्त्यादिस्मरणस्य नापलापः । अनुमितेरेव व्याप्त्याद्यंशे स्मृतित्वस्वीकारात् । अन्यथा त्वनुमितिसामग्री तद्भाने प्रतिबन्धिकास्तु । न च संस्कारस्याप्यनुमितिजनकत्वे न्यायप्रयोगस्थले उपाध्युद्भावनं नियमतो न स्यात् । तत्कार्यस्य व्यभिचारज्ञानस्य अनुमितिकारणसंस्काराप्रतिबन्धकत्वादिति वाच्यम् । विरोधिनिश्रयस्य संस्कारनाशकत्वेन व्याप्तिसंस्कारनाशार्थं व्याप्तिधीप्रतिबन्धार्थं वा व्यभिचारज्ञानस्य साधनीयत्वेन नियमत उपाध्युद्भावनसम्भवात् । विरोधिनिश्वयस्य संस्कारानाशकत्वेऽपि विरोधिविषयकसंस्कारे संस्कारनाशकत्वस्यावश्यकत्वेन कारणीभूतसंस्कारविरोधिविषयक संस्कारजननाय व्यभिचारज्ञापकोपाध्युद्भावनसम्भवाच्च । ननु, प्राचां यत्र यस्य निश्चयः, तत्र तस्य रूपान्तरेणापि न संशयः । समानविशेष्यकताप्रत्यासक्त्यैव तयोर्विरोधित्वात् । तत्राह - निश्चितेऽपीति । वह्निव्यभि चारीति । वह्निव्याप्यत्वेन निश्चिततत्तमेभ्यो यत् भिन्नं तदित्यर्थः । प्राचा मते यथा 'रूपत्वं पार्थिवादित्रिविधरूपभिन्नवृत्ति न वेति संशयकाले वायौ पार्थिवादिरूपविशेषाभावनिश्वयेऽपि 'वायूरूपवान्न वे 'ति संशयः । यथा वा 'पार्थिवादिरूपाणि वायुवृत्तित्वाभाववन्तीति निश्वयेऽप्युक्तकाले 'रूपं वायुवृत्ति न वे 'ति संशयः, तथा 'धूमो वह्निव्याप्य' इति निश्चयेऽपि 'धूमत्वं तत्तद्धमभिन्नवृत्ति न वेति संशयकाले समानविषयक संशयस्यामतिबन्धकतायामतिरिक्तसम्भावनाया उत्तेजकत्वात् । न चैवं तादृशोत्तेजकस्य सदैव सम्भवात् निश्वयः कदापि विरोधी न स्यादिति
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र• दे प्रत्यक्षबाधोद्धारः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
१२७
वाच्यम् । रूपत्वावच्छेदेन पार्थिवादित्रिविधरूपान्यत्वाभावनिश्चयकाले तादृशसंशयस्यानुदयेन तस्यासार्वत्रिकत्वादिति भावः । भीषणीय इति । वस्तुतः तन्मते संवादिप्रवृत्तावेव प्रकाराश्रयत्वं नियामकमुच्यते । विसंवादिप्रवृत्तौ तु दोषः दोषसमवधानोत्तरविशेषणज्ञानं वा । प्रवृत्तिमात्रे तु उपस्थितयोरिष्टतावच्छेदकधर्मिणोरसंसर्गग्रह इति न दोष इति भावः । न चैकस्यां रजतव्यक्तौ ज्ञातायामन्यस्यां रजतव्यक्तौ प्रवृत्यापत्तिरिति वाच्यम् । ज्ञातरजतानामेकत्रेवान्यत्रापि प्रवृत्तेरन्यथाख्यातिमतेऽप्यापत्तेः । असाधारणकारणकल्पनात्तदभावात् व्यक्त्यन्तरे प्रवृत्त्यभावस्य मन्मतेऽपि सम्भवात् । व्यधिकरणप्रकारकत्वेति । यादृशप्रकारता स्वनिरूपितविशेष्यतासमानाधिकरणान्यवृत्तिः तादृशप्रकारताकत्वेत्यर्थः । स्वं प्रकारता रजतादिनिष्ठा । तन्निरूपितविशेष्यतासमानाधिकरणात् इदन्त्वादेर्भिन्ने रजतादौ तस्यासत्वात् । बाधितेति । मिथ्यत्यर्थः । विषयत्वेन विषयत्वघटितम् । विषयत्राधप्रयोज्यत्वात् । भ्रमविशेप्ये विशेषणाभावज्ञानज्ञाप्यत्वात् । तथा च भ्रमत्वज्ञानकाले तादृशाभावज्ञानस्यावश्यकत्वेन तादृशाभावघटितमिथ्यात्वघटितमेव भ्रमत्वं युक्तमिति भावः । न तु व्यधिकरणेत्यादिनेदं सूचितम् । तदीयतत्सम्बन्धानधिकरणे तत्सम्बन्धेन तत्प्रकारकधीत्वं तस्य तत्सम्बन्धेन भ्रमत्वमिति लक्षणकरणे सम्बन्धांशे भ्रमत्वं भ्रमे न स्यात् । व्यवह्रियते च तत्र तस्य भ्रमत्वं तान्त्रिकैः । अत एव साध्ये हेतुसमानकालत्वावगाहिन्या अनुमिते स्संसर्गी भूतकालांशे भ्रमत्वमुक्तं परामर्शग्रन्थे दीधित्यादौ । अथोक्तधीत्वं विशेषणस्येव तत्सम्बन्धस्याऽपि भ्रमत्वमिति चेत् । तर्हि हूदो वह्निमानित्यादिधीस्संयोगत्वविशिष्टस्य भ्रमः स्यात् । अथ विशेषणप्रतियोगिकसम्बन्धत्वविशिष्टस्यैव भ्रमत्वं तव । न तु सम्बन्धतावच्छेदकमात्रविशिष्टस्येति चेत् । तर्हि संयोगेन रूपप्रकारकधीः रूपे संयोगत्वविशिष्टस्य भ्रमो न स्यात् । एवं दूरस्थवृक्षद्वये ऐक्यविषयकस्य 'सोऽयमिति निर्विकल्पकस्य ध्यानादिसमये प्रभाविशेषादिनिर्विकल्पकस्य च भ्रमस्य भ्रमत्वं न स्यात् । व्यवहियते च तत्रापि लोके भ्रमत्वम् । तस्मात् बाधितविषयकत्वमेव भ्रमत्वम् । अत एवाबाधितविषयकत्वघटितप्रमात्वमपि निर्विकल्पकसाधारणम् । एतावांस्तु विशेषः 'यस्सोऽय' मिति वाक्यजन्यप्रमा तत्तेदन्त्वोपलक्षणप्रमाद्वारिका । तज्जन्यभ्रमस्तु तद्भ्रमद्वारक इति । तस्मादैक्यभ्रमो निर्विकल्पक सम्भवत्येव । ध्यानादिसमये प्रभादिनिर्विकल्पक भ्रमस्तु ध्यात्रादीनामनुभवसिद्ध एव । अस्मन्मते पूर्वोत्तरमीमांसकयोर्मते । भावान्तरत्वादिति । तदुक्तं ' नाभावोऽभाववै
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
१२८
अद्वैतमलरी।
धात् नारोपो बाधहानितः । द्रव्यादिषट्कवैधात् ज्ञेयं मेयान्तरं तम' इति । 'तमो नीलं चलती'त्यादिप्रत्ययात् रूपादिमत्वेन घटादिष्विव तमस्यपि तद्वाधामावेन च गन्धाद्यभावात् पृथिव्यादिद्रव्यगुणादिवैलक्षण्येन च तमो द्रव्यान्तरमित्यर्थः । किं च द्रव्यचाक्षुषे आलोकप्रतियोगिकसंयोगो न हेतुः । मणिप्रभादौ तदभावेऽपि चाक्षुषोत्पत्तेः । नाप्यालोकप्रतियोगित्वोपलक्षितः संयोगः । आलोकप्रतियोगिकत्वसंयोगत्वयोः विशेषणविशेष्यभावे विनिगमकामावेन तदवच्छिन्नस्य कारणताद्वयापत्तेः । नाप्यन्यदेशावच्छिन्नादालोकसंयोगाचाक्षुपोत्पत्त्यसम्भवात् जातिविशेषस्येव द्रव्यादिचाक्षुषजनकतायां आलोकसंयोगनिष्ठायामवच्छेदकत्वं स्वीकार्यम् । सा च जातिरालोकनिष्ठे वाय्वादिसंयोगेऽपि सम्भवति । अत एव प्रमादिचाक्षुषमिति वाच्यम् । तादृशजातिस्संयोगत्वस्य विभागत्वस्य वा व्याप्येत्यत्र विनिगमकाभावात् । अत एवालोकप्रतियोगिकत्वोपलक्षितविजातीयत्वेनापि न हेतुतासम्भवः । आलोकघटादौ वायुविभागस्य सम्मवेन वायुप्रतियोगिकत्वविशिष्टविजातीयत्वेन हेतुतामादाय विनिगमकामावापत्तेः । किं तु तमस्त्वेन प्रतिबन्धकत्वमेव द्रव्यचाक्षुषं प्रति कल्प्यते । तदमावादेवोक्तप्रमादौ चाक्षुषोत्पत्तिः । न च तमोऽभावत्वेन कारणत्वेऽपि तमःप्रतियोगिकत्वाभावत्वयोविशेषणविशेष्यत्वस्याविनिगम्यत्वेन कारणताद्वयापत्तिरिति वाच्यम् । स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन तमस्त्वविशिष्टे विशेषणतासम्बन्धेन वर्तमानमभावत्वमेव हेतुतावच्छेदकम् । न तु विशेषणतासम्बन्धेनामावत्वविशिष्टे स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन वर्तमान तमस्त्वम् । उक्तप्रतियोगिताकत्वसम्बन्धेनैव तस्य हेतुतावच्छेदकत्वस्य वाच्यतया द्विधोक्तसम्बन्धप्रवेशे गौरवापत्तेः । अभावत्वं वा न निवेश्यते । उक्तप्रतियोगिताकत्वसम्बन्धेन तमस्त्वस्यैव हेतुतावच्छेदकत्वसम्भवात् । न च भेदवारणायात्यन्तामावत्वमवश्यं निवेश्यमिति वाच्यम् । सम्बन्धविशेषावच्छिन्नप्रतियोगिताया अवश्यं निवेश्यतया तत एव तद्वारणात् । यदि तु प्रतिबन्धकस्याभावो न हेतुः । किं तु प्रतिबन्धकं कार्यप्रागभावे क्षेमसाधारणकारणत्वाश्रयः । न च कारणकूटाश्रयक्षणोत्तरक्षणत्वस्य कार्योत्पत्तिव्याप्यतया प्रतिबन्धकसत्त्वेऽपि सकलकारणसत्त्वसम्भवात् कार्योत्पत्त्यापत्तिरिति वाच्यम् । सकलकारणाश्रयत्वस्य प्रतिबन्धकाभावसहितस्यैवोक्तव्याप्यतावच्छेदके प्रवेशादिति मतमाश्रीयते वा प्रतिबन्धकामावस्य हेतुत्वं तव्यक्तित्वेनैव । न तु. मण्याद्यमावत्वेन । न च मणिगगनान्यतरत्वावच्छिन्नाभावव्यक्तेरपि तव्यक्तित्वेन हेतुतापत्तिरिति वाच्यम् । तेन रूपेण दाहादिहेतुत्वेऽन्यथा सिद्धेः सर्वैरपि वाच्यत्वात् । तयक्तर्मणिसामान्याभावानतिरिक्तत्वाचेति मतं वा
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र०दे प्रत्यक्षबाधोद्धारः ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
श्रीयते, तदा न काप्यनुपपत्तिः । न चोक्तरीत्या आलोक प्रतियोगिकत्वसंयोगत्वयोरपि विशेष्यविशेणभावव्यवस्थासम्भवात् तत्र पूर्वोक्तो विनिगमकाभावः कथमिति वाच्यम् । प्रतियोगितासम्बन्धेनालोक विशिष्टस्यैव निवेश्यतया पूर्वोक्तगौरवाभावेन विनिगमका भावस्यावश्यकत्वात् । न ह्यालोकत्वावच्छिन्नत्वं संयोगप्रतियोगितायां प्रामाणिकम् । येन तस्यैव लाघवान्निवेशेनालोकव्यक्तीनामप्यनिवेशो वाच्यः । न चालोकवानित्याकारधीर्विशिष्टस्य वैशिष्ट्यमिति विशेष्ये विशेषणं तत्रापि . विशेषणान्तरमिति च रीत्येति तत्र विषयभेदं विना ज्ञानयोर्वैलक्षण्यासम्भवः । 'अर्थेनैव विशेषो हि निराकारतया धिया ' मित्याचार्योक्तेः । तथा चाद्ये आलोकत्वावच्छिन्नप्रतियोगिताकसंयोगत्वेन भानम् । द्वितीये तु केवलं संयोगत्वेनेति प्रामाणिकमेवालोकत्वावच्छिन्नत्वं संयोगीयप्रतियोगितायामिति वाच्यम् । तत्र तस्य प्रामाणिकत्वेऽपि तादृशकारणतावच्छेदके तन्निवेशे प्रयोजनाभावात् । न चालोकव्यक्तीनामानन्त्येन तन्निवेशे गौरवेणोक्तावच्छिन्नत्वेन प्रतियोगितानिवेश एवं युक्तइति वाच्यम् । आलोकत्वावच्छिन्नस्यैकस्यैवावच्छेदकत्वस्य नानाव्यक्तिषु सम्भवेन गौरवाभावात् । तमस्त्वावच्छिन्नप्रतियोगिताकत्वं स्ववश्यमभावे निवेश्यम् । तमस्सत्त्व ऽपि तमोघटोभयाभावसत्त्वेनातिप्रसङ्गात् । यदि तु विशिष्टवैशिष्ट्यबुद्धावालोकत्वविशिष्टं विषयः । विशेष्ये विशेषणमिति ज्ञाने तु तदुपलक्षितम् । तद्विशिष्टतदुपलक्षितयोश्च भेदस्वीकारादुक्तज्ञानयोर्वैलक्षण्यं तदा संयोगीयप्रतियोगिताया आ लोकत्वावच्छिन्नत्वमप्रामाणिकमेव । तस्मात्तादात्म्यसम्बन्धेन तमस्त्वेन चाक्षुषं प्रति प्रतिबन्धकत्वम् । कपालादौ घटादिवि घटादौ । तदवच्छिन्नचिद्गतमूलाविद्यायाः परिणामस्तम इति तत्र तत्तादात्म्यसत्त्वात् (तत्काले न चाक्षुषम् । प्रभादौ तदभावाच्चाक्षुषम् ।) तमोध्वंसश्रालोकसंयोगादिरूप इति न तत्कल्पने गौरवम् । न च तमोऽभावत्वेन कारणतापक्षो न युक्तः । लाघवेन चाक्षुषहेतुतया भावरूपस्यैव वस्त्वन्तरस्य सिद्धेर्युक्तत्वादिति वाच्यम् । तस्य द्रव्यरूपत्वे घटादिचाक्षुषस्थले घटादावालोके च तस्य संयोगद्वयं कल्पनीयम् । अतीन्द्रियत्वसिद्धये स्पार्शनप्रत्यक्षे तादात्म्येन तस्य प्रतिबन्धकत्वम् । उद्भूतस्पर्शस्तत्र न जायते । तत्र तस्य प्रतिबन्धकत्वादिति वा कल्पनीयम् । तस्य चाक्षुषं न जायते । द्रव्यवृत्तिविषयतासम्बन्धेन चाक्षुषं प्रति तत्प्रतियोगिकसंयोगत्वेन हेतुत्वस्वीकारेण तत्प्रतियोगिकत्वविशिष्टसंयोगस्य तत्रासत्त्वादिति वाच्यम् । तथा च तमोऽभावत्वेन कारणत्वे तदपेक्षया न गौरवम् । यदि च तस्य संयोगसम्बन्धेन उक्तहेतुत्वं कल्पनीयम् । न तु तत्संयोगस्येत्यु१. 'अतत्कालीन चाक्षुषप्रमादौ तदभावाच्चाक्षुषम् ' इति पाठान्तरम् ।
१७
"
Acharya Shri Kailassagarsuri Gyanmandir
१२९
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५.
भद्वैतमञ्जरी ।
च्यते, तदापि विमागसम्बन्धेन तस्य हेतुतामादाय विनिगमकामावः । तस्य गुणक्रियान्यतररूपत्वेऽपि विभागादिरूपत्वे संयोगादिरूपतामादाय विनिगमकामावः । सामान्यरूपत्वे संयोगो विभागो वा तदाप्रय इति सः । तस्मात् भावरूपस्य तस्यासम्भवादभावरूपत्वमेव । स चाभावो न तमोनाशः । आलोकादौ तदसम्भवात् । अत एव न तमःप्रागभावः । किं तु तमोऽत्यन्ताभाव इति दिक् । न तु ज्ञातस्यति । आलोकस्य तमोनाशकत्वात्तमस आलोकाभावप्रयुक्तत्वेन तमोजन्यस्य तमश्चाक्षुषस्यालोकाभावप्रयुक्तत्वम् । उक्तं हि विवरणे-'आलोकविनाशितस्य तमसः पुनर्मूलकारणादेव जन्मे' ति । तथा चालोकस्याभाव एव तमोव्यञ्जकः । न तु तज्ज्ञानमिति भावः । अन्येषां उकतेनोविरहस्तम इतिवादिनां वैशेषिकादीनाम् । प्रतियोगितावच्छेदकेति । प्रौढप्रकाशत्वेत्यर्थः । तच्चोद्भूतानमिभूतरूपवन्महातेजस्त्वं प्रभास्वरूपा जातिर्वा । गोव्यक्तरिति । समवेतत्वसम्बन्धेन गोत्वरूपेण तस्या अवच्छेदकत्वमिति भावः । न च गोसमवेतस्य द्रव्यत्वादेर्घटादौ सत्त्वात्तत्र 'गोत्वं नास्तीति धीः प्रमा न स्यादिति वाच्यम् । उक्तसम्बन्धेन हि विशेषणविधयैव गौरवच्छेदिका। (वस्तुतस्तु तत्तद्गोव्यक्तिमात्रनिष्ठावच्छेदकता गोत्वनिष्ठा आधेयताविशेषावच्छिन्ना न केनापि धर्मेणावच्छिद्यते । शुद्धव्यक्तिमात्रस्यैवावच्छेदकत्वसम्भवेनानन्तगोव्यक्तित्वादिविशिष्टस्यावच्छेदकत्वे गौरवात् । जातीतरस्यानवच्छिन्नप्रकारत्वाभावेऽप्यनवच्छिन्नावच्छेदकत्वे बाधकाभावात् । तथा च गोत्वरूपे गोपदादुपस्थितस्यापि गोत्वोपलक्षितयत्किञ्चित्स्वरूपस्यैवावच्छेदकत्वेन भानम् । एवं च तत्तव्यक्तिरुपल. क्षणविधयैवावच्छेदिका । उक्तसम्बन्धेन तद्व्यक्तिविशिष्टस्य गोत्वस्य गवान्तरे सत्त्वाभावेन 'गवान्तरे गोत्वं नास्ती' ति प्रत्ययापत्त्या विशेषणविधया अवच्छेदकत्वासम्भवात् । अत एव मूले यत्किञ्चिद्गोव्यक्तेरेवेति व्यक्तिनिर्देशेन शुद्धव्यक्तेरवच्छेदकत्वमुक्तम् । एवकारस्य त्वयमर्थः । सकलगोवृत्तित्वादेर्भावप्रत्ययेनोपस्थितत्वेन गोत्वस्य विशेषणत्वेऽपि न प्रतियोगितावच्छेदकत्वमिति । अत एव गोत्वत्वरूपत्वादित्यस्य गोत्वामावप्रतियोगितावच्छेदकत्वेन भानादित्यर्थः । तथा च) यथा 'घटो नास्ती' त्यादिज्ञाने घटसामान्याभावस्य सर्वघटप्रतियोगिकस्यापि विशेषणतया कश्चिदेव घटो भाति, तथा 'गोत्वं नास्तीति ज्ञाने सकलगोव्यक्त्यवच्छिन्नप्रतियोगिताकेऽपि गोत्वाभावे प्रतियोगितावच्छेदकतया भासमानेन केनचित् गवा विशिष्टं गोत्वं विशेष
१. 'उपलक्षणविधयावच्छेदकत्वं तु गर्वतरासमवेतत्वस्यैव । गोत्वत्वरूपत्वात् । 'गोत्वं नास्ती' ति ज्ञाने प्रतियोगितावच्छेदकतया भासमानत्वात् । प्रतियोग्यंशे गवंतरासमवेतत्वादेर्भानेऽपि त. स्य नावच्छेदकत्वेन भानम् । किं तु गोवरूपेण कस्याश्चित् गोः प्रकृतिभूतगोपदोपस्थापितायाः ।' इति पाठान्तरम् । .
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र ० दे प्रत्यक्षवाधोद्धारः ] लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१३१
।
णम् । न तु सर्वैर्गोभिरिति भावः । सकलगोवृत्तित्वस्यावच्छेदके प्रवेशेऽपि तस्य गोवृत्तिभेदप्रतियोगितानवच्छेदकत्वरूपत्वात् न सामान्यलक्षणापेक्षेत्यपि बोध्यम् । अत्र गोत्वस्य तादात्म्यसम्बन्धेन नावच्छेदकत्वं सम्भवति । अत्यन्ताभेदे सम्बन्धांसभवेन तस्य गोत्वासम्बन्धात् । गौरित्याकारकतत्तद्धीप्रकारत्वस्यापि नावच्छेदकत्वम् । अवच्छेदकाभेदे प्रकारभेदेन प्रकारत्वस्याभेदपक्षे तस्यातिप्रसक्तत्वात् । अतो गोव्यक्तिरेवेति युक्तम् । एतेनेति । अभावबुद्धौ प्रतियोग्यंशे प्रकारीभूतधर्मप्रकारकज्ञानस्यैव विशेषणतावच्छेदकप्रकारकधीविधया हेतुत्वम् । न तु प्रतियोगिभानस्येति स्वीकारेणेत्यर्थः । व्याख्यातेति । घटत्वादिना विद्यमानघटादिज्ञानात् भाविघटादिविशेषितप्रागभावत्वेन धीः शब्दादिना जायते । विद्यमानकार्ये शक्तिमत्तया गृहीताल्लिङादिपदात् प्राभाकरमते भाविकार्यधीवत् । शङ्केत्यादि । कालान्तरे देशान्तरे च वर्तमाने धूमे व्यभिचारस्यातीन्द्रिय पिशाचादावुपाधित्वस्य वा शङ्का चेदस्ति, तदा देशकालान्तरयोर्भाविभूतयोर्ज्ञानायानुमानमस्त्येव । जल्पेन प्रतिवादिनं निरस्य तत्त्वबुभुत्सुं प्रत्याह -- तर्कश्शङ्कावधिरिति । शङ्काया अवधिः सामग्रीविघटकः । ननु, तर्कस्यापि व्याप्तिधीमूलकत्वादनवस्था । तत्राह - व्याघातेति । आशङ्का उक्तानवस्था । 'यदि सर्वत्र शङ्कसे, तदा धूमाद्यर्थं वहयादौ तवैव प्रवृत्तिर्न स्यात्' इति तर्करूपेण व्याघातेन वारणीयेत्यर्थः । उक्तमिति । कालान्तरे व्यभिचरिष्यतीति कालं भाविनमाकलय्याशङ्कयेत, तदाकलनं च नानुमानमवधीरयेतेत्यनेनोक्तमित्यर्थः । पाकपूर्वकालीनः पाककालीनध्वंसप्रतियोगी । साध्येत्यादि । प्रकृतानुमानेन साध्यसिद्धौ सत्यामेव चरमपाकं ज्ञात्वा तत्र व्यभिचारो ज्ञातव्यः । तथा च साध्यसिद्धुत्तरं व्यभिचारज्ञानं व्यर्थमित्यर्थः । अन्यथा तस्य दोषत्वस्वीकारे । सिद्धीत्यादि । भावि यदि ज्ञातं, तदोक्तानुमानेनैवेति तत्सम्पत्तौ किं पाश्चात्येन व्यभिचारज्ञानेन । यदि च न ज्ञातम् तदा तत्र व्यभिचारो ज्ञातुमशक्य इत्युभयथापि व्याघातोक्तिसम्भवादित्यर्थः । पाककालीनध्वंसप्रतियोगिपाकत्वस्य हेतुत्वस्वीकारेऽपि विशेषणं व्यर्थम् । चरमपाकस्यानुपस्थित्या तत्र व्यभिचारस्यावारणीयत्वात् सिद्धसाधनाच्च । न च जातायामनुमितौ तस्याः व्यभिचारिहेतुकत्वेन भ्रमत्वं व्यभिचारज्ञानेन साध्यत इति न तद्व्यर्थमिति वाच्यम् । व्यभिचारिहेतुकानुमितित्वस्य भ्रमत्वाव्याप्यत्वात् । शब्दादिति । विद्यमाने शक्त्यादिज्ञानादविद्यमानव्यक्तेः शब्दात् बोधः । समानप्रकारकत्वेन शक्त्या दिज्ञानशब्दानुभवयोः कार्यकारणभावादिति भावः । स्मृतेस्तत्त्वाय गाहित्वनियमस्वीकारे धूमत्वादिमात्ररूपेण स्मृत्यसम्भवात्तादृशनियमं परित्यजन्नाह--प्रमु
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
अद्वैतमञ्जरी ।
टतत्ताकेति । तद्देशकालवृत्तित्वरूपतत्ताविशिष्टधूमत्वादिरूपेण धूमादिविषयकस्यापि संस्कारस्य तत्तांशेऽनुबोधादविषयीकृततत्ताकेत्यर्थः । ज्ञानादेवेति । विशेषणज्ञानस्य विशिष्टधीत्वावच्छिन्नं प्रति न हेतुत्वम् । स्मृतौ व्यभिचारात् । अथ संस्कारसम्बन्धेन हेतृत्वात् नोक्तव्यभिचार इति चेत् । तर्हि प्रत्यक्षादौ व्यभिचारः । तस्मात् समवायेनैव तस्य विशिष्ट प्रत्यक्षत्वावच्छिन्नं प्रति हेतुत्वं सम्भवदक्तिकम् । तदपि न युक्तिसहमित्यनुपदं मूले वक्ष्यते । ननु, विशेषणतावच्छेदकप्रकारकधीत्वेनापि हेतुत्वे स एव पन्थाः । सत्यम् । विशेषणतावच्छेदकप्रकारकज्ञानादिति मूलस्य वह्नित्वादिरूपेण वहिव्याप्त्यादिसंस्कारपरामर्शादित्यर्थः । तथा च संस्कारपरामर्शादेरेव साध्यविशेषणकस्मृत्यनुमित्यादिनियामकत्वम्। ननु, वद्वित्वरूपेण पर्वतीयवद्वेरेव पर्वतपक्षकानुमितौ नियमेन भानानुपपत्तिः । व्याप्त्यादिविषयकपरामर्शे महानसीयादिवढेरेव त्वन्मते भानात् तस्यैव भानापत्तिः तस्यापि भानापत्तिर्वा । कार्यतावच्छेदके वहिविशेषानिवेशादिति चेन्न । मन्मते स्वतः प्रमात्वस्वीकारेणोत्पत्तौ ज्ञप्तौ च प्रमात्वस्य स्वतस्त्वात् । ज्ञानसामान्यसामग्य एव हि प्रमात्वे नियामकत्वम् । न तु गुणस्य । ननु, तर्हि ज्ञानसामान्यसामग्रीजन्यतावच्छेदकं प्रमा. त्वमित्यागतम् । तच्च न सम्भवति । प्रमात्वस्य ज्ञानसामान्यसामग्यश्च विषयभेदेन नानात्वात् । (विषयसमसंख्यानां प्रमायां ज्ञानसामान्यसामग्रीहेतुत्वानामापत्तेः । एकस्मिन्नपि विषयेन्द्रियसन्निकर्षव्याप्तिनिश्चयादीनामेकरूपेगैकसम्बन्धेन च हेतुत्वासम्भवेन नानाहेतुत्वापत्तेः । तथा च गुणजन्यतावच्छेदकमेव प्रमात्वं वक्तुं युक्तम् । समवायाघेकसम्बन्धेन यद्विशेष्यसम्बन्धं यत् विशेषणं तदृत्तिर्या स्वप्रकारता तदाश्रयवृत्तिधर्मवत्त्वसम्बन्धेन ज्ञानं प्रति तादृशसम्बन्धविशेषणवृत्तिधर्मत्वेन हेतुत्वस्यैकस्यैव सम्भवात् । तादृशधर्मस्तु केवलान्वयिविषयत्वादिकम् । तदाश्रयत्वसम्बन्धेन ज्ञानं घटादौ जायते । तत्र तादृशधर्मो विषयत्वादिकमस्ति । तस्य च विशेषणतासम्बन्धेन हेतुत्वम् । तस्यैव केवलान्वयिधर्म प्रति सम्बन्धत्वात् । तादृशप्रकारतामात्रसम्बन्धेन कायत्वस्योक्तव्यभिचारः । तादृशधर्मवति सर्वत्र तादृशप्रकारतासम्बन्धेन ज्ञानानुत्पत्तेः । विशेष्यसम्बन्धतत्तद्विशेषणवृत्तित्वविशिष्टधर्मत्वेन हेतुत्वोक्तौ तु तादृशप्रकारतामात्रं सम्बन्धेऽस्तु । विशिष्टस्य कारणस्यान्यत्रासत्त्वेन व्यभिचाराभावादिति चेन्न ।) यद्यपि वह्नयनुमितित्वादिकमेव कार्यतावच्छेदकम् ।
१. 'गुणजन्यतावच्छेदकत्वस्यैव प्रमात्ले वक्तुं युक्तत्वात् । ज्ञानसामग्रीभेदेऽपि विशेष्यस. म्बन्धविशेषणनानादिरूपस्य गुणस्यैकस्य सम्भवादिति चेन ।' इति पाठान्तरम् ।
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षबांधोद्धारः ]
लघुचन्द्रिका ।
न तु वढ्यादिप्रमात्वम् , तथापि दोषासहिता या वयादिविशिष्टज्ञानसामग्री तदधिकरणक्षणाव्यवहितोत्तरक्षणत्वे वह्यादिप्रमावत्त्वव्याप्यतास्वीकारात्तादृशसामग्या प्रमैव जायते । दोषसहितया तु भ्रम एव । वढ्यादिभ्रमत्वेन दौषकायत्वस्य भट्टमते स्वीकारात् । गुरुमते भेदाग्रहसहितयोर्विशेष्यविशेषणप्रमयोरिव प्रमाविषयत्वविशिष्टविशेष्यविशेषणयोर्भेदाग्रहस्यापि भ्रमत्वेन तस्यैव दोषप्रयुक्तत्वादिति कर्ममीमांसकाः । मनस्त्वेन प्रमात्वावच्छिन्नं प्रत्युपादानकारणत्वस्वीकारात् । मनोघटितया सामन्यां प्रमैव जायते । भ्रमत्वावच्छिन्नं प्रति स्वपरिणामाव्यवहितपूर्ववृत्तित्वविशिष्टपल्लवाज्ञानत्वेनोपादानस्वस्वीकारात् । पल्लवाज्ञानदोषादिघटितसामग्या भूम एवेत्यौपनिषदाः । ननु, तथाप्येकस्मित् पर्वते विद्यमानानां नानावहीनामनुमित्यादौ भानं स्यादिति चेत् । स्यादेवेति संक्षेपः । ज्ञानायेति । सौरभत्वसामान्यलक्षणया सर्वेषां सौरभाणां नोक्तज्ञाने भानसम्भवः । सामान्याश्रययत्किञ्चियक्त्यंशे फलीभूतज्ञानकरणेन्द्रियसन्निकर्षस्य लौकिकस्य तया अपेक्षणात् । यदि च तया स नापेक्ष्यते उक्तज्ञाने यावत्सौरभाणां विशेषणतया भानमिष्टमेव । 'यावत्सौरभवृत्तिसौरभत्वाश्रयवञ्चन्दन'मित्याकारकत्वसम्भवात् । मुख्यविशेष्यतासम्बन्धेन चा. क्षुषं तु न सौरभे जायते । तत्सम्बन्धेन तदुत्पत्तौ लौकिकसन्निकर्षस्य हेतुत्वात् विशेष्यतासम्बन्धस्यैव सामान्यज्ञानकार्यतावच्छेदकत्वाञ्चेत्युच्यते, तदा सुरभीत्यादेश्चन्दने सौरभत्वप्रकारकचाक्षुषभ्रमायेत्यर्थः । एवं सुरभित्वेत्यस्य सौरमत्वेत्यर्थः । तथा च चन्दने सौरभत्वभ्रमजनकदोषकाले चन्दनत्वेन सौरभत्वानुमानोपपत्तेः उक्तभ्रमोऽनुमितिरूप. एव । न चाक्षुष इति, ज्ञानं न प्रत्यासक्तिरिति भावः । अन्यथा ज्ञानस्य प्रत्यासक्तित्वे । पक्षप्रत्यक्षेति। न च बहिरिन्द्रियस्य स्वायोग्यमुख्यविशेष्यकज्ञानाजनकत्वेन ‘परमाणूरूपवानि' त्यादिज्ञानस्य चाक्षुषत्वाद्यसम्भवादनुमितित्वमिति वाच्यम् । मानसत्त्वसम्भवा. त् । केवलव्यतिरेकिणि 'पृथिव्यां तदितरभेद' इत्याद्यनुमितौ । तदनभ्युपगमा. त् उक्तानुमित्यस्वीकारात् । न चोक्तानुमितेः स्वीकारेऽपि व्यतिरेकव्याप्तिज्ञानघटितानुमितिसामग्य एव क्लप्तत्वेन तस्या एव बलवत्त्वमायाति । न खन्वयव्याप्तिधीघटितसामग्य इति तदस्वीकारोक्तिः व्यर्थेति वाच्यम् । ताढ शानुमितिस्वीकारे पृथिव्युद्देश्यकप्रथिवीतरभेदविधेयकानुमितिसामग्रीत्वन 'पृथिवी इतरभेदवती' इत्याकारकानुमित्युपधायकान्वयव्याप्तिघटितसामग्यः प्रथिवीविशेष्य. कतदितरभेदनिष्ठालौकिकप्रकारताशालिप्रत्यक्ष प्रति प्रतिबन्धकत्वकल्पनसम्भवेन ता:
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी। .
दृशानुमित्यस्वीकारस्योक्तयुक्तत्वात् । न च पृथिवीत्वावच्छेदेन पृथिव्याः पक्षत्वे अन्वयदृष्टान्ताभावे नान्वयव्याप्तिग्रह इति वाच्यम् । पक्षैकदेशस्य घटादेरन्वयदृष्टान्तत्वसम्भवाद । पटादौ साध्यसिद्धावपि न सिद्धसाधनम् । प्रथिवीत्वावच्छेदेन साध्यस्यासिद्धत्वात् । ननु, परामर्शाद्युत्तरं जायमानस्य ज्ञानस्थालौकिकप्रत्यक्षत्वस्वीकारे तत्र परामर्शादेरुपयोगो न स्यात् । इष्टापत्तौ च धूमेन चह्निवत्ती ज्ञात इति धीः पक्षतया पर्वते वह्निात इति धीश्च न स्यात् । तस्मात् प्रत्यक्षसामग्रीविलक्षणसामग्रीकत्वेनाप्रत्यक्षमनुमितिरूपं ज्ञानमङ्गीकार्यमिति नानुमितिमात्रोच्छेद इति चेन्न । परामर्शस्य तादृशप्रत्यक्षगतप्रमात्वप्रत्यक्षोपयुक्तत्त्वात् । वहयादिव्याप्यवद्विशेष्यकवयादिप्रकारकज्ञानत्वरूपस्य वहयादिप्रमात्वव्याप्यधर्मस्य हि निश्चयो वयादिप्रमात्वस्य विपरीतज्ञानोत्तरप्रत्वक्षे निश्चये प्रयोजकः । 'पक्षतया जानामी तिधीस्तु नाङ्गीक्रियते । तस्या हेतुत्वे प्राभाकरादीनां बहूनां विवादात् । न च 'वह्निमनुमिनोमा'ति धीसिद्धस्यानुमितित्वस्य कार्यमात्रनिष्ठनातितया परामर्शादिकार्यतावच्छेदकत्वमावश्यकमिति वाच्यम् । अनुमितित्वस्य तादृशव्याप्यधर्मवत्तानिश्चयनिश्चितप्रमात्वकप्रत्यक्षत्वरूपत्वेनानातित्वात् । अभ्युपगमे तु पक्षनरादिस्वीकारादरे तु । नैवेति। पर्वतीयवहेरज्ञानेऽपि तद्विशेष्यकानुमितिसम्भवादित्यादिः । ननु, पक्षविशेष्यकपरामत्तिरं पक्षीयसाध्यव्यक्त्यज्ञाने साध्यविशेष्यकानुमितेः पक्षधराद्यैरप्यनुक्तत्त्वातत्रानुमित्यपलापादनुपपत्तिरत्स्येव । तत्राह-अनुमितरिति । पक्षविशेष्यकपरामर्शजन्यानुमितेरित्यर्थः । तथा च पर्वतोद्देश्यकवह्निविधेयकानुमितित्वेनैव तादृशपरामर्शविशिष्टत्वेनैव वा तादृशपरामर्शकार्यतास्वीकारात् साध्यविशेष्यकानुमितेरपि तत्सम्भवान्नानुपपत्तिः । पक्षीयसाध्यस्य ज्ञातत्वे तस्यानुमितौ विशेषणत्वम् । तदभावे विशेष्यत्वम् । पक्षधरोक्तेरादरस्तु, पक्षविशेष्यकत्वानियमज्ञापनमात्रार्थ इति भावः । स्वरूपतः इन्द्रियसनिकृष्टनिष्ठज्ञायमानधूमत्वादिव्यक्तित्वेन । प्रत्यासक्तिः धूमादिप्रत्यक्षे कारणम् । धूमनिष्ठेति । धूमविशेण्यकेत्यर्थः । तत्र सकलधूमेषु ज्ञायमानधूमत्कव्यक्तित्वेन तत्र धूमत्वस्य सत्त्वेऽ पि चक्षुस्सन्निकृष्टनिष्ठत्वविशिष्टोक्तव्यक्तित्वरूपेणामावः । धूमे धूमत्वप्रत्यक्षकाले तधूमे तादृशव्यक्तित्वरूपेण धूमत्वसत्त्वं भवति । तथा च तादृशव्यकित्वविशिष्टस्य समवायेन हेतुत्वासम्भवेऽपि स्वसमवायिवृत्तित्वोपलक्षितधूमत्वसम्बन्धेन हेतुत्वमलौकिकधूमनिष्ठमुख्यविशेष्यतासम्बन्धेन धूमत्वप्रकारकं प्रत्यक्ष प्रति सम्भवति । अतो धूलीपटले धूमभूमेत्युक्तम् । न चेन्द्रियसन्निकृष्टविशेष्यकधीप्र
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षबाधोद्धारः]
लघुचन्द्रिका ।
कारीभूतधूमत्वादिव्यक्तित्वेन स्वसमवायिनिष्ठविषयतासम्बन्धेन हेतुत्वं वाच्यम् । अतीतानागतधूमेषु समवायेनोक्तधूमत्वसम्बन्धेन वा धूमत्वाभावात् । तत्रोक्तविशेप्यतासम्बन्धेन - प्रत्यक्षोत्पत्यसम्भवादुक्तविषयतासम्बन्धेनेत्युक्तमिति वाच्यम् । विषयता हि यद्यप्यतीतादिषु सम्बन्धः, तथापि सविषयकस्यैव । न तु घटत्वादेः । अथ घटत्वस्य स्वसमवाय एव सम्बन्धः तस्याश्रय इत्युच्येत, तथाप्याश्रयस्य सम्बन्धस्स्ववृत्तिविषयतैव वाच्येति तद्दोषतादवस्थ्यम् । अथैवं स्वसमवायिसंयोगादयोऽपि घटत्वादेस्संबन्धा न स्युरिति चेत्। न स्युरेव। अतीतादौ समवायिनं प्रति संयोगस्य वर्तमानेष्वेव सम्बन्धसया क्लप्तत्वात् । विषयताया अतीतादिषु सविषयकं प्रत्येव सम्बन्धतया क्लप्तत्वेन न घटत्वादिसमवायिनं तदृत्तित्वं वा प्रति सम्बन्धत्वमिति भावः । तदुत्तरं धूलीपटले धूमत्वेन व्याप्तिग्रहोत्तरम् । अनुमित्यनुदयेति । 'पर्वतो वहिमानि' त्याद्यनुमित्यनुदयेत्यर्थः । ज्ञानमिति । अत एव 'सा चेन्द्रियसम्बद्धविशेषणता अतिरिक्तवे'ति मणिवाक्यस्य सामान्यप्रत्यासक्तिः इन्द्रियसम्बद्धा इन्द्रियसम्बद्धनिष्ठविशेष्यतानिरूपिता । विशेषणता प्रकारता । यस्याः घटत्वादिरूपप्रत्यासक्तेः । सा तथा । अत्रोक्तदोषादुक्तं अतिरिक्तैवेति । घटत्वादिनिष्ठतादृशप्रकारताशालिज्ञानरूपैववेत्यर्थः । अत्र कल्पे धूमनिष्ठालौकिकविशेष्यतासम्बन्धेन धूमत्वप्रकारकचाक्षुषं प्रति चक्षुस्संयुक्तविशेष्यकधूमत्वप्रकारकचाक्षुषत्वेन धूमनिष्ठेन स्वसमानकालीनज्ञानविषयत्वसम्बन्धेन हेतुत्वम् । चाक्षुषादिसामान्यज्ञानात् स्पार्शनादिरूपस्य सामान्याश्रयज्ञानस्यानुत्पत्तेः । उभयत्र चाक्षुषत्वोक्तिः । धूमत्वज्ञानविशेष्ये चक्षुस्संयोगे नष्टे सकलधूमचाक्षुषानुत्पत्तेविशेष्यकान्तमुक्तम् । एवं त्वाचादिप्रत्यक्षेऽपि बोध्यम् । मानसप्रत्यक्षे तु मनोलौकिकसन्निकर्षाश्रयविशेष्यकसुखत्वादिप्रकारकमिवालौकिकमनस्सन्निकर्षाश्रयविशेप्यकमणुत्वादिप्रकारमपि मानसं स्वविषयसामान्याश्रयविशेष्यके हेतुः । अत एवाणुत्वेन यत्किञ्चिदणूपस्थितौ सकलाणुविशेष्यकमानसमुत्पद्यते इति प्राचः । नव्यास्तु, सामान्यस्य निर्विकल्पकसाधारणज्ञानरूपैवेत्यतिरिक्तत्यस्यार्थः । तथा च धूमत्वज्ञानत्वमात्रं कारणतावच्छेदकम् । अलौकिकमुख्यविशेष्यतासम्बन्धेन धूमनिष्ठेन प्रत्यक्षत्वेन कार्यता । न च कुत्रचिडूमे चक्षुस्संयोगासत्त्वकाले उ. त्पन्नाडूमत्वनिर्विकल्पकादपि सर्वधूमचाक्षुषमुत्पद्येतेति वाच्यम् । सामान्यज्ञानजन्यबहिरिन्द्रियजन्यप्रत्यक्षस्य सामान्यप्रकारतानिरूपितविशेष्यताश्रयाकिञ्चिद्व्यक्यंशे लौकिकविषयताशालित्वनियमेन तादशव्यक्ती कारणीभूतेन्द्रियलौकिकस
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१३६
www.kobatirth.org
अद्वैतमञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
न्निकर्षघटितसामन्या अपेक्षणीयत्वात् । एवं च स्मरणादेरिव चाक्षुषादेरपि सामान्यज्ञानात् सामान्याश्रयस्य स्पार्शनादिप्रत्यक्षं जायते इत्याहुः । तत्र नव्यमतस्य सम्यक्त्वात्तदेवाद बघयति --- तच्चेत्यादि । धूमज्ञानात् घूमे घूमत्वप्रकारकज्ञानात् । अवश्यक्लृप्तेति । परोक्षज्ञाने परामर्शादेरेव विशिष्टविषयतानियामकत्वम् । प्रत्यक्षज्ञाने तु सन्निकर्षादेः तत् अवश्यक्लप्तम् । तेनैव निर्वाहः । न च 'जातिमान् घट' इति प्रत्यक्षे अनवच्छिन्नघटत्वादिप्रकारतायामनवच्छिन्नघटत्वादिविषयताकधीरवश्यं नियामिका वाच्या । अन्यथा 'जातिमानि' त्याकारकप्रत्यक्षे घटत्वादौ नियमेनानवच्छिन्ना प्रकारता स्यात् । इन्द्रियसन्निकर्षादेर्नियामकस्य सत्त्वात् । अनवच्छिन्नत्वं च प्रकारत्वानिरूपितत्वमिति वाच्यम् । अनवच्छिन्नत्वविषयतात्वयोर्विशेष्यविशेषणभावस्याविनिगम्यत्वेन हेतुताद्वयापत्त्या संख्यातीतनिर्विकल्पकधीव्यक्तिकल्पनापत्या चोक्तविषयताकत्वेन हेतुत्वे गौरवेण तदपेक्षया लाघवादुक्तप्रकारताशालिप्रत्यक्ष हेतुतावच्छेदकतयेन्द्रियसंयोगादिनिष्टस्य जातिविशेषस्य क्लप्तत्वेन तेनैव निर्वाहात् । ननु, मास्तु निर्विकल्पकम् । चक्षुरादिसन्निकृष्टविशेष्यकधूमत्वादिप्रकारकचाक्षुषादिकमेव सर्वधूमादिचाक्षुषादिहेतुरिति प्राचीनमतमवलम्बनीयम्। तत्राह-नचेत्यादि । पुरोवर्तिनं अव्यवहितम् । व्यवहितं एतदन्यम् । अन्यथा उक्तस्य साधकाभावस्य बाधकस्य चास्वीकारे । सकलधूमेति । ननु, धूमत्वेन सर्वधूमानामनुव्यवसाये भानमिष्टमेव । तत्तद्व्यक्तित्वेन तेषां तत्र भानं तु नापादयितुं शक्यम् । तद्रूपेणोपस्थित्यभावादिति चेन्न । धूमत्वेन सर्वधूमानां तत्र भानापत्तेः कृतत्वात् । तेषां व्यवसाये उपस्थितत्वेनानुव्यवसाये भाने सामग्री - सत्त्वात् सामान्यप्रत्यासक्तिजन्यभिन्नस्यापि एतद्धू मान्य धूमत्वप्रकारकज्ञानस्य सत्त्वे ' तादृशधूमत्वविशिष्टं साक्षात्करोमी'ति प्रत्ययस्योपलक्षणविधया तादृशधूमत्वप्रकारकस्यापत्तेश्च । तच्च नेष्टम् । अनुभवविरोधात् । तदिदमुक्तम् - न चैवमनुभवमात्रेत्यादि । 'इमं धूमं साक्षात्करोमि नान्य' मिति सर्वलोकानुभवः । अत एव धूमप्रत्यक्षवान् पुरुषः 'एतदन्यधूमं साक्षात्करोषि किमिति ष्टष्टो न हि नहीत्येव बूते । ननु, चक्षुराद्यसन्निकर्षे लौकिकविषयत्वाभावेन तस्य न 'साक्षात्करोमीति प्रत्यये भानम् । लौकिकविषयतायास्तादृशप्रत्यये भानादिति चेन्न । सकलधूमादीनां प्रत्यक्षे भानं किमनुमित्यादिकार्यानुरोधात् अनुव्यवसायानुरोधाद्वा । तत्राद्यं पूर्वमेव निरस्तम् । अधुना तु द्वितीयमिति भावात् । न च धूमं जानामी' त्यनुव्यवसाये सर्वधूमभानमिति वाच्यम् । 'इमं धूमं जानामि न त्वेतदन्यमिति व्यवहारस्य सर्वसिद्धत्वेन समाधानस्य तु
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षबाधोद्वारः]
लघुचन्द्रिका ।
' १३७
तुल्यत्वात् । यत्प्रमेयमित्यादि । सार्वइयं सर्वसंशयविरोधिज्ञानवत्त्वम् । प्रमेयत्वसामान्यधीस्तादृशज्ञानप्रयोजिका । प्रमेयवत्त्वसामान्यधीस्तु स्वयमपि तादृशधीरूपेणेत्याशयेन सोक्ता । सेति । ईशनिष्ठस्य सार्वश्यस्य सर्वांशे लौकिकप्रत्यक्षरूपत्वेन तत उक्तसावश्यस्य वैलक्षण्यसम्भवादिति शेषः । परेत्यादि । परस्योक्तसामान्यज्ञानाधीनसार्वश्यवतो यो ज्ञानविषयो 'घटो न वे 'त्यादिसंशयस्तदनुपपत्तेरित्यर्थः । ज्ञानविषयत्वस्य घटत्वतदभावसहचरितधर्मत्वेन साधारणधर्मवत्ताज्ञानस्य संशयहेतोस्संपादनाय ज्ञानविषय इत्युक्तम् । तावता च धर्मितावच्छेदकप्रकारकधीविषयोक्तधर्मवत्ताज्ञानस्य कारणत्वलाभः । घटविषयः वटत्वविशिष्टविशेष्यकः । घटघटत्वोभयविशेष्यक इति यावत् । नेति । घट इति शेषः । ज्ञाने भासमानेति । ज्ञानात् भासमानेत्यर्थः । तथा च प्रमेयमिति ज्ञानजन्ये प्रमेयवदिति ज्ञाने प्रमेयत्वरूपेण घटत्वस्य घटानुयोगिकवैशिष्टये प्रतियोगितया भानात्तादृशज्ञानं घटे घटत्वप्रकारकमिति भावः । एतेन प्रमेयमिति ज्ञानं न घटे घटत्वप्रकारकम् । घटे भासमानवैशिष्ट्यस्य भासमानं प्रतियोगित्वं प्रकारत्वमिति मतस्यैव स्वीकारेण घटानुयोगित्वविषयतानिरूपिता या वैशिष्ट्यविषयतानिरूपितविषयता तदाश्रयप्रतियोगित्वस्य प्रकारतात्वेनोक्तज्ञाने तदसम्भवात् वैशिष्ट्यतत्प्रतियोगित्वानुयोगित्वानामुक्तज्ञाने विशेष्यतयैव हि भानम् । न तु संसर्गतया । न वा तद्विषयतानां निरूप्यनिरूपकभावः । तथा च तदावापन्नवैशिष्ट्यादिसांसर्गिकविषयताशालिज्ञानस्यैवोक्तसंशयविरोधित्वस्वीकारान्नोक्तदोष इति परास्तम् । शङ्कते-घटत्वे त्यादि । घटत्वज्ञानेति । घटत्वांशे अन्याप्रकारकवटत्वज्ञानेत्यर्थः । अदोषइति । उक्तज्ञानजन्यताया घटत्वांशे अन्याप्रकारकवटत्वप्रकारकज्ञानत्वेनावच्छेदात्तादशजन्यतायाः प्रमेयवदिति ज्ञानेऽभावान्नोक्तदोष इत्यर्थः । ननु, तादृशघटत्वप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति तादृशहेतुत्वासम्भवेऽपीन्द्रियसंयोगादेरेव जातिविशेषेण हेतुत्वस्यावश्यकत्वात्तजन्यत्वमेव विशेषणमस्तु । किं च । घटत्वांशे अन्याप्रकारकं घटत्वप्रकारकं प्रत्यक्षं परोक्षं च त्वयापि स्वीकार्यमेव । आनुभाविकत्वात् । तथा च तस्यैवोक्तसंशयविरोधिलस्तीकारानोक्तदोष इति चेन्न । प्राचीनतार्किकादिमते समानविषयकनिश्चय एत विरोधि । न तु समानाकारः । अत एव 'अयं जातिमान् ' 'अयं तव्यक्तित्वविशिष्टवान्' 'अयं घटत्वप्रकारकप्रमाविशेष्यान्यासमवेतवा नित्यादिवटत्वनिश्चयस्याप्युक्तसंशयविरोधित्वं तैः स्वीक्रियते । तथा च घटत्वांशे अन्याप्रकारकत्वमनिवेश्य घटत्वप्रकारकत्वनिश्चयत्वेनैव विरोधित्वस्वीकारात् 'प्रमेयव'दिति निश्चयस्य विरोधित्वं दुर्वारम् । अत एव निर्धर्मितावच्छेदकत्वान्नो
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२८
www.kobatirth.org
अद्वैतमं ।
Acharya Shri Kailassagarsuri Gyanmandir
क्तज्ञानं विरोधीत्यपि निरस्तम् । समानविषयकस्यैव विरोधित्वात् । ययक्तौ यद्व्यक्त्यभावप्रकारकं यत् ज्ञानं तद्व्यक्त्यंशे तव्यक्तिविषयकज्ञानस्यैव तत्समानविषयकत्वात्तादृशज्ञानजन्यस्य 'प्रमेयवदिद' मित्यादिज्ञानस्य विरोधित्वसम्भवाच्च । ननु, बौद्धाधिकारे प्रकाशस्य सतस्तदीयतामात्ररूपः स्वभावविशेषो विषयतेत्युक्तम् । तत्र शिरोमण्यादिभिर्व्याख्यातम् । 'प्रकाशस्य ज्ञानस्य सतो विद्यमानस्य तदीयतामात्ररूपः घटादिविषयसम्बन्धरूपो विषयता । सामान्यतो विषयता ज्ञानमेव । घटादिविषयता तु घटादिसम्बन्धितत्तद्धीखरूपा । विषयस्याविद्यमानत्वेऽपि विद्यमा नज्ञानरूपस्य विषयत्वस्य 'इदानीं स विषयो ज्ञातः इदानीं तस्य ज्ञान' मित्यादिव्यवहारे कालविशेषावच्छिन्नत्वभानमुपपद्यते । विषयस्य विषयतात्वे तु तस्याविद्यमानत्वे विषयत्वस्य तन्नोपपद्यते । अतो ज्ञानमेव विषयतेति ज्ञापनाय सत इत्यनेन ज्ञानस्य विद्यमानतोक्ता । सम्बन्धसम्बन्धिनोश्राभेदो न दोषाय । सर्वत्र स्वरूपसम्बन्धस्थले तथा कल्पना 'दिति । तथा च ' प्रमेयव' दिति ज्ञानस्य घटे घटत्वप्रकारकत्वेऽपि नोक्तसंशयविरोधित्वम् । ज्ञानरूपविषयता विशेषरूपस्य प्रकारत्वस्य तत्तज्ज्ञानव्यक्तित्वेनैव रूपेण प्रतिबन्धकतावच्छेदके निवेश्यत्वेन 'प्रमेयव' दितिज्ञानव्यक्तेस्तद्व्यक्तित्वेन तत्रानिवेशसम्भवात् । तत्राह - स्वरूपसम्बन्धेत्यादि । स्वं न स्वस्य सम्बन्धः । 'स्वं न स्वीय' मित्यनुभवात् । अथ तत्तद्व्यक्तित्वेन सम्बन्धत्वं, ज्ञानत्वादिना सम्बन्धित्वम्, इति रूपभेदेन भेदं स्वीकृत्य स्वस्यापि स्वप्रतियोगिकसम्बन्धत्वं वाच्यम् । तथापि ज्ञानत्वविशिष्टस्य तद्व्यक्तित्वविशिष्टाभेदे तयोर्भेदासम्भव इति भेदे मिथ्यात्वस्य वाच्यत्वेनानिर्वचनीयवादापत्तिः । अथ तयोरत्यन्तभेदः, तदा भाषान्तरणातिरिक्तविषयतैव स्वीकृता । नन्वास्तामतिरिक्तैव विषयता । उक्तं च शिरोमण्यादिभिः । यदि ज्ञानमेव विषयता, तदा 'घटपटा 'विति समूहालम्बनस्य घटेऽपि पटत्वप्रकारताशालित्वापत्त्या भ्रमत्वापत्तिः । तद्धीरूपाया घटत्वप्रकारताया एव पटत्वप्रकारतात्वेन घटे पटत्वस्य प्रकारत्वसत्त्वात् । अथ यथा समवायः केवल एव सत्तायास्सम्बन्धः । रूपाद्यवच्छिन्नस्तु रूपादेः । तथा निर्विकल्पकज्ञानं केवलमेव विषयता । सविकल्पं तु तत्तत्प्रकारावच्छिन्नम् । तथा समूहालम्बनं घटत्वविशिष्टं सत् घटस्य विषयता । न तु पटत्वविशिष्टम् । यद्विशिष्टं ज्ञानं यस्य विषयता तत् तत्र विशेषणमुच्यते । न चैवं घटत्वविशेषणकज्ञानस्य घटत्वविषयतात्वं न स्यात् । प्रकारविशिष्टस्यैव सविकल्पकस्य विशेष्यं प्रति विषयतात्वात् । प्रकारीभूतघटत्वादिविशिष्टं तु ज्ञानं न घटत्वादावस्ति । स्वविशिष्टस्य स्वस्मिन् सत्त्वासम्भवात् । स्वप्रकारोपलक्षितस्यं स्वप्रकारोपहितस्य वा तस्य विषयतात्वे
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र ० दे प्रत्यक्षबाधोद्धारः ] लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१३९
।
घटत्वोपलक्षिततदुपहितयोः पटेऽपि सत्त्वादुक्तदोषावरणादिति वाच्यम् । प्रकारावच्छिन्नं हि ज्ञानं विशेष्यं प्रति विशेष्यता । विशेष्यविशेषणे प्रति विषयतात्वं तु केवलस्यैव सविकल्पकस्य । एवं च यदवृत्तिना येन विशिष्टं यत् ज्ञानं यस्य विषयता, तत्र तस्य तत् भ्रमः । यद्वृत्तिना येन विशिष्टं यत् ज्ञानं यस्य विषयता, तत्र तस्य तत् प्रमा । वस्तुतस्तु येन सम्बन्धेन यत्ति यद्विशेषणविशिष्टेन येन सम्बन्धेन विशिष्टं ज्ञानं यस्य विशेष्यता, तेन सम्बन्धेन तत्र तस्य तत् प्रमेति वाच्यम् । एवं येन सम्बन्धेन यदवृत्तीत्यादिरीत्या भूमो - वाच्यः । तथा च यद्विशिष्टेन येन सम्बन्धेन विशिष्टं ज्ञानं यत्र विशेष्यता, तत्र तयोराद्यं विशेषणम् । अन्त्यं संसर्ग इति लभ्यते । विशेषणसंसर्गयोवैशिष्ट्यं तु सामानाधिकरण्यमेकस्मिन् ज्ञाने तत्स्वरूपविषयतासम्बन्धेन सम्बन्धित्वम् । ज्ञाने संसर्गस्य वैशिष्ट्यं तु ज्ञानस्वरूपा विषयतैव । न चैवमपि घटत्वेन घटो ज्ञानविशेष्य इति न स्यात् । घटत्वविशिष्टज्ञानरूपविशेष्यताया विशेष्यशब्देनैव लाभेन घटत्वेनेत्यस्य पुनरुक्तत्वापत्तेरिति वाच्यम् । विशेष्यशब्देन किञ्चिद्धर्मविशिष्टेन किञ्चित्सम्बन्धेन विशिष्टं ज्ञानमुच्यते, न तु घटत्वादिधर्मविशिष्टेन समवायेन विशिष्टम् । तथा सति ज्ञात इत्युक्ते केन रूपेणेति प्रश्नानुपपत्तेः । तथाच घटत्वेन घटो ज्ञात इत्यादौ घटत्वाद्यभिन्नवर्मविशिष्टसम्बन्धविशिष्टज्ञानरूपविषयतासम्बन्धी घट इत्यर्थकत्वान्न घटत्वेनेति पुनरुक्तमिति चेन्न । घटत्वे समवायेन घटप्रकारकज्ञानस्यापि घटविशेष्यकत्वापच्या 'अयं घट' इत्याकारकतद्धीव्यक्तिस्तादृशसमवायविशिष्टा घटविशेष्यतेति वाच्यम् ! तथा च घटनिष्ठा तद्धीव्यक्तिर्विशेष्यता । घटत्वनिष्ठा विशेषणता । समवायनिष्ठा संसर्गतेत्यस्यैव लाघवादापत्तेः । घटेच्छादौ घटादिविषयकज्ञानादीनामनुगतरूपेण कारणत्वाद्यनुपपत्तेश्च । किं च विशेषणविशिष्टेन संसर्गेण विशिष्टं ज्ञानं विशेष्यस्य विशेष्यता । अथ वा विशेष्यविशिष्टेन संसर्गेण विशिष्टं ज्ञानं विशेषणं प्रति विशेषणता । तयोराद्यनिष्ठतडी रूपविषयता विशेष्यता । अन्त्यनिष्ठतीरूपविषयता संसर्गता । अथवा विशेष्यविशिष्टेन विशेषणेन विशिष्टं ज्ञानं संसर्गं प्रति सांसर्गिकविषयता । तयोराद्यनिष्ठा सा विशेष्यता । अन्त्यनिष्ठा सा विशेषणतेत्यस्य विधात्रयस्याविनिगम्यत्वात् प्रागुक्ता विशेष्यादिव्यवस्था दुर्लभा । तस्मादतिरिक्तैव विषयता । तद्विशेषास्तु प्रकारत्वादयः । एवं विषयतात्वप्रकारतात्वादिकमपि । एतेन प्रतियोगित्वाधिकरणत्वादयोऽपि व्याख्याताः । विषयताया अपि विषयता अतिरिक्तैव । एवं तस्या अपीति प्रामाणिकी अनवस्था स्वीक्रियत एव । अन्यथानुपपत्तेः ।
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
सा च ज्ञाननिष्ठा । ज्ञाननिष्ठानुगतकारणाताद्यवच्छेदकतया कल्प्यमानत्वात् । न च विषयनिष्ठापि सा प्रतियोगितासम्बन्धेन तदवच्छेदिकास्त्विति वाच्यम् । कारणवृत्तिधर्मस्यैव कारणतावच्छेदकत्वेन कल्पनस्यौचित्यात् । तत्प्रतियोगितया चार्थे विषयत्वव्यवहारः । परे तु 'विषयत्वविषयित्वे भिन्ने एव । प्रतियोगित्वानुयोगित्वे इव भावाभावयो'रित्याहुः । इत्थं च स्वभावविशेष इत्यस्य स्वीयधर्मविशेष इत्यर्थः । प्रकाशस्येत्यनेन ज्ञानधर्मस्य विषयतात्वोक्त्या इच्छादेर्न स्वधर्मो विषयता । किं तु घटादिविषयकज्ञानजन्यत्वं घटादिविषयकज्ञानमेव वेति प्राञ्चः।तन्न । जन्यतावच्छदकतथेच्छादावपि विषयतासिद्धेः । ईश्वरेच्छाया जन्यत्वाभावेन तत्रोक्तरीत्यसम्भवात् । ज्ञानोपरमेऽपीच्छादौ सविषयकत्वव्यवहारस्य ज्ञानेनासंभवात्। इच्छायामेव स्वभावो विषयता । ज्ञाने तु तज्जनकत्वमित्यस्यैवापत्तेश्च । तस्मात् ज्ञान इवेच्छादावप्यतिरिक्तैव विषयता । तदयं शिरोमणितदीयटीकासिद्धार्थः । तथा च 'घटो न वे'ति संशये घटत्वांशे अन्याप्रकारकत्ववाटितरूपेण प्रतिबन्धकत्वे गौरवं यद्यपि, तथापि घटत्वस्य या प्रकारतान्तरनिरूपितप्रकारतान्यप्रकारता, तच्छालिनिश्चयत्वेनैव तत्सम्भवात् । 'प्रमेयवदिति निश्चयस्योक्तसंशयविरोधित्वे मानाभावः । न चोक्तप्रकारतान्यत्वनिवेशे गौरवात् घटत्वप्रकारतावन्निश्चयत्वेनैव तत्स्वीकारादुक्तनिश्चयस्याप्युक्तविरोधित्वसिद्धिरिति वाच्यम् । प्रमेयत्वाद्यवच्छिन्नप्रकारताभ्यः शुद्धघटत्वादिप्रकारताया भिन्नत्वेन तद्व्यक्तेः निश्चयोपरि घटत्वस्य संसर्गतया निवेशनागौरवात् । न च जातित्वतव्यक्तित्वादिरूपेण घटत्वप्रकारतावन्निश्चयस्यापि विरोधित्वान्नोक्तरूपेण प्रतिबन्धकत्वकल्पनं युक्तमिति वाच्यम् । तादशनिश्चयस्योक्तविरोधित्वे विवादात् । निश्चिताव्यभिचारकं रूपं परित्यज्य गृह्यमाणव्यभिचारकेण रूपेण कारणत्वकल्पनस्यान्याय्यत्वात् । अयं घटत्वत्वविशिष्टवानिति निश्चयस्योक्तविरोधित्वे सर्वसम्मतत्वेऽपि न क्षतिः । घटत्वत्वस्य घटेतरासमवेतत्वरूपघटत्वव्याप्यतारूपत्वेन तद्विशिष्टप्रकारकनिश्चयत्वेन पृथगेव प्रतिबन्धकत्वस्वीकारादिति चेन्न । तस्य पूर्वपक्षस्य स्वरूपसम्बन्धेत्यादिमूलेन निरस्तत्वात् । स्वं स्वीयज्ञानीयं यत् भासमानवैशिष्ट्यप्रतियोगित्वानुयोगित्वाभ्यामतिरिक्तं प्रकारताविशेष्यतारूपं तस्य ज्ञानविषययोस्सम्बन्धविशेषस्याभ्युपगमे अनिर्वचनीयस्य विचारासहस्य वादस्योक्तसम्बन्धकथनस्यापत्तेरित्यस्योक्तमूलार्थत्वसम्भवात् । ननु, कथमुक्तवादो विचारासह इति चेदत्रोच्यते । न प्रकारताविशेष्यते क्लुप्तपदार्थातिरिक्ते । भासमानवैशिष्टयप्रतियोगित्वानुयोगित्वयोः क्लुप्तयोरेव तद्रूपता-- सम्भवात् । सांसर्गिकविषयतामात्रमतिरिक्तं स्वीक्रियते । तथा च संयोगेन घटविशि
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षबाधोद्धारः ]
लघुचन्द्रिका ।
प्टबुद्धौ संयोगीयप्रतियोगितानिरूपितानुयोगित्वस्य संसर्गतया भानात् संयोगीयसांसर्गिकविषयतानिरूपितप्रतियोगित्वीयोक्तविषयतानिरूपितानुयोगित्वीयोक्तविषयता - सत्त्वादुक्तविषयताश्रयप्रतियोगित्वानुयोगित्वयोः प्रकारताविशेष्यतात्वसम्भवः । न च प्रकारतां विशेष्यतां वा अतिरिक्तां स्वीकृत्य तदाश्रयप्रतियोगिकत्वं तदाश्रयानुयो। गिकत्वं वा सांसर्गिकविषयत्वम् । नत्वतिरिक्तमित्येव कुतो न स्वीक्रियत इति वाच्यम् । संयोगेन रूपादिप्रकारकज्ञानस्थले तदसम्भवात् । न च प्रतियोगित्वादावपि विशेषणाद्यशे प्रकारतामङ्गीकृत्य संयोगादेरूपादिनिष्ठप्रकारतानिरूपितप्रकारताश्रयप्रतियोगित्वनिरूपकत्त्वरूपं सांसर्गिकविषयत्वमुच्यतामिति वाच्यम् । प्रतियोगित्वादेः प्रकारतया भानस्य सर्वानुभवविरुद्धत्वात् निप्प्रकारकज्ञाने निर्विकल्पकीयविषयतायाः क्लप्तत्वात् । तस्या एव विशेषणविशेप्ययोः स्वीकारात्तयोः विषयत्वव्यवहारः । तथा च यदीययोः प्रतियोगित्वानुयोगित्वयोस्संसर्गता तत्त्वे सति विषयत्वं प्रकारताविशेष्यते । वस्तुतस्तु, यदीयप्रतियोगितात्वेन रूपेण सांसर्गिकविषयता तत्त्वं प्रकारत्वम् । एवं विशेष्यता । तथा च विशेषणविशेष्ययोरपि सांसर्गिकमेव विषयत्वम् । तदन्यप्रकारत्वं न स्वीक्रियते । 'घटप्रतियोगिकभूतलानुयोगिकसंयोगेन द्रव्यवा'नित्यादिज्ञाने परेणापि घटत्वाद्यवच्छिन्नसांसर्गिकविषयतायाः स्वीकृतत्वान्न तत्कल्पनेऽस्माकं गौरवम् । एतेन स्वाश्रयसंयोगेन घटत्वप्रकारकज्ञानस्यापि घटत्वविशिष्टप्रकारकत्वापत्तिरित्यादिकमपास्तम् । घटत्वावच्छिन्नप्रतियोगितात्वरूपेण प्रतियोगित्वसंसर्गकज्ञानस्यैव घटत्वावच्छिन्नप्रकारताकशब्देन व्यवहारात्। अथ तादृशसांसर्गिकविषयताकधीत्वादिना कारणत्वादिकल्पनमपेक्ष्य घटत्वाव. च्छिन्नप्रकारतानिरूपितसंयोगत्वाद्यवच्छिन्नसांसर्गिकविषयताकधीत्वादिना कारणत्वादिकल्पने लाघवात् सांसर्गिकविषयतानात्मकप्रकारतैव कल्प्यतामिति चेन्न । तादृशप्रकारताविशेष्यतयोः कल्पनामपेक्ष्योक्तगुरुरूपेण कारणत्वादेरेव युक्तत्वात् । प्रतियोगित्वानुयोगित्वविषयताहि विशिष्टबुद्धौ सर्वलोकानुभवसिद्धा । अस्मिन् ज्ञाने भूतले घटस्य संयोगः संसर्गतया विषयः । तत्र तस्य संयोगो मया संसर्गतया ज्ञात इत्यादि लोकानुभवात् । किं च संयोगो न रूपप्रतियोगिक इति निश्चये सत्यपि संयोगेन रूपप्रकारकबुद्ध्यापत्तेः । संयोगो न रूपानुयो. गिक इति निश्चये सत्यपि रूपे संयोगेन घटादिप्रकारकबुध्यापत्तेश्च विशिष्टबुद्धिमात्रे विशेषणप्रतियोगिता विशेष्यानुयोगिता च न भातीति मतं हेयमेव । तदाने तु बाधविधया तद्विरोधिनीति ध्येयम् । किं च 'भूतलं घटवदि'त्यादिज्ञानस्य कदाचिद्विशिष्टवैशिष्ट्यबुद्धित्वं कदाचिद्विशेष्ये विशेषणं तत्रापि च विशेषणान्तर
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
मित्येवं रीत्या बुद्धित्वमिति व्यवस्थासिद्धये घटत्वाद्यवच्छिन्नप्रतियोगिताकसंयोगित्वेन यत्र सांसर्गिकविषयता, तत्र विशिष्टवैशिष्ट्यधीत्वम् । यत्र तु प्रतियोगितात्वमात्रेण । न तु घटत्वाद्यवच्छिन्नत्वं प्रतियोगितायां भाति । तत्र द्वितीयबुद्धित्वम् । अन्यथा विषयवैलक्षण्यं विना विषयतावैलक्षण्ये ज्ञानयो(लक्षण्यासम्भवात् । 'अर्थेनैव विशेषो हि निराकारतया धियामि' त्याचार्योक्तेः । 'अयं घट' इत्यादौ विशिष्टवैशिष्ट्यस्याविषयत्वेऽपि समवायप्रतियोगित्वानुयोगित्वभानं विशिष्टबुद्धिमात्रे ऐकरूप्यानुरोधात् । अथवा प्रतियोगित्वानुयोगित्वयोरेव संयोगादिनिष्ठसांसर्गिकविषयतानिरूपितत्वं प्रकारताविशेष्यतारूपत्वं च स्वीक्रियते। तथा च शिरोमण्याद्युक्तवाक्ये प्रकारत्वादेः प्रतियोगित्वानुयोगित्वादिक्लप्तपदार्थातिरिक्तत्वोक्तिरसङ्गता । उक्तवाक्ये हि एतेन प्रतियोगित्वाधिकरणत्वादयोऽपि व्याख्याता इत्यनेन प्रतियोगित्वानुयोगित्वमतिरिक्तमुक्तम् । तस्मादतिरिक्तैव विषयतेत्यादिना च प्रकारत्वादि व्यतिरिक्तमुक्तम् । अथ प्रतियोगित्वानुयोगित्वपदमभावनिष्ठानुयोगित्वस्याभावीयप्रतियोगित्वस्य चैव बोधकम् । न तु सम्बन्धप्रतियोगित्वानुयोगित्वयोरपि । तयोः प्रकारत्वादिशब्देनैव उक्तत्वादिति चेन्न । अधिकरणत्वशब्दस्य सम्बन्धानुयोगितासामान्यवचनत्वेन सत्समभिव्याहतप्रतियोगिताशब्दस्यापि सम्बन्धप्रतियोगितासामान्यवचनत्वात् । आदिपदेनैवाभावीयप्रतियोगित्वादेग्रहणात् । ननु, सम्बन्धप्रतियोगित्वानुयोगित्वयोः प्रतियोग्यनुयोगिस्वरूपत्वस्यैव सम्भवेन प्रतियोगित्वानुयोगित्वपदं न तदर्थकमिति चेन्न । 'तव्यक्तिस्तद्विशिष्टे'ति ज्ञानस्य प्रमात्वापत्त्या तयोरतिरिक्तत्वस्यावश्यकत्वात् । येन हि संयोगेन तद्यक्तेर्भूतलादौ प्रमा, तेनैव भूतलादेरपि तस्यां प्रमा । तथा च तस्य संयोगस्य तव्यक्तिप्रतियोग्यनुयोगिकत्वेनोक्तापत्तिः स्यादेव । तयोः अतिरिक्तत्वे तु तव्यक्तिनिष्ठप्रतियोगितानिरूपितानुयोगितायाः तत्तव्यक्तिनिष्ठत्वाभावान्नोक्तापत्तिः । न च तद्व्यक्तिरूपा या संयोगीयप्रतियोगिता तन्निरूपितानुयोगितारूपे धर्मिणि संयोगेन तव्यक्तिप्रकारकत्वं संयोगेन तद्व्यक्तिप्रमात्वमित्युक्त्यैवोक्तापलिवारणसम्भवादतिरिक्तयोः तयोः स्वीकारो न युक्त इति वाच्यम्। 'तद्यक्तिद्रव्य'मितिप्रमायास्सत्त्वेन द्वव्यत्वरूपेण तव्यस्स्स्वात्मकानुयोगितानिरूपकप्रतियोगितारूपत्वात् संयोगीयत्वाञ्चोक्तापत्तितादवस्थ्यात् । तस्मादतिरिक्तप्रतियोगित्वादेरावश्यकत्वात् तदन्यप्रकारत्वाद्युक्तिः उक्तवाक्येन युक्ता ! यदि चोक्तवाक्ये प्रतियोगित्वादिशब्देनाभावप्रतियोगित्वादिकमुच्यते । प्रकारत्वादिशब्देन तु भासमानवैशिष्टयप्रतियोगित्वादिकमुच्यते। तथापि तस्य विशिष्टबुद्ध्यविषयत्वोक्तिः सम्बन्धसस्वन्धाग्रहेऽपि विशिष्टज्ञानस्योपपादितत्वादिति मणिदीधितिवाक्येन युक्ता । उक्तयुक्तिभिस्तस्य विशि
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षबाधोद्धारः]
लघुचन्द्रिका।
ष्टधीविषयत्वस्यावश्यकत्वात् । तस्मात् पक्षधरान्तप्राचीनतार्किकादिसम्मतं भासमानवैशिव्यस्य भासमाने प्रतियोगित्वानुयोगित्वे प्रकारताविशेष्यते इति तु मतमेव रम्यम् । तथा च 'प्रमेयव'दिति निश्चयस्य 'अयं घटो न वेति धीविरोधित्वं दुर्वारम् । ननु, भासमानवैशिष्ट्यप्रतियोगिता शुद्धघटत्वादिनिष्ठा तादृशधीविरोधितावच्छेदके निवेश्या । प्रमेयत्वाद्यवच्छिन्ना तु सा ततोऽन्येति नोक्तनिश्चये उक्तविरोधित्वापत्तिरिति चेन्न । प्रमेयत्वघटत्वत्वाद्यवच्छिन्नप्रतियोगितानामन्यतमस्यैव घटो न वेत्यादिज्ञाने भानेन तस्यास्तदन्यत्वे मानामावात् ।
इति लघुचन्द्रिकायां प्रत्यक्षबाधोद्धारे सामान्यप्रत्यासक्तिभङ्गः ॥
तादृगिति । प्रतिपन्नोपायौ त्रैकालिकनिषेधेत्यर्थः । साक्षात् ज्ञानाज्ञानविशेषणनैरपेक्ष्येण गगनादेः साक्षिमास्यत्वस्वीकारात् । भाविकालनिषेधेति । भाविकाले प्रतीयमाननिषेधेत्यर्थः । साक्षिणः प्रमाणवृत्त्यनुपहितसाक्षिणः । विद्यमानसर्वावभासकत्वेन विद्यमानमात्रे तादात्म्येन विद्यमानकाले सम्बद्धतया । अविद्यमानेत्यादि । अविद्यमानो यो भाविबाधः भाविकालावच्छिन्नं प्रतिपन्नोपाधौ निषेधप्रतियोगित्वधीविषयत्वं, तदभावासाधकत्वादित्यर्थः । उक्तधीविषयत्वस्येदानी साक्ष्ययोग्यत्वात्तदभावोऽपीदानी तथा । साक्षिणैव हि ताढशविषयत्वं ज्ञेयम् । तत्र मानान्तरस्येदानीमनवतारात् ।अवतारे वा तत एव तदभावग्रहासम्भवादिति भावः । अज्ञाततया तादृशामावग्रहणं तु न वस्तु साधकम् । तस्याज्ञातांशे निश्चयत्वाभावात् । साक्षिग्राह्यत्वं स्वीकृत्याह-भ्रमप्रमेति । सुखाद्यंशे प्रमात्वस्येव शुक्तिरूप्याद्यंशे भ्रमत्वस्यापि गृह्ममाणत्वेन त्रिकालनिषेधाप्रतियोगित्वांशेऽपि भूमत्वशङ्कासम्भव इति भावः । व्यवहारेत्यादि । व्यवहारकालाबाध्यविषयकत्वमात्रेण ज्ञाने प्रवृत्तिसामान्यप्रयोजकत्वादिसंवादोपपतेरित्यर्थः । ननु, दोषसमवहितप्रमायां प्रमात्वाग्रहेऽपि प्रवृत्यापत्तेः प्रमात्वेन ज्ञायमाननिश्चय एव प्रवर्तकः । त्वन्मते च विषयाबाधस्य साक्ष्यग्राह्यत्वात् तस्यानुपपत्तिस्तत्राह-तद्रूपति । ननु, त्वन्मते संवादिप्रवृत्तिर्न स्यात् । तस्यां त्रिकालाबाध्यविषयकत्वेन हेतुत्वकल्पनादित्याशङ्कय प्रवृत्तौ यादशमविसंवादित्वं तद्धटितमेव प्रमात्वं प्रवर्तकज्ञानेऽपेक्ष्यते । औचित्यादित्याशयेनाहन हीत्यादि । संवादीति । व्यवहारकालाबाध्यविषयकेत्यर्थः। व्यावृत्तमिति । शुक्तिरूप्यादिविषयकप्रवृत्तेरुक्तसंवादित्वाभावात् शुक्तिरूप्यादिज्ञानाच्यावृत्तं प्रामाण्यमुक्तप्रवृत्तिप्रयोजकमिति भावः । विषयकत्वमेवेति । स्मृतेरपि संवादिप्रवृत्तिजनकत्वात् तत्साधारण्यं नदोषायेति भावः । अनेन इदानीन्तनेन प्रपञ्चज्ञा
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
नेन । अनित्यत्वादीत्यादिना निषेधस्याव्याप्यवृत्तित्वम् । एवकारात्तु न मिथ्यात्वधारूपो बाधः । मिथ्यात्वस्य प्रतिपन्नदेशकालावच्छिन्नघटितत्वादिति भावः । अबाध्यत्वेति । प्रतिपन्नदेशकालावच्छिन्ननिषेधस्य यत् प्रतियोगित्वं तद्धीविषयत्वसामान्याभावस्यानवच्छिन्नाधिकरणत्वेत्यर्थः । प्रामाण्यं व्यवहारकालावच्छिन्नस्य मिथ्यात्वनिश्चयाविषयत्वस्य य आश्रयः तद्विषयकधीत्वरूपम् । अत्रेदं बोध्यम् । तद्रूपप्रामाण्यस्य साक्षिणा ग्रहणेऽपि विरोधाभावादिति यदुक्तं तत्रापिशब्देन तद्रूपप्रामाण्यं न साक्षिणा ग्रहीतुं शक्यत इति सूचितम् । तथा च तार्किकादिरीत्या साक्षाक्रियमाणस्यैव साक्षिभास्यता वक्तुं शक्या । अन्यथा पिशाचाद्यभावस्यापि तदुक्त्यापत्तेः । ताकिकादिरीत्या तु व्यवहारकालावच्छिन्नस्य मिथ्यात्वनिश्चयाविषयत्वस्य न साक्षात्कारम्सम्भवति । घटादिकं यदि व्यवहारकाले मिथ्यात्वेन निश्चीयेत, तदा तथा मयोपलभ्यतेत्यापादनासंभवेन योग्यानुपलम्माभावात् । पुरुषान्तरीयमिथ्यात्वनिश्चये सत्यपि मयि तदभावेन मम तथोपलम्भाभावसम्भवात् । अथ निश्चीयेतेत्यत्रापि मयेति विशेषणं देयं, तथा ऽपि व्यवहारकालीनस्य भूतभाविकालघटितस्यापि सम्मवेन तद्धटितस्य बाधस्य सत्त्वेऽपि नोपलम्भसम्भव इति न तदापत्तिः । किं च मिथ्यात्वमतीन्द्रियासन्निकटाभावादिघटितमिति तद्धटितनिश्चयविषयत्वस्य सत्त्वेऽपि तत्त्वेन रूपेणोपलम्भासम्भवान्नोपलम्भापत्तिरिति नानुपलब्धेः प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वरूपा योग्यतेति । न चैवं प्रमात्वस्य स्वतोग्राह्यत्वाभावाद्दोषासमवहितज्ञानमात्रस्य प्रमात्वग्राहकमानानवतारेऽपि प्रवर्तकत्वमानुभाविकं व्याहन्येतेति वाच्यम् । मिथ्यात्वेन अज्ञातं यत् तदविषयकज्ञानत्वरूपप्रमात्वस्य ज्ञानसामान्यग्राहकसाक्षिग्राह्यत्वरूपस्वताग्राह्यत्वसम्भवान् प्रवृत्तिसामान्ये ताढशप्रमात्वेन ज्ञायमाननिश्चयस्य हेतुत्वसम्भवात् 'ज्ञातत्वेनाज्ञातत्वेन च सर्वं साक्षिभास्य'मिति विवरणोक्तेः । अज्ञातत्वेन मिथ्यात्वविशिष्टस्य साक्षिभास्यत्वसम्भवात् भ्रमेऽपि बाधात् पूर्वमुक्तप्रमात्वधीसम्मवेन ततः प्रवृत्तिसम्भवात् । एवं संवादिप्रवृत्तौ व्यवहारकालाबाध्यविषयकत्वेन हेतुत्वे न मानम् । संवादित्वस्य विसंवादित्वस्य वा जन्यतानवच्छेदकत्वात् । अन्यथा विषयनिष्ठा यावन्तो धर्माः सद्व्यक्तितदन्यव्यक्त्यन्यतरत्वादयस्तत्प्रत्येकवदंविशेष्यकप्रवृत्तित्वेनापि जन्यतापत्तेरिति भावः । (ननु, दृश्यत्वादिहेतोः प्रत्यक्षबाध्यत्वं मास्तु । अनुमानबाध्यत्वं तु स्यात् । येन हेतुना भवतां व्यावहारिकत्वस्यानुमितिः पूर्व सिद्धा । तेनैव पारमार्थिकत्वस्यानुमितिस्सिन्हा । सा चेदानीं जायमानायां मि
१. 'दृश्यत्वादिहेतोः प्रत्यक्षबाध्यत्वे निरस्ते अनुमानबाध्यत्वं शङ्कते ।' इति पाठान्तरम् ।
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षप्राबल्यभङ्गः] लघुचन्द्रिका ।
थ्यात्वानुमितौ प्रतिबन्धिकेत्याशयेन शङ्कते । ) न चेति । प्रातिमासिकेति । ब्रह्माविषयकधीबाध्येत्यर्थः । विषयकत्वादीति । 'सोऽय'मिति वाक्यजन्यनिष्प्रकारकधीबाध्यभेदबुद्धेरुक्तवैलक्षण्याद्विषयकत्वादीत्यादिपदमुक्तम् । तेन ब्रह्मधीबाध्यविषयकत्वसङ्ग्रहः । तनिषेधेति । तेन रूपेण द्वैतनिषेधेत्यर्थः । अप्रसक्तप्रतिपेधकतेति । येन रूपेण यत्र यत् न ज्ञातं, तेन रूपेण तत्र तन्निषेधकतेत्यर्थः । चक्षुरादीत्यादि । दृश्यत्वादिरूपेण चक्षुरादिना ब्रह्मणि ज्ञातस्य द्वैतस्य निषेधपरत्वादित्यर्थः । नान्तरिक्ष इत्यादि । यत्र निषेधे तात्पर्य, तत्र प्रतियोगिप्रसक्त्यादिकं विना तत्कल्पनवैयर्थ्यात् तदावश्यकता । यत्र तु नान्तरिक्ष इ. त्यादौ न प्रतिषेधपरत्वम् । किं तु मानान्तरसिद्धतदनुवादद्वारा विधेयस्तुतिपरत्वं तत्र न तदावश्यकता । तथा च सत्यत्वविशिष्टद्वैतरूपप्रतियोगिनो ब्रह्मणि ज्ञानरूपां प्रसक्तिं विनापि मिथ्यात्वानुमानादिसिद्धस्य ब्रह्मगतस्य सत्यत्वरूपेण द्वैताभावस्यानुवादद्वारा उक्तश्रुतीनां विधेयब्रह्मस्तुतिपरत्वमिति भावः । अर्थवादाधिकरणे 'न एथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवी'त्यत्र न प्रतिषेधधीः। प्रतियोगिनोऽन्तरिक्षादिनिष्ठचयनस्याप्रसक्तत्वात् । चयनविधिना एथिव्यां चयनस्य प्रमितत्त्वेन प्रतिषेधबुद्ध्यसम्भवात् । न च पाक्षिकत्वाय निषेध इति वाच्यम् । 'यद्यग्नि चेष्यमाणा' इति पाक्षिकत्वसिद्धवदनुवादादिना तस्य सिद्धत्वात् । तस्मादुक्तवाक्यमप्रमाणमिति प्राप्ते, न पृथिव्यामिति वाक्यं शुद्धष्टथिव्यां चयनाभावस्य नित्यानुवादो 'हिरण्यं निधाय चेतव्य'मिति विहितहिरण्यस्तुत्यर्थः । तदुपपादकं नान्तरिक्ष इत्यादिकम् । यथान्तरिक्षादौ न चयनं, तथा शुद्धपृथिव्यामिति सिद्धान्तितम् । तात्पर्यवदिति । तात्पर्य तत्परता । ब्रह्मपरतेति यावत् । पिपासोपशमनेति । दुःखविशेषानुत्पादेत्यर्थः । सामर्थ्योति । प्रयोजकशक्तीत्यर्थः । पर्यवसायिनी विशिष्टा । न लौकिकमित्यादि । लौकिकादिप्रत्यक्षं न मिथ्यात्वानुमापकस्य बाधकम् । नापि पारमार्थिकत्वसाधकं लिङ्गं तद्बाधकमित्यर्थः । प्रत्यक्षयोग्यसत्त्वासम्भवात् प्रत्यक्षबाधोद्धारः ॥ इति लघुचन्द्रिकायां प्रत्यक्षबाधोद्धारः ।।
भासते । आरोप्योत्पत्तिकालोत्पन्नतादात्म्यापन्नं सदपरोक्षतया भाति । तथा च सत्तादात्म्यांशे लौकिकमपि प्रत्यक्षं न बाधकम् । तस्य मिथ्यात्वेन प्रपञ्चमिथ्यात्वसिद्ध्यनुकूलत्वादिति भावः । प्राक् मिथ्यात्ववादे । अधिष्ठानानुवेधः आरोप्यघटादितादात्म्यापन्नमधिष्ठानम् । घटादिष्वस्ति आरोप्यमाणे कार्यवर्गे घटादावन्तर्भूतम् । न त्वधिष्ठानम् । सत्त्वं सद्रूपम् । न तथा नारोप्यमाणकार्यवर्गान्तर्गतम् । अस्य उक्तार्थस्य । अथ संदूपज्ञानस्य वेदान्तवाक्याधीनस्य सद्रूपनिष्ठवटादितादात्म्यबाधकत्वेन सद्रूपं
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
नारोप्यान्तर्गतमिति समाधत्ते-न सन्नित्यस्येति । आरोप्यवर्गों न सद्रूपघटित इति साध्ये हेतुः सन्नित्यस्येत्यादि । अनेनेति तृतीया सहार्थे । सामानाधिकरण्यस्य तादा. त्म्यस्य । सन्नित्यस्येति सामानाधिकरण्ये बाधे चान्वेति । तथा च सन्नित्यस्य घटादिना सहितं यत् तदीयतादात्म्यं भ्रमे प्रतीयते, तस्य सद्रूपज्ञानरूपबाधोच्छद्यत्वादित्यर्थः । अत्रोक्तोच्छेदयोग्यत्वं सदुपादानकत्वसदास्यत्वादिकं हेतुतया विवक्षितम् । तेन नोक्तान्योन्याश्रयः । तमेव हेतुं साधयति-तथा हीत्यादिना युक्तमित्यन्तेन । निबन्धनं घटितम् । जातेस्सर्वगतत्वपक्षे अभावादौ तत्सत्त्वेऽपि तदस्फुरणादेव तत्सामानाधिकरण्यबुद्ध्यभावः । अतो जातिस्फुरणेत्युक्तम् । अन्यथा, साक्षात्सम्बन्धस्य प्रामाणिकत्वसम्भवेऽपि परम्परासम्बन्धकल्पने । सम्बन्धभेदः साक्षात्सम्बन्धनानात्वम् । घटादेस्संयोग एव समवाय एव वा साक्षात्सम्बन्धोऽस्तु । कपालादौ भूतलादौ वा परम्परासम्बन्धसम्भवात् । अथ व साक्षात् क्व च परम्परेत्यस्याविनिगम्यत्वादुभयत्र परम्परासम्बन्धाननुभवाच्चोभयत्रापि साक्षात्सम्बन्धः । तर्हि द्रव्यादित्रये साक्षात् अन्यत्र परम्परेति वा अन्यत्रैव स्वरूपसम्बन्धेन समवायत्वाभावत्वादिवदखण्डोपाधिस्सत्ता वर्तते । द्रव्यादित्रये तु स्वरूपसम्बन्धघटितपरम्परासम्बन्धेनेति वेत्यस्याविनिगम्यत्वात् उभयत्र परम्परासंबन्धाननुभवाच्च उभयत्रापि साक्षात्सम्बन्धः । तत्र घटादेरुत्पत्तिकाले कपालादौ संयोगस्य भूतलादौ समवायस्य चासम्भवात् सम्बन्धभेदसिद्धावपि प्रकृते एक एव सम्बन्धस्सर्वत्र सम्भवतीति स एव कल्प्यते । न च जन्यसत्त्वावच्छिन्ने द्रव्यत्वेनोपादानत्वमवश्यं वाच्यम् । अन्यथा कपालरूपादेः कारणस्य स्वसमवायिसमवेतत्वसम्बन्धेन घटादाविव कपालरूपादावपि सत्त्वात्तत्रापि रूपादिकमुत्पद्येत । तथा च द्रव्यादित्रये सत्तासमवायस्यावश्यकत्वात् तद्धटितपरम्परासम्बन्धेनान्यत्र सत्तासम्भवादन्यत्र सत्तायास्स्वरूपसम्बन्धोक्तिर्न युक्तेति वाच्यम् । एकैका एव नीलारुणादिव्यक्तय इत्यस्मिन्मते रूपादीनामाकाशादिवदविद्यादिजन्यत्वेऽपि कपालरूपाद्यजन्यत्वेनोक्तयुक्त्यनवकाशादिति भावः । अननुगतेनापीत्यादि । अनेकव्यक्त्यनुगतवस्तुविषयकत्वेन सर्वसम्मतप्रतीतेरननुगतानेकार्थविषयकत्वस्वीकारे जातिमात्रोच्छेदापत्तिः । गन्धादिकारणतावच्छेदकतयापि प्रथिवीत्वादिनातिन सिद्ध्येत् । 'पृथिवी गन्धकारण'मित्यादिप्रतीतेरपि तत्तव्यक्तित्वावच्छिनकारणत्वविषयकत्वस्य वक्तुं शक्यत्वात् । अनेकतादृशकारणतादिव्यक्तिकल्पनागौरवं तु कल्पनारूपप्रतीतेरनेकविषयकत्वगौरवे पर्यवसन्नमिति भावः । सर्वत्र अभावादिभिन्नस्थलेऽपि । अभावादौ स्वरूपसत्ताशङ्कायाः 'न च स्वरूपे'
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षप्राबल्यभङ्गः]
लघुचन्द्रिका ।
त्यादिना परिहृतत्वात् स्वरूपसत्त्वेन घटादिस्वरूपेण कालसम्बन्धित्वस्वरूपेण वा सत्त्वेन । एकेनेति । अविद्यारूपमहाकालस्यैकस्यापि न सामान्यादिसाधारण एकस्सम्बन्धोऽस्तीति भावः । तस्मात् जात्यादेः सदाकारबुद्धिषु तादाम्यभानासम्भवात् । सर्वाधिष्टानं तादात्म्येन सर्वसम्बन्धि ब्रह्म । यथा हि कार्यसामान्ये ब्रह्मणो निमित्तता, तथोपादानतापि । कार्यत्वेन हेतुना आत्मनिमित्तोपादानकसुखादिदृष्टान्तेन ब्रह्मरूपैकस्वनिमित्तोपादानकत्वानुमानात्। तथा च कार्यस्य सर्वस्य ब्रह्मतादात्म्यसत्त्वात् ब्रह्मैव सदित्यत्र भाति । ब्रह्मणो ज्ञानरूपत्वेनापि ज्ञेयैस्सविषयतारूपं तादात्म्यमस्तीत्यतोऽपि ब्रह्म तथा भातीति भावः । यत्तु ब्रह्मबुद्ध्या घटतत्तादात्म्यादेर्वाधितत्वमुक्तम् । तत् मिथ्यात्वानुमाने सद्रूपतादात्म्यबुद्धेने विघातकत्वम् । प्रत्युतानुकुल्यमेवेति ज्ञापनायेति बोध्यम् । एतेन प्रपञ्चे मिथ्यात्वस्याद्याप्यसिद्धत्वेन प्रपञ्चा. धिष्ठानब्रह्मणस्सदाकारबुद्दौ घटादितादात्म्येन भासमानत्वोक्तिरसङ्गता। मिथ्याकार्योपादानत्वरूपाधिष्ठानत्वस्यैवासिद्धत्वादित्यपास्तम् । घटादितादात्म्येन भासमानत्वं प्रत्युपादानत्वादिप्रयुक्तस्य घटादितादात्म्यस्यैव हेतुत्वेनोक्तत्वात् । ननु, ब्रह्मण इव नीलरूपादेरप्युपादानत्वस्य वक्तुं शक्यतया नन्वेवमित्याधुक्तापत्तेरनुद्वारस्तत्राह-नीलेत्यादि । नीलादिनिष्ठं घटादिसामानाधिकरण्यं प्रति नीलादिविषयकं बाधकं ज्ञानं किमपि नास्तीत्यर्थः । तथा च नीलादेरुपादानत्वं न परिणामितया । कार्योत्पत्तिपूर्व परिणामिनस्स्फुरणनियमात् । अतोऽपरिणामितया तद्वाच्यम् । तच्च न सम्भवति । बाधकज्ञानविषयस्यैव तत्स्वीकारात् । अधिष्ठानत्वमपरिणामितयोपादानत्वम् । नीलादेरेकैकनित्यत्वमते प्राक् सत्त्वादाह-- नीलपीतेति । अविद्यासदूपयोस्सामान्योपादानत्वस्य कपालादेविशेषोपादानत्वस्य चावश्यकत्वेन नीलादेरन्यथासिद्धत्वेनोपादानत्वमप्रामाणिकम् । अतो गौरवं दोपइत्यर्थः । यत्प्रमया यत् बाध्यते, तत् तस्य तादृशोपादानम् । तच्च तदपेक्षया अधिकसत्ताकम् । समसत्ताकयोर्बाध्यबाधकधीविषयत्वस्यादृष्टत्वात् । खानज्ञानयो - ध्यबाधकत्वं तु मिथ्यात्वेन ज्ञाप्यज्ञापकत्वरूपम् । न तूच्छेद्योच्छेदकत्वमिति भावः । नीलादेः प्राक्कालवृत्तिसद्रूपाधिष्ठानतादात्म्यज्ञानात् सत्यत्वशङ्कया अधिष्ठानत्वं शङ्कास्पदम् । मिथ्यात्वेन तुच्छत्वेन वा ज्ञायमानस्य तु न तत्तथेत्याह-मिथ्यारूप्यमिति । शून्येति । रूप्यादौ मिथ्याभूतस्याधिष्ठानत्वे प्रपञ्चेऽपि तथा स्यादिति शून्यवादस्स्यात् । अलीकस्याधिष्ठानत्वे तु अलीकत्वव्याघातापत्तिरपि बोध्या । अपरिणाम्युपादानत्वरूपाधिष्ठानत्वे सत्यर्थक्रियाकारित्वरूपसत्यत्वापत्तेः । तथा स्यात्
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४८
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
I
ब्रह्मणि सद्रूपतादात्म्यभानात् सद्रूपोपादानकत्वं स्यात् । सत्तासम्बन्धेन सत्तादात्म्येन । सत्त्वं सद्विषयकत्वम् । स्वरूपेणैव सदितरविषयकत्वं विना । अनाप्ताप्रणीतत्वादिना भ्रमप्रमादादिदोषवत्पुरुषाकृतत्वादिना । जात्यैव प्रत्यक्षत्वेनैव । ने त्वनुमान विरुद्धत्वादिना । उपजीव्यत्वेति । धर्म्यादिज्ञापकविधया अपेक्षणीयत्वेत्यर्थः । त्वचः त्वाचस्य वचौष्ण्यप्रत्यक्षस्य । साध्यप्रसिद्धेः अनौप्ण्यरूपशैत्यज्ञानस्य । त्वचं त्वाचं औप्ण्यप्रत्यक्षम् । विना अभावात् अनुत्पत्तेः । धर्मादिग्राहकत्वेन यागादौ स्वर्गादिसाधनत्वस्य ग्राहकत्वेन । वैदिकार्थेति । वेदमात्रगम्येत्यर्थः । अद्वैतस्येति । वस्तुतो मानान्तराविषये मानान्तरस्यागमबाध्यत्वं न युक्तम् । यत्र हि ययोर्मानियोर्विषयत्वं प्रसक्तं, तत्र तयोर्बाध्यबाधकत्वमिति बोध्यम् । क च प्रत्यक्षत इत्यादि । उपलक्षणमिदं चक्षुरादिवलवत्त्वबोधकार्थवादादिरूपश्रुतीनां स्मृत्यन्तराणामपि । तेन दीक्षणीयेष्ठ्यर्थवादरूपाणां ' एतद्धि वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याहाथास्य श्रद्दधती ' त्यैतरेय ब्राहणस्थानां ' द्वौ विवदमानावेवायातामहमदर्श महमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दधते ' इति वाजसनेयशाखास्थानां च श्रुतीनां परीक्षितप्रामाण्यकचक्षुरादीनां मानान्तरादपरीक्षितप्रामाण्यकात् बलवत्त्वबोधकत्वं बोध्यम् । उक्तं न्यायमाह – उक्तं हीति । असञ्जातविरोधित्वात् न सञ्जातो विरोधी यस्य तत्त्वात् । अर्थवादः 'अनेः ऋग्वेदो वायोर्यजुर्वेद आदित्यात् सामवेदस्तस्मादि'त्ययमुपक्रमस्थोऽर्थवादः । यथाश्रुतः मुख्यार्थक ऋग्वेदादिपदकः । आस्थेयः स्वीकार्यः । तद्विरुद्धस्य अर्थवादविरुद्ध ऋगादिमन्त्रवाचकस्य । विध्युद्देशस्य ‘उच्चैर् ऋचा क्रियते उपांशु यजुषा उच्चैस्साम्ने 'ति विधिवाक्येषु स्थितस्य ऋगादिपदस्य । लक्षणा ऋग्वेदादिरूपार्थलक्षकत्वम् । तथा च ऋग्वेदेन यत् क्रियते विधीयते तत्कर्म उच्चैस्स्वरेण कुर्यादित्यर्थः । अत्रार्थवाद इत्यनेन पूर्वपक्षस्सूचितः । स चार्थवादस्य साधनेतिकर्तव्यतारूपांशद्वय विशिष्टार्थभावनायां विधिवाक्यार्थभूतायां विशेषणी भूतप्राशस्त्यबोधकत्वेन विधिवाक्यं प्रति गुणीभूतत्वात् 'अङ्गगुणविरोधे च तादर्थ्यादिति न्यायादर्थवादस्थेषु ऋग्वेदादिपदेषु ऋगादिमवलक्षणां स्वीकृत्य तादृशमन्त्राणामेव प्राशस्त्यबोधनद्वारा विधिवाक्यार्थोक्तभावनायामुक्तमन्वभाव्यकायामेव प्राशस्त्यबोधकत्वसम्भवात् न ऋगादिपदानां वेदलक्षकत्वमित्येवंरूपः असञ्जातविरोधित्वादित्यनेन तद्विरुद्धस्येत्यनेन च सिद्धान्तस्सूचितः । स चोक्तरीत्या गुणीभूतस्याप्यर्थवादस्योपक्रमस्थत्वेनासञ्जातविरोधित्वादुक्तमन्त्रलक्षकत्व१. ' न त्वन्यमानाविरुद्धप्रत्यक्षत्वादिना' इति पाठान्तरम् ।
For Private and Personal Use Only
-
-
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र० दे प्रत्यक्षप्राबल्यभङ्गः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
१४९
I
रूपोपमर्दहेत्वभावेनार्थवादस्थपदानां वेदरूपमुख्यार्थकत्वमेव । तथा च गुणीभूतस्योपक्रमस्थत्वे अङ्गगुणविरोधन्यायस्य नावतारः । तादृशपदयुक्तेऽर्थवादे विरोधिनि प्रवृत्ते सति पश्चात् प्रवर्तमानैर्विधिस्थोक्त पदैस्तद्विरुद्धमन्त्ररूपार्थेषु स्थातुमशक्यम् । विध्यर्थवादयोः प्रतीतैकवाक्यताभङ्गापत्तेः । 'चैत्रस्स्तपस्वी चैत्रः पूज्यता' मित्यादौ हि चैत्रे प्राशस्त्यज्ञानात्तत्कर्मकपूजायामपि प्राशस्त्यज्ञानेन प्रवृत्तिः । प्रथमचैत्र पदस्थले मैत्रपदवटितोक्तवावयेतु उक्तज्ञानाभावेनाप्रवर्तकत्वेन नैकवाक्यता । अत एव नापच्छेदन्यायेन विधिस्थपदानां प्राबल्यम् । पूर्वापरमानयोरेकविशिष्टार्थप्रमापकत्वे सत्युक्तन्यायाप्रवृत्तेरित्येवंरूपः । तौ च पूर्वोत्तरपक्षौ ज्योतिष्टोमप्रकरणपठितोक्तवाक्ये तृतीयतृतीयस्याद्याधिकरणे चिन्तितौ । अत्रोच्चैरादिस्वराणां कर्मसु साक्षात्सावनत्वासम्भवेऽपि मन्त्रद्वारा साधनत्वं बोध्यम् । उभयोः ऋग्वेदादिऋगादिपदयोः । साम्ये प्रमाणत्वेन निश्चितत्वे । तत्र हेतुः - परस्परसापेक्षपदत्वेनेति । एकप्रमाजनने अन्योन्यसापेक्षपदत्वेनेत्यर्थः । तत्रापि हेतुः - एकवाक्यस्थेति । श्रुत्यपेक्षया न्यूनबलत्वादित्यन्वयः । भ्रमविलक्षणत्वेन बाधितविषयकान्यत्वेन । अन्यथा साम्याभावेऽप्युपक्रमस्थतामात्रेण बलवत्त्वस्वीकारे । अत्र भ्रमोऽपीत्यनेन बाधकज्ञानापेक्षणीयत्वाभावेन भ्रमस्येव प्रत्यक्षस्यापि श्रुत्यपेक्षणीयत्वाभावेनैकवाक्यत्वाभावात् नोपक्रमन्यायस्य प्रकृते अवतार इति सूचितम् । एतेनेत्यादि । 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये ' परदौर्बल्यमर्थविप्रकर्षा' दिति तृतीयतृतीयस्याधिकरणे श्रुत्यादीनां मध्ये परदौर्बल्यं पूर्वपूर्वपेक्षया परं परं दुर्बलम् | अर्थस्याङ्गताबोधनरूपस्य प्रयोजनस्य विप्रकर्षात् ! श्रुतिः साध्यत्वसाधनत्वयोः अन्यतरबोधकं तृतीयाद्वितीयादिपदम् । तत्कल्पिका योग्यता लिङ्गम् । तत्कल्पकः पदयोर्योगो वाक्यम् । तत्कल्पकं प्रधानस्य साकांक्षत्वं प्रकरणम् । तत्कल्पकं पाठादिसान्निध्यं स्थानम् । तत्कल्पकं यौगिकं हौत्रादिपदं समाख्या । तथा च परस्य पूर्वकल्पनाद्वारा साधनत्वादिबोधनेनैवाङ्गताप्रापकत्वात्ततः पूवैमेव पूर्वेणाङ्गताप्रापणात् शीघ्रगामित्वेन श्रुत्यादीनां लिङ्गाद्यपेक्षया प्राबल्यम् । तथा चन्द्रप्रकाशनसामर्थ्यरूपाछिङ्गादैन्द्री ऋक नेन्द्राङ्गम् । किं तु 'ऐन्द्या गाईपत्यमुपतिष्ठत' इति श्रुला गार्हपत्याङ्गम् । तदनुरोधेनैन्द्री स्थमिन्द्रादिपदं मुख्यवृत्त्याऽपि गार्हपत्यस्यैव बोधकम् । एवं च यथा शीघ्रगामित्वात् श्रुतिः लिङ्गात् प्रबला, तथा प्रत्यक्षं श्रुत्यनुमानादित इत्यप्येतेन बाधकत्वाभिमतप्रमाणस्य न्यूनबलत्वेनापास्तमित्यर्थः । ननु, प्रत्यक्षस्योक्तरीत्या न्यूनबलत्वमिव श्रुत्यादेरपि प्रत्यक्षापेक्षया मन्धरगामित्वेन तदपेक्षया न्यूनबलत्वम् । तथा च
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
द्वयोस्साम्यात् न श्रुत्यादिना प्रत्यक्षं बाध्यताम् । तत्राह-परीक्षितस्येति । प्रमाणत्वेन निश्चितस्येत्यर्थः । मन्धरगामिनः आकांक्षाव्याप्त्यादिनिश्चायकमानान्तरसापेक्षत्वेन विलम्बितफलकस्य । प्राबल्यात् अपरीक्षितमानापेक्षया बलवत्वात् । तथा च परीक्षितयोश्श्रुत्यादिलिङ्गाद्योराद्येन शीघ्र विनियोगे कृते विनियुक्तस्य मन्त्रादेस्साध्याकांक्षायां निवृत्तायां लिङ्गादेस्तत्साध्यसमर्पकत्वाभावेन बाधो युक्तः। प्रत्यक्षस्य त्वपरीक्षितत्वेन परीक्षितश्रुत्यादिवाधात्वमनुपपन्नमिति भावः । ननु, दशमाष्टमे चिन्तितं ज्योतिष्टोभे श्रुतं 'पदे जुहोति'वर्त्मनि जुहोति' इति,अनारम्याधीतं यदाहवनीये जुहोती ति। तद्विहितयोः पदाद्याहवनीययोः होमसामान्ये विकल्पः। न तु पदादिशास्त्रमन्यस्य बाधकम् । द्वयोरपि शास्त्रयोः प्रत्यक्षत्वात् । 'शरमयं बर्हि'रिति शास्त्रं तु प्रत्यक्ष करप्यस्य कुशातिदेशशास्त्रस्य बाधकमिति युक्तमिति प्राप्ते, सिद्धान्तसूत्रम्-'अविशेपेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्टं स्या' दिति । अस्यार्थः--यत् सामान्यशास्त्रं अविशेषेण जुहोतिवाच्यस्य होमसामान्यस्य सर्वहोमसम्बन्धाल्लक्षणया होमव्यक्तिप्वाहवनीयसम्बन्धबोधक, तत् पदहोमादिविशेषे तत्सम्बन्धपरत्वेन सन्दिग्धं निर्णेतुमशक्यम् । विकल्पस्याष्टदोषदुष्टस्यान्याय्यत्वात् । अथापि स स्वीक्रियते । यदि शास्त्रयोस्समबलत्वं स्यात् । प्रकृते तु यद्विपशिष्टं पदादिविशिष्टहोमविशेषविधायकं शास्त्रं तत् आरात् शीघ्रप्रवृतम् । तादृशविशेषस्य प्राकरणिकत्वेन शीघ्रोपस्थितत्वादन्यहोमस्य तथाऽनुपस्थितत्वाच्च तादृशहोममात्रपरत्वनिर्णयात् । सामान्यशास्त्रस्य तदितरपरत्वसम्भवेन विषयप्राप्तेरिति । ननु, व्रीह्यादिकं विना यागानिप्पत्तेः तस्य दृष्टार्थत्वं युक्तम् । आहवनीयं विनापि तु प्रक्षेपरूपहोमनिष्पत्तेः तस्यादृष्टार्थत्वात् पदादिभिस्सह तस्य समुच्चय एवास्तु । पदादेराहवनीयजन्यादृष्टजनकत्वे मानाभावादिति चेन्न । निरपेक्षाधारताद्वारैव दृष्टार्थत्वात् । न चैवं, षष्ठे अनेः प्रतिनिधिनिषेधो न स्यात्। आधारतारूपदृष्टार्थत्वा दिति वाच्यम् । अवश्यापेक्षणीयदृष्टार्थत्वाभावात् । तथा च यथा विशेषशास्त्र सामान्यशास्त्रस्य बाधकम् । विशेषविषयकत्वात् । तथा प्रत्यक्षं श्रुत्यादिबाधकमास्तामित्याशङ्कय निषेधति-न चेति । घटविषयसत्त्वग्राहिणः घटत्वादिविशेषरूपविशिष्टे सत्त्वप्रकारकस्य । सामान्यतः आत्मान्यत्वरूपद्वितीयत्वेन । द्वैतनिषेधश्रुतीति । घटादिनिषेधकैकमेवाद्वितीयमित्यादिश्रुतीत्यर्थः । यद्यपि ' नेह नानास्ति किञ्चन' 'नात्र काचन भिदास्ति' 'इदं सर्वं यदयमात्मे' त्यादिश्रुतिषु किमादिसर्व मामार्थवटत्वादिविशेषरूपविशिष्टेऽपि मिथ्यात्वबोधकत्वम् । न पुण्यपापे मम नास्ति
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षप्राबल्यभङ्गः]
लघुचन्द्रिका ।
नाशो न जन्म देहेन्द्रियबुद्धिरस्ति । न भूमिरापो मम वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च । एवं विदित्वा परमात्मरूपम्' । 'अशब्दमस्पर्शमरूप' मित्यादिश्रुतेरपि पुण्यत्वादिविशेषविशिष्टे तत् । तथापि पूर्वोक्तवाक्यमात्रालोचनेऽपि नोक्तन्यायावकाश इत्याशयेनाह-सामान्येति । ननु, 'त्सरा वा एषा यज्ञस्य तस्माद्यत्किञ्चित् प्राचीनमग्रीषोमयिात्तेनोपांशु चरन्ती'त्यत्र ज्योतिष्टोमप्रकरणे श्रुतवाक्ये विहितमुपांशुत्वमनीषोमीयापेक्षया कि पूर्वस्य ज्योतिष्टोमीयभागस्याङ्गम्, उत तद्गतपदार्थस्येति संशये तच्छब्दार्थमुद्दिश्यैवोपांशुत्वं विधेयम् । अन्यथा अग्नीषोमीयप्राचीनादिपदार्थानां मिथोऽन्वयस्याव्युत्पन्नतया विशिष्टस्योद्देश्यत्वासम्भवात् । तच्छ - ब्दार्थश्च प्राचीनपदार्थ एव । स च ज्योतिष्टोमीयोऽग्निष्टोमीययागपूर्वभाग एव । न तु तद्गतपदार्थाः । तेषामनेकत्वेनैकवचनासङ्गतेः । यत्किञ्चिच्छब्दस्तु नानापदाथघटिते भागे प्राचीनपदतात्पर्यग्राहकः । भागस्य च स्वरूपेणोद्देश्यत्वासम्भवातस्यापूर्वासाधनत्वाच्च अपूर्वसाधनज्योतिष्ठोमस्य प्रकृतत्वेन तदीयभागत्वेनोद्देश्यता । तथा चोपांशुत्वस्य ज्योतिष्टोमीयापूर्वप्रयुक्तत्वेन ज्योतिष्टोमीयविकृतौ तादृशभागान्तर्गतेप्वप्राकृतपदार्थेप्वपि तत्प्राप्तेरिति प्राप्ते, यत्किञ्चित्पदस्य बहुप्वेव प्रयो-- गात् स्वार्थपरत्वे सम्भवति तादृशसमूहतात्पर्यग्राहकत्वेन तस्य सार्थक्यायोगात् प्राथम्यात् बलवतस्तस्यानुरोधेन च चरमोक्तप्राचीनपदाश्रितस्यैकवचनस्य बहुत्वलक्षकत्वात्तेनेत्यनेन प्राचीनपदार्थतत्तत्पदार्थजन्याङ्गापूर्वसाधनमुद्दिश्योपांशुत्वं विधीयते । योग्यत्वात्तादृशपदार्थीयमन्त्रो द्वारम् । त्सरेत्यादेरयमर्थः । एषा यज्ञस्य त्सरा ज्योतिष्टोमयागीयपदार्थजन्यापूर्वलाभाय च्छद्मगतिः । उच्चैःशब्दरहितं साधनं यदुपांशुत्वम् । यथा पक्ष्यादिधारणायोच्चैःशब्दरहितं गमनादिकमिति नवमप्रथमे सिद्धान्तितम् । तत्र दीक्षणीयादिसकलप्राचीनपदार्थोद्देशेनोपांशुत्वविधानासमर्थमपि यत्किञ्चिदित्यादिवाक्यं यावत्येत्यादिवाक्यविहितस्वरविशेषावरुददीक्षणीयाप्रायणीयादिभिन्नतादशपदार्थोद्देशेन तद्विधायकतयापि सावकाशत्वेन यावत्येत्यादिना यथा संकुच्यते, तथा प्रत्यक्षेण तदविषयविषयकत्वेनापि सावकाशं श्रुत्यादि संकुच्यतामित्याशंक्य निषेधति--नचेति । चरन्तीत्यस्य संकोच इत्यग्रेऽन्वयः । निरवकाशेनेति यावत्येत्यनेन यत्किञ्चिदित्यादेस्संकोच्यतायां हेतुः । दीक्षणीयातिरिक्त सावकाशत्वादिति । दीक्षणीयाभिन्ने उपांशुत्वविधायकतयापि लब्धविषयकत्वादित्यर्थः। ननु, यत्किञ्चिदित्यादेीक्षणीयातदन्यसाधारणरूपेण पदार्थबोधकयत्किञ्चित्पदयुक्तत्वेन सामान्यशास्त्रत्वादेव यावत्येत्यादिविशेषशास्त्रेण सङ्कोचसम्भवति । स च पूर्वमेवोक्तत्वान्नेदानी वक्तुं युक्तस्तत्राह-यत्किञ्चिच्छब्दस्येति । यत्किञ्चित्परतवा
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
अद्वैतमञ्जरी ।
चकत्वेन दीक्षणीयत्वादिसकलविशेषरूपविशिष्टबोधकत्वेन । सामान्याविषयत्वे दीक्षणीयादिसकलपदार्थसाधारणरूपविशिष्टाबोधकत्वे । तथा च सर्वनामपदानां बुद्धिविशेषविषयधर्मरूपसाधारणधर्मविशिष्टशक्तत्वेऽपि घटत्वादिविशेषरूपेण स्वरूपतो भासमानेन घटादिशाब्दधीजनकत्वम् । अत एव सर्वेम्यो दर्शपूर्णमासावित्यादौ पुत्रत्वपशुत्वादिरूपेण सर्वादिपदेन फलबोधनात्तेन तेन रूपेणैव फलकामनया दीद्यनुष्ठानं शास्त्रार्थः । 'अयं स' इति वाक्यजन्यबोधोत्तरम् 'अयं घटो नवेति न संशय इति भावः । यावत्या यादृशस्वरविशिष्टया । अनुब्यादिति । 'मन्द्रं प्रायणीयायां मन्द्रतरमातिथ्यायामुपांशूपसत्सूच्चैरग्नीषोमीय' इति वा. क्यशेषः । निरवकाशेनेति । दक्षिणीयामिन्ने यथाकामस्वराविधायकेनेत्यर्थः । ननु, उक्तवाक्येन दीक्षणीयादिषु ज्योतिष्टोमाङ्गेषु सर्वेप्वग्नीषोमीयपूर्वेषु स्वरविशेषविधानात् यत्किञ्चिदित्यादिकमपि दीक्षणीयाद्यविषयकत्वे निरवकाशं स्यादिति चेन्न । दीक्षणीयादेरङ्गेषु तम्य सावकाशत्वात् । यद्यपि दीक्षणीयाद्यङ्गस्य याजुर्वेदिकत्वेनोपांशु यजुषेत्यनेनोपांशुत्वं प्रसक्तं, तथापि तदतिदेशेन बाध्यते । दर्शपूर्णमासप्रकरणे ह्युक्तम्-'प्राक् स्विष्टकृतः प्रथमस्थानेन मध्यमेनेडायाश्शेषे तृतीयस्थानेनेति । तस्यार्थः स्विप्टकृतः प्राक् प्रथमस्थानेन नीचैःस्वरेण । इडायाः प्राक् मध्यमेन स्वरेण । शेपे इडोत्तरं तृतीयस्थानेन उचैःस्वरेणेति । तादृशस्याप्यातिदेशिकस्य यत्किञ्चिदित्यादिना बाधः । तस्यापि यावत्येत्यादिनति बोध्यम् । वृत्त्यन्तरेण सत्त्वप्रत्यक्षाविषयस्यैव मिथ्यात्वधीः यया वृत्त्या भवति तया। तथा च 'एकमेवाद्वितीय मित्यादौ द्वितीयादिपदस्य सत्त्वप्रत्यक्षाविषयद्वितीये लक्षणाकल्पनया तस्यैव मिथ्यात्वधीरिति भावः । 'नेह नानास्ति किञ्चने' त्यादौ तु 'पृथग्विनान्तरेणते हिरुङ्नाना च वर्जन' इति कोशोक्ते ना. शब्दस्य वर्जनरूपात्यन्ताभावार्थकत्वादिह कोऽपि निषेधो नास्ति । सर्वाश्रयत्वादित्यर्थ इत्याशयेनाह-अनेकार्थत्वेनोति । द्वैतनिपेधेति । द्वैतसामान्याभावेत्यर्थः । निरवकाशत्वादिति । सावकाशत्वं हि यस्माद्विषयात् सङ्कोचो यस्य पदस्य वाच्यः, तत्र विषये यादृशी वृत्तिः तस्य पदस्य प्रसक्ता तादृशवृत्त्या विषयान्तरबोधकत्वम् । यथा दीक्षणीयातस्संकुचितस्य यत्किञ्चित्पदस्य दीक्षणीयाप्रसक्तशक्तिकस्य शक्त्यैव दीक्षणीयाद्यङ्गबोधकत्वम् । न हि — यजमानः प्रस्तर' इत्यादौ यजमानादिपदस्य यजमानकार्यसाधकरूपार्थे सावकाशत्वात् प्रस्तरयजमानयोः भेदप्रत्यक्षेण बाध्यता । किं तु उक्तश्रुतेस्तयोरभेदे तात्पर्याभावेनोक्तप्रत्यक्षापेक्षया दुर्बलत्वात् । प्रकृते तु विशेषणविशेष्यभावादिसामानाधिकरण्या
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षप्राबल्यभङ्गः] लघुचन्द्रिका !
१५३
पेक्षया अखण्डैक्यसामानाधिकरण्यस्य मुख्यत्वेन तत्रैव श्रुतेरुपक्रमादिना द्वैतसामान्याभावे अवान्तरतात्पर्यद्वारा तदुपलक्षितब्रह्मरूपे महातात्पर्यग्रहेण दौर्बल्यस्यामा वेन सावकाशत्वादेव बाध्यत्वं वाच्यम् । तच्च न सम्भवति । प्रत्यक्षविषयद्वैते सङ्कोचावधौ द्वितीयपदस्य मुख्यवृत्तेः प्रसक्ततया तादृशवृत्त्या प्रत्यक्षाविषयद्वितीयत्वविशिष्टबोधकत्वाभावादितिभावः । स्वरसतः प्रमाणविषयत्वे. नानुभूयमानो योऽर्थः, तदन्यार्थमादायापि सावकाशत्वस्वीकारे प्रत्यक्षस्यापि स्वरसतो विषयत्वेन त्वदभ्युपगतो यः पारमार्थिकसत्त्वरूपोऽर्थः, तदन्यव्यावहारिकसत्त्वमादाय सावकाशत्वमस्तीति नोक्तन्यायावतार इत्याशयेनाह-प्रत्यक्षस्येति। व्यावहारिकेति । व्यावहारिकसत्त्वाश्रयेत्यर्थः । द्वैतनिषेधेत्यादेरन्योर्थः । द्वैतनिषेधेति । देहत्वादिरूपेण देहादिनिषेधेत्यर्थः । अद्वैतश्रुतेः । देहेन्द्रियबुद्धिर्नास्ति न लिप्यते लोकदुःखेन बाह्य' इत्यादिश्रुतेः निरवकाशत्वात् देहस्सन्नित्यादिप्रत्यक्षविषयस्यैव मिथ्यात्वबोधकत्वेन विषयान्तराभावात् । न च प्रत्यक्षाविषयपिशाचादिदेहादेरेव श्रुत्या मिथ्यात्वधीरिति वाच्यम् । तादृशदेहादेरपि तदभिमानिपुरुषं प्रति प्रत्यक्षत्वात् । न चात्रापि देहादिकं सर्वदा नास्ति । तस्मादनित्यमित्यत्र तात्पर्यमिति वाच्यम् । 'एवं विदित्वा परमात्मरूपं' इत्युत्तरवाक्येन 'न भूमिरापो · मम वन्हिरस्ति' । इत्यादिपूर्ववाक्यार्थस्य सर्वविशेषणशून्यात्मनो ज्ञेयत्वेनानुवादात् । सर्वदेत्यध्याहारे मानाभावात् । प्राप्तदेशकालयोरेव निषेधस्य स्वारस्यसिद्धत्वात् । प्रत्यक्षस्यापि प्रत्यक्षस्यैव । अथ अपरोऽर्थः निरवकाशत्वात् प्रत्यक्षेण घटादीनामिव शब्दानुमानादिना गुरुत्वपिशाचादीनामपि सत्त्वग्रहणेन द्वितीयस्य सर्वस्यैव मानान्तरैस्सत्यत्वसिद्ध्या 'नेहनाने'त्यादिश्रुतेमिथ्यात्वबोधकत्वासम्भवेन निर्विषयकत्वात् । न चोक्तश्रुतेः प्रपञ्चविनाशित्वे तात्पर्यमिति वाच्यम् । उपक्रमादिना द्वैतनिषेधे तात्पर्यग्रहात् । तादृशार्थत्यागे उपक्रमादिप्रमाणस्यापि बाधापत्तेः । प्रत्यक्षादेरेव व्यावहारिकसत्त्वविषयकत्वेन सावकाशत्वस्य वक्तुं युक्तत्वात् । तदिदमुक्तम्-प्रत्यक्षस्यापीति । प्रत्यक्षादेरेवेत्यर्थः । ननूक्तरीत्या श्रुतेः सावकाशत्वखण्डने प्रत्यक्षादेरपि सावकाशत्वाभावात् परस्परविरुद्धयोरप्यप्रामाण्यं स्यात्। तथा च तव श्रुतिरपि कथं प्रमाणम् । किं च प्रत्यक्षस्य व्यावहारिकसत्त्वविषयकत्वोक्तिर्न युक्ता । तथा सति प्रत्यक्षस्य व्यावहारिकप्रामाण्यं स्यात् । तच्चायुक्तम् । श्रुतेर्वा प्रत्यक्षादेर्वा व्यावहारिकं प्रामाण्यमित्यस्याविनिगम्यत्वात्तत्राह-विरुद्धेति । वयोरिति । सत्वप्रत्यक्षाद्वैतश्रुत्योरिति शेषः । अत्यन्ताप्रामाण्यस्य व्यावहारिकसाधारणप्रामाण्यसामान्याभावस्य ।
२०
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
अद्वैतमञ्जरी ।
भवेदिति । त्वदुक्तनिरवकाशन्यायेन सम्भाव्यत इत्यर्थः । तदसम्भवे त्विति । अद्वैतश्रुतेर्व्यावहारिकप्रामाण्यासम्भवेत्वित्यर्थः । व्यावहारिकप्रामाण्यं व्यावहारिकसत्वाश्रयविषयकत्वम् । उक्तसत्त्वं च बाध्यत्वे सति व्यवहारकालाबाध्यत्वम् । सत्यन्तानुक्तौ तात्विकप्रमाणस्यापि व्यावहारिकप्रामाण्यापत्तेः । उक्तसत्त्वं च नाद्वैतत्वोपलक्षितब्रह्मणः सम्भवति । तस्य साक्षिरूपत्वेन चिदानन्दरूपत्वेन च बाध्यत्वासम्भवात् । तथा च तद्बोधकवाक्ये व्यावहारिकप्रामाण्यासम्भवः । न च साक्षिणो ब्रह्माभिन्नत्वेनाद्याप्यसिध्या ब्रह्मणो बाध्यत्वे बाधकाभाव इति वाच्यम् । साक्षिण ईश्वरत्वपक्षे शुद्धचिद्रूपत्वपक्षे च ब्रह्माभिन्नत्वस्य सिद्धत्वात् । 'सलिल एको द्रष्टे' त्यादिवाक्यैरद्वितीयत्वोपलक्षितजीवस्वरूपप्रमापकत्वेन जीवस्वरूपसाक्षिणो बाध्यत्वासम्भवेन च तेषां तात्विकप्रामाण्यस्यावश्यकत्वेन व्यावहारिकप्रामाण्यासम्भवादिति भावः। श्रुतेस्तात्विकत्वमिति । द्वैताभावत्वविशिष्टरूपव्यावहारिकविषयकबोधस्यावान्तरतात्पर्यस्वीकारेऽपि द्वैताभावोपलक्षितब्रह्मणि महातात्पयोत्तादृशतात्विकविषयकत्वेन तात्विकप्रामाण्यमिति भावः । पर्यवस्यतीति । उक्तरीत्या सावकाशत्वन्यायस्यानवतारेऽपि 'यजमानः प्रस्तर'इत्यादिश्रुतिः प्रत्यक्षेणेव प्रत्यक्षादिकमपि श्रुत्या दुर्बलत्वादेव बाध्यते । दुर्बलत्वं चक्तिश्रुतरतत्परत्वात् । प्रत्यक्षादेस्तु तत्परत्वादियुक्त श्रुतिविरुद्धत्वादिति भावः । पञ्चदशरात्र इति । पञ्चदशयागरूपे सत्रे । अग्निष्टुन्नामके प्रथमेऽहनि प्रथमयागे । एकाहात्मकस्याग्नेयस्यानिष्टुद्यागस्य । धर्मभूता अङ्गभूता । आग्नेयी सुब्रह्मण्या नामातिदेशेन प्राप्ता प्रसक्ता । तस्या अल्पविषयत्वादल्पं एकमनिष्टुन्मानं विषयः अङ्गि यस्यास्तादशत्वात्। बहुविषयया बहवश्चतुर्दश यागाः विषया अङ्गिनो यस्यास्तया ऐन्या यथा बाधः । ऐन्द्रीप्रापकं प्रमाणमाह-चोदकेनेति । अतिदेशेनेत्यर्थः । चोदकशब्दस्य चोदनालिङ्गकातिदेशे मुख्यस्यापि प्रकृते अतिदेशमात्रमर्थः । प्रथमान्येषु चतुर्दश यागेषु हि प्रथमयागत्रये 'ज्योतिर्गौरायु'रितिनामकत्वेनैकाहकाण्डोक्ततन्नामकयागत्रयान्नामातिदेशेन च ऐन्द्री प्राप्यते! अन्येषु तु एकादशसु द्वादशाहादैन्द्री चोदनालिङ्गकातिदेशेन प्राप्यते । अत्र चतुर्दशाहस्सु प्राप्तया चतुर्दशाहस्सु आग्नेय्या बाध इत्येवं चतुर्दशाहःपदस्यावृत्त्या बोधः । तथा च चतुर्दशाहस्सु बाधस्य तेषु बाध्यप्राप्तिसापेक्षत्वेनार्थात्तेष्वाग्नेयीप्राप्तिरुक्ता। तथा चैकादशाध्याये आतिथ्येप्ट्यन्ते उपसत्काले च सुब्रह्मण्यापाठे कर्तव्ये सर्वसुत्यार्थे तन्त्रतायाः स्थापितत्वात् । अग्निप्टुद्यागस्येतरचतुर्दशापेक्षया मुख्यत्वेनोपक्रमाधिकरणन्यायेन बलवत्त्वात्तदीयसुब्रह्मव्याया आग्नेय्या एव पञ्चदशयागार्थ प्रसक्ताया ऐन्या सुब्रह्मण्यया बाध इति सिद्धा
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे प्रत्यक्षप्राबल्यभङ्गः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
१५५
-
न्तो भाष्यकारेणोक्तो यथेत्यर्थः । बहुविषयकत्वस्य बाधकतामयोजकत्वं प्रकटयति — वहुबाधस्यान्याय्यत्वादिति । बहुनामङ्गभूतसुब्रह्मण्याया बाघस्यायुतत्वादित्यर्थः । सुब्रह्मण्यानाम 'इन्द्र आयाही 'त्यादिनिगदविशेषः । प्रतीतार्थेति । यथाश्रुतार्थेत्यर्थः । दृष्टान्ते ऐन्या आग्नेयीबाधस्थले | बहुविषयाबाधः बहुविषयेषु यागरूपेषु अङ्गावाधो न्यायसिद्धः । विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् स्वधर्मत्व'मिति सिद्धान्तसूत्रेण विरुद्धधर्माणां मेलनप्रसक्तौ बहूनां धर्माबाधस्योक्तत्वात् । अत्र प्रकृते । बहुभिरिति । विषयाबाध इत्यनुषज्यते । तृतीयार्थो ज्ञाप्यता । तथा च प्रकृते बहुप्रमाणज्ञाप्यस्य विषयस्य द्वैतसत्यत्वरूपस्याबाध इत्यर्थः । वैषम्यादिति । अनेनेदं सूचितम् । भाप्योक्तस्यो - तोदाहरणस्य वार्तिके दूषणादिदं दृष्टान्तमात्रं त्वयोक्तम् । न तुक्तन्यायस्यो - दाहरणम् । तदपि विषममिति । उक्तं हि वार्तिके – 'सुब्रह्मण्याया देवताप्रका - शनार्थत्वादिन्द्रप्रकाशनेनाभिप्रकाशनरूपोपकारालाभेन नात्र प्रसङ्गस्य प्रस क्तिः । अन्यत उपकारलाभे तत्साधनाननुष्ठानं हि प्रसङ्गः । तथा च सुत्याकालीनस्येवातिथ्येष्ट्यन्तकालीनादेरपि सुब्रह्मण्यापाठस्य न प्रसङ्गः 1 अत एव न तन्त्रता । एकादशे तदुक्तिस्तु एकदेवताकनानायागीयसुब्रह्मण्याविषया बोध्या । तस्मादुक्तोदाहरणस्याभावादुदाहरणान्तरमुच्यते । काम्येष्टिकाण्डे ' अग्नये दाले पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं ' दधिमधुघृतमापोधानास्तत्संसृष्टं प्राजापत्यं पशुकाम' इति वा क्ये आग्नेयपुरोडाशधानायागयोर।मेयविकास्त्वादमावास्यापौर्णमास्युभयधर्मकत्वेन न तत्र विरोधः । इतरेषु तु पञ्चसु सह क्रियमाणेषु आज्यभागयोर्वार्त्रघ्नीवृधन्वतीमन्त्राणां हविरभिमर्शने चतुर्होतृपञ्चहोतृमन्त्रयोश्चानुष्ठाने विरोधः । ऐन्द्रो हि ऐन्द्रानस्य विकारः । दधियागो दधियागस्य । तत्र च वृधन्वतीपञ्चहोतृमन्त्राणाममावास्याधर्माणां प्राप्तिः । मधुघृतोदकानां तूपांशुयागविकारत्वेन वार्त्र - नीचतुर्होतृमन्त्राणां पौर्णमासीधर्माणां प्राप्तिः । ' वानी पौर्णमास्यामनूच्येते - 'धन्वती अमावास्यायां ' 'चतुर्होत्रा पौर्णमासीमभिमृशेत् पञ्चहोत्रामावास्यामिति वचनाम्यां तेषां तद्धर्मत्वावगमात् । तत्रैन्द्रदनोर्मुख्यत्वेन तदीयधर्माबाधायामावास्याधर्मा एवानुष्ठेयाः । न ह्याज्याभागहविरभिमर्शनयोरेकेन मन्त्रेण उभयार्थे क रणे सिद्धे अन्यमन्त्रानुरोधेन पुनः करणं युक्तम् । गुणानुरोधेन प्रधानावृत्ते - रन्याय्यत्वादिति प्राप्ते, बहूनां धर्मबाधस्यायुक्तत्वादल्पसङ्ख्याकानां भूयो धर्मानुष्ठानेन न प्रसङ्गित्वमिति पौर्णमासीधर्मा एवानुष्ठेयाः । 'आसन्नानि हवींष्यभि
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
मृश'तीति वचनविहिताभिमर्शने चतुर्होत्रेत्यादिना मन्त्रमात्रविधानात् सहदेव सर्वहविरभिमर्शनसम्भवात् । अमावास्यायामुपांशुयागस्याङ्गत्वपक्षे तु नेदमप्युदाहरणं युक्तम् । द्विविधमन्त्राणामप्यविरोधात् । अतोऽन्यदुदाहरणं मृग्यमिति । किं च वैषम्यादित्यनेनेदमपि सूचितम् । भूयोनुग्रहायाल्पस्य मुख्यस्य बाध इति सिद्धान्तो न सर्वसम्मतः । 'विप्रतिषिद्धे'त्याद्युक्ताधिकरणाव्यवहितोत्तरं हि । 'मुख्यं वा पूर्वचोदनाल्लोकवदि' त्यधिकरणे मुख्यामुख्ययोर्द्वयोर्धर्माणामनुष्ठाने विरोधे मुख्यस्यैव धर्मा अनुष्ठेयाः । अमुख्यस्य हि भूयस्त्वं मुख्यस्य बलवत्त्वापवादकम् । तदभावे तु मुख्यस्यैव प्राबल्यमित्युक्तम् । प्राचां मीमांसकैकदेशीनां मते तु विप्रतिषिद्धेत्यादिना भूयोनुग्रहाय मुख्याल्पबाध इति पूर्वपक्षयित्वा मुख्यं वेत्यादिना मुख्यस्यैकत्वेऽपि भूयसाम्मुख्यानां तेनोपमर्दः । लोके तथा दर्शनात् । इति सिद्धान्तितमिति वार्तिकादावुक्तम् । ननु, 'विप्रतिषिद्धे' त्याद्यधिकरणे बहूनां धर्माबाधायाल्पस्य बलवतोऽपि धर्मबाध इत्युक्तम् । तथा च प्रत्यक्षादीनां बहूनां प्रामाण्यरूपस्य धर्मस्याबाधायानिश्चितप्रामाण्यकत्वेनानिश्चितप्रामाण्यकप्रत्यक्षाद्यपेक्षया बलवत्या एकस्याः श्रुतेः प्रामाण्यरूपस्य धर्मस्य बाधो युक्त इति कथं वैषम्यं तत्राह-देहेति । आमासति । द्वन्द्वात् - रतया प्रत्यक्षादेः सर्वस्य प्रत्येकं विशेष्यम् । आभासत्वं चानिश्चितप्रामाण्यकत्वम् । अनुमानं च 'आत्मा देहैक्यवान् । प्रत्यक्षण तथा प्रतीयमानत्वात् ।' इत्यादिरूपं बोध्यम् । तथापित्त्यादिकमादिपदेन ग्राह्यम् । अत्रापि द्वैतसत्यत्वप्रत्यक्षाद्यद्वैतश्रुत्योविरोधेऽपि । प्राबल्यादिति । तथा च बाध्यबाधकमानयोर्द्वयोरपि प्रामाण्येऽनिश्चिते निश्चिते वा तादृशन्यायावतारः । न त्वेकस्य । तस्मिन्निश्चिते अन्यस्य चानिश्चिते 'शतमप्यन्धानां न पश्यतीति न्यायेन भूयस्त्वस्यानुपयोगात् । अन्यथा देहात्मैक्यप्रत्यक्षादेर्बलवत्त्वापत्तेरिति मावः । ननु, तथाऽपि प्रत्यक्षादीनां कर्मोपासनाश्रुतीनां च प्रमाणत्वेन व्यवहारविरोधः । अतत्त्वविदामेव तद्व्यवहारवत् तत्त्वविदामपि तद्व्यवहारस्स्यात्तत्राह-विद्येति । वि. द्या तत्त्वज्ञानम् । तत्रैव तात्विकं प्रामाण्यम् । प्रत्यक्षादौ व्यावहारिकप्रामाण्याश्रये आविद्यकविषयकत्वेनाविद्यारूपे तद्व्यवहारस्त्वतत्त्वविदां दोषादेव । तत्त्वविदां तु दोषाभावान्न तत्र स इति भावः ॥
॥ इति लघुचन्द्रिकायां प्रत्यक्षस्य जात्या प्राबल्यमङ्गः ॥
जात्या मुख्यत्वादिनोपजीव्यत्वान्यरूपेण । प्राबल्यं मिथ्यात्वबोधकानुमानागमापेक्षया बलवत्त्वं । तद्विरुद्धग्रहणे तादृशोपजीव्यविरुद्धग्राह
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र ० दे प्रत्यक्षप्राबल्यभङ्गः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
१५७
asनुमानागमे । तद्वाधः तादृशोपजीव्यबाध्यत्वम् । पक्षग्राहिणा परिच्छिन्नतया घटग्राहिणा । नरेति । मृतनरेत्यर्थः । ग्राहकेण ग्राहकागमसजातीयागमेन । असमवायीति । असमवायिकारणेत्यर्थः । 'मनो विभु । ज्ञानासमवायिकारणसंयोगाधारत्वात् । आत्मवदित्यनुमाने मनसि आत्मसंयोगग्राहकेण बाध्यत्वम् । विभुनोरात्ममनसोरसंयोगासम्भवेन मनसि विभुत्वबाधनिश्चयात् । किमु वक्तव्यमिति । बाधक्रियाविशेषणत्वात् नपुंसकत्वम् । तद्राहिश्रोत्रसाक्ष्याatra | शब्दग्राहि श्रोत्रशब्दजन्यज्ञानप्रामाण्यग्राहिसाक्ष्यादीत्यर्थः । तदपेक्षणादिति । यद्यप्यतीन्द्रियपक्षसाध्यहेतुकानुमानस्य प्रत्यक्षापेक्षणे मानाभावः । पूर्वपूर्वानुमानपरम्परयैव तत्संभवात् । शाब्दबोधस्य क्वचिदपेक्षणेऽपि तस्य शब्दानुमानादिनैव सम्भवेन शब्द प्रत्यक्षानपेक्षणात् । किं च साक्षिणो भ्रमप्रमासाधारणत्वेन तजातीयत्वेन कथं प्राबल्यम् । अपि च साक्षिजातीयत्वं चक्षुरादिजन्यज्ञानस्य न प्रत्यक्षत्वजातिः । अस्मन्मते तस्यालीकत्वात् । नापि अनावृतचित्तादात्म्यापननिष्ठविषयताकत्वम् । तस्यैकस्य साक्षिचाक्षुषादिज्ञानयोरभावेन साक्षिजातीयत्वरूपत्वाभावात् । साक्षिणि हि विषयता विषयतादात्म्यरूपा । चाक्षुषादिज्ञाने त्वाकाराख्या । किं च नोपजीव्यजातीयत्वेन प्राबल्यस्वीकारे मानमस्ति । अशौचागमस्थोक्तजातीयत्वमनादृत्यैव प्राबल्यसम्भवात् । आगमत्वजात्यैव हि प्राबल्यस्योतत्वादित्यादिदूषणानि सन्ति । तथापि स्फुटत्वात्तान्युपेक्ष्य वाचस्पत्याद्युक्तं समाधानमाह - उपजीव्याविरोधादिति । यत् स्वरूपं व्यवहारकालाबाध्य विषयकत्वं ज्ञानस्य, तादृशाबाध्यत्वं विषयस्य उपजीव्यते प्रयोजकत्वेनापक्ष्यते । तात्विकत्वाकारः त्रिकालाबाध्यत्वम् । कारणत्वे प्रयोजकत्वे । अप्रवेशात् अवच्छेदकत्वाभावात् । व्यवहारकालाबाध्यविषयकत्वरूपेण मिथ्यात्वविशिष्टतया यदज्ञातं तद्विषयकत्वपर्यवसितेन प्रमात्वेन निश्चीयमानो यश्शब्दनिश्वयः तत्त्वादिरूपेण शाब्दबोधादिहेतुत्वम् । तादृशरूपे च प्रयोजके तात्विकत्वं न निविशते । नन्वेवं प्रातीतिकविषयकज्ञानात्तादृशप्रमात्वेन निश्रीयमानात् कार्योत्पादस्वीकारेण व्यावहारिकशब्दज्ञानत्वादिना हेतुत्वाप्रसक्तावपि प्रातीतिकदण्डादितो घटाद्यनुत्पत्तेः व्यावहारिकदण्डत्वादिना हेतुत्वे वाच्ये महागौरवात् तत्परिहाराय प्रपञ्चस्य व्यावहारिकप्रातीतिकरूपद्विविधत्वस्य त्यागेनैकविधत्वमेव उचितमिति चेन्न। दण्डादेर्दण्डत्वादिना हेतुत्वे स्वीकृतेऽपि न प्रातीतिकदण्डादितो घटादिकार्यस्योत्पत्त्यापत्तिः । व्यावहारिकत्वविशिष्टतत्तत्कारणकलापाधिकरणक्षणोत्तरक्षणत्वस्यैव तत्तत्कार्योत्पत्तिव्याप्यत्वस्वीकारादिति दिक् । तदुक्तमिति । खण्डन
I
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
अद्वैतमञ्जरी।
कारैरिति शेषः । पूर्वसम्बन्धनियमे कार्यप्राक्कालघटितो योऽनन्यथासिद्धकार्यव्यापकतावच्छेदकधर्मरूपो नियमः, तद्रूपे हेतुत्वे आवयोः प्रपञ्चसत्यत्वमिथ्यात्ववादिनोस्तुल्ये स्वीकृते तादृशहेतुत्वात् बहिर्भूतयोरघटकयोस्सत्त्वासत्त्वयोः कथा वृधा न युक्तेत्यर्थः । तज्ज्ञानत्वेनैवेति । ननु, प्रतियोगिज्ञानस्य विशेषणतावच्छेदकप्रकारकनिश्चयविधयैव हेतुता । तादृशनिश्चयस्य चाप्रमात्वेन गृह्यमाणस्याभावबुध्यनुपधायकत्वात् प्रमात्वेन निश्चीयमानस्यैव सा वाच्या। तथा च कथं प्रमात्वाघटितरूपेणैव सेति चेन्न । प्रतियोग्यंशे प्रमात्वेन हेतुताया व्यवच्छेद एव प्रकृतग्रन्थस्य तात्पर्यात् । तथा च प्रतियोगितावच्छेदकांशे प्रमात्वेन निश्चीयमानस्योपजीव्यत्वेऽपि न प्रतियोग्यंशे प्रमात्वस्य उपजीव्यता । प्रतियोग्यंशे भ्रमस्यापि तथात्वसम्भवात् । न चैवं लाघवादित्यसङ्गतम् । प्रमात्वापेक्षया प्रमात्वेन निश्चीयमानत्वस्यैव गुरुत्वादिति वाच्यम् । प्रतियोग्यंशे प्रमात्वेन हेतुतावादिनापि हि प्रतियोगितावच्छेदकांशे प्रमात्वेन निश्चीयमानत्वं कारणतावच्छेदके निवेश्यमेव । अन्यथा तदंशे प्रमात्वसंशये सत्यपि प्रतियोगिज्ञानादभावबुद्ध्यापत्तेः । तथा च तन्निवेशेनैवोपपत्तौ प्रतियोग्यंशे प्रमात्वं न निवेश्यते । लाघवादिति भावः । तद्विरुद्धविषयकम् अनुपजीव्यप्रतियोगिवैशिष्ट्यांशे रजतभ्रमस्य विरुद्धविषयकम् । ज्ञानम् अभावज्ञानम् । प्रकृते मिथ्यात्वानुमानादौ । पृथिवी मिथ्या । दृश्यत्वादित्यनुमाने पृथिवीत्वप्रकारकज्ञानत्वादिना एथिव्यादिप्रत्यक्षस्य हेतुता । न तु पृथिव्याद्यशे प्रमात्वेनेत्यर्थः । एवं घटविभुत्वानुमानेऽपि नोपजीव्यांशे प्रत्यक्षस्य विरुद्धत्वम् । घटस्य परिच्छिन्नत्वांश एव प्रत्यक्षस्य विरुद्धत्वात् । किं तूपजीव्यत्वाश्रयविरोधमात्रम् । तथा चोपजीव्यजातीयविरोधवत्तस्यापि दोषत्वेन तान्त्रिकाणामुक्तिरिति ध्येयम् । अत्र प्रतियोग्यंशे त्रिकालाबाध्यत्वं व्यवहारकालाबाध्यत्वं च यथा नाभावज्ञानस्योपजीव्यं, तथा पक्षायंशे त्रिकालाबाध्यत्वं नोक्तानुमानस्योपजीव्यम् । अतस्तस्य तेन नाधेऽपि न क्षतिः । तस्य व्यवहारकालाबाध्यत्वं तु तेन न बाध्यते । न चोपजीव्यते । मिथ्यात्वेनाज्ञातविषयकत्वरूपस्य पृथिवीत्वादिरूपपक्षतावच्छेदकाद्यंशे प्रमात्वस्य निश्चयः परं तादृशानुमानोपजीव्यः । न च तावता क्षतिः । यत्प्रामाण्यं यस्य प्रामाण्यम् । स्वरूपसिद्ध्यर्थं खनिश्चयार्थम् । अपवादेति । स्वाभाववत्त्वज्ञानेत्यर्थः । उपजीवति अपेक्षते । यथेति । स्मृतेः स्वजनकानुभवसमानविषयकत्वनियमेन स्मृतावप्रामाण्यस्य प्रमानुभवजन्यस्मृतित्वेनानुमानात् प्रमात्वव्याप्यतादृशस्मृतित्ववत्तानिश्चयस्य स्मृतावप्रमात्वधीनि.
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षप्राबल्यभङ्गः] लघुचन्द्रिका। . रासकत्वाच्चानुभवः स्मृतेरुपजीव्य इत्यर्थः । तथा तादृशोपजीव्यतावान् । सजातीयेत्यादि । सजातीयस्य ज्ञानान्तरस्य । विजातीयस्य प्रवृत्त्यादेश्चाबाधितविषयकत्वेन निश्चितस्य । संवादः समानविषयकत्वम् । तयोविसंवादस्य विरुद्धार्थग्राहित्वस्याभावश्चेत्यर्थः । अक्षस्य प्रत्यक्षस्य । ज्ञानान्तरं घटार्थक्रियेतिपाठः । न्यायामृतरूपे दूष्यग्रन्थे तथैव पाठसत्त्वात्। ज्ञानानन्तरमर्थक्रियेति पाठे परीक्षणीयज्ञानोत्तरं घटार्थक्रियेत्यर्थः । तत्र विशेषदर्शनजन्यत्वोक्त्या संवाद उक्तः । स्वसमानविषयकत्वस्येव स्वविषयव्याप्यवत्त्वविषयकत्वस्यापि संवादत्वात्तद्विषयानुकूलविषयकत्वस्यैव तत्संवादत्वसम्भवादिति बोध्यम् । घटार्थक्रिया घटानयनादौप्रवृत्यादिकम् । सजातीयविजातिययोस्संवादमुक्त्वा अविसंवादमाह- प्रत्यक्ष इत्यादि । चन्द्रप्रादेशिकत्वादिप्रत्यक्षे क्लुप्तस्य दूरादिदोषस्याभावश्चेत्यर्थः । तथा च भ्रमत्वप्रयोजकदोषाभावेन मानान्तरविरुद्धग्राहित्वाभावात्तयोरपि संवाद इति भावः । नन्वागन्तुकदोषाभावेऽप्यविद्याकामकर्मरूपाणां नित्यदोषाणां सत्त्वात् कथं विसंवादाभावोक्तिः । श्रुत्यादिविसंवादस्यैव च सत्त्वात्तत्राह-एवमेव च दोषाभावेति । आगन्तुकदोषमात्राभावेत्यर्थः । प्रवृत्तीति। सजातीयसंवादविसंवादस्थलेऽपि प्रवृत्तिरूपसजातीयज्ञानफलसंवादादिसत्त्वात् प्रवृत्तिपदेनैव सजातीयविजातीययोर्ग्रहणमविसंवादप्रयोजकम् । दोषाभावादिकमपि परीक्षायामन्त व्याह-दोषाभावादिति। स्वसमानेति । स्वसमानकालीनं यत्प्रामाण्यस्य प्रामाण्यघटकं विषयनिष्ठमबाध्यत्वं, तव्यवस्थाप्यत इत्यर्थः । धूमेनेत्यादि । यथोदयनाचार्यादिमते साध्ये हेतुसमानकालीनत्वभानस्यानुमितावौत्सर्गिकत्वस्वीकाराडूमेन तत्समानकालीन एव वह्निरनुमीयते, तथा एतज्ज्ञानविषयः अबाधितोऽबाधितविषयकत्वेन ग्रहीतज्ञानप्रवृत्त्यादिविषयत्वात् तादशज्ञानाविरुद्धत्वादित्याद्यनुमानेन तादृशविषयत्वादिरूपसंवादादिहेतुसमानकालीनं) विषयस्याबाध्यत्वमनुमीयत इत्यर्थः । ननु नवीनतार्किकैस्साध्ये हेतुसमानकालीनत्वभानस्यौत्सर्गिकत्वं न स्वीक्रियते । तत्राह-तथाचेति । परीक्षयापि विषयाबाध्यत्वव्यवस्थादरे चेत्यर्थः । मात्राबाध्यत्वं मात्राबाध्यत्वमेव । प्रमाणे प्रमाविषये । व्यवस्थितमिति । तादृशसंवादादिशरीरे कालानवच्छिन्नमवाध्यत्वं न निवेशयितुं शक्यम् । तस्य दुर्ग्रहत्वेनोक्तत्वात् । तत्तद्व्यवहारकालावच्छिनस्य तस्य तत्र निवेशे च तस्यैव बाध्यत्वं वाच्यम् । न तु कालानवच्छिन्नस्य । शुक्तिरूप्यादौ व्यभिचारादिति भावः । योगक्षेमं सत्ता । मिथ्याभूतैः व्यवहारकाले बाध्यमानैः । सत्या व्यवहारकालाबाध्यविषयिका । क्रियते प्रयुज्यते । वर्णज्ञानस्यैव १. 'तादृशविषयत्वादिसंवादादिहेतुकेन तादृशहेतुसमानकालीनम् ।' इति पाठान्तरम् ।
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भद्वैतमञ्जरी ।
करणत्वात् । मीमांसकैः कर्मब्रह्ममीमांसकैः । औपनिषदानां मतेऽपि वर्णानामाकासादिसमाननित्यत्वस्वीकारात् । अतात्विकगन्धेति । विशिष्टघटस्य केवलघटान्यत्वात्तत्र गन्धोऽतात्विकः । तस्य तदनतिरेकेऽपि स्वप्रागभावे गन्धस्य कालिकसम्बन्धमानात्तथात्वम् । व्याप्यतापत्तेरिति । न च सेप्टैव । पक्षधर्मताधीविलम्बादेवानुमितिविलम्बसम्भवादिति वाच्यम् । गगनादौ जगद्व्याप्यत्वव्यवहारस्यानुभवविरुद्धत्वात् । किं च व्याप्यविशेष्यकपरामर्शस्याप्यनुमितिहेतुत्वात् वहिव्याप्यगगनं पर्वतीयमिति ज्ञानात् पर्वते वह्नयनुमितिस्स्यात् । गगने अवृत्तित्वज्ञानस्य गगनप्रकारकधीप्रतिबन्धकत्वेन तत्काले तदनुत्पादेऽपि तद्विशेष्यकपरामर्शोत्पादे बाधकामावात् । किं च गगनादेरित्यादिपदेन तत्तजलीयरूपादेरपि धूमादिव्याप्यतापत्तिरुक्ता । केन चित् सम्बन्धेन तस्यापि साध्याभाववद्वृत्तित्वस्याभावात् । हेतुतावच्छेदकसन्वन्धेन वृत्तिनिवेशे सत्तावान् द्रव्यत्वादित्यदावव्याप्तेरिति दिक् । ननु, प्रयुक्तत्वं क्षेमसाधारणी जन्यतव । अन्यथा बिंबाभावात् प्रतिबिम्बाभाव इतिवत् बिम्बाभावात् गगनाभाव इत्यपि व्यवहियेतेत्यत आह-तस्मादिति । स्वेतरस्य यस्य यस्य सत्त्वे स्वस्य सत्त्वे अग्रिमक्षणे यत्सत्त्वं, तस्य तस्य सत्त्वेऽपि स्वस्याभावसत्त्वे उत्तरक्षणे अवश्यं तदसत्त्वम् । तादृशसत्त्वं क्षेमसाधारणकारणत्वमिति रीत्या प्रतिबिम्बामावनिष्ठस्य क्षेमसाधारणजन्यत्वस्य प्रतिबिम्बघटितत्वेनातात्विकत्वात् प्रतिबिम्बेतरभागवैयर्थ्याच्च प्रतिबिम्बमेव बिम्बपूर्वकत्वेऽपि तादात्म्येन हेतुरिति भावः । बिम्बं तत्पूर्वकत्वं वा साध्यम् । एतेन कार्यकारणभावापन्नधीविषययोस्समानसत्ताकत्वानियमेन । तन्त्रं समवापकम् । प्रयोजकं व्याप्यम् । बहिर्भूतेति । तार्किकादिरीत्योक्तम् । स्वमतेत्वबाधितविषयकत्वरूपं प्रमात्वं निर्विकल्पेऽप्यस्त्येव । सर्वबाधावधित्वात् सर्वबाधकधीविषयत्वात् । तस्य बाधे तद्धियः सर्वबाधकत्वं नोपपद्यत इति भावः । सत्यत्वादिति । तन्मतेऽपि सर्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वरूपासत्त्वविशिष्टस्य शुक्तिरूप्यादेरसत्त्वेऽपि तादृशासत्त्वस्य सत्त्वादिति भावः । ननु तथापि ज्ञानविषयत्वविशिष्टरूपेण मिथ्यात्वं ब्रह्माणि स्यादित्याशङ्कय तत् स्वीक्रियत एव । तथापि शुद्धरूपेण सत्यतेति सदृष्टान्तमाह---यथेति ॥
॥इति लघुचन्द्रिकायां प्रत्यक्षस्य उपजीव्यतामङ्गः॥ औदुम्बरी उदुम्बरवृक्षशाखाम् । ऐन्या 'कदाचन स्तरीरसि नेन्द्रसश्चसि दाशुष'इत्यादिऋचा । गार्हपत्यं नक्तमाधानसंस्कृताग्निम् । स्मृतिरूपेणेति । ज्ञायमानहेतोरनुमानत्वमते इदं । हेतुज्ञानस्यानुमानत्वमते तु स्मृतिविषयकधीरूपेणेति
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षस्यानुमानबाध्यत्वम्] लघुचन्द्रिका !
तदर्थः । औदुम्बरीसर्ववेष्टनस्मृतिः तादृशश्रुतिमूलिका । बाधकाभावे सति शिष्टगृहीतम्मृतित्वात् । या बाधकामावे सति यदर्थकशिष्टगृहीतस्मृतिः, सा तदर्थकश्रुतिमूलिका । यथा प्रत्यक्षश्रुतिमूलकस्मृतिरित्यनुमानरीतिः । नेन्द्रे. त्यादि । 'कदाचने'त्यादिमन्त्रगतेन्द्रादिपदानामिन्द्रादिप्रकाशनसामर्थ्यरूपेणेत्यर्थः । शेषत्वश्रुतीति । उक्तसामर्थ्यम् उक्तमन्त्रे इन्द्रशेषत्वबोधिकया श्रुत्या युक्तम् । उक्तसामर्थ्यत्वात् । यत् यन्निष्ठयदर्थप्रकाशनसामर्थ्य, तत् तन्निष्ठस्य तदर्थशेषत्वस्य बोधिकया श्रुत्या युक्तम् । प्रत्यक्षश्रुतिविनियुक्तमन्त्रादिसामर्थ्यवदिति बोध्यम् । चोदनालिङ्गत्यादि । विधिवाक्यसादृश्येत्यर्थः । सोमारौद्रचरुयागः श्रुतिबोधितबहिरङ्गकः । तादृशपौर्णमासविधिसदृशविधिकत्वात् । यत् श्रुतिबोधितयदङ्गकयदीयविधिसदृशविधिकं, तत् श्रुतिबोधिततदङ्गकम् । यथा 'यद्राह्मणानि पञ्चहवींषि तब्राह्मणानीतराणी'ति प्रत्यक्षवचनातिदिष्टश्रुतिबोधिताङ्गकम् । सादृश्यं तु निपत्यादिपदद्विदेवतत्वादिकम् । अनुमानेन च वाध्येतेति । प्रथमतृतीये चिन्तितम् । ज्योतिष्टोमे सदोनामकमण्टपे औदुम्बरी निखन्य स्थाप्यते । तस्याः 'सर्वा औदुम्बरी वेष्टयितव्येति स्मृत्या सर्ववेष्टनं विहितम् । 'औदुंबरी स्टष्ट्वोद्गाये दिति श्रुत्या च स्पर्शनं विहितम् । तदेवं प्रत्यक्ष श्रुतिस्मृत्योर्विरोधे स्मृतिः प्रमाणमेव । शिष्टगृही तस्मृतित्वात् । व्रीहियवादिश्रुत्योरिव तत्कल्प्यश्रुतिप्रत्यक्षश्रुत्योरपि प्रामाण्यसम्भवाच्चेति प्राप्ते, न प्रमाणम् । स्पर्शश्रुतिप्राप्तेनावेष्टितत्वेन 'वेष्टनीया न वेति जिज्ञासानुत्पत्त्या वेष्टनस्मृत्या श्रुतेरेवाननुमानात् अनुमिताया अपि श्रुतेस्सापेक्षत्वकल्प्यत्वादिना प्रत्यक्षश्रुत्यपेक्षया दौर्बल्याचेति भाष्ये सिद्धान्तितम् । सा प्रमाणमेव । 'वेष्टनीया न वे ति जिज्ञासाविरहेऽपि 'स्मृतेर्मूलं श्रुतिः लोभादिकं वेति जिज्ञासासम्भवात् । शिष्टगृहीतस्मृतीभादिमूलकत्वे मन्वादिस्मृतेरपि तदापत्तेः । श्रुतिमूलकत्वम्य तत्रानुमानसम्भवात् । परं तु यावत्तन्मूल श्रुतिन यस्य प्रत्यक्षा, तेन तावत्तदर्थो नानुष्ठेयः । अर्थवादादिकमन्यपरवाक्यं दृष्ट्वापि हि स्मृतिः प्रणेतुं शक्यते । सा च प्रत्यक्षश्रुत्यनुमेययोर्विरोधे न प्रमाणम् । वस्तुतस्तु, तन्मूलश्रुतिर्येन न दृष्टा, तेनापि तदर्थोऽनुष्ठेय एव । तस्यामर्थवादादिमूलकत्वशङ्कायां मन्वादिस्मृतावपि तदापत्तेः । तस्मात् शाक्यादीनां वेदोक्ताहिंसादिधर्मवक्तृत्वेन शिष्टत्वात् तदीयस्मृतिर्मानमिति प्राप्ते, वेदप्रामाण्यावीकारेण तेषामशिष्टत्वात् न सा प्रमाणमित्येवाधिकरणं रचनीयमिति वार्तिकम् । 'सोमारौद्र चलं निवपेत् कृष्णानां व्रीहीणाम् इति विहितेष्टौ 'शरमयं बहि'रितिश्रुताः शराश्चोदकप्राप्तं बहिर्न बाधन्ते । 'शरमयी भूमि'रित्यत्रेव बहुशरसंयोगमात्रस्य
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
बर्हिषि प्रतीतेरिति प्राप्ते, उक्तसंयोगविधानस्यादृष्टार्थत्वापत्तेः दृष्टं स्तरणरूपं बर्हिःकार्यमुद्दिश्य शरा विधीयन्ते । मयश्रुतिस्तु अतिदेशप्राप्तलवनादिसंस्कारविशिष्टतया शरविकारस्यानुवादः । न च कुशकार्यस्येव कुशानामप्यतिदेशेनैकेन प्राप्तिः । पदार्थविशिष्टस्यैवोपकारस्यातिदेशात् । तथा च कुशकार्यप्रापकत्वेनातिदेशस्योपजीव्यत्वात्तत्प्राप्तकुशबाधासम्भवेन कुशाभावकाले शरस्यानुष्ठानमास्तामिति वाच्यम् । शरविधिपर्यालोचनेन कुशरूपपदार्थांशे अतिदेशस्य सङ्कोचात् । अन्यथा शरविधिवैयर्थ्यात् । (कुशाभावकाले शराणां विधौ तु मानाभावः । 'यदि सोमं न विन्देदि'त्यादिवत् ज्ञापकामावात् । शरविधेः प्रत्यक्षत्वेनोपजीव्येनापि कुशातिदेशेन तादृशोपमर्दासम्भवात् कुशाभावकालविषयकत्वे शरशास्त्रस्य नित्यवत् श्रवणविरोधापत्तेश्च । ) तस्मात् कुशानां शरैर्बाध इति दशमचतुर्थे स्थितम्। तदेतस्मिन्नधिकरणद्वये प्रत्यक्षविषयश्रुतेरनुमानबाधकत्वमुक्तम् । त्वन्मते सत्त्वप्रत्यक्षस्य मिथ्यात्वानुमानेन बाधे उक्तश्रुतित्रयप्रत्यक्षस्योक्तस्मृतिहेतुकेनानुमानेन बाधः स्यादित्यर्थः । तद्बाध्यबाधकभावस्य उक्तश्रुतिविषयकप्रत्यक्षोक्तस्मृतिहेतुकानुमानयोर्बाध्यबाधकमावस्य । शास्त्रार्थत्वेति । उक्तानुमानस्योक्तश्रुत्यैव बाध्यता शास्त्रार्थः । तयोविरुद्धविषयकत्वात् । न तु तत्प्रत्यक्षेण । तयोस्तदभावादित्यर्थः ! तथाचोक्तप्रत्यक्षानुमानयोविरुद्धविषयकत्वे बाध्यबाधकत्वं शास्त्रार्थस्स्यात् । अतोऽविरुद्धविषयकत्वानोक्तापत्तियुक्तेति भावः । ननु, तस्याशास्त्रार्थत्वेऽपि त्वया प्रत्यक्षस्यानुमानवाध्यताया उक्तत्वेन तादृशप्रत्यक्ष तव मते तादृशानुमानबाध्यं स्यात् । तत्राह-अस्माभिरिति । विरुद्धविषयकप्रत्यक्षस्यैवास्माभिस्तर्कानुमानबाध्यताया उक्तत्वेन नोक्तापत्तियुक्तेति भावः । ननु, उक्तश्रुतित्रयस्य प्रत्यक्षावेषयत्वेनैव बाधकत्वं शास्त्रार्थः । तच्चोक्तरूपस्य बलवत् प्रत्यक्षघटितत्वादेव । तत्राह-प्रत्यक्षविषयति । विरोधाभावादिति । तथा च नोक्तरूपेण बलवत्त्वं श्रुतेः । वैकृतमन्त्रलिङ्गादिकल्प्यश्रुतेरप्यतिदेशरूपानुमानापेक्षया बलवत्त्वात् । किं तु निरवकाशत्वक्लप्तत्वादिना । तथा च तद्रूपस्यैव बाधकत्वे प्रयोजकत्वम् । न प्रत्यक्षविषयश्रुतित्वस्येति न प्रत्यक्षस्य बलवत्त्वं तत्रोपयुज्यत इति भावः । ननु, प्रमाणमेवानुमानात् बलवत् । प्रमाणं च श्रुतिज्ञानं प्रत्यक्षरुपम् । न श्रुतिः । तत्रापि श्रुतिज्ञानमात्रं नानुमानात् बलवत् । श्रुत्यनुमितेः श्रुत्यनुमित्यपेक्षया बलवत्त्वालम्भवात् । किंतु श्रुतिप्रत्यक्षम् । विरुद्धविषयकत्वमपि तस्यास्त्येव । शाब्दधीद्वारा शब्द१. 'कुशाभावत्यारभ्य नित्यवत् श्रवणविरोधादि'त्यन्तम् अधिकः पाठः।
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र ० दे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
१६३
,
प्रमाणस्य सविषयकत्वात् । तथा च श्रुतिप्रत्यक्षं श्रुत्यनुमित्यपेक्षया बलवदिति शब्दप्रमाणयोरेव प्रत्यक्षत्वानुमितित्वाभ्यां बलाबलमुक्तशास्त्रार्थः । तत्राह - न हि शब्द प्रत्यक्षयोरैक्यमस्तीति । ( बाधकत्वेन शास्त्रे निर्णीतं यत् शब्दसामान्यं तस्य प्रत्यक्षैक्यं न ह्यस्तीत्यर्थः । कुत्र शब्दस्य तादृशस्य न प्रत्यक्षैक्यम् । तत्राह—शब्दस्येति । वैकृतमन्त्र विशेषलिङ्गकल्प्य श्रुत्यादिरूपशब्दज्ञानस्य प्रत्यक्षान्यस्यापि प्रकृतमन्त्रादिप्रापका तिदेशादिसर्वप्रमाणबाधकत्वं शास्त्रानुसारिन्यायेनावोचाम पूर्वमित्यर्थः । ) तथा च शब्दप्रमाणस्य निरवकाशत्वक्लप्तत्वादिना सावकाशत्व कल्प्यत्वादिमतोऽनुमित्यात्मकश्रुतिज्ञानात् बलवत्त्वस्योक्ताधिकरणार्थत्वेऽपि (प्रत्यक्षत्वानुमितित्वाभ्यां बलाबलं) नोक्ताधिकरणार्थ इति भावः । शैत्यम् । अनौष्ण्यम् । स्थायित्वं अक्षणिकत्वम् । अर्थक्रिया दाहादिकार्यम् । तन्वं व्याप्यम् । अयोग्यशृङ्गसाधन इति । न च शृङ्गत्वावच्छेदेन योग्यत्वनिश्चयात् नायोग्यशृङ्गत्वेनानुमितिस्संभवतीति वाच्यम् । अस्मदादिचक्षुराद्ययोग्यस्य देवगवि शृङ्गस्य सत्त्वेनोक्तनिश्चयासम्भवात् । अश्वादौ शृङ्गसन्देहकाले अयोग्यशृङ्गानुमितिसम्भवात् ॥ ॥ इति लघुचन्द्रिकायां प्रत्यक्षस्यानुमानबाध्यत्वम् ॥
तस्मादित्यादि । 'तस्माद्धमएवे 'त्यादेरर्थवादस्य ' गुणवादस्त्विति सूत्रेण 'अदितिरि' त्यादिमन्त्रस्य च 'गुणादविप्रतिषेध ' इति सूत्रेण गौणार्थता सिद्धान्तत्वेन नोच्येतेति योजना । दृष्टविरोधेनेति । अर्थवादाधिकरणे 'वायुर्वै क्षेपिष्ठा देवते' त्यादेर्धर्मानुत्पादकत्वं स्वार्थानुवादकत्वं च दृश्यते।'स्तेनं मनोऽनृतवादिनी वागि' त्यादेस्तु स्वार्थो बाधित एव । मनस्स्तेनसदृशम् । वागनृतप्रायवादिनीत्यर्थकत्वे त्वनुवादत्वापत्तेर्विधिकल्पकत्वं वाच्यम् । स च विधिर्वाज्मनसयोरनृतादियोगादन्येनापि तत्सेव्यमित्येवंरूपश्चेत्, प्राप्तार्थत्वादनुवादस्स्यात् । 'नानृतं वदे' दित्यादिशास्त्रविरुद्धश्व स्यात् । 'अनृतेनैव स्वकार्यं साधयेत्' 'स्तेयेनैव द्रव्यमार्जयेत्' इति परिसंख्यारूपश्चेत् त्रैदोप्यापत्तिः । 'सत्यमेव वदेत्' 'प्रतिग्रहादिनैव द्रव्यमार्जयेदिति शास्त्रवि रोधश्व । अत एवानृतं वदेदेवे 'ति नियमविधिरूपोऽपि न । नापि विकल्पः । कल्प्यत्वेनास्य दुर्बलत्वात् । तस्माच्छास्त्रविरोधेन विध्यकल्पकत्वात् स्तेनमित्यादिवाक्यानामप्रामाण्यम् । एवं 'तस्माडूम एवाग्नेर्दिवा ददृशे नार्चिः अर्चिरेवा
१. शब्द प्रत्यक्षयोः शब्दसामान्यप्रत्यक्षसामान्ययोः । ऐक्ये दोषमाह - शब्दस्येति । निदोषवाक्यस्येत्यर्थः । बलवत्त्वमिति । तथा च तयोरैक्ये 'प्राबल्यमागमस्यैव जात्या तेषु त्रिषुस्मृत' मिति स्मृतिविरोधः । इति पाठान्तरम् ।
२. प्रत्यक्षज्ञानसामान्यस्यानुमितिसामान्यात् बलवत्त्वम् । इति पाठान्तरम् ।
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
गर्नक्तं ददृशे न धूमस्तस्माद्दिवाग्निरादित्यं गतो रात्रावादित्यस्त'मित्यादेदृष्टविरोधादप्रामाण्यमिति 'शास्त्रदृष्टविरोधादि'ति सूत्रेणाशंक्यान्येषामप्यर्थवादानामन्यैः प्रकारैरप्रामाण्यमाशंक्य 'गुणवादस्त्वि'ति सूत्रेण बाधितार्थकानामुक्तार्थवादानां गौणार्थकत्वं प्रतिज्ञाय 'रूपात् प्रायादि'त्यादिसूत्रैरुपपाद्यगौणार्थधीद्वारा विध्यपेक्षितस्तुतिनिन्दाबोधकत्वमुक्त्वा सर्वार्थवादानां करणेतिकर्तव्यताविशिष्टभावनागतप्राशस्त्याप्राशस्त्यधीपरत्वमिति सिद्धान्तितम् । तत्र 'हिरण्यं हस्ते भवत्यथ गृह्णातीति विधेश्शेषभूते 'स्तेनं मनोऽनृतवादिनी वागि'त्यत्र स्तेनशब्दः प्रच्छन्नकारित्वरूपाद्रूपात् गौणः । अनृतशब्दस्तु अनृतवाक्यबाहुल्यरूपात् प्रायात् गौणः । वाङ्मनसयोनिन्दया हिरण्यस्य विधेयस्य स्तुतिधीः । 'तम्मालूम एवे'त्यादौ तु 'दूरभूयस्त्वादिति सूत्रोक्तदूरभूयस्त्वादृशिौणः । अत्र 'रूपात् प्रायात् ' 'दूरभूयस्त्वादिति सूत्रस्थपञ्चम्या ल्यबन्तसमानार्थकत्वात् । रूपप्रायदरभूयस्त्वरूपान् गुणानादाय गुणवादोऽनृतादिशब्द इत्यर्थो बोध्यः । दूरभूयस्त्वं च भूयस्त्वेन दूरस्थैर्दृश्यमानत्वम् । दिवा हि दूरस्थैः भूयस्त्वेन धूम एव दृश्यते । नाग्निः । तथा च 'सूर्यो ज्योतिर्योतिरग्निस्स्वाहेति सायं जुहोति' 'अग्निोतिर्योतिस्सूर्यस्स्वाहेति प्रातर्जुहोती'ति मिश्रलिङ्गकमन्त्रविध्योश्शेषभूतं तस्मादित्यादिकम् । उभयोर्दैवतयोर्मेलनादुभयदेवताको होमः प्रशस्त इत्यर्थः । वस्तुतस्तु, केवललिङ्गकमिअलिङ्गकमन्त्रविध्योर्मध्ये पठितमप्युक्तवाक्यद्वयं 'अग्निज्योतिज्योतिरग्निस्स्वाहेति सायंजुहोति' 'सूर्यों ज्योतिर्योतिस्सूर्यस्स्वाहेति प्रातर्जुहोती'ति केवललिङ्गकमन्त्रविधेः शेषः । 'उभाभ्यां सायं हूयते उभाभ्यां प्रातर्न देवताभ्यस्समं दधाती' त्यस्यार्थवादस्य मिश्रलिङ्गकमन्त्रविधिशेषस्य सत्त्वात् । तथा च यस्माद्दिवाग्निरादित्यं गतस्तस्मादिवादित्यस्यैव ज्योतिष्ट्वात्तन्मात्रलिङ्गकमन्त्रः प्रशस्त इत्यर्थः । एवमर्चिरेवेत्यादावपि बोध्यम् । मन्त्रस्यति । प्रथमद्वितीये चिन्तितम्। 'अदितिौरदितिरन्तरिक्षमि' त्यादिमन्ता अप्रमाणम् । अर्थवाधादिना दृष्टविरोधादिसम्भवात् । न चार्थवादस्येव बाधितार्थकत्वेऽपि गौणार्थधीद्वारा प्राशस्त्याप्राशस्त्यधीपरत्वं तेषामास्तामिति वाच्यम् । मन्त्रा हि न विधिसन्निहिता एव । किं तु ब्राह्मणभागस्थविधिशेषभूतास्संहिताभागस्था अपि। तथा च दूरस्थानां तेषां न पदैकवाक्यतया प्राशस्त्यादिबोधकत्वमिति प्राप्ते, ब्राह्मणवाक्यस्येव मन्त्रस्य विशिष्टवाक्यार्थधीजनकत्वस्याविशेषात्तादशधियश्चानुष्ठेयसम्बन्धिप्रकाशनरूपत्वेन तादृशदृष्टोपकारद्वारा अनुष्ठेयप्रधानाङ्गत्वसम्भवात्तादृशदृष्टोपकारासम्भवे अदृष्टद्वारापि तदङ्गत्वसम्भवात्तस्य प्रामाण्यमेव । यद्यपि हि मन्त्रवाक्यार्थस्य मानान्तरेणापि सिया
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका ।
नागृहीतग्राहित्वरूपं प्रामाण्यं सर्वमन्त्रेषु सम्भवति । तथाप्यभिहितान्वयवादे विभक्त्यन्तपदार्थशाब्दबोधस्यैव पदज्ञानकरणकत्वेन क्रियाकारकान्वयशाब्दबोधस्योक्तशाब्दधीकरणकत्वेन मन्त्ररूपार्थज्ञानस्य करणत्वान्मन्त्रस्यापि प्रमाणत्वम् । 'अनेन मन्त्रेण इममर्थं प्रकाशयेदिति क्रियाकारकान्वयबोधे मन्त्रेणेति विभक्त्यन्तपदार्थरूपमन्त्रकरणत्वशाब्दबोधस्य करणत्वात् । 'अदितिरि'त्यादिबाधितार्थकादिमन्त्राणां तु गौणार्थकत्वादिकल्पनया दृष्टविरोधादिकं परिहर्तव्यमिति । तत्सिदीत्यादि । तसिद्धिः । तदुद्देश्यभूता सिद्धिः यजमानाद्युद्देश्या कार्यसिद्धिरिति यावत् । जाति ननम् । सारूप्यं चक्षुर्ग्राह्यतेजस्वित्वादिरूपं सादृश्यम् । प्रशंसा प्राशस्त्यम् । भूमा बाहुल्यम् । लिङ्गसमवायः अल्पत्वसम्बन्धः । गुणाश्रया इति सूत्रशेषः । गुणवटका इति तदर्थः । तथा च 'यजमानः प्रस्तर' इत्यादौ यजमानादिपदं यजमानापेक्षणीयसिद्धिहेतुत्वादिरूपगुणयोगात् प्रस्तरादिबोधनद्वारा 'प्रस्तरमुत्तरं बर्हिषस्सादयती' त्यादिविध्येकवाक्यतया प्रस्तरादिस्तुतिपरम् । यस्मात् प्रस्तर उक्तहेतुः, तस्मात् प्रशस्त इति । न तु यजमानादिपदं प्रस्तरादिनाम । सोमादिपदवत् अर्थान्तरे अत्यन्तप्रसिद्धत्वात् । नापि प्रस्तरकार्ये सूग्धारणादौ यजमानविधिः । उक्तविध्येकवाक्यताभङ्गापत्तेः । 'अग्नि ब्राह्मण' इत्यादावग्निजननस्थानजातत्वगुणात् ब्राह्मणादिधीद्वारा ब्राह्मणादिस्तुतिपरमग्न्यादिपदम् । सृष्टिकाले ब्रह्मणो मुखात् अग्निब्राह्यणयोजननस्य श्रुत्युक्तत्वात् । एव'मादित्यो यूप' इत्यादौ सारूप्यं गुणः । यद्यपि तत्सिद्धिहेतुत्वादिकमपि सारूप्यं , तथापि सारूप्यपदेन चक्षुाद्यं तेजस्वित्वादिसादृश्यं विवक्षितमिति साम्प्रदायिकाः । तत्रेदं चिन्त्यम् । तसिद्धिसूत्रे तत्सिद्ध्यादीनां षण्णामन्यतममेव गौणशब्देन बोध्यत इति नियमो विवक्षितः । अन्यथा षण्णां कथनवैयर्थ्यात् । तथा चार्थवादाधिकरणे 'रूपादि' त्यनेन 'स्तेनं मन' इत्यादौ प्रच्छन्नकारित्वरूपसारूप्यरूपगुणनिर्देश एव वाच्यः । अन्यथा तस्य तत्सियादिरूपत्वासम्भवेन षडाधिक्यापत्तेः । तथा च तस्य चक्षुह्यत्वाभावेन सारूप्यत्वानुपपत्तिः । तस्मात् सारूप्यं सादृश्यम् । तच्च मीमांसकमते अतिरिक्तपदार्थः । न तु तत्सिद्धिहेतुत्वादिरूप इति ततो भेदः । सादृश्यस्य तत्तदसाधारणरूपत्वेऽप्यादित्यादिभेदविशिष्टस्य तेजस्वित्वादेरेव सादृश्यसारूप्यादिपदार्थत्वात् न तस्योक्तहेतुत्वादिरूपतत्सिध्यादिरूपता । तत्सिध्यादेर्यजमानादिभेदाविशेषितत्वादिति ध्येयम् । 'अपशवो वा अन्ये गोऽश्वेभ्यः पशवो गो अश्वा' इत्यादावजादीनां तत्र विहितत्वेन न प्रतिषेधः , पर्युदासो वा । नापि 'अयज्ञीया वै माषा' इत्यादाविव
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
प्रतिनिधितया प्राप्तस्य निषेधः । 'पुरस्तात् प्रतीचीनमश्वस्योपदधाति पश्चात् प्राचीनमृषभस्येति सन्निहितविध्येकवाक्यताभङ्गापत्तेः । किं तु उक्तविध्यपेक्षितगवाश्वादिस्तुतिपरत्वम् । पशुपदस्य प्रशस्तपशुपरत्वात् । 'सृष्टीरुपदधाती'त्यत्र इष्टकोद्देशेनोपधानं विधीयते इति भाष्यम् । वार्तिकं तु उपधानमात्रस्य विधेयत्वे चित्रिणीरुपदधाति वत्रिणीरुपदधाती'त्यनेकवाक्यानां वैयर्थ्यापत्तिः । एकेनैव तद्विधिसंभवात् । अत इष्टकोद्देशेन मन्त्रविशिष्टोपधानभावना विधीयते । सृष्टिपदं हि सृष्ट्यर्थकपदघटितमन्त्रकरणकोपधानकर्मेष्टकाबोधकम् । 'तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतो'रिति सूत्रविहितमतुबन्तत्वात् । यासामिष्टकानामुपधानकरणीभूतो मन्त्रः सृष्ट्यादिपदार्थसम्बन्धी, तादृशेष्टकासु मतुबन्तस्य लोपश्चेति सूत्रार्थः । उक्तपदार्थस्य सम्बन्धस्तु तदर्थकपदवत्त्वम् । नन्वेकपदार्थयोरुद्देश्यविधेयभावेन क्रियायामन्वयधीः 'वषट्कर्तुः प्रथमभक्ष' इत्यादाविव व्युत्पत्तिविरुद्धेति चेन्न । उक्तसूत्रेणेष्टकारूपकर्मकारकस्य मन्त्रकरणकोपधानरूपकरणान्वितस्य तन्हितवाच्यत्वोक्तिसामर्थ्यादेव तादृशान्वयधियोऽपि प्रकते व्युत्पत्तिसिद्धत्वकल्पनात् । न हि क्रि. यासम्बन्धमप्राप्तयोः कारकयोरन्वयः शब्देन बोध्यते । 'क्रियागर्भत्वात् सम्बन्धस्येति बार्तिकाद्युक्तेः । अत एव 'आग्नेयोऽष्टाकपाल'इत्यादौ तद्धितेनैकेनोक्तयोरप्यग्न्यादिदेवताष्टाकपालादिद्रव्यरूपकारकयोः प्रथमतःक्रियायामन्वितयोरेव मिथोऽन्वयः । तस्मादेकतद्वितोपस्थितयोरप्युपधानेष्टकयोः कर्मत्वकरणत्वरूपाभ्यामाख्यातार्थभावनान्वयो युक्त एव । धातुस्तु, तद्धितोक्तोपधानस्यानुवादः । यदि तु तहन्मन्त्रकरणकेष्टकैव तद्वितवाच्या । करणत्वस्योपधानद्वारकत्वमुपदधातिसमभिव्याहारलभ्यमिति ज्ञापनाय उपधान इति सौत्रं पदमित्यालोच्यते, तदातूक्तानुपपत्तिस्त्येिव । मन्वरूपकरणविशिष्टोपधानस्य तद्धितार्थत्वाभावेन तद्धितार्थेष्टकोदेशेन विधेयत्वसप्भवात् । अत्र यद्यपि 'इष्टकाभिरग्निञ्चिनुत' इति वाक्यबोधितेष्टकानिष्ठचयनाङ्गत्वान्यथानुपपत्यैवोपधानं प्राप्तुं शक्यम् । तथापीष्टकोद्देशेन तद्विधेः फलमुपधानस्य चयनसमानकर्तृकत्वसिद्धिः प्रतीष्टकमेकैकोपधानसिद्धिश्च । इप्टकासंस्कारद्वारा उपधानस्य चयनाङ्गत्वसिद्ध्यागप्रधानयोरेककर्तृकत्वस्य प्रयोगविधिलभ्यत्वात् प्रतिप्रधानं गुणावृत्तिन्यायाच्च । यद्यपि चेष्टकाप्रकाशकत्वेन मन्त्राणामुप धेयेष्टकाङ्गत्वं प्राप्तुं शक्यम् । तथापि तद्विधेः फलमुपधाने तेषां नियमः, उपधानेतरग्रहणादिपरिसंख्या वा मध्यमचितिसम्बन्धश्च । 'यां वै कां चन ब्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमचितावुपदध्यादिति श्रुत्या प्रत्यक्षश्रुतिविहितमन्त्रकाणामिष्टकानाम्मध्यमचिति सम्बन्धविधानात् । ब्राह्मणशब्दो हि विधायकवेदवाची ।
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका ।
अभिजानातिश्च प्रत्यक्षवाची । तथा च ब्राह्मणविशिष्टायो यस्या इष्टकायाः प्रत्यक्षविषयत्वं, तस्या उक्तसम्बन्धी विहितः । इष्टकानां सर्वासां प्रत्यक्षविषयत्वेन तासु तदुक्तिर्व्यर्थेति तद्विशेषणस्य विधायकवेदस्यैव तत् विवक्षितम् । ब्राह्मणशब्दार्थोऽपि प्रकृते ब्राह्मणावयवरूपं तद्धितपदमेव । मतुप्प्रत्ययेन वाच्यत्वरूपस्य सम्बन्धस्य बोधनात् उक्ततद्धितस्यैवेष्टकावाचित्वात् ब्राह्मणवाक्यवाच्यत्वस्याप्रसिदेश्च । प्रतिपाद्यत्वस्यैव मतुबर्थत्वे तस्य सांशभावनायामेव सत्त्वेनेष्टकायामसत्त्वात् । प्रतिपाद्यघटकत्वरूपाप्रसिद्धसम्बन्धस्य बोधने तु प्रधानस्य प्रत्ययस्य प्रसिद्धार्थत्यामेन पीडा स्यात् । तद्वरमप्रधानस्य ब्राह्मणपदस्यैव विधायकीभूतनामाख्यातसमुदायरूपवाक्यावयवे पदे लक्षणा स्वीकृता । एवं च इतिकरणविनियुक्तलोकप्टणमन्त्रकेष्टकाया मध्यमचिति सम्बन्धव्यावृत्तिः । न च 'इष्टकाभिरनिं चिनुत' इत्यत्र विधायके विद्यमानेनेष्टकापदेन वाच्यानां सर्वेष्टकानां तत्सम्बन्धापत्तिस्तदवस्थेति वाच्यम् । इष्टकोद्देशेन विधायकं यद्वेदवाक्यं, तदवयवस्यैव प्रकृते ब्राह्मणशब्दार्थत्वात् । अन्यथा 'यां वै कां चने'त्यादिवाक्यवैयर्थ्यात् । अत्र सृष्टिप्रकाशकपदयुक्तोपधानमन्ता यद्यपि चतुर्दशैव । तेष्वेव ब्रह्मासृज्यतेत्यादिरूपेण सृज्धातुयोगात् त एव च सृष्टिपदमुख्यार्थः, तथापि सृष्ट्यप्रकाशकाः ये त्रयो मन्त्राः तदपेक्षया बहुत्वयुक्तसृष्टिप्रकाशकमन्त्रघटितैकसमूहान्तर्गतास्सप्तदश मन्त्राः बहुत्वरूपभूमघटितगुणयोगात् सृष्टिपदार्थः । 'यत् सप्तदशष्टका उपदधाती'त्यर्थवादात् । 'प्राणभृत उपदधाती'त्यादौ तु प्राणभृत्पदाघटितमन्वापेक्षया बहुत्वशून्या ये तत्पदघटितमन्त्रास्तत्पदाघटितमन्त्राथ' तद्धटितैकसमूहान्तर्गतत्वरूपेण बहुत्वाभावरूपलिङ्गसमवायघटितगुणेन ते मन्ताः प्राणभृत्पदार्थः । यस्तु, अरूपत्वघटित एव गुणो लिङ्गसमवाय इति तन्न । छत्रिद्वयाछत्रिद्वयघटितसमूहस्थलेऽपि छत्रिणो यान्तीत्यादिप्रयोगे गौणच्छत्रिपदासंग्रहात्तादृशे वैदिके पदे लक्षणास्वीकारे प्राणभृदादिपदे ऽपि तदापत्तेः । तस्मात् सृष्ट्यादिपदं विधायकम् । नोपधाननामधेयम् । न चानुवादः । भाष्यकारमते तु अनुवाद एव । न नामधेयम् । न वा विधिरिति नामधेयपादोक्ततत्सिद्धिसूत्रविवेचनम्। तत्सिद्धिपेटिकेतितत्सिद्धिपदघटितं सूत्रं पेटिकेव । सर्वगौणार्थानामभिमतानां प्राप्तिस्थानत्वादित्यर्थः । गौणार्थतेति । शक्त्या सिझपदेन जातिविशेषोपस्थितिजन्यते । तया सिमव्यक्त्युपस्थितिः। सा लक्षणा । शक्योपस्थितिजन्यायाश्शक्यसम्बन्ध्यर्थोपस्थितरेव लक्षणात्वात् । तया जनिता शौर्याद्युपस्थितिौणीवृत्तिः । तद्विषयो गौणार्थ उच्यते। तदुक्तं भट्टपादैः-'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते। लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ॥ इति । अभिधेयस्य वाच्यस्य यत् सम्बन्धि
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
तदीर्लक्षणा। लक्षणाविषयीभूतव्यक्तेर्गुणैर्योगात् विषयत्वरूपात् वृत्तेर्गुणोपस्थितेर्गौणता। गौणीत्वमित्यर्थः । शौर्यादिगुणानां सिझो बाल इत्यादिवाक्ये बालादिनामार्थे तादात्म्येनान्वयः। न च सिह्यादिना स्ववृत्तिशौर्यादेरेवोपस्थितिः । तेनैव सह पूर्व सम्बन्धस्य गृहीतत्वात् । तस्य च बाले बाधान्नान्वयसम्भव इति वाच्यम् । स्ववृत्तितावच्छेदकजातिविशेषवत्त्वसम्बन्धेन विजातीयशौर्यादेर्बालादिवृत्तरेव सिह्मादिवाक्योपस्थितिसम्भवात् । भट्टमते समवायविशेषणतयोरस्वीकारेण तयोः स्थाने तादात्म्यस्यैव स्वीकारेण गुणकर्मसामान्यादिरूपस्य सर्वस्यापि गुणस्य तादात्म्येनैव नामाद्यर्थेऽन्वयः । अभावादिगुणस्य स्वाधिकरणस्वरूपस्य तादात्म्येनैव स्वाधिकरणेऽन्वयः । द्रव्यादिरूपस्य गुणस्य संयोगादिनेति दिक् । अत्र प्रत्यक्षबाधकाद्वैतश्रुतौ । नाद्वैतेति । 'यजमान' इत्यादिश्रुतौ तु नोपक्रमादिकम् । अतस्तत्र गौणार्थतेति भावः । अपूर्वत्वेति । प्रस्तरयजमानाभेदादेमानान्तराज्ञातत्वरूपमपूर्वत्वम् । वाक्यशेषेति । विधिवाक्यरूपवाक्यशेषेणार्थवादानां स्वापेक्षितस्तुतिनिन्दापरत्वनिश्चयादन्यपरेभ्योऽर्थवादेम्यो न प्रत्यक्षविरुद्धार्थसिद्धिरिति प्रत्यक्षं व्यवहारकाले बाधितं नेत्यर्थः । गतिसामान्येन सर्ववेदान्तजन्यावगतीनां जीवब्रह्मैक्यविषयकत्वेन समानतया । किश्चिज्ज्ञत्वेति । स्वकीयावस्थात्रयमात्रभासकत्वेत्यर्थः । ऐक्यान्वयेति । ऐक्यबोधेत्यर्थः । पदार्थतावच्छेदकविशिष्टयोरेव मिथोऽन्वयधीर्मुख्यया वृत्त्या सर्वत्रौत्सर्गिकी । यथा 'घटो मेयवा नित्यादौ घटत्वघटयोर्मेयतहतोरभेदान्वयधीः । अत एव 'लोहितोप्णीषा ऋत्विजः प्रचरन्ती'त्यादौ लौहित्यत्य विशेषणत्वेन प्रचरणकाले उष्णीषे तत्सत्त्वमपेक्षितम् । 'सर्वादीनि सर्वानामानी'ति सूत्रे सर्वपदस्यापि विशेषणत्वात् सर्वनामसंज्ञेति महाभाष्यकाराः । यत्र तु पदार्थतावच्छेदकेनोपहित, उपलक्षितो वा पदार्थः शाब्दबोधे विषयः, तत्र लक्षणैव । विशिष्टे शक्तिज्ञानेन शाब्दबोधे जननीये विशेषणस्य पदार्थान्तरयोग्यताज्ञानस्य सहकारित्वकल्पनेन शक्तिज्ञानजन्यबोधस्य पदार्थान्तरे पदार्थतावच्छेदकान्वयविषयकत्वनियमात् । तथा च लक्षणां विना 'तत्त्वमसी'त्यत्र जायमानो बोधः पदार्थतावच्छेदकस्य पदार्थान्तरे तत्त्वावच्छेदके चान्वयं विषयीकुर्यात् । अविषयीकुर्वन्वा विशिष्टे शक्तिज्ञानेन न जन्यते । किं तु विशेष्यमात्रे शक्तिज्ञानेनेति भावः । अन्वयेति । बोधेत्यर्थः । सामानाधिकरण्येन । अकार्यकारणद्रव्यमात्रतात्पर्यकसमानविभक्तिकनानानामत्वेन । ऐक्यस्य शुद्धव्यक्तिमात्ररूपस्य । प्रतीयमानस्य प्रतियमानत्वेन विवरणादौ निर्णीतस्य । विशेष्यमात्रान्वयस्य विशेष्यमात्रशान्दाधीप्रयो
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका। जकविशेष्यमात्रोपस्थितेः । व्यपदेशादिति। विशिष्टशक्तिज्ञानाकार्यशाब्दधीजनकोपस्थितित्वरूपलक्षणासाधाच्छक्योपस्थितेरपि लक्षणात्वोपचारः । न च शक्यैकदेशानुभवस्य शक्तिज्ञानजन्यत्वे पशुरपशु!नित्येत्यादौ प्रयोगे पशुत्वगोत्वादौ शक्त्यैवोपस्थापिते पशुभिन्नादेरभेदान्वयसम्भवेनोक्तप्रयोगो योग्यः स्यादिति वाच्यम् । शक्यविशेषणीभूतस्य शक्यस्य शाब्दबोधे तच्छक्तिज्ञानस्य हेतुत्वानभ्युपगमात् शक्याविशेषणशक्यबोधस्यैव तच्छक्तिधीकार्यत्वात् । अत एवानुकूलयत्नशक्तादाख्यातपदादनुकूलमात्ररूपेण 'रथो गच्छती' त्यादौ व्यापारस्य बोधः शक्त्यैवेति कुसुमाञ्जलावुक्तम् । अनुकूलत्वयत्नत्वाम्यां विशिष्टे शक्तेः स्वीकारादनुकूलं न शक्ये विशेषणम् । बलवदनिष्टाजनकत्वसमानाधिकरणेष्टसाधनत्वशक्तस्यापि विधिप्रत्ययस्य श्येनेनाभिचरन्यनेते'त्यादौ केवलेप्टसाधनत्वबोधकत्वं लक्षणां विनैवेति मणिकारादिभिरप्युक्तम् । अनन्यशेषत्वात् तात्पर्यविषयवाक्यार्थप्रतिपादकत्वात् । विधौ विधायके अज्ञातज्ञापके वाक्ये । परः प्रतीयमानादन्यः शब्दार्थः तात्पर्यविषयः न । वक्ष्याम इति । 'उपक्रमोपसंहारयोरेकार्थनिष्ठत्वं अभ्यासार्थवादौ चेति त्रयं शब्दगतम् । अज्ञातत्वरूपमपूर्वत्वं फलवत्त्वमबाधितत्वरूपोपपत्तिश्चेति त्रयमनिष्ठम् । षडेतानि लिङ्गानि तात्पर्यग्राहकाणि । तेष्वन्त्यत्रयं प्रामाण्यशरीरनिर्वाहकत्वात् आवश्यकम् । निष्फलार्थे प्रत्यक्षादेः प्रामाण्यसम्भवेऽपि न श्रुतेस्तत्सम्भवः।फलवदर्थज्ञानादिकमुद्दिश्याध्ययनसंस्कृतश्रुतीनां विनियोगेन निष्फलार्थे तात्पर्याभावनिश्चयात् । यद्यपि तात्पर्याविषयेऽपि प्राशस्त्याप्राशस्त्यधीद्वारीभूते वाक्यार्थे वाचस्पतिमते अर्थवादादेः प्रामाण्यमिप्यत एव, तथापि यादृशप्रमामुद्दिश्योक्तविनियोगः, तादृशप्रमायाः फलवदर्थविषयकत्वनियमात् । अर्थवादादेश प्राशस्त्यादिरूपार्थप्रमामुद्दिश्यैव विनियोगात् । तादृशप्रमाकरणत्त्वं फलवत्त्वघटितमेवेति बोध्यम् । आद्यत्रये त्वर्थवादस्य विधेयप्राशस्त्यनिषेध्याप्राशस्त्यधीद्वारा विधिनिषेधवाक्ययोः प्रमाजनकतायामावश्यकत्वम् । अन्यथा ( तद्विषयीभूतयोः प्रवर्तनातदभावरूपनिवर्तनयोः तादृशधीरूपेतिकर्तव्यतानन्वयेनोक्तप्रमाया अपर्यवसानात् ।) इतरयोस्तु विरुद्धार्थद्वये तात्पर्यसंशये सति यत्रोपक्रमादिकं, तत्रैव तात्पर्यनिश्चयेन तदुपयोगित्वम् । तथा च नापूर्वत्वादेरेकैकमात्रेण तात्पनिश्चयसम्भव इति विशेषतो मिथ्यात्वानुमाननिरूपणोत्तरं प्रथमपरिच्छेद एव वक्ष्यते । वैयधिकरण्येनेति । 'वाजपेयेन स्वाराज्यकामो यजेत' उद्भिदा योत पशुकाम ' इत्यादौ वाजपेयादिपदं न नामधेयम् । किं
१. 'प्रवृत्त्यभावेनोक्तप्रमाया अपर्यवसानात् ।' इति पाठान्तरम् ।
२२
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
अद्वैतमञ्जरी
तु गुणस्य विधेयस्य बोधकम् । यद्यपि यागे तादृशस्य गुणस्य नान्वयः । आख्यातार्थक्रियां प्रति हि धात्वर्थो यागादिः कर्मत्वेन करणत्वेन वान्वयं लभते । 'पचती,त्यादौ पाकं करोति पाकेनेष्टं साधयतीति द्वेधा विवरणात् । काष्टरित्यादिपदयोगे आद्यस्य तण्डुलमित्यादिपदयोगे द्वितीयस्य सम्भवात् उभययोगे पाकस्य करणत्वेऽपि काष्ठानामितिकर्तव्यतात्वेनान्वयात् । तथा च कारकाणाम्मिथोऽन्वयासम्भवः । क्रियां प्रति गुणीमूतानां कारकाणां मिथस्समत्वेन गुणप्रधानभावेनानन्वयात्. । नापि क्रियायामेव तदन्वयः । समानपदोपात्तयागस्य करणत्वेनान्वयस्य प्रथमं बुद्धत्वेन पश्चात् गुणस्य करणत्वेनान्वये आका
ङ्क्षाविरहात् । नापि क्रियायां कारकाणामन्वयनियमेऽप्यकारकरूपेण तस्य यागेऽन्वयः । अभेदान्वयस्य बाधात् । भेदान्वयस्य धात्वर्थनामार्थयोरव्युत्पन्नत्वात् । नापि वाजपेयपदस्य वाजपेयसम्बन्धिनि लक्षणया तस्य यागेऽभेदान्वयः । धात्वर्थस्य कर्मत्वे तद्विशेषणपदस्य द्वितीयान्तत्वापेक्षायामपि धात्वर्थस्य करणत्वे तद्विशेषणपदस्य तृतीयान्तत्वस्य सम्भवादिति वाच्यम् । लक्षणाकल्पनापेक्षया वाजमन्नं सुरारूपं पेयमस्मिन्निति व्युत्पत्त्या यौगिकत्वस्वीकारेण नामधेयत्वस्यैवौचित्यात् । नापि स्वाराज्यकर्मिकायां क्रियायां यागस्य करणत्वेऽपि यागकर्मिकायां वाजपेयस्य करणत्वम् । एकेनाख्यातेन क्रिययोर्बोधने आवृत्त्यापातेनावृत्तिलक्षणवाक्यभेदापत्तेः । एकक्रियायां तु न कर्मद्वयस्यान्वयः । गुणीभूतयैकक्रियया प्रधानीभूतयोः कर्मणोर्वशीकर्तुमशक्यतया प्रतिप्रधानं गुणावृत्तिन्यायेन क्रियापदस्याख्यातस्यावृत्त्यापत्त्या वाक्यार्थभेदापत्त्या वाक्यभेदापत्तेः । 'गुणीभूतानि हि कारकाणि क्रियैकापि पिण्डीकरोति । न प्रधानभूतानी'ति न्यायात्, तथापि करणकर्मसाधारणेन सम्बन्धित्वमात्रेण यागस्यैकस्यामेव क्रियायामन्वयसम्भवेन यागकर्मकांशमादाय तस्यां वाजपेयगुणस्य करमत्वेनान्वयः । यागकरणकांशमादाय तस्यां खाराज्यस्य कर्मत्वेनान्वयः । वाजपेयेन यागं कुर्यात् यागेन स्वाराज्यं कुर्यात् । इति प्राप्ते, न सम्बन्धित्वमात्ररूपेण यागस्यान्वयसंभवः । क्रियाया हि किं केनेत्याद्याकांक्षापत्त्या कर्मत्वकरणत्वादिकारकरूपेणैव कर्मादिकं गृह्यते । अन्यथा आकांक्षानिवृत्त्यसंभवात् । तथा चैकस्यां क्रियायां कर्मत्वकरणत्वाभ्यां यागस्यान्वयो वाच्यः । स च न सं. भवति । उक्तदोषात् । यजेरावृत्त्यापत्तेः, विरुद्धयोस्त्रिकयो:धकृतस्य वैरूप्यस्यापत्तेश्च । विधेयत्वं गुणत्वमुपादेयत्वमित्येकं त्रिकम् । अनुवाद्यत्वं प्रधानत्वमुद्देश्यत्व मित्यन्यदिति त्रिकद्वयम् । तत्र फलानुवादेन यागस्य यागानुवादेन गुणस्य चोत्प
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र ० दे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
१७१
त्तिविधौ यागस्याज्ञातज्ञाप्यत्वरूपे विधेयत्वानुवाद्यत्वे फलोद्देशेन यागस्य यागोद्देशेन गुणस्य च विनियोगविधौ यागस्य शेषत्वशेषित्वरूपे गुणत्वप्रधानत्वे तादृशप्रयोगविधौ प्रकृतविधिप्रयुक्त कृतिसाध्यताधी विशेष्यत्वतादृशकृत्यु द्देश्यताधीविशेष्यत्वरूपे उपादेयत्वोद्देश्यत्वे स्याताम् । ते च मिथो विरुद्धे । परस्पराभावव्याप्यत्वात् । तथा चैकदा ज्ञातुमशक्ये । तस्माद्यागे गुणस्य करणत्वेनान्वयस्य वैयधिकरण्येनान्वयस्यासम्भवादभेदान्वयरूपस्य सामानाधिकरण्येनान्वयस्य च गुणयागभेदप्रत्ययविरुद्धत्वाद्वाजपेयादिपदे मत्वर्थे वाजपेयसम्बन्धिनि लक्षणा वाच्या । तस्याश्चान्याय्यत्वाद्वाजमन्नं सुरारूपं पेयमस्मिन्निति व्युत्पत्त्या यौगिकत्वमेव युक्तम् 1 वाजपेये सुराग्रहविधानात् । तथा च वाजपेयादिपदं यागनामैत्र । 'सोमेन यजतेत्यादौ सोमादिपदस्य लताविशेषादावत्यन्तप्रसिद्धत्वेन यागनामत्वासम्भवात् अगत्या सोमसम्बन्धिलक्षणया यागे अभेदान्वयः । वरं ह्यत्यन्ताप्रसिद्धार्थकत्वकल्पनातो लक्षणाकल्पनमिति प्रथमचतुर्थे चिन्तितम् । तदिदमुक्तम् । वैयधिकरण्येनेत्यादि । मत्वर्थेति । ननु, भावनायां यागस्य यत् करणत्वं बुद्धं, तत् फलनिरूपितम् । सोमादेस्तु करणत्वं भावनायां तस्यां बुद्ध्यमानं यागनिरूपितम् । तथा च यागेन करणेनावरुद्धापि सा सोमेन करणेनाप्यन्वयमर्हत्येव । नैराकांक्ष्याभावादिति चेन्न । करणत्वत्वरूपेणैव सोमादेः करणत्वं बोध्यम् । न तु यागनिरूपितकरणत्वत्वरूपेण । तृतीयायास्तदबोधक - त्वात् । लक्षणया च न तस्यास्तद्बोधकत्वम् । प्रधानीभूतविभक्तौ लक्षणाया अन्याय्यत्वेन प्रातिपदिक एव मत्वर्थलक्षणाया युक्तत्वात् । तथा च करणत्वमात्ररूपेण सोमस्यान्वये वाच्ये नैराकांक्ष्यं दुर्वारम् । तेन रूपेण यागस्य प्रथममन्वितत्वात् । ननु, भावनापेक्षमाणा हि साधनं किं फलस्य मे साधनानुग्रहः को वेत्यनुस्यूतमपेक्षते इति तर्कचरणे वार्तिके उक्तम् । तस्यायमर्थः । भावना स्वीयमंशत्रयमपेक्षमाणा इत्यनुस्यूतमेवं फलघटितरूपमपेक्षते । फलस्य फलघटितरूपेणापेक्षणीयत्वं स्पष्टत्वानुक्त्वा करणेतिकर्तव्यतयोस्तदाह-साधनं किमित्यादि । मे भावनायाः फलस्य साधनं करणं किमिति करणाकांक्षा किंनिष्टकरणतानिरूपकफलिका भावनेति यावत् । भावनास्वरूपे न करणापेक्षा । तथा सति यागकरणकत्वबुद्ध्या तन्निवृत्तिर्न स्यात् । न हि यत्नविशेषरूपस्याङ्गकलापरूपस्य वा, तस्य यागकरणत्वम् । किं तु यागजनकत्वम् । तथा च प्रथमं भावनायां फलान्वयात् मत्फले किं करणमित्येवं पर्यववसिता स्वर्गत्वादिविशेषमविषयीकुर्वती किंकरणकफलिका भावनेत्येव करणाकाङ्क्षा पाष्टिकान्वये । एवं स्वर्गकरणत्वेन यागादिमानात् साधनानुग्रहः करणोपकारकं मे फलस्येत्यनुषज्यते । तथा च किमुपकृतकरणफलवती भावनेति इति
For Private and Personal Use Only
-
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
अद्वैतमञ्जरी ।
कर्त्तव्यताकाङ्क्षा । एवं च फलकरणाकाङ्क्षया यागाद्यन्वयेऽपि फलकरणोपकारकाकाङ्क्षायां सोमाद्यन्वयो भवत्विति चेत् । भवत्वेवम् । तावता हि सोमादेरितिकर्तव्यतात्वेनैवान्वयः। स चोक्तरीत्या मत्वर्थलक्षणयैवेति दिक् । तस्मात् करणीभूतयागोपकारकाकाङ्क्षया सोमादिपदं सोमायुपकार्य लक्षयित्वा तदभेदं यागे बोधयति । तथा च तृतीयार्थो न बाध्यते । यागीयकरणताया एव तया बोधनात् । यस्यास्तु विभक्तेरों भावनायां न निराकाङ्क्षः, तस्याः स्वप्रकृतिमुख्यार्थनिष्ठाधिकरणत्वादिबोधकत्वम् । यथा 'समे दर्शपूर्णमासाभ्यां यजेते'त्यादौ समदेशादिनिष्ठाधिकरणत्वादिबोधकत्वम् । ननु, सोमादिपदं सोमाद्युपकार्य लक्षयित्वा तदभेदं यागे बोधयतीति यदुक्तं तदयुक्तम् । यनिपदं हि यागकरणत्वं लक्षणया बोधयति । तदेकदेशे यागे सोमसाध्यस्यान्वये एकदेशान्वयदोषः । क्रियाविशेषणत्वेन सोमपदस्य द्वितीयान्तत्वापत्तिश्चेति चेन्न । क्रियाविशेषणस्य हि द्वितीयान्तत्वं क्रियाफलविशेषणत्वे सत्येव । 'साधु पचती'त्यादौ विक्लत्यादेः कर्मतया व्यापार प्रति विशेषणतया प्रत्ययात् तद्विशेषणस्य साध्वादिपदस्यापि द्वितीयान्तताया युक्तत्वात् । प्रकृते तु फलाकर्मकव्यापाररूपे याग एव सोमपदस्त्र विशेषणत्वाद्यागस्य च करणत्वेनैव भावनायां विशेषणत्वात् सोमादिपदस्य तृतीयान्तत्वमेव युक्तम् । तृतीयान्तत्वमेव चैकदेशान्वयस्य व्युत्पत्तिसिद्धत्वं ज्ञापयति 'साधु पचती ' त्यादौ द्वितीयान्तत्ववत् । अत एव सिद्धान्ते वाजपेयादिपदानां तृतीयान्तत्वं युक्तम् । यद्वा प्रकृते सोमादिपदस्य यजिसामानाधिकरण्यं तत् बोध्यार्थवोधकत्वम् । न तु तदर्थविशेषणतया स्वार्थबोधकत्वम् । तथा च सोमसाध्यकरणत्वस्यैव भावनायामन्वयेन सोमसाध्यस्य न तादात्म्येन यागेऽन्वयः । एवं च सोमवता यागेनेति मत्वर्थेति मलस्य वस्तुगत्या यागरूपो यः सोमसाध्यमत्वर्थः,तदर्थकत्वमेवेति न तेनापि यागे मत्वर्थान्वयस्य लाभः । परे तु, यजिना याग एव बोध्यते । न तत्करणत्वम् । सम्बन्धविधयैव तद्भानसम्भवात् । अन्यथा स्वर्गकामादिपदेऽपि स्वर्गसाध्यत्वस्य लक्ष्यत्वापत्तेः । न च सेप्टेति वाच्यम् । स्वर्गकामस्य स्वर्गविशिष्टरूपेण साध्यतया तत्सम्बन्धेनान्वयसम्भवे लक्षणाया अन्याय्यत्वात् । न च किमित्याकांक्षायाः साध्यत्वप्रकारकधीविषयकत्वादुक्तधियं विना तदनिवृत्तिरिति वाच्यम् । उक्ताकांक्षायास्साध्यत्वसंसर्गधीविषयकत्वात् । अत एव द्वादशे तन्त्ररत्नादावुक्तं, 'प्रयाजाद्यङ्गभावनाया इतिकर्तव्यतात्वेन प्रधानभावनायामन्वय' इति । न च तत्रापीतिकर्तव्यतात्वं लक्ष्यम् । वाक्यार्थस्य तत्संसर्गेणान्वय
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र ० दे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
१७३
संभवादित्याहुः | मानान्तरेति । जिज्ञासाया ज्ञानस्येव कृत्यसाध्यत्वेन कृतिसाध्यत्वव्याप्यविधिसम्बन्धस्याभावग्राहकमानेत्यर्थः । विध्यन्वयाय अध्याहृतकर्त्तव्येतिपदलभ्य प्रवर्तनारूपविध्यन्वयाय । जिज्ञासाकरणकभावनायां प्रवर्तनान्वये जिज्ञासायामपि तस्यावश्यकत्वेनोक्तभानविरोधाद्विचारलक्षणेति भावः । वाक्यस्य अद्वैतवाक्यस्थपदस्य । इष्टत्वेन त्वदिष्टत्वेन । 'अद्वैतवाक्यं त्वनन्यशेषत्वान्मुख्यार्थमेवे ' त्युक्तवाचस्पतिवाक्येनेति शेषः । तात्पर्येत्यादि । स्वकीयमुख्य तात्पर्यविषयवाक्यार्थबोधकत्वमित्यर्थः । प्राशस्त्यधीद्वारी भूतोऽर्थवादबोध्यवाक्यार्थस्तु न मुख्यतात्पर्यस्य विषयः । किं तु अवान्तरतात्पर्यस्य । मुख्यतात्पर्यविषयोऽपि प्राशस्त्यं न वाक्यार्थः । अन्यार्थेत्यादि । स्वकीयमुख्यतात्पर्याविषयवाक्यार्थबोधकत्वमित्यर्थः । वाचस्पतिमते तु लक्षणद्वयेऽपि मुख्यपदं न देयम् । द्वारीभूतवाक्यार्थस्य तात्पर्याविषयत्वात् । विशेषणे यागादिनिष्ठे सोमादिसम्बन्धे तात्पर्याभावादिति सोमादिविशिष्टयागादिविशिष्टभावनायां विध्यन्वयस्थले विशेषणीभूतसामादेर्यगादिनिष्ठवैशिष्ट्ये श्रूयमाणविधेर्न तात्पर्यम् । यदि हि तत्र तात्पर्यं तदा सोमेन यागं कुर्यादिति यागो - द्देश्यकसोमकरणकभावनाविधौ तात्पर्यपर्यवसानं वाच्यम् । एकक्रियायामन्वयमप्राप्तानां कारकाणां मिथोऽन्वयज्ञानाभावनियमात् । विधेयक्रियाविशेषणत्वाभावे प्रवर्तनारूपविधिसम्बन्धस्य सोमे ज्ञातुमशक्यत्वेन सोमानुष्ठानापर्यवसायिनो यागसोमसम्बन्धमात्र तात्पर्यस्य व्यर्थत्वात् । तथा च ' यागेनेष्टं कुर्यात् सोमेन यागं कुर्यात् ' इति विशिष्टभावनाद्वय रूपवाक्यार्थभेदाद्वाक्य भेदस्स्यात् । धात्वाख्यातपदा - वृत्तिप्रसङ्गात् । न हि यज्यादिपदस्य सकृत्प्रतिसन्धानेन द्विस्तदर्थप्रत्ययस्सम्भवति । सकृदुच्चरितरशब्दस्सकृदेव स्वार्थं बोधयतीति व्युत्पत्तेः । विरुद्धत्रिकद्वयापत्त्यादिदोषश्च । तस्माद्विशिष्टविधेस्सोमादिविशिष्टरूप सोमादिपदामुख्यार्थविषयकत्वेऽपि नामुख्यार्थकत्वम् । यत्परश्शब्दस्सशब्दार्थ इतिन्यायेनामुख्यार्थपरस्यैवामुख्यार्थत्वादि ति भावः । ननु, विशेषणे तात्पर्याभावे विशिष्टविधेर्विशेषणविशेष्य सम्बन्धविषयकत्ववैयर्थ्येनोक्तसम्बन्धज्ञापकपदवैयर्थ्यं स्यादिति चेन्न । विशिष्टविधिविषयीभूतो योमानान्तराप्राप्ताबाधितोक्तसम्बन्धः, तत्प्रमान्यथानुपपत्त्या विशेष्योद्देश्यक विशेषणसाधनकभावनाविधेः कल्प्यत्वात् । न हि कारकयोस्सोमयागयोरेकक्रियायां साधनसाध्यभावज्ञानं विना मिथस्तत् सम्भवति । न वा साध्यसाधनविशेषितक्रियानुष्ठानपर्यवसायिविधिं विना साधनविशिष्टसाध्यनिप्पत्तिः । न वा तां विनैवोक्तप्रमा । ननु, विशिष्टस्य विशेष्यविशेषणसम्बन्धेभ्योऽतिरिक्तत्वेन विशिष्टविधेरुक्तसम्बन्धविषयकत्वस्यैवासिद्धत्वात् कथं तदन्यथानुपपत्त्योक्तकल्पनमिति चेन्न । विशिष्टस्य केवलविशेष्यात् भि
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
नत्वेऽपि तदभेदस्यापि स्वीकारात् । न हि विशिष्टकेवलयोरत्यन्तभेदः । येन वि. शिष्टधीः विशेष्ये विशेषणसंसर्ग न विषयीकुर्यात् । किं तु सोमविशिष्टः याग इति सामानाधिकरण्यप्रत्ययेन तयोर्भेदाभेदस्वीकारेण विशेषणसंसृष्टरूपस्य केवलविशेप्यभिन्नस्यापि विशेषणसंसर्गघटितत्वात् विशिष्टधीविशेष्ये विशेषणसंसर्गविषयिण्येव । तथा हि विशिष्टस्य तेभ्योऽतिरिक्तत्वेऽपि हि नैल्यविशिष्टघटादिप्रकारकज्ञानोत्तरं केवलघटाद्यभावबुद्धेवि घटादौ नैल्याद्यभावबुद्धेरनुदयात् नीलघटस्य विशेष्ये केवलघटप्रकारकत्वस्येव घटे नैल्यप्रकारकत्वस्यापि नैल्यविशिष्टघटप्रकारकयुद्धौ स्वीकाराद्विशिष्टविषयकधीः केवलविशेष्ये विशेषणसंस
विषयिकैव । यदि तु विशिष्टप्रकारकधियः केवलप्रकारकत्वाद्यस्वीकारेऽपि तादृशताढशबुद्धिं प्रति पृथगेव विरोधित्वं कल्प्यते, तदा गौरवम् । तस्मात्तस्यां केवलप्रकारकत्वादिकमावश्यकम् । एतदभिप्रायेणैव पश्वेकत्वाधिकरणादौ विशिष्टविधेविशेषणविधिसापेक्षत्वं 'नागृहीतविशेषणा बुद्धिविशिष्टे उपजायत' इति न्यायादित्यादिकं टुप्टीकातन्त्ररत्नादावुक्तम् । ननु, 'सोमेन यजेते'ति सोमादिपदघटितवाक्यम्य केवलयागभावनाप्रवर्तना न तात्पर्यविषयः । किं तु यजेतेत्यस्यैव । तथा च सोमेनेत्यादेरमुख्यार्थकत्वं स्थितम् । तत्राह-मत्वर्थलक्षणायामपि स्वार्थापरित्यागाचेति । यद्यपि सोमपदे सोमसाध्यलक्षणया 'सोमसाध्याभिन्नयागेनेष्टं भावयेदिति वाक्यार्थधीः स्वीक्रियते । अन्यथा समानपदोपात्तत्वप्रत्यासक्त्या प्रथम भावनायां यागस्य करणत्वेनान्वयादाकांक्षाविरहेण सोमस्य करणत्वेनान्वयानुपपत्तेः । तथापि सोमस्य विशेषणत्वेनैवान्वयः । नोपलक्षणत्वेन । विशेषणत्वस्यौत्सर्गिकत्वात् । तथा च विशेष्यभूतयागान्विते करणत्वे सोमस्याप्यन्वयात् सोमेनेति पदस्य मुख्यार्थो न त्यज्यते । न च यागकरणत्वान्वितभावनायां सोमकरणत्वस्य नैराकांक्ष्यादनन्वयस्तदवस्थ इति वाच्यम् । करणीभूते यागे करणीभूतसोमसाध्यत्वबोधेन यागद्वारा करणत्वपर्यवसानात् । यागस्य सोमसाध्यत्वं हि सोमसाधनकत्वम् । तथा च करणसाधनत्वे सति करणत्वं करणद्वारकं करणत्वमितिकर्तव्यतात्वम् । अतः करणत्वबोधस्येतिकर्तव्यतात्वबोधे पर्यवसानात् नैराकांक्ष्यम् । न च सोमस्य यागसाधनत्वे तात्पर्याभावस्योक्तत्वात् करणद्वारके करणत्वे न तात्पर्यम् । किं तु करणत्वमात्रे । तस्य च नैराकांक्ष्यमेवेति वाच्यम् । बोधविषयत्वं हि यत्र पर्याप्तं, तत्राकांक्षा वाच्या । न तु तात्पर्यविषयत्वं यत्र पर्याप्तम् । शाब्दबोधविषयतापर्याप्तावेव साकाङ्क्षत्वस्य नियामकत्वात् । तथा च सोमेनेत्यादेस्सोमकरणिकायां यागकरणकभावनायां तात्पर्यात्तात्पर्यविषयस्वार्थबोध
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका ।
कत्वं स्थितमेव । अतात्पर्यविषयमत्वर्थलक्षणा तु न तत्र बाधिकेति भावः । इष्यमाणेत्यादि । इप्यमाणत्वेन रूपेण पदादनुपस्थितस्य ज्ञानस्य साधनाकांक्षाविरहेण विचाररूपे साधने अन्वयासम्भवात् इप्यमाणज्ञानत्वेन ज्ञाधातुना ज्ञानं लक्ष्यत इति केचित् । तेन रूपेण ज्ञानस्यानुपस्थितावपि साधनान्वये बाधकाभावः । अन्यथा विचारस्यापि साधनत्वेनानुपस्थितस्य साध्यानाकांक्षत्वापत्त्या साधनविचारत्वेन विचारस्य सन्प्रत्ययलक्ष्यतापत्तेरित्यन्थे । विधितात्पर्येति । जिज्ञासापदबोध्यस्य ज्ञानसाधनविचारस्याध्यातकर्तव्येतिपदलब्धभावनायां करणत्वेनाथशब्दलभ्यमुमुक्षाविषयमोक्षस्य कर्मत्वेन अथशब्दलम्यशमादीनामितिकर्तव्यतात्वेनान्वयादंशत्रयान्वितभावनाया विध्यन्वय इति भावः । मोक्षसाधनज्ञानं विचारेण भावयेदिति वाक्यार्थस्तु, न युक्तः । ‘वषट्कर्तुः प्रथमभक्ष' इत्यादाविवैकपदोपस्थितयोरुद्देश्यविधेयभावस्याव्युत्पन्नत्वात् । इष्टसाधनत्वमेव विधिप्रत्ययार्थ इति औपनिषदादिमते तु कर्तव्येतिपदस्यानध्याहारेऽपि न क्षतिः । अथशब्दार्थस्य मुख्यमुमुक्षोत्तरत्वस्य ज्ञानसाधनविचारे लाभेन मोक्षरूपेष्टसाधनत्वलाभात् । पक्षद्वयेऽपि ज्ञानसाधनस्य मोक्षसाधनत्वं बुध्यमानं ज्ञानद्वारकमेव पर्यवस्यतीति न तादृशसाधनत्वलाभाय वाक्यान्तरं कल्प्यते । येन तच्छेषत्वेन श्रूयमाणवाक्यस्यामुख्यार्थत्वमिति भावः । ननु, नार्थवादस्यामुख्यार्थता सम्भवति । सा हि स्वप्रतिपाद्यवाक्यार्थभिन्नतात्पर्यकत्वम् । तेषां च प्राशस्त्यादिधीद्वारवाक्यार्थात् स्वप्रतिपाद्यात् भिन्ने प्राशस्त्यादौ न तात्पर्यम् । तेषां पदविधया तदुपस्थापकत्वात् । पदस्य स्वार्थे तात्पर्याभावात् । प्राशस्त्यादिघटिते तु वाक्यार्थे सार्थवादविधेरेव तात्पर्यम् । न तेषाम् । यदि तु तेषां प्राशस्त्यादौ तात्पर्यं स्वीक्रियते, तदा खतात्पर्यविषयबोधकन्वेन मुख्यार्थत्वं स्यात् । न चोक्तवाक्यार्थबोधकत्वमेव तदिति वाच्यम् । अर्थवादस्यापि वाक्यत्वेन तदर्थप्राशस्त्यादेरपि वाक्यार्थत्वात् । तत्राहअन्यदित्यादि ! वाक्यतात्पर्यैक्य इति । लवणत्वादिविशिष्टघटितवाक्यार्थस्य शाब्दबोधात् पूर्वं ज्ञातुमशक्यत्वेन न वाक्यतात्पर्यं तद्धटितम् । किं तु सैन्धवपदाथत्वेन लवणादिघटितवाक्यार्थघटितम् । तथा च लवणतुरगरूपपदार्थभेदेऽपि तस्यैक्यम्। भेदात् वैलक्षण्यात् । तच्च पदार्थविशेषप्रमारूपकार्यप्रयोजकत्वम् । विषमित्यादि । विषभोजनमिष्टसाधनमित्यत्रैकं वाक्यस्य तात्पर्यम् । शत्रोरन्नभोजने प्रसक्ते आप्तेनोतस्य विषमित्यादेः यदि शत्रोरन्नं भुज्यते, तदा 'विषं भुट्वे'ति वाक्यार्थधीद्वारा शत्रोरन्नभोजनमनिष्टसाधनमित्यत्रापरं तात्पर्यमित्यर्थः। तथा च वाक्यस्य लवणतुरगपदार्थद्वयसाधारणप्रमाजननोपयोगितात्पर्यकत्वेऽपि लवणमात्रपरत्वेन सैन्धवपदज्ञाना
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भद्वैतमञ्जरी ।
लवणस्यैव प्रमोत्पत्तेः पदतात्पर्यमावश्यकमिति भावः । अथवा लवणत्वतुरगत्वादिरूपेण सैन्धवादिपदार्थस्य तात्पर्ये निवेशेऽपि न क्षतिः । लवणकर्मकानयनपरमित्येवंरूपस्य तात्पर्यस्य वाक्यार्थघटितत्वेन शाब्दधीपूर्वं ज्ञातुमशक्यत्वेऽप्यानयने लवणकर्मकत्वप्रकारकधीपरमित्येवंरूपेण तात्पर्यस्य वाक्यार्थाघटितत्वेन पूर्व ज्ञातुं शक्यत्वात् । तथा चैवं व्याख्येयम् । तात्पर्यैक्ये पदार्थयोरेकसंसर्गघटितत्वेन तात्पर्यैक्ये । भेदात् उक्तसंसर्गाविषयकत्वेन भेदात् । पदार्थांशे वाक्यस्यानुवादकत्वेन पदार्थयोस्संसर्गाशमात्रप्रमापकत्वेन संसर्गस्थैक्यात् वाक्यतात्पर्यैक्यम् । संसर्गप्रमापकत्वस्यैव वाक्यतात्पर्यरूपत्वात् । पदतात्पर्य तु पदार्थभेदात् पदार्थसंसर्गाघटितत्वाच्च वाक्यतात्पर्यात् भिन्नम् । तस्य च वाक्यतात्पर्यविशेषग्राहकत्वेनोपयोगः। वस्तुतस्तु, पदपदं विभक्त्यन्तपदपरम् । वाक्यपदं तादृशपदद्वयपरम् । तथा चान्विताभिधानमते विभक्त्यन्तैकपदस्य शाब्दप्रमाजनकत्वस्यास्वीकारेऽपि मतान्तरे तत्स्वीकारात् । पदतात्पर्यमपि शाब्दप्रमाप्रयोजकम् । सर्वथा पदतात्पर्यस्यावश्यकत्वादर्थवादानां प्राशस्त्यादावपि तात्पर्यमस्त्येव । तथा च स्वतात्पर्यविषयो यः स्वघटकपदार्थसंसर्गः तद्बोधकत्वं मुख्यार्थकत्वं नार्थवादानाम् । किं तु स्वघटकपदार्थसंसर्गान्यतात्पर्यकत्वं मुख्यार्थकत्वमेवेति भावः । अत एवान्यशेषत्वस्यामुख्यार्थत्वे प्रयोजकत्वादेव । क्रय्या क्रयाहा। बर्हिषीत्यादि । बर्हिषि रजतं न देय'मितिविधेः 'हिरण्यं दक्षिणेति'विधेश्च शेषत्वेनेत्यर्थः। तत्प्राशस्त्येति । हिरण्यदानप्राशस्त्येत्यर्थः । तस्य हिरण्यदानस्य प्राशस्त्यं यत इति व्युत्पत्त्या रजतदानाप्राशस्त्येति चार्थः । यथाश्रुतं त्वसङ्गतम् । 'बर्हिषी'त्यादिविधिशेषस्याप्राशस्त्यलक्षकत्वावश्यकत्वात्। 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्रुवशीर्यत तद्रनतमभवत् पुरास्य संवत्सरात् गृहे रोदनं भवति तस्मात् बर्हिषि रजतं न देय' मित्यत्र बहिश्शब्दिते यज्ञे रजतदानं निषिध्यते । यथाश्रद्धं दक्षिणां ददातीति विहिते दक्षिणादाने रजतस्य स्वेच्छाप्राप्तत्वेन शास्त्राप्राप्तत्वान्न विकल्पः । 'हिरण्यं दक्षिणेति'विधेः शेषोऽपि तादृशं वाक्यम् । परं तु पुरास्येत्यादिस्थाने तस्माद्रजतमदक्षिण्यम श्रुजं होत्यादिकम् । तच्च तत्र 'न हि निन्दे'ति न्यायेन रजतनिन्दाद्वारा हिरण्यस्तुतिपरमिति भावः । सर्वं ब्रह्म।यतः तज्जलान्। जायत इति जः। लीयत इति लः।अनितीत्यन् । तस्य ब्रह्मणो जलान् तज्जलान् । उपादानत्वाधिकरणत्वकरणत्वानि सम्बन्धत्वरूपेण षप्ठ्या प्रतिपाद्यन्ते। 'शान्त उपासीते'ति शान्तस्सन् मनोमयत्वादिरूपेण ब्रह्मोपासीतेत्यर्थः । अत्यनायाससिद्धत्वेति । आयासो दुःखं स्वल्पमपि न भवति यथा, तथा सिद्धत्वेत्यर्थः । बलवदनिष्टाजनकत्वेति यावत् । लक्षकत्वादिति । उक्तप्राशस्त्यज्ञानस्य विध्यपेक्षितत्वेनार्थवादाधिकरणन्यायेन
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका ।
तल्लक्षणेति भावः । अनन्यशेषत्वान्यशेषत्वयोर्मुख्यार्थत्वामुख्यार्थत्वयोः प्रयोजकत्वं व्यवस्थाप्य परोक्त मानान्तरविरोधाविरोधयोस्तदूषयति-अत एवेति । मुख्यामुख्यार्थत्वयोरुक्तप्रयोजकस्यैव प्रामाणिकत्वादित्यर्थः । ननु, प्रस्तरादिवाक्येभ्यः 'सोऽरोदी'दित्यादिवाक्यानां को विशेषः । येन पूर्वेषामेव तसिद्धिपेटिकायां गौणार्यत्रमुक्तम् । नोत्तरेषाम् । तत्राह-एतावास्त्वित्यादि । गुणवादमानं गौणार्थघटितवाक्यार्थबोधकत्वम् । न तु मुख्यार्थकसर्वपदवत्त्वम् । अप्रामाण्यं यथाश्रुतवाक्यार्थे प्रमापकत्वाभावः । भूतार्थवादत्वं यथाश्रुतवाक्यार्थप्रमापकल्वम् । अयमेवेति । अर्थवादानां प्राशस्त्यादिधीद्वारीभूते वाक्यार्थे वाचस्पत्यादिमते तात्पर्यस्यास्वीकारात् । विववरणकारादिमते तत्स्वीकारेऽपि मुख्यतात्पर्यास्वीकारात् मुख्यतात्पर्याविषये अर्थ श्रुतेर्मानान्तरापेक्षया प्राबल्याभावान्मानान्तरबाधितस्य वाक्यार्थस्य नार्थवादेभ्यः प्राशस्त्यधीद्वारतया सिद्धिः । अतः 'प्रजापति'रित्यादौ गौणार्थघटित एव वाक्यार्थी द्वारम् । अग्निरित्यादौ तु मानान्तरप्राप्त एव वाक्यार्थो द्वारं सम्भवतीति न गौणार्थघटितः सः कल्प्यते । 'इन्द्र' इत्यादौ तु यथाश्रुतस्यैव वाक्यार्थस्य द्वारतया सिद्धिः। प्रमाणानः प्रामाण्यस्यौत्सर्गिकत्वेन तात्पर्याविषयस्थाप्यवान्तरतात्पर्यविषयस्य वा तस्य सिद्धिः । अत एव दुःखासम्मिन्नसुखादिरूपे स्वर्गादिस्वरूपे 'यन्न दुःखेने त्यादिवाक्यस्य प्रामाण्यं पूर्वमीमांसकसम्मतम् । इदं चोत्तरमीमांसकसम्मतमपि । उत्तरमीमांसास्थदेवताधिकरणन्यायात् । तथा च तत्रापि गौणार्थकल्पनं न युक्तमिति भावः । अमुख्यार्थत्वं स्वघटकपदार्थसंसर्गान्यतात्पर्यकत्वम् । अमुख्यार्थखमिति । तादृशतात्पर्यकत्वमित्यर्थः । ननु, तत्सिध्यधिकरणे 'आदित्यो यूप'इत्यादौ गौणार्थघटितस्यैव वाक्यार्थस्योक्तत्वात कथं प्राशस्त्यतात्पर्यकत्वम् । तत्राह-तत्सिडीति । तत्रास्त्येवेति । प्रयोजनवदथपर्यवसानस्याध्ययनविधिवललब्धत्वेन प्रयोजनवति कर्मप्राशस्त्यादी अर्थवादाधिकरणसिद्धमर्थवादतात्पर्यमस्त्येव । यद्यपि करणेतिकर्तव्यताविशिष्टभावनायाः प्रवतनारूपविध्यन्वयाद्विशेषणीभूतकरणेतिकर्तव्यतयोरपि तत्सत्त्वात् तस्य तत्साधारण्येन कृतिसाध्यत्वेष्टसाधनत्वाक्षेपकत्वं, तथापि सिद्धे सोमादिरूपेतिकर्तव्यतादौ प्रवृत्त्यभावेनाभिषवादिकर्मरूपव्यापारविशिष्टरूपेणैव तस्य प्रवर्तनान्वयपर्यवसानात् कर्मग एवेष्टसाधनत्वाद्याक्षेपपर्यवसानात्तत्रैवोक्तविशिष्टभावनान्वितत्वेन वार्तिकाद्युक्तस्यापि प्राशस्त्यादेरन्वयपर्यवसानमित्याशयेन कर्मप्राशस्त्येत्युक्तम् । तथा च यत्र पुरुषः प्रवर्तते तत् कर्मैव । तत्रैव प्रवर्तनान्वये विधेस्तात्पर्यात्तत्रैवेष्टसाधनत्वादिकमाक्षिप्यत इति तत्रैव प्राशस्त्यान्वये सार्थवादविधिवाक्यस्य तात्पर्यमिति भावः । प्रस्तरादिवाक्यवैषम्यं प्रत्यक्षादिव्यावहारिकप्रमाणबाधितार्थकत्वेन गौणा
मग एवेष्टसाधनवान्वयपर्यवसाना प्रवर्तनान्वये
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
अद्वैतमञ्जरी।
र्थवटितवाक्यार्थीद्वारा कर्मप्राशस्त्यादितात्पर्य केभ्यः वैषम्यम् । तादृशतात्पर्यकत्वाभावरूपः स्वावृत्तिधर्मः । विधाविति । विधायकपदे । प्रयोजकव्यापारे लक्षणायां व्यवधारणकल्पनाया अङ्गीकारादिति योजना । व्यवधारणं प्रयोजकव्यापारघटितवाक्यार्थतात्पर्यम् । तृतीयचतुर्थे चिन्तितम् । 'प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामार्छत् स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत् तं निरवपत्ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निवपे'दित्यनारम्यश्रुतेष्टिरश्वस्य दातुः प्रतिग्रहीतुर्वेति संशये यद्यप्युपक्रमाधिकरणन्यायेन दातुरेव युक्ता । अनयत् प्रापयत् । देवता दानसम्प्रदानवरुणरूपां जलोदररूपेण परिणताम् । आर्छत् आप्तवान् । वरुणपाशाजलोदरात् । गृह्णाति जलोदररूपेण प्राप्नोतीत्युपक्रमस्थार्थवादार्थात् , तथापि मैत्रायणीयशाखायाम्-'अथैषोऽश्वः प्रतिगृह्यते स चानुभयतोदं प्रतिगृह्यतो निर्वभत्यस्योन्द्रयं च पशृंश्च वरुणो वारुणो वा अश्वो वरुणदेवत्यो यो वा अश्वं प्रतिगृह्राति वरुणं स प्रदिति तदश्वहविषा यष्टव्यं निर्वरुणत्वाय चतुष्कपाला भवन्ति चतुष्पादश्वः कपालैरेवैनं प्राप्नोति यावन्तोऽश्वास्तावन्तः पुरोडाशा मवन्ति सर्वत एवैनं मुञ्चन्तीति वाक्येन प्रतिग्रहोपक्रमाया एवैतदिष्टेरुक्तत्वात्तदनुरोधेन शाखान्तरीयोक्तवाक्ये अनयदित्यादिपदे उपक्रमस्थेऽपि प्रतिग्रहे लक्षणेति प्रतिग्रहीतुरेव सेष्टिरिति प्राप्ते, दातुरेवेयम् । मैत्रायणीयवाक्यानुरोधेनोक्तवाक्यस्थप्रबलोपक्रमस्थे पदे लक्षणायां मानाभावात् । मैत्रायणीयवाक्योक्तदूरस्थकर्मानुवादेनाश्वदानरूपोद्देश्यसम्बन्धिबोधकत्वानुपपत्त्योक्तकर्मभिन्नस्यैव कर्मण उक्तवाक्येन विधानसम्भवात्। नामादीनामुपस्थापकानामभावेन शाखान्तराधिकरणन्यायासंभवादेतद्वाक्यीयोपक्रमानुरोधेन मैत्रायणीयवाक्योपक्रमस्थपदे प्रयोजकव्यापारलक्षकत्वस्य वक्तुं शक्यत्वेनैतद्वाक्यस्थोपक्रम एव लक्षणेत्यत्र विनिगमकाभावाच्च । किं च मैत्रायणीयवाक्योपक्रमपर्यालोचनायां दातुरेवेष्टिस्सिद्ध्यति । तथा हि यो वा अश्वं प्रतिगृह्णाति वरुणं स प्रदिति तदश्वहविषा यष्टव्यं निर्वरुणत्वाये'त्यनेनाश्वप्रतिग्रहीतुरश्वदं प्रति वरुणरूपजलोदरदातृत्वोक्तेरश्वदातुरेव सवरुणत्वप्रतीत्या निवरुणत्वाय तस्यैव यष्टत्वं प्रतीयते । तथा च पूर्ववाक्ये प्रतिगृह्यत इत्यनादरे षष्ठी। प्रतिग्रहीतारमनादृत्य सः अश्वः अस्य दातुरिन्द्रियादीनि निर्वमति नाशयतीत्यर्थः । अत एव 'मैत्रायणीयशाखायां दात्रुपक्रमतोज्झिता । कर्माङ्गत्ववशादेव दातुरिष्टिः प्रसिध्यति ॥' इति तन्त्र सारोक्तिरयुक्ता । तस्माद्विधिस्थेऽपि प्रतिगृह्णातौ प्रतिग्रहप्रयोजके दाने लक्षणा। अर्थवादस्थत्वेऽप्युपक्रमस्थत्वेमामयदित्यादिपदस्य प्राबस्यादिति । विधापित्यादि।
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपच्छेदन्यायवैषम्यभङ्गः]
लघुचन्द्रिका।
.
१७९
मुख्यतात्पर्यविषयो वाक्यार्थो नान्यशेष इत्यर्थः । नन्वेवं “न चानन्यपरं वाक्यमुपचरितार्थ युक्तम् । उक्तं हि-'न विधौ परः शब्दार्थ इति" इति भामतीवाक्ये विधौ विधायकशब्दे परो लक्ष्यः शब्दार्थो न भवतीति कल्पतरुकारव्याख्या न युक्तेति चेन्न । भावानवबोधात् । उपचरितार्थत्वं हि तात्पर्यविषयब्रह्मात्मामेदान्यार्थबोधकत्वम् । तच्च कर्मविध्यपेक्षितकर्तृस्तुतिबोधकतया, उक्ताभेदोपासनाविधायकतया वा। तत्रोक्ताभेदसिध्यननुकूलो लक्ष्योऽर्थो महावाक्ये न सम्भवति । तस्योक्ताभेदपरत्वादित्याशयेन लक्ष्यो नार्थ इत्यनेन तात्पर्यविषयसिध्यननुकूललक्ष्यो नार्थ इत्युक्तम् । विधायकवाक्ये अन्यशेषो नार्थ इत्युक्तौ तु उपासनापरत्वखण्डनं न स्यात् । अतस्तथा नोक्तम् । लक्ष्यमात्रनिषेधे तु प्रतिगृह्णातौ दाने 'उच्चैर्ऋचा क्रियते' इत्यादौ ऋगादिपदे ऋग्वेदादौ च लक्षणायाः स्वीकारेणासङ्गतिः । अतस्तदपि नोक्तमिति ध्येयम् ॥
॥ इति लघुचन्द्रिकायां प्रत्यक्षस्यागमवाध्यत्वम् ॥ पौवापर्ये परस्परनिरपेक्षयोरपच्छेदनिमित्तकविरुद्धप्रायश्चितकर्तव्यताग्राहकप्रमाणयोः पूर्वापरीभूतत्वेनोत्पत्तौ । पूर्वदौर्बल्यं पूर्वोत्पन्नप्रमाणस्य दौर्बल्यं पश्चादुत्पन्नप्रमाणेन बाध्यते । प्रकृतिवादेति । श्येनयागादिरूपविकृतिप्रकरणपठितं 'शरमयं बर्हि'रित्यादिवाक्यं ज्योतिष्टोमादिप्रकृतिगताङ्गकलापातिदेशरूपात 'प्रकृतिवत् कुर्या'दिति वाक्यात् पश्चात् प्रवर्तते । तत्रापितवहिरादिकार्यमुद्दिश्य शरादिविधाययकत्वात् । तेन यथा पूर्व प्रवृत्तं तद्वाक्यं कुशादिप्रापकत्वांशे बाध्यते, तथेत्यर्थः । उद्गात्रपच्छेदेत्यादि । 'अध्वर्यु विनिष्क्रामन्तं प्रस्तोता सन्तनुयात्तं प्रतिहर्ता तमुद्गाता तं ब्रह्मा तं यजमान' इत्यवादिकच्छं धृत्वा प्रस्तोत्रादीनां गमनं बहिष्पवमानस्तोत्रार्थ ज्योतिष्टोमे उक्तम् । सन्तनुयात् कच्छं धृत्वा अनुगच्छेत् । तत्र विच्छेदे प्रायश्चित्तमुक्तम् । 'यदि प्रस्तोता अपच्छिन्द्यात् ब्रह्मणे वरं दद्यात् यदि प्रतिहर्ता सर्ववेदसं दद्याद्याद्गाता अदक्षिणं यज्ञमिष्टा तेन पुनर्यनेत तत्र तद्दद्याद्यत्पूर्वस्मिन् दास्यन् स्यात्' इति । सर्ववेदसं सर्वस्वम् । दद्यादिति । दक्षिणारूपेणेति शेषः । अदक्षिणयागेनेति । तादृशयागकर्तव्यताज्ञानेनेत्यर्थः । अदक्षिणयागोत्तरं पुनः प्रयोगस्य नैमित्तिकत्वेऽपि पुनः प्रयोगस्य सर्वस्वदक्षिणया स्फुटविरोधाभावात् अदाक्षिण्यमात्रमुक्तम् । तावता च विरुद्धयोः समुच्चयासम्भवादेकेनापरस्यावश्यं बाध इति सूचितम् । ननु, विरुद्धयोरदाक्षिण्यसर्वस्वदक्षिणयोर्विकल्पोऽस्तु । पूर्वेणैव चोपक्रमन्यायेन परस्य बाधोऽस्तु । तत्राह-परेणेति । पश्चादुत्पन्नेनेत्यर्थः । एतावता पूर्वप्रमाणबाधकताप्रयोजकं पूर्वप्रमाणनिरपेक्षत्वं सूचितम् । तेन च विकल्पस्योपक्रपन्यायस्य चामावस्सूचितः । यदि हि विरोधिपूर्वप्रमाणं न बाध्यते, तदो
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
-
तरस्योत्पत्तिरेव न सम्भवति । यदि चोत्तरप्रमाणं पूर्वप्रमाणसापेक्षं, तदा तद्बाधकत्वासम्भवात् उपक्रमन्यायेन पूर्वप्रमाणानुसारितया तेन बाध्यमेव स्यात् । तदनपेक्षं तु तद्बाधित्वैवोत्पद्यते । तस्मात् निरपेक्षोत्तर प्रमाणत्वमेव पूर्वप्रमाणबाधकत्वे प्रयोजकमिति भावः । प्रतिहर्तृमात्रापच्छेदे उद्गातुरनपच्छेदवति प्रयोगे प्रतिहर्तुमात्रापच्छेदे । युगपदिति । विरुद्वयोर्योगपद्ये विकल्पस्य वक्ष्यमाणत्वेन सर्वस्वदानावकाश इति भावः । अन्यथा सावाकाशत्वाभा - वेऽपि बाध्यत्वे । अत एव किञ्चिदवकाशमदत्वा शास्त्रस्य वाधितुमशक्यत्वादेव । विप्रतिषेधात् युगपदुत्पन्नयोरपच्छेदयोस्सम बलत्वेनान्यतरस्यापेक्षणीयत्वनिषेधासम्भवात् । द्वयोरप्यपेक्षणीयत्वादिति यावत् । विकल्प इति । तथा च पाक्षिकानुष्ठानादेव शास्त्रस्य सावकाशत्वमिति भावः । नन्वपच्छेदयोः क्रमिकतास्थले प्रयोगान्तरे सावकाशत्वमिव प्रत्यक्षस्यापि व्यावहारिकप्रामाण्ये सावकाशत्वमस्त्येव । तत्राह — किं चेति । जघन्यः प्रतिहर्त्रपच्छेदात् पश्चादपच्छिन्नः । पुनर्यज्ञे अदक्षिणप्रयोगोत्तरानुष्ठीयमानप्रयोगे । यथेतरस्मिन् प्रतिहर्तृमात्रापच्छेदवति प्रयोगे यथा सर्वस्वं दीयते । इत्यधिकरण इत्यस्येत्युक्तमित्यग्रे योजना । 'यद्युद्गाता अपच्छिन्द्याददक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्यात् यत् पूर्वस्मिन् दास्यन् स्यादिति श्रुतौ तत्रेत्यन्तभागः उद्गात्रपच्छेदनिमित्तमित्यादिना द्वितीयप्रयोगे इत्यन्तेन व्याख्यातः । दास्यन् उद्गात्रपच्छेदरूपनिमित्तज्ञानात्पूर्वं दातुमिच्छन् । पूर्वप्रयोगस्थ सर्वस्वेति पाठः । निमित्तकान्तं सर्वस्वान्वितम् | पूर्वप्रयोगस्येति पाठे सर्वस्वदानविशिष्टपूर्वप्रयोगस्येत्यर्थः । पाठद्वयेऽपि पूर्वप्रयोगाङ्गसर्वस्वदानाबाधेनेत्यर्थः । नित्या 'तस्य द्वादशशत ' मिति श्रुत्या निमित्ता पुरस्कारेण विहिता । रूपेति । तस्यास्सर्वस्वदानेन नैमित्तिकेन बाधादिति शेषः । अपच्छेदस्य अपच्छेदनिमित्तकस्य पूर्वप्रयोगाङ्गसर्वस्वदानस्य । निक्षेपः निक्षेपमात्रम् । पूर्वप्रयोगकाले अनुष्ठानत्राध इति यावत् । तथा च पूर्वप्रयोग एव सर्वस्वदानं सावकाशम् । तत्कालाधिकरणकत्वबाधेऽपि तदङ्गत्वस्यावाधादिति भावः । नेदं परोक्तं युक्तम् । न हि पूर्वप्रयोगाङ्गीभूता सर्वस्वदक्षिणा द्वितीयप्रयोगकाले विधीयते । अपूर्वविधित्वादृष्टार्थत्वादिप्रसङ्गात् । किं तु द्वितीयप्रयोगस्यैव ज्योतिष्टोमत्वेन द्वादशशतं प्राप्नोति 'यद्येतावता नानमेयुरपि सर्वस्वेने 'ति श्रुत्या द्वादशशतेनानत्यभावे सर्वस्वदानं च प्राप्नोतीति सर्वस्वदानं द्वितीयप्रयोगाङ्गतया नियम्यते । 'प्रयोगान्तरे निक्षेप' इति टुष्टीकावाक्यस्य तु प्रयोगान्तरकाले अनुष्ठानमित्यर्थो विरुद्धः । प्रयोगान्तराङ्गतया विधानमित्यर्थस्तु, न्यायानुकूलः ।
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे अपच्छेदन्यायवैषम्यभङ्गः ] लघुचन्द्रिका ।
१८१
परेषां प्रतिकूलः । अत एव तन्त्ररत्ने व्याख्यातम्-~- 'सत्र तद्दद्यादित्यादिवचनं पूवप्रयोगे दातव्यं यत् प्राप्तं, तत्तत आच्छिद्य पूर्वप्रयोगान्तरे निक्षिपति । सर्वस्वदानेनैव पुनः क्रतावधिकार' इति । तथा चातिथ्यावहिर्यथा आतिच्यात आच्छिद्य उपसत्सु विधीयते । न तदातिथ्याङ्गमिति पूर्वपक्षे उक्तं, तथा प्रकृतेऽपि सर्वस्वं न पूर्वप्रयोगे अङ्गमिति ध्येयम् । नास्तीति । तथा चापच्छेदस्थले बाध्यबाधकभावाभावात्तदृष्टान्तेन प्रत्यक्षस्य श्रुतिबाध्यत्वोक्तिरयुक्तति भावः । नैमित्तिकशास्त्रस्येत्यादि । नानेन वाक्येनाविरोधः प्रतिपाद्यते । क तु बाध्यबाधकभावः । त. था हि शास्त्रदीपिकायाम्-'पूर्व परस्य बाध्यम् । न तु परं पूर्वस्येति सयुक्तिकमपपाद्य 'तस्मात्पूर्वदौर्बल्य'मित्यनेन सौत्रपदेन तत्र सूत्रकारवारस्यमुक्त्वा नैमित्तिकेन नित्यबाधं दृष्टान्तयितुमुक्तवाक्यमुक्तम् । अत एव नित्यमित्यादिवाक्यमग्रिमं शास्त्रदीपिकायां दृष्टान्तबोधकम् । तथा च निमित्तोषजननादित्यादेरयमर्थः । यत्र यत् निमित्तं न जातं, तत्रान्यथा कर्तव्योऽपि ऋतुर्यत्र तज्जातं तत्रान्यथा क्रियते । तस्मान्नित्यनैमित्तिकशास्त्रयोर्व्यवस्थितविषयकत्वसम्भवेनाप्रामाण्यासम्भवात् वाध्यबाधकत्वसम्भव इति तद्वदेव पूर्वापरीभूतविरुद्धापच्छेदनिमित्तकशास्त्रयोऽयवस्थितविषयकत्वसम्भवेन बाध्यबाधकमाव इति । बदरश्यामरक्तत्वधियोऽस्तु न दृष्टान्तता । तयोभिन्नकालीनविषयकत्वेन बाध्यबाधकभावविरहेऽपि प्रकृते यस्मिन् प्रयोगे उत्पनं निमित्तापच्छेदद्वयं तस्मिन्नेव प्रयोगे सर्वस्वदक्षिणत्वनिर्दक्षिणत्वयोनैमित्तिकयोरनुष्ठेयताप्रसक्त्या विरोधेन बाध्यबाधकत्वस्यावश्यकत्वात् । तस्मादविरोधप्रतिपादकमिदं वाक्यमित्युक्तिमौढ्यादेव । तस्मात् षष्ठपश्चमस्थानामुक्ताधिकरणानां सावकाशताज्ञापकत्वात् । अपच्छेदन्यायः पौर्वापर्य इत्याद्युक्तन्यायः । द्वितीयप्रयोग इति। यथा प्रथमप्रयोगे निमित्तसम्बन्धेनानुष्ठेयतया प्रसक्तमपि द्वितीयप्रयोगकालानुष्ठेयतया सावकाशं, तथा श्रुत्या तात्विकप्रामाण्यांश बाधितमपि प्रत्यक्ष व्यावहारिकप्रामाण्ये सावकाशम् । लादतैव प्रत्यक्षप्रामाण्यग्राहकप्रमाणस्य लब्धविषयकत्वसंभवादिति भावः। व्यावहारिकतामाध्ये व्यवहारकालावच्छिन्नं यदबाध्यत्वं तदाश्रयविषयकत्वे । तत्र स. र्वस्वदक्षिणत्वे । एकप्रयोगे अदक्षिणप्रयोगकालानुष्ठानांशे । अत्र श्रुतिबाध्यप्रत्यक्षे । तात्विकांशे कालालवच्छिन्नं यदवाध्यत्वं तदाश्रयविषयकत्यांशे । यथा तत्र पूर्वप्रयोगस्याङ्गं कालान्तराजच्छिन्नं, तथात्र प्रत्यक्षविषयस्य धर्मोऽबाध्यत्वं व्यवहारकालावच्छिन्नम् । परोक्तमनुसृत्येदमुक्तम् । वस्तुतस्तु, पूर्वोक्तरीत्या पूर्वप्रयोगा
त्वमेव नास्तीति कुतस्तस्य कालान्तरावच्छिन्नत्वेन सावकाशत्वम् । सुष्ठक्तमिति । सगुणादिश्रुतेर्व्यवहारकाले प्रवृत्तत्वेन तदुत्तरकालप्रवृत्तनिर्गुणादिश्रुत्या बाधस.
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
अद्वैतमञ्जरी ।
म्भवात् । तत्परत्वात् अद्वैतपरत्वात् । वैदिकं 'एकमेवाद्वितीय'मित्यादिश्रुतिः । पूर्वस्य पूर्वप्रवृत्तप्रत्यक्षादेः । सगुणादिश्रुतेरुपासनाविधिपरत्वेन सगुणत्वादिपरत्वस्याभावात् । मावेऽपि तस्य परमतात्पर्यरूपत्वाभाव इत्यादेः द्वितीयपरिच्छेदे निर्गुणश्रुत्युपपत्तिप्रकरणे वक्ष्यमाणत्वात् परमतात्पर्यविषयार्थकश्रुत्या बाध्यतेति भावः । ननु, सप्रपञ्चादिश्रुतेः प्रपञ्चप्रसक्तिहेतुत्वेनाद्वैतश्रुत्यपेक्षणीयत्वेन न तद्बाध्यता । तत्राह–नायमित्यादि । तथा च निषेधधीनिषेधधर्मिणि प्रतियोगिमत्त्वज्ञानरूपां प्रसक्तिमपेक्षते । न तु तस्याः प्रमात्वमिति मावः । शास्त्ररूपे परप्रमाणेऽपि व्यभिचारमाह-दृश्यते चेति । 'न क्त्वा सेडि'ति परं, सेटः क्त्वाप्रत्ययस्य कित्वनिषेधकं पश्चादुच्चारितं न क्त्वेत्यादिमूत्रम् । पूर्व पूर्वोच्चारितं मृडादीनां परस्य क्त्वाप्रत्ययस्य कित्त्वबोधकम् । अन्यथासिद्धं यथाश्रुतार्थे प्रामाण्यं विनापि सिद्धम् । इति विरोधाभावेन इति हेतोविरोधानिश्चयेन । उपक्रमादिनेति शेषः । परत्वे मृडेत्यादितः परत्वे । अनेन न क्त्वेत्यादिना । अपाकरणं निषेधम् । प्रतिप्रसवार्थ प्राप्त्यर्थम् । तेन न पुनःपदस्यासङ्गतिः । अप्रवृत्तेः प्रवृत्तेरयुक्तत्वात् । अर्थत इति । बोधरूपफलत इत्यर्थः । प्रमाणफलज्ञानस्यैव बाध्यबाधकत्वस्य विचार्यत्वेन यदा बोधजननं तत्काले परत्वमेव बाधकत्वे नियामकम् । ननु, न क्वेत्यादेः पूर्वत्वेऽप्यपवादत्वादेव प्राबल्यम् । तत्राहअपवादापवाद इति । एवकारश्शेषः । तथा च तदपेक्षयापि मृडेत्यादेरपवादकत्वम् । अन्यथा स्वमावसिद्धस्योत्सर्गस्य स्थापनासम्भवादिति भावः । अतः तत्परत्वपरत्वयोनिर्दोषत्वात् । विषय एवेति । 'यत्परश्शब्दस्सशब्दार्थ' इति न्यायात् ॥
॥ इति लघुचन्द्रिकायां अपच्छेदन्यायवैषम्यभङ्गः ॥
कालात्ययापदिष्टः बाधितहेतुः । साध्य इति । अपेक्षणीयेति शेषः । तत्र पक्षे, वह्निविशेपे यत्र वह्नौ प्रतियोगिप्रसिद्धिस्तदन्यवहौ । न बाध्यतेति । स्वसमानाधिक. रणस्वान्यूनसत्ताकात्यन्ताभाववत्वज्ञानस्यैव प्रतियोगिमत्त्वज्ञानविरोधित्वेन न्यूनसत्ताकव्यावहारिकसत्त्वज्ञानं न तात्विकमिथ्यात्ववत्ताज्ञानबाधकमित्यर्थः । मिथ्यात्वस्य तात्विकत्वं तु तात्विकाधिकरणीभूतचिदात्मकाभावघटितत्वम् । ननु, 'नान्तरिक्ष' इत्यादेरिवाप्रसक्तप्रतिषेधोऽस्तु । तत्राह–प्रत्यक्षविषयस्येति । प्रत्यक्षविरोधेन प्रत्यक्षबाधितत्वेन । निषेधवैयर्थ्यमिति । 'अग्नीषोमाभ्यामाज्यभागी यजते 'न तौ पशौ करोति न सोमे अध्वरे' इति वाक्ये न तौ पशौ करोतीत्यत्रैव निषेधविधिः । न तु 'न सोमे अध्वर' इत्यत्र सोमयागे आज्यभागयोरप्राप्तत्वे न तदभावस्य सिद्धत्वेन निषेधविधिवैयर्थ्यात् । तस्मात्तत्रार्थवादत्वमिति दशमाष्टमे स्थितम् । तथा प्रपञ्चे तात्विकत्वस्याप्रसक्तेस्तदभावस्य सिद्धत्वेन तद्वोवक श्रुतिर
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षस्याचाध्यत्वे वाधकम्] लघुचन्द्रिका ।
१८३
नुवादस्स्यादिति भावः । अनर्थेत्यादि । प्रपञ्चतात्विकत्वस्य वादिविप्रतिपत्तिमिः सन्दिग्धत्वेनाद्वैतनिश्चयासम्भवात् अद्वैतब्रह्मनिश्चयद्वारा ब्रह्मात्मैक्यनिश्चयाधीनाज्ञाननिवृत्त्यर्थकत्वेनोक्तश्रुति नुवाद इत्यर्थः । पारमार्थिकमित्यादि । अद्वैतं द्वैताभावं ब्रह्मस्वरूपम् । पारमाधिकेन द्वैताभावेन घटितं वा, ब्रह्मगतपारमार्थिकत्वस्यामावरूपं वा, मिथ्यात्वं बोधयन्ती श्रुतिर्नोपजीव्यविरोधात् विभेतीत्यर्थः । तत्त्वतः तात्विकत्वेन। औष्ण्यं नास्ति वह्नावौष्ण्यात्यन्तामावोऽस्ति । व्यवहारतोऽपि नास्ति वहावीप्ण्यं व्यावहारिकात् भिन्नम् । यथाश्रुते व्यावहारिकत्वरूपेणात्यन्तामावस्य व्यावहारिकस्य वात्यन्ताभावस्य पूर्ववदिष्टत्वात् । सकलसाधारण्येति । सर्वान् प्रति निर्दोषत्वेत्यर्थः । निवृत्तिकारणताया विरुद्धस्वभावतायाः । यथाश्रुते स्वभाववादे कारणत्वस्यास्वीकारेणासङ्गतेः ॥
इति लघुचन्द्रिकायां मिथ्यात्वानुमितेर्वह्निशैत्यानमितिवैषम्यम् ॥ ___ मम शरीरं शरीरं मदन्यत्वव्याप्यमदीयत्ववत् । यथाश्रुते सम्बन्धमात्रस्य तादात्म्यव्यावर्तकधर्मत्वाभावेनासङ्गतेः । अनवकाशादिति । युक्तेस्तु ग्राह्याभावव्याप्यवत्त्वनिश्चयरूपाया रजताभेदवत्त्वादिनिश्चयाप्रतिबध्यत्वेनोत्पत्तेरवकाश इति भावः । ननु, नात्मा साक्षी । येन तस्याणुत्वे नानावयवावच्छिन्नसुखादितादात्म्यापनसाक्षिरूपत्वासम्भवेन दोषः । किं त्वात्मनश्चैतन्यं गुणः । तस्य च दीपप्रभायाः दीपासंयुक्तदेश इव आत्मासंयुक्तेऽप्यवयवे सत्त्वान्नानुपपत्तिस्तत्राह-न ह्येक इत्यादि । तथा चोक्तगुणस्वरूपस्यैवात्मत्वसम्भवेन तदन्यस्मिन्नण्वात्मनि मानाभावः । ननु, 'अणुवैष आत्मेति श्रुतेः उत्क्रान्त्यादिश्रुतेश्वाणुरेवात्मा । तत्राह-विस्तरेणेति । उक्तश्रुतीनामौपाधिकपरिच्छेदबोधकत्वमित्यादिविस्तरेणेत्यर्थः । त्वन्मते आकाशस्य अन्यत्वशरीरारम्भकत्वादिवादिनामद्वैतवादिनां मते । व्यभिचारीति । अनुभूतस्पर्शादौ मानामावात् । तदभाषेति । तद्रेदेत्यर्थः । तदत्यन्तामावस्याप्रत्यक्षत्वात् 'नित्यानुभवग्राह्यं तम' इति तत्त्वदीपनोक्तेस्तमस इव तदीयरूपस्यापि प्रातीतिकत्वेन साक्षिवेद्यत्वेऽपि व्यावहारिकरूपामावस्य साक्षिवेद्यत्वे मानामावस्तत्राह
-अचाक्षुषेऽपीति । बाधात् बाधसम्मवात् । अवर्जनीयमिति । चक्षुस्संयोगविशिष्टालोकावच्छिन्नं नमः साक्षिवेद्यम् । अतादृशे नमस्यावरणस्वीकारात् । ननु, रूपवत्यपि नमसि चक्षुस्संयोगे मानामावेन रूपाचाक्षुषोपपत्तेः कथमुक्ततर्कावतार इति चेन्न । चक्षुस्संयुक्तालोकावच्छिन्ने नमसि चक्षुस्संयोगसम्मवेऽपि तत्र रूपचाक्षुषानुत्पत्तौ तत्र रूपवत्त्वे प्रमाणाभावात् । एवं नभो यदि नीलं स्यात् तदा नीलत्वेन निकटस्थपुरुषीयचाक्षुषविषयः स्यात् । अनुबूतरूपे मानामावादित्यादि
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
1
1
बोध्यम् । पश्चीकरणात् एकैकमूतमागचतुष्टये इतरभूतचतुष्टयस्य मागचतुष्टयसंयोगात् । स्थूलाकाशादीनामिति शेषः । तथा च संयोगविशेषस्यैव रूपादिकारणत्वं स्वीक्रियते । न तु स्वसमवायिसमवेतत्वसम्बन्धेन रूपादेः । तदिदमुक्तम् - एताव - न्मात्रेति । वस्तुतस्तु परिणामवादस्वीकारेण मिलितानां भूतानामाकाशदिपरिणामोत्पत्तावपि न शब्दादिकमुत्पद्यते । किं तु यस्य भूतस्य भागचतुष्टयं यत्र, तस्यैव तत्र गुणोऽभिव्यक्तो भवति । तथा च गुणामिव्यक्तावेव संयोगविशेषो हेतुः । तदिदमुक्तम् — व्यवहारयोग्यो भवतीति । तदेतत् 'एकैका एव नीलारुणादिव्यक्तयो नित्या जातिवदखण्डाः । एवं शब्दो नोत्पद्यते नित्यत्वादिति भट्टमतम् । गुणगुणिनोस्तादात्म्याहूपादीनामुत्पत्तिः क्वचिव्यवह्रियते । रूपत्वादिना कार्यता तु न स्वीक्रियते । किं तु रूपविशेषादिविशिष्टत्वेन संयोगविशेषत्वेन कार्यकारणभावः । नित्यानित्ययोरपि जातिव्यक्त्योरिव तादात्म्यमविरुद्धम् । लिङ्गादिकमिति दृष्टान्तः । प्रकरणमात्रस्य प्रकरणादिमात्रस्य । बाधकजातीयत्वमात्रेण न बाधकत्वमित्यत्र दृष्टान्तमाह न हीत्यादि । स्मृत्या श्रुतिर्बाध्यत इति योजना । बाधकत्वे हेतु:प्रधानेत्यादि । क्रमस्य पदार्थद्वयनिरूप्यत्वेन पदार्थस्य क्रमापेक्षया प्रधानत्वम् । आचामेदिति । क्षुत आचामेदित्यादीत्यर्थः । वेदं सम्मार्जनसाधनदर्भमुष्टिविशेषम् । वेदिं गार्हपत्याहवनीयमध्ये चतुरंमुलखात भूमिम् । अनन्तरं अव्यवहितम् । अन्यत्र पदार्थधर्माद्यविषयकश्रुतौ । तथा च बाधिकया स्मृत्या भवितव्यम् । अत्र स्मृत्या श्रुतिरित्यनेन प्रमाणबलाबलाभ्यां बाधकत्ववाध्यत्वे इति पूर्वपक्ष: सूचितः । पदार्थप्राधान्योक्त्या च प्रमेयबलाबलाभ्यामेव ते । नहि प्रमाणयोः स्वत एव विरोधः । किं तु मिथो विरुद्धविषयकत्वेन । तथा च तत्पर्यालोचने प्रमेयबलाबलज्ञानस्य प्राथम्या - तेनैव व्यवस्थेति सिद्धान्तः । प्रथमतृतीये स्मार्तानामाचमनादीनां श्रौतक्रमादिभिः विरोधे श्रोता क्रमादिकमेवानुष्ठेयम् । न हि 'क्षत आचामे' दित्यादिस्मातीनामनुष्ठाने वेदमित्यादिक्रमादिकं सम्भवतीति प्राप्ते उक्त सिद्धान्त उक्तः । तत्तद्दरदोषनिवन्धनमिति । दूरत्वस्यापेक्षिकस्य सविधेऽपि सत्त्वात् दूरत्वमात्रस्यादोषत्वात् दूरत्वविशेषाणामेव भूमविशेषे दोषविधया हेतुत्वलाभाय द्वितीयतत्पदं दूरदोघे विशेषणम् । प्रथमतत्पदस्याप्रमेत्यन्न योजना । तथा च तेषां दूरत्वानामन्यतमजन्यं यद्यत् ज्ञानं तदममेत्यर्थः । एतेन न्यायप्रयोगे वीप्साया असाम्प्रदायिकत्वात्तत्तदित्यसङ्गतमित्यपास्तम् । युक्त्यैव हृदं ज्ञानमप्रमात्वव्याप्योक्तजन्यत्ववदिति निश्चयेन । बाधं अप्रमात्वानुमितिम् । मन्दबुद्धे इति । युक्तिस्वरूपाज्ञानादुक्तयुक्तेरप्या१. ' इतरभूतभागचतुष्टययुक्ते यरिव्विदेकमामचतुष्टये इति शेषः ।' इति पाठान्तरम् ।
.
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे भाविबाधोपपत्तिः]
लघुचन्द्रिका ।
गनविरुद्धविषयकत्वनिश्चयादेवोत्थानम् । अन्यथा 'इदं ज्ञानं दूरत्वदोषजन्यं न वे'ति सन्देहात् । तथा च तस्यैव प्रकते युक्तित्वमवश्यापेक्षितत्वादागमनन्यस्य परिणामज्ञानस्य विरोधिप्रत्यक्षस्य सत्त्वात् प्रथमतोऽनुत्पत्तावप्यागमतात्पर्यविरुद्धविषयकत्वनिश्चयस्य युक्तित्वसम्भवादिति सूक्ष्मदर्शनाभावाच्च बुद्धिमान्द्यम् । दुष्टकरणकत्येति । दोषसह स्तनन्यत्वेत्यर्थः । आगमादिना आगमादिबाटेतहेतुना आगमतात्पर्यविरुद्धविषयकत्वेन । तद्वत् अनुमानविरुद्धविषयकत्वेन हेतुना । निश्चयः जन्यत्वनिश्चयः । लिलादीति । लिङ्गाद्याभासेयर्थः । एकत्र बाध्यबाधकयोरेकत्र ॥
॥ इति लघुचन्द्रिकायां प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् ॥ गुदासेनेति । प्रत्यक्षे बाधकशङ्काया इति शेषः । इयत्तानवधारणेति । एतावन्त्येव बाधकानीति निश्रयस्याभावेत्यर्थः । प्रत्यक्षस्य प्रत्यक्षान्तरस्य । तथा च प्रत्यक्षान्तरत्वावच्छेदेन प्रमात्वशङ्कायां तस्य वाधकत्वानिश्चयेऽपि बाधकत्वसंशयसम्भवात् प्रत्यक्षे प्रत्यक्षान्तररूपवाधकत्वस्यौचित्यावर्जितस्संशयो दुर्वार इति 'ब्रह्माहमम्मी'ति प्रत्यक्षरूपवाधकशङ्कास्त्येवेति भावः । आरोप्यसत्ताधिकेति। प्रातीतिकव्यावहारिकपारमार्थिकसत्तानां पूर्वपूर्वीपेक्षयोत्तरोत्तरमधिकम् । तत्र पलवाविद्यावच्छिन्ना चिदाद्या 'सदिदं रजत मित्यादिभ्रमे रजतादिनिष्ठतया भाति । मूलाविद्यावच्छिन्ना चित् द्वितीया 'घटस्सन्नि' त्यादिज्ञाने भाति । सदहमित्यादिज्ञाने शुद्धचिद्रूपा तृतीया भाति । अज्ञानक्ये तु अज्ञानविषयतावच्छेदककिञ्चिदवच्छिन्ना चित् द्वितीया । उक्तावच्छेदकान्यकिश्चिदवच्छिन्ना चिदाद्या । शुद्धचिद्रूपा तृतीया । रङ्गादिकमेवोक्तावच्छेदकम् । न तु शुक्तिरूप्यादिकम् । सुखादिकं प्रातीतिकमेव द्वितीयपक्षे । ननु,स्वाप्नभावाभावज्ञानयोः बाध्यबाधकत्वं स्वयमेव मिथ्यात्ववादे स्वीकृतम् । तयोश्च न बाध्यधीविषयसत्ताधिकसत्ताविषयकत्वरूपमापेक्षिकप्रमाणत्वम् । तलाह-अन्य नसत्ताकविषयकत्वेन वेति । अन्यूनसत्ताकत्वमविकसत्ताकत्वं च मिथ्यात्ववादे विवेचितम् । प्रतियोगिनि बाधकतायोग्ये । दृष्ट प्रमिते । प्रमात्वेन निश्चित इति यावत् । अस्माकं ज्ञानातिरिक्तज्ञेयस्य उक्तसत्तावादिनाम् । स्वप्नादीत्यादिना शुक्तिरूप्यादिप्रातीतिकस्य व्यावहारिकस्य च सङ्ग्रहः । मृषा बाध्या। तव ज्ञानातिरिक्तं ज्ञेयमलीकं कल्पितभेदेन ज्ञानमेव ज्ञेयमितिवादिनो योगाचारस्य ज्ञानं सर्वं तादृशमपि मिथ्येतिवादिनो माध्यमिकस्य च मते । भेदः बाध्यं स्वप्नादिज्ञानं बाधकं जायदादीति विशेषः । किंमतः किंप्रयुक्तः । आद्यमते सर्वेषां ज्ञानानां सत्यत्वेन खात्मकविषयकत्वस्याविशेषात् कल्पितभेदस्याज्ञातसत्तानभ्युपगमेन व्यावहारिकत्वाभावाव्यावहारिकभेदविशिष्टस्य ज्ञेयस्य
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
अद्वैतमञ्जरी।
ज्ञानं प्रातीतिकभेदविशिष्टज्ञेयस्य बाधकमिति व्यवस्थाया वक्तुमशक्यत्वात् । माध्यमिकमतेऽप्यधिकसत्ताकविषयकत्वस्य प्रपञ्चबाधकज्ञाने वक्तुमशक्यतया न शून्यतासिद्धिः। अथान्यूनसत्ताकविषयकत्वेनैव बाधकत्वमिति चेन्न । बाधकज्ञानस्य त्वन्मते स्वप्रकाशत्वेन सिद्धिर्वाच्या । सा च न सम्भवति । बाध्यमानस्य बाधकत्वानुपपत्तेः । अथ कालान्तरे तस्य बाधकमवतरतीति चेन्न । चरमस्य बाधकज्ञानस्य बाध्यखानुपपत्त्या शून्यत्वासिद्धेः । अथ पूर्वमेव तस्य बाधकमवतीर्णम् । मिथ्यात्वनिश्चयस्यैव बाधकत्वेन भाविनोऽपि बाध्यतासम्भवादिति चेत् । तर्हि बाधितस्य बाधकत्वं सुतरामसङ्गतम् । तस्मानित्यसाक्षिणा त्रिकालाबाध्येन सिद्धं जन्यज्ञानं बाध्यम् । साक्षिणस्तु स्वप्रकाशस्यासंसृष्टस्य न केनापि बाधः । संसृष्टेष्वेव बाधकस्य प्रवृत्तेरिति वेदान्तदर्शनमेव विजयते । सङ्गच्छत इति । शुक्तिरूप्यादेरलीकत्ववादिमाध्वादिमते तत्सत्ताधिकसत्त्वाप्रसिद्ध्या नोक्तबाधकताप्रयोजकं तत्र सम्भवति । मन्मते तु सम्भवत्येवेति भावः । भ्रमकालीनेत्यादि । तादृशबुद्धिरधिष्ठानसामान्यांशधीः । तदविषयो विशेषः शुक्तित्वादिः । तथेति । शुद्धब्रह्मविषयिका धीः भ्रमनिवर्तिका । शुद्धं च सद्रूपं सर्वभूमेषु भात्येव । उपहितभाने शुद्धभानस्यावश्यकत्वात् । अधिष्ठानतत्त्वज्ञानति । अन्यविषयत्वानिरूपिताधिष्ठानविषयताकज्ञानेत्यर्थः । व्यावृत्ताकारत्वेन व्यावर्तकधर्माश्रयविषयकत्वेन । विशेषणात् व्यावृत्ताकारबुद्धौ भासमानव्यावर्तकधर्ममादाय । उपलक्षणात् उक्तबुद्धावभासमानं व्यावर्तकधर्ममादाय । धर्मान्तरस्य उत्तृणत्वादेः । उपलक्षणं काकादिकम् । तस्मात् तदादाय । सप्रकारकतैवेति । उत्तृणत्वं प्रति व्याप्यतया ज्ञापकं काकवत्त्वमुपलक्षणमुच्यते । उपलक्ष्यते ज्ञायते अनेनेति व्युत्पत्तेः । तथा व 'देवदत्तगृहाः काकवन्त' इत्यादौ काकवत्त्वोपस्थापितमुत्तृणत्वं गृहे प्रकारीभूय भातीति सप्रकारकत्वनियम इति भावः । स्वरूपोपलक्षणात् धर्मान्तरानुपस्थापकात् स्वोपलक्षितस्य शुद्धस्य स्वाश्रयस्यैव लक्षणयोपस्थापकमादायेति या. वत । निष्पकारकति । 'प्रकृष्ट नकाशश्चन्द' इत्यादिवाक्यजन्यबोधे लोक तथा दर्शनात् । उपलक्षणस्य विशेषणत्वोपाधित्वाभ्यां शून्यस्य व्यावर्तकस्य । तत्र व्यावृत्ताकारबोधे । अप्रवेशात् अविषयत्वात् । ननु, उपलक्षणस्य तत्राविषयत्वेऽपि उपलक्ष्यव्यक्तिरेव तादात्म्यसम्बन्धेन स्वस्मिन् प्रकारीभूय भातु । तत्राह-स्वस्येति । अत्यन्ताभेदे विशिष्टप्रमा न सम्भवतीति भेदाभेदमतव्याख्याने यत् पूर्वमस्माभिः प्रपञ्चितं, तदेतन्मूलकम् । प्रमेयत्वादिवत् आकाशाभावादिप्रकारकप्रमाविशेष्यत्वादिवत् । त्वयापीत्यपिना मन्मते केवलान्वयित्वमेव नास्ति । सर्वदृश्यानां सर्वत्रामावा
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे भाविबाधोपपात्तः]
लघुचन्द्रिका।
त् शो निधर्मकत्वाच्चेति सूचितम् । ननु, वृत्तौ व्यावृत्ताकारता न व्यावृत्तस्य विषयिता । चैतन्यस्यैव विषयित्वात् । अधिष्ठानारोप्ययोरेव हि विषयिविषयभावस्त्वन्मते स्वीक्रियते । तत्राह-आकारश्चेति । असाधारणेति । वहेरेवेयमनुमितिन घटस्येत्यादीत्यर्थः । तथा च विषयित्वाभावेऽपि वृत्तौ विषयस्य कश्चन सम्बन्धः स्वीक्रियते । स च प्रतियोगिध्वंसयोरिव भिन्नकालीनयोरपि । ननु, शब्दात्त. दर्थोपस्थितिः केनचिद्रूपेणैव लोके दृष्टा । तथा चाद्वितीयत्वसत्यत्वाद्युपलक्षितस्य शुद्धस्य कथं शब्दादुपस्थितिः । तत्राह-तस्मादिति । उपलक्षणात् व्यावृत्ताकारत्वस्योपपन्नत्वादित्यर्थः । स्वरूपमात्रामति । प्रकृतवाक्यार्थबोधानुकूलाया एवोपस्थितेः पदेन साध्यत्वात् शुद्धस्याकाशादेशाब्दानुभवोपयोगिनी शुद्धतदुपस्थितिराकाशादिपदात् स्वीक्रियते । उक्तं हि शब्दमण्यादौ-'आकाशादिपदस्य शब्दाश्रयत्वादिविशिष्टे न शक्तिः । किं तु तदुपलक्षिते । घटादिपदस्य हि घटत्वादि. विशिष्टे शक्तियुज्यते । व्यक्तीनामानन्त्येन तत्र शक्तिग्रहासम्भवात् । आकाशादि. पदस्य तु एकस्यामाकाशादिव्यक्तावेव शक्तिग्रहसम्भवात् । शब्दाश्रयत्वादिकं न तच्छक्यम् । न चैवं कदाचिच्छब्दाश्रयत्वेनाकाशोपस्थितिः कदाचिदष्टद्रव्यान्यद्रव्यत्वादिनत्यत्र नियामकाभावाद्युगपत् सर्वे रूपैरुपस्थितिः स्यादिति वाच्यम् । यद्रूपेणोपस्थिते आकाशादौ शक्तिर्गृह्यते, तद्रूपेण तदुपस्थितिरिति व्यवस्थायास्तद्पांशे शक्त्यभावेऽपि सम्भवात् । अस्तु वा आकाशादिपदानिर्विकल्पकोपस्थितिरेव । शाब्दानुभवस्तु 'आकाशमस्ती'त्यादिवाक्ये एकमस्तीत्याद्याकारकः । न तु शुद्वाकाशे एकत्वादिप्रकारकः । शाब्दानुभवमुख्यविशेष्यतायाः किश्चिद्रूपावच्छिन्नत्वनियमादिति । तथा च पदार्थोपस्थितेस्तान्त्रिकैः स्वीकृतत्वात् । सत्यादिपदेभ्योऽपि शुद्धोपस्थितियुक्तेति भावः । ननु, कथमुपलक्षणाघ्यावृत्ताकारस्य ज्ञानस्य द्वैतभूमनिवर्तकत्वम् । न हि व्यावर्तकधर्ममविषयीकुर्वतोऽपि विरोधित्वं सम्भवति । तत्राह-दैतनिवर्तकामिति । द्वैतनिवर्तकतायोग्यमित्यर्थः । तथा च तादात्म्येन पृथिवीं प्रति व्यापकतया गन्धे गृहीते सति पृथिवी गन्धाभाववतीति धीर्यथा तार्किकादिभिर्न स्वीक्रियते । गन्धव्याप्यत्वविशिष्टाया इव गन्धव्याप्यतागोचरोबुद्धसंस्कारविषयीभूताया अपि पृथिव्या गन्धाभावव्यावर्तकधर्मत्वेन व्यावर्तकतावच्छेदकेन तादात्म्यसम्बन्धेन तद्विशिष्टप्टथिव्यां तदभावप्रकारकबुद्धेरनाहार्याया अनुत्पत्तेः । न हि गन्धव्याप्यवान् गन्धाभाववानित्यनाहार्यधीभवति । तथा द्वैताभावव्याप्यतया गृहीते ब्रह्मणि न द्वैतवत्त्वधीरनहाय जायते । ब्रह्मणि द्वैतव्यावर्तकधर्मत्वेन व्यावतकतावच्छेदकतादात्म्यसम्बन्धेन तत्सम्बन्धिनि द्वैतस्योक्तबुद्ध्यसम्भवादिति भावः ।
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
__ अद्वैतमञ्जरी ।
तत्मतिफलितेति । तद्विषयाकारवृत्तिप्रतिविम्बितं चैतन्यं तद्विषयं प्रति साक्षी । सुखादावपि वृत्तिः स्वीक्रियत एव । तां विना संस्कारासम्भवेन स्मृत्यनुपपत्तेः । न च यवृत्त्यवच्छिन्नचिति यावन्तो विषयीभवन्ति तदृत्तिसूक्ष्मावस्था तावतां सरकार इति स्वीकृत्य सुखादिकालीनाया घटाद्याकारवृत्तेनाशो वटादेरिव सुखादेरपि संस्कार उच्यताम् । किं सुखादौ वृत्तिकल्पनयेति वाच्यम् । सुखादिस्मृतौ हि सुखादिसंस्कारो हेतुः । संस्कारे सुखादेराकाराख्यसम्बन्ध एव निवेश्यः । तथा च घटाद्याकारवृत्तौ सुखादेरुक्तसम्बन्धाभावात्तत्सूक्ष्मावस्थायाः कथमुक्तसम्बन्धः । अथ तस्यां घटाद्याकारकवृत्त्यवच्छिन्नचैतन्यसूक्ष्मावस्थात्वस्वीकारेण तादृशचित्तादात्म्यात्तादृशचितश्च सुखादितादात्म्यात् सुखादिविषयकत्वमिति चेन्न । सुखाद्यनुमितिनाशरूपस्य सुखादिसंस्कारस्य सुखाद्याकारकत्वेन सुखादिस्मृतौ हेतुत्वस्य क्लप्तत्वेन विद्यमानसुखादौ वृत्तिस्वीकारे तेनैव निर्वाहात् सुखादितादात्म्यरूपविषयतामादाय हेतुत्वान्तरस्याकल्प्यत्वात् संस्कारकाले सुखादेरभावेन तत्तादात्म्यासम्भवाच्च । तस्मातदाकारवृत्तिनाशस्थैव तदाकारकत्वसम्भवात् तदाकारवृत्तिप्रतिबिम्बितचिदेव तसाक्षिणी । तादृशस्यैव भासकत्वात् । ननु, तदाकारसंस्कारं प्रति तज्ज्ञानत्वेन हेतुत्वम्। तज्ज्ञानत्वं च तदीयासत्त्वापादकाज्ञानविरोधिविशिष्टचित्त्वम् । तथा च सुखादिषु वृत्ति विनापि सुखादीनामेव तदज्ञानविरोधित्वात् तद्विशिष्टचितस्तज्ज्ञानत्वात् तयैव संस्काररूपो मनःपरिणामो जायत इति तस्य ज्ञाननाशत्वाभावेऽपि न क्षतिरिति चेन्न । घटाद्याकारकवृत्तिनाशानां क्लुप्तानामेव घटादिसंस्कारत्वसम्भवे अतिरिक्तानामनन्तानां घटादिसंस्काराणां कल्पने गौरवात् सुखाद्यपेक्षया घटादीनामनन्तत्वेन तेषु वृत्तिकल्पनापेक्षया तेषु अतिरिक्तसंस्कारस्वीकारे महागौरवात्। वस्तुतस्तु, सुखादौ वृत्त्यस्वीकारपक्षेऽपि साक्षिणो भ्रमप्रमासाधारणत्वेन प्रमात्वानिश्चयात् बाध्यतासम्भव इति बोध्यम् । बाधकधियः बाधकधीमात्रस्य । अनभ्युपगमादिति । कचिदिति शेषः । यथाश्रुतं त्वसङ्गतम् । शुक्तिरियमिति ज्ञाने जातेऽपि रजतभेदाज्ञानात् जातस्य 'इदं रजतमि'ति भ्रमस्य 'नेदं रजतमि' ति ज्ञानेनैवोच्छेदात् । गृहीतमात्रेति । गृहीतमात्रस्य आत्मानात्मरूपस्य । बाधे बाधस्वीकारे । माध्यमिकमते स्वपक्षः शून्यवादः न सिद्ध्यति । तात्विकविषयकप्रमाणं विना बाधो न सम्भवतीति भावः । सत्प्रतिपक्षे भावाभावव्याप्यवत्त्वेनैकर्मिणि निश्चयस्थले । किमत्र तत्त्वं अनयोर्व्याप्त्योः पक्षधर्मतयोश्च किमबाधितम् । जिज्ञासामिति । अनयोरन्यतरत् बाध्यमिति धीप्रतिबन्धद्वारेति शेषः । ननु, दोषाभाववत्प्रमाणत्वावच्छेदेनाबाध्यविषयकत्वनिश्चयादवाध्यविष
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र. दे भाविबाधोपपत्तिः]
लघुचन्द्रिका ।
यकत्वरूपप्रमात्वस्याभावं प्रति निर्दोषप्रमाणत्वस्य व्यावर्तकधर्मत्वेन तद्वत्तानिश्चयः 'अनयोरन्यारत् बाध्यविषयकमिति धीप्रतिबन्धद्वारा उक्तजिज्ञासाप्रतिबन्धकः स्यादेव । तत्राह--विरुद्धविशेपादर्शनेति । विरुद्धार्थग्राहित्वरूपो यो विरुद्धविशेषरू दानश्चयेत्यर्थः । विशेषदर्शनस्य प्रमात्वव्याप्यतया गृहीतनिर्दोषप्रमाणत्वनिश्चयस्य । शङ्कति । प्रमात्वाभावशङ्केत्यर्थः । तथा च निर्दोषत्वज्ञाने जातेऽपि मिथो विरुद्वयाहिज्ञानद्वयविशेष्यकनिर्दोषत्वज्ञानत्वेन हेतुना तत्राप्रमात्वग्रहेण तस्य नोक्तप्रतिबन्धकत्वमिति भावः । दोषजन्य वोक्तरिति । तथा च दोषजन्यत्वशङ्कया तत्राप्रमात्वसंशयः । वस्तुतः क्लप्तदोषाभावनिश्चयो न स. त्वप्रत्यक्षे सम्भवति । अविष्ठानसत्त्वस्य सान्निध्यादिदोपस्य क्ल तदोपजातीयत्वात् । सुखादौ वृत्त्यस्वीकारपक्षेऽपि सुखादेरेव दोषजन्यत्वेन तदवच्छिन्नसाक्षिणोऽपि तत्सम्भवात् । तदुक्तं विष्णुपुराणे-'यदा तु सर्वं निजरूपि शुद्धं क. मक्षये ज्ञानमपास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तु र वस्तुभेदः ॥' इति । अत एव यदुक्तामित्यादि । उक्तं तार्किकैस्तदेवेत्यादि । उक्तञ्च वार्तिके इहेत्यादि । तथा च प्रत्यक्षस्य प्रामाण्यं सुस्थमिति यत्, तत् अत एव परास्तमिति योजना । जन्मनि जन्मावधिककाले । सर्वबाध इति शेषः । न विद्म इति । प्रत्यक्षादेस्तात्विकप्रामाण्यप्रच्युतिपूर्वकं वेदान्त तात्वि. कप्रामाण्यं स्थास्यतीति यद्यपि निर्णतुं शक्यते, तथापि सर्वबाधो न भविष्यतीति न माध्यमिकस्य बौद्धमुख्यस्य मतं सिध्यतीति भावः । उत्पत्ती स्वतस्त्वं ज्ञानसामान्यसामग्या दोपशून्यया प्रमैत्र जन्यते। न भ्रम इति नियमः । ज्ञप्तौ स्वतस्त्वं ज्ञानग्राहकसामग्या वाधकधीशून्यया प्रमात्वेनैव ज्ञानं गृह्यत इति नियमः । ननु, नेदं रजतमित्यादिप्रत्यक्षस्यापि भ्रमबाधकत्वकाले भ्रमत्वशङ्कासम्भवेन शुक्तिरूप्यादेर्मिथ्यात्वानिश्चयेन आकाशादौ मिथ्यात्वानुमाने दृष्टान्तासिद्धिस्तत्राह-रूप्यादीति । अद्वैतश्रत्यनुगुणत्वेनाद्वैतश्रुतिविरुद्धविषयकत्वाभावेन । शकास्कन्दनं शङ्काविषयत्वम् । वृद्धि प्रपञ्चमिथ्यात्वानुमानम् । मूलहानिः दृष्टान्तासिद्धिः । अत एव अद्वैतश्रुतिविरुद्धविषयकान्यस्याप्रामाण्यशङ्कानास्कन्दितत्वादेव । प्रयोजकेति । शङ्काप्रयोजकेत्यर्थः । यद्यपि सौषुप्तानुभवः अज्ञानोपहितानन्दरूपस्वविषयांशे भ्रम एव, तथापि शुद्धस्याप्युपहितज्ञानविषयत्वनियमेनोपहितानन्दांशे भ्रमत्वे शुद्धानन्दांशेऽपि भ्रमत्वम् । भ्रमत्वशङ्काप्रसरादिति पूर्वपक्षः । सिद्धान्तोऽपि शुद्धानन्दांशे प्रमात्वमादायैव । अत एवाप्रामाण्यशङ्काप्रयोजकाभावादेव । अत्यन्तेत्यादि । कलहादिस्थले अत्यन्ता
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१९०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
सति तात्कालिकबाधधीविषयेऽपि शब्दो ज्ञानं करोति जनयति । शाब्दान्यविशिष्टद्धादेव बाधज्ञानस्योक्तज्ञानोत्पत्त्यनुरोधेन प्रतिबन्धकत्वकल्पनात् । अत्र शुद्धानन्दे सद्वितीयत्वादिधीविषयत्वेनात्यन्तवाधितेऽपि प्रमामेव करोति । न भ्रमम् । कुतः अबाधात् । उत्पत्तिज्ञप्त्योः स्वतस्त्वापवादकयोस्सदोषत्वबाधयोरभावात् । अद्वैतश्रुतौ न दोषस्सम्भाव्यते । न वा अप्रामाण्यज्ञानानास्कन्दितं बाधकज्ञानम् । स्वतः मामाण्येति । उत्पत्तिज्ञप्तिस्वतस्त्वाश्रयप्रामाण्येन निश्चल स्वकार्यक्षमाम् । अवबोधकत्वेन अज्ञातज्ञापकत्वेन । उत्पत्तौ स्वतस्त्वापवादकं निरस्यति - दुष्टेति । ज्ञप्तौ तत् निरस्यति - अवाधादिति । वस्तुनि स्वविषये । निदर्शनमिति । यथा व्यावहारिकप्रामाण्ये आगन्तुकदोषाप्रयुक्तविषयकत्वं व्यवस्थापकं, तथा तात्विकप्रामाण्ये दोषसामान्याप्रयुक्तविषयकत्वमिति स्वापवादकदोषाप्रगुक्तविषयघटितप्रामाण्यपदार्थत्वेन साधारणधर्मेण दृष्टान्तदान्तिकतेति भावः ॥ ॥ इति लघुचन्द्रिकायां भाविबाधोपपादनम् ॥
भिन्नविषयत्वादिनेति । श्रुत्यनुमानविषयमिथ्यात्वाविरोधिव्यावहारिकसत्वविषयकत्वादित्यर्थः । आदिपदात् त्रिकाला बाध्यसद्रूपीय कल्पिततादात्म्यविषयकत्वपरिग्रहः । त्रिकालाबाध्यतादात्म्यस्य मिथ्यात्वाभावाविशिष्टप्रतियोगिकतादात्म्यरूपत्वेन तज्ज्ञानस्य मिथ्यात्वसमानविषयकत्वेऽपि तादृशतादात्म्यस्याध्यस्तत्वेन बाधितत्वनिश्चयात् तज्ज्ञानस्य बाधितविषयकत्वरूपाप्रामाण्यज्ञानास्कन्दितत्वेनाप्रतिबन्धकत्वमिति भावः । व्याप्यत्वासिद्धेरिति । व्याप्तिलक्षणे व्याप्यतावच्छेदकान्तरघटितान्यहेतुतावच्छेदकं निवेश्यत इत्यभिप्रायेणेदम् । अशक्तिविशेषज्ञापकतया व्यर्थविशेषणत्वस्य पुरुषनिग्राहकत्वमात्रम् । न तु हेत्वाभासत्वमिति मते तु व्याप्यत्वासिद्धेरित्यस्य व्याप्यत्वे प्रयोक्तृनिग्राहकान्यहेतुनिष्ठत्वासिद्धेरित्यर्थः । अस्मन्मतामिति । देहात्मैक्यस्य त्वन्मते अनङ्गीकारेऽप्यस्मन्मतमाश्रित्य हेतुप्रयोगेऽस्मन्मतसिद्धे देहात्मैक्ये व्यभिचारवारणमावश्यकमिति भावः । ननु, प्रतिभासमात्लशरीरत्वादिरूपं प्रातिभासिकत्वं हेतौ निवेश्यम् । तस्य च देहात्मैक्ये सत्त्वान्न व्यभिचारस्तत्राह — त्वया हीति । अन्योन्याश्रयत्वादिति । तात्पर्यं हि शाब्दप्रमानुकूलशक्तिः । प्रमात्वं चाबावितार्थकत्वघटितम् । तथा च शब्दैकगम्ये अर्थे बाधाभावस्य शाब्दप्रमोत्पत्तेः पूर्वं ज्ञातुमशक्यत्वादन्योन्याश्रयः । तात्पर्यप्रमायां सत्यां शाब्दप्रमोत्पत्तिः । तस्यां च सत्यां तात्पर्यप्रमेति । न च शाब्दानुमवानुकूलशक्तिरेव तात्पर्यम् । न तु विषयाबाधघटितमिति वाच्यम् । शाब्दभ्रमशक्तौ तात्पर्यत्वाव्यवहारात् । ननु, तात्पर्यप्रमितिजन्येत्यत्र मिति -
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे सत्यत्वानुमानभङ्गः] लघुचन्द्रिका ।
१९१ दस्थाने कुतो न ज्ञानपदं निवेश्यत इति चेन्न । कर्मप्राशस्त्यादौ वेदान्ततात्पर्यभूमजन्यो यः शाब्दबोधः, तदन्याबाध्यं कर्माप्राशस्त्यम् । तत्र बाधापत्तेः । तृतायमिति । स्वग्रन्थे त्वथैव तथोक्तत्वादिति शेषः । तथा च पक्षतावच्छेदके ब्रह्मप्रमान्याबाध्यत्वादिनिवेशे च । अङ्गीकृतमेवेति । तथा च देहात्मैक्ये असदन्यत्वब्रह्मप्रमेत्यादिविशेषणयोस्सत्त्वेन पक्षत्वावश्यकत्वात् प्रतिभासमात्रशरीरत्वरूपप्रातिभासिकत्वस्य हेतौ निवेशे स्वरूपासिद्धिः । ब्रह्मज्ञानान्यबाध्यत्वरूपप्रातिभासिकत्वनिवेशे च व्यभिचारः । न च पक्षीयव्यभिचारो न दोष इति वाच्यम् । अनुकूलतर्के सति पक्षीयव्यभिचारसंशये व्याप्तिग्रहप्रतिबन्धकत्वस्य तान्त्रिकैरस्वीकारेऽपि प्रकते व्यभिचारनिर्णयस्य सत्त्वेन तत्प्रतिबन्धकत्वस्वीकारात् । पक्षत्वे पक्षत्वात् । बाध एव बाधोऽपि । प्राचाम्मते साधकबाधकमानाभावरूपपक्षत्वस्याभाव आश्रयासिद्धिमध्ये निवेश्यत इत्यसिद्धिवाधयोराश्रयासिद्धित्वम् । नव्यमते तु बाध एव । अनुमित्युद्देश्यतावच्छेदकधर्मविशिष्टविषयकधीविरोधिधीविषयस्यैवाश्रयासिद्धित्वात् । स्वबाधकेत्यादि । स्वं प्रातिभासिकरूप्यादिकम् । तद्बाधकाबाध्यः । तत्भ्रमजनकदोषः । तज्जन्यभ्रमविषयः तदेव रूप्यादिकम् । तदन्यत्वं व्यावहारिकमात्रे । स्वेत्यादि । रूप्यादिबाधकाबाध्यस्य 'नेदं रूप्यामित्यादिबाधकस्य निषेध्यत्वेन विषयो रूप्यादिकम् । तदन्यत्वं व्यावहारिकमात्रे । समानाधिकरणति । स्वसमानाधिकरणं यत् कर्म तत्प्रागभावसमानकालीनं ब्रह्माविषयकं ज्ञानम् । तद्बाध्यं रूप्यादिकम् । तदन्यत्वं व्यावहारिकमात्रे । पूर्वोक्तदोषाव्यावृत्तेरित्यनेन दूषणान्तराण्यपि सूचितानि । तथा हि खानादिप्रातिभासिकविशेषस्य स्वबाधकजानबोधवाध्यस्खाप्नादिप्रातिभासिकदोषजज्ञानविषयत्वादाद्ये बाधादिकम् । द्वितीयेऽपि स्वाप्नगजादिषु स्वबाधकजाग्रबोधबाध्यस्खाप्नगजाद्यभावबुद्धेनिषेध्यत्वेन विषयत्वात् बाधादिकम् । जाग्रबोधस्यापि तद्बाधनयोग्यत्वात्। तद्बाधनोपधायकत्वं तु, न निवेशयितुं शक्यम् । तत्तद्वीविश्रान्तत्वेनाननुगतत्वात् । तृतीये त्वप्रसिद्धिः । ईश्वरज्ञानस्यैवोक्तप्रागभावसमानकालीनत्वेन तद्बाध्याप्रसिद्धेः। 'पूर्व तु बादरायणो हेतुव्यपदेशा'दिति न्यायेन मनसि कर्मास्वीकारात् स्वसमानाधिकरणपदेन स्वाधिकरणे मनस्यवच्छेदकतासम्बन्धेन वर्तमानमुच्यते । ईश्वरोपाधिमायापरिणामयोरदृष्टरूपयोः प्रसादकोपयोर्मायावयवमनोवच्छिन्नत्वादित्युक्तावपि स्वत्वबाधकत्वदोषत्वादेरनुगतस्याभावेन तत्तत्प्रातिभासिकव्यक्तिभेदकूटपर्यवसानेन दुर्जेयत्वं तु पक्षत्रयेऽपि । ब्रह्मज्ञानबाध्यशक्तिरूप्यादिविशेषे बाधव्यभिचारादिकं तु पक्षषट्केऽपीति । व्यवहारमात्रमिति । एकमेवाधिष्ठानीभूतं ब्रह्मसत्त्वं कल्पि
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
अद्वैतमञ्जरी।
ततादात्म्यसम्बन्धेन सदाकारधीमात्रे प्रकारः । न तु व्यावहारिकपारमार्थिकप्रातीतिकसत्त्वानां भेद इति 'सदिद'मिति धीप्रकारस्वरूपैक्यसाधने न सिद्धसाधनम् । त्रिकालाबाध्यत्वोपलक्षितस्वरूपात्यन्ताभेदस्य प्रातवादिना प्रपञ्चे अनङ्गीकारादिति भावः । अर्थगतं सकलव्यावहारिकविशेष्यकधीप्रकारः पृथक् । 'शुक्तिरूप्यं सत्' 'ब. म सदित्यादिधीविषयाभ्यां प्रातीतिकपारमार्थिकसत्त्वाभ्यामन्यत् । त्रिविधसत्त्वानां लक्षणानि टूतानि । पल्लवाविद्य कार्यगतं तन्यं प्राीतिकं सत्त्वम् । मूलाविद्याकार्यगतं व्यावहारिक । शुद्धचिदूपं पारमार्थिकमित्यादि तत्वदीपनाशक्तम् । व्यर्थं प्रकृतानुमानोत्थापकस्य मते पारमार्थिकस्यैव सत्त्वस्य 'सदिद मिति धीप्रकारत्वेन परमार्थति विशेषणं व्यर्थमित्यर्थः। ईश्वरानुमान इति । मीमांसकं प्रतीत्यादिः । जन्यत्वस्यति। मीमांसकेनेश्वरास्वीकारान्नित्य कृत्य स्वीकारात्तं प्रति जन्यत्वं व्यर्थम् । वाइन प्रकृतानुमानोत्थापकम् । उपरजकत्वन अव्यावर्तकत्वेन । तथा च नोभयवादिसिद्धं व्याव कित्वापेक्ष्यते । किं त्वन्यतरवादिसिद्धम् । उक्तं हि मण्यादौ- अदृष्टाद्वारकोपादानगोचरजन्यकृत्य जन्यानि जन्यानि । समवेतानि स्वजनकादृष्टोत्तरोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमजन्यानि । समवेतत्वे सति प्रागभावप्रतियोगित्वात् । यदेवं तदेवम् । यथा घटः । न च जन्यत्वस्य व्यावाप्रसिद्धिः । 'प्रमयो घट'इतिवत् अव्यावर्तकत्वेऽपि तदुपरक्तबुद्धेरुद्देश्यत्वेन तस्योपरञ्जकत्वा'दित्यादि । ननु ब्रह्मज्ञानेतराबाध्यत्वमप्रसिद्धम् । मन्मते ज्ञानमात्रस्य सपब्रह्मविषयकत्वेन तदितरवाध्यत्वाप्रसिद्धेः । अथ ब्रह्मज्ञानपदन ब्रह्ममात्रविषयकधीः निवेश्या । तथापि परमते तदप्रसिद्धिः । अतः पक्षहत्वारप्रसिद्धिः कुतो नोच्यते । किं च प्रातिभासिकस्याप्रामाणिकत्वेन तदन्यत्वमप्रसिद्धम् । वेदान्ततात्पर्यप्रमाजन्यत्वस्य शुद्धबमशाब्दप्रमात्वरूपस्वावच्छेदकवटितत्वेन मोक्षहेतुत्वस्य विजातीयज्ञानत्वरूपस्वावच्छेदकघटितत्वेन च तादृशावच्छेदकाप्रसिद्धेः परमते अप्रसिद्धिः । तत्राह-यद्यपीति । अप्रामाणिकस्याले । अप्रसिद्धस्य प्रमाणाविषयस्य चेत्यर्थः । अहृदयवाचामहृदयमेवोत्तरमिति न्यायेन स्वमतासिद्धम्यापि परप्रसिद्धिमात्रेण निषेधप्रतियोगितया प्रयोगः । प्रमाणाविषयस्यापि ममाविषयत्वमात्रेण निषेध्यत्वधीश्च मतद्वयेऽपि स्वीक्रियत इति भावः । अभ्युपगमात् प्रसिद्धिरस्तीत्येका योजना । पक्षहेत्वोस्सत्यन्तस्य प्रसिद्धिरस्तीत्यर्थः । देहात्मक्यादौ बाधव्यभिचारादिवारणाय प्रातीतिकव्यावर्तकसत्यन्तस्थले विशेषणान्तरमाह-आरोपितत्वेनेत्यादिना प्रातिभासिकत्वस्येत्यन्तेन । अभ्युपगमादित्यनुषज्यते । तेनैतादृशप्रातिभासिकस्यापि प्रमाणाविषयत्वेऽपि न क्षतिः । प्रातिभासिकत्वम्य प्रसिद्विरस्तीत्यपरा योजना ।
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका ।
अनधिकरणत्वे सतीति । अस्मद्रीत्या प्रातिभासिके व्यभिचारप्रसक्तेरिदमुक्तम् । अनधिकरणत्वमधिकरणभेदत्वविशिष्टम् । तस्य च वृत्त्यनियामकेन ब्रह्मनिष्ठेन तादात्म्येन हेतुत्वे न दोषः । वृत्तिनियामकसम्बन्धस्यैव ब्रह्मणोऽधिकरणतापादकत्वात्। एवं चाभावत्वविशिष्टे साध्येऽपि बोध्यम् । तादृशतादात्म्यमपि न ब्रह्माधिकरणकम्। यनिरूपितमधिकरणत्वं वाच्यं, तदन्यसम्बन्धानुयोगित्वस्यैव तत्त्वात् । साधकत्वेति । व्याप्तिग्रहौपयिकत्वेत्यर्थः । ननु, ब्रह्मण्यज्ञानविषयत्वाद्यधिकरणत्वसत्त्वादनधिकरणत्ववटितहेत्वभावेन व्याप्त्यग्रहाद्व्याप्तिग्रहौपयिकतया तत्सार्थकम् । तत्राहशुद्धमेवेति । उक्ताधिकरणत्वं शुद्धे ब्रह्मणि नास्त्येव । किं तु उपहित इति भावः । नन्वसिद्धिवारकस्यापि व्यर्थत्वाभावः चक्षुस्तैजसत्वानुमानादौ दृष्टः । तथा च प्रातिभासिकत्वविशेषणस्यापि पक्षहेत्वसिद्धिवारकत्वेन न व्यर्थत्वमित्याशङ्कय यया असिध्या व्याप्तेरग्रहस्तद्वारकस्यैव सार्थकत्वम् । व्याप्तिग्रहोपयिकत्वात् । पक्षे हेत्वसिद्ध्या तु न व्याप्त्यग्रहः । दृष्टान्ते साध्यहेत्वोस्सियैव व्याप्तिग्रहात् । तथा च पक्षहेत्वसिद्धिवारकं प्रातिभासिकत्वं हेतोविशेषणं व्यर्थमेवेत्याशयेनाहतथा च चक्षुस्तैजसत्वेत्यादि । असिद्धिवारकस्य दृष्टान्ते हेत्वसिद्धिवारकस्य । तैजसत्वानुमानेति । चक्षुस्तैजसम् । रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वाद्दीपवदित्यत्र मध्यान्तानुपादाने दृष्टान्ते हेत्वभावेन साध्यहेत्वोस्सहचाराग्रहात् मध्यान्तं व्याप्तिग्राहकमिति भावः । ननु, व्याप्तेरिव पक्षधर्मताया अपि ग्राहकत्वेन सार्थक्यं कुतो न स्यात् । व्याप्तिग्राहकस्यापि सार्थकत्वे अनुमितिप्रयोजकत्वस्यैव तन्त्रत्वात् । तथा च व्याप्तिविशिष्टहेतोः पक्षधर्मताग्राहकत्वेन प्रातिभासिकत्वविशेषणस्याप्यनुमितिप्रयोजकतया सार्थकत्वम् । तत्राह-व्यभिचारवारकस्यति । तथा च यद्विशेषणं विना कृतस्य व्याप्यतावच्छेदकत्वसम्भवः तद्धटितं गौरवेण व्याप्यतायामनवच्छेदकम् । न च व्याप्यतायास्स्वरूपसम्वन्धरूपस्यातिरिक्तस्य वावच्छेदकत्वस्यानङ्गीकारात् अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्य तु गुरावपि स्वीकारात् नोक्तरीत्या वैयर्थ्यस्य दूषणत्वमिति वाच्यम् । व्याप्यताया उक्तावच्छेदकत्वस्यास्वीकारे कारणत्वादेरपि तदापत्तेः । 'दण्डः कारणमित्यादिधीरिव 'घूमो व्याप्य'इत्यादिधीरप्यवच्छेदकत्वावगाहिनी सम्भवत्येव । अत एव कम्बुग्रीवादिमत्त्वादिना व्याप्तिप्यत एव। तथा च स्वविशिष्टव्यापकसाध्यसामानाधिकरण्यावच्छेदकहेतुतावच्छेदकादिरूपव्याप्तिधीविरोधित्वादुक्तावच्छेदकत्वशून्यहेतुतावच्छेदकरू . पस्य व्यर्थविशेषणत्वस्य व्याप्यत्वासिद्धिरूपहेत्वाभासत्वमिति भावः । स्पष्टश्चायमर्थो मण्यादावीश्वरवादादौ । तथाहि-'शरीराजन्यत्वे व्यर्थविशेषणत्वम् । लाघवे
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
अद्वैतमञ्जरी ।
नाजन्यत्वस्यैव व्याप्यत्वात् । ननु, व्यर्थत्वमसिद्धम् । पक्षधर्मतीपयिकत्वाव्याभिचारवारकस्यापि सार्थकत्वे अनुमितिप्रयोजकत्वस्यैव बीजत्वादिति चेन्न । नीलधूमे धू. मत्वमेव व्याप्यतावच्छेदकम् । न तु नीलत्वमपि । गौरवात् । दण्डत्वेन कारणत्वे रूपमिव । एवं शरीराजन्यत्वेऽपि न शरीरमवच्छेदकम् । गौरवात्।येन विशेषणेन विना व्याप्तिर्न गृह्यते, तस्यैव व्याप्यतावच्छेदकत्वनिपमात् । अत एव रूपादिमध्ये रूपस्यैव व्यञ्जकत्वादित्यत्र मध्यान्तं विना व्याप्त्यग्रहात्तत्सार्थकमेवे'त्यादिकं तत्रोक्तम् । उक्तं च तत्र पक्षधरैः- गौरवमेव तदहेतुतायां बीज'मिति । ननु, स्वसमानाधिकरणव्याप्यतावच्छेदकान्तराघटितत्वं हेतुतावच्छेदके विशेषणं दीयते । तथा च नीलधूमत्वं न व्याप्यतावच्छेदकम् । शरीराजन्यतात्वं तु तदवच्छेदकमेव । धूमप्रागभावत्वादिवत् । स्वसमानाधिकरणेन व्याप्यतावच्छेदकान्तरेणाघटितत्वादनन्यतात्वस्य जन्यतासामान्याभावनिष्ठत्वेन शरीराजन्यत्वरूपे जन्यताविशेपाभावे अभावात् । गौरवादनवच्छेदकत्वे एथिवीत्वत्वादीनां तत्र तत्रावच्छेदकत्वोक्तिरसङ्गता स्यात्। गन्धत्वस्यैव तत्सम्भवादिति चेन्न । एथिवीत्वत्वादीनां व्यतिरेकव्वाप्त्यवच्छेदकत्वस्यैव तत्रतत्रोक्तत्वाध्यतिरेके व्यर्थविशेषणत्वस्य तान्त्रिकैरस्वीकारात् । किं चेश्वरवादीयपक्षधरीये ' तादृशधर्मान्तराद्यघटितत्वेन हेतुतावच्छेदकं विशेषणीयमित्युक्तम् । तत्र तादृशपदं साध्यसम्बन्धितावच्छेदकरूपव्याप्तिपरम् । पूर्वग्रन्थे तस्यैव प्रक्रान्तत्वात् । तथा च स्वसामानाधिकरण्यप्रवेशस्य तान्त्रिकसंप्रदायासिद्धत्वात् स्वकपोलकल्पितत्वं नियुक्तिकत्वं च । न हि धूमप्रागभावोपस्थितिकाले उपस्थितस्य धूमस्य हेतुत्वं नोद्भावयितुं शक्यम् । न च विशेषणतासम्बन्धेन या प्रागभावनिष्ठा व्याप्तिः, तदुपस्थितिकाले संयोगेन धूमनिष्ठव्याप्तेः उपस्थित्यनियमात् स्वसमानाधिकरणेत्याद्यवश्यं वाच्यमिति वाच्यम् । धूमज्ञानेनैव धूमनिष्टोक्तव्याप्ते. रुपस्थितेः । तस्मात् स्वसमानाधिकरणेत्यादिविशेषणं व्याप्यतावच्छेदकधर्मान्तराघटितत्वं वा विशेषणं न देयमेव । धूमप्रागभावत्वं नीलधूमत्वं वा गौरवान्नावच्छेदकम् । उक्ततान्त्रिकवाक्यानां तदैव स्वारस्यात्।अतस्साधूक्तं व्याप्यत्वासिद्धिरिति । ननु, शुद्धब्रह्मणोऽनधिकरणत्वस्वीकारे साध्यवैकल्यम् । अथ वृत्त्यनियामकतादात्म्यस्यैव ब्रह्मणि स्वीकारान्न तथेत्युच्यते, तदा 'अज्ञः कालकाल' इत्यादिश्रुत्या ब्रह्मणः अविद्यारूपकालाधारस्योक्त्यनुपपत्तिः। किं च प्रातिभासिकत्वस्योक्तानुयोगित्वरूपमधिकरणत्वं न हेतौ निवेश्यम् । येनोक्तरीत्या वैयर्थ्यमुच्येत । किं तु प्रातिभासिकभेद एव । अत एव वक्ष्यते प्रातिभासिकव्यावृत्तीत्यादि । तत्राह-किं चेति । बाधानुपपत्तीति । 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत'
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देप्र० सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका।
१९५
इत्यादिश्रुत्यनूदितबाधानुपपत्तीत्यर्थः । यस्मिन् तत्वज्ञानकाले । तथा च सर्वाणि भूतानि यत्कालीनात्मैवाभूदित्यर्थः । सर्वाणि भूतानि स्वकालपूर्वत्वाभाववद्यत्कालीनात्मतादात्म्यवन्तीति थावत् । 'तत्र कोमोह'इत्यादेस्तत्काले चरमतत्त्वज्ञानोत्पत्तिक्षणरूपे शोकादिकं स्वपूर्वत्वसम्बन्धेन नास्तीत्यर्थः । व्यावर्तकतया अनुमापकतया । साक्षात् भावाभावविधया। एका एकैव । न, मान्त्वेकैव व्यावृत्तिः । प्रातिभासिकत्वेन भेदस्यासत्त्वेन भेदस्य च सत्त्वात् । तथापि प्रातिभासिकासतोरन्यतरत्वेन भेदस्यैकस्य सत्त्वात्तदनुमापकतया ब्रह्मविश्वयोः पारमार्थिकत्वसि. द्धिरास्ताम् । तत्राह-तथा चति । द्वयसमावेशादिति । द्वयेन सह समावेशः सामानाधिकरण्यं यस्य तेन । ब्रह्मविश्वान्यतरत्वादिनेति यावत् । उभयव्यावृत्त्युपपत्तौ उभयोरेकमात्रभेदविशिष्टापरमात्रभेदस्यान्यतरत्वेन भेदस्य वानुमानसम्भवे। नीलघटत्ववत् नीलघटत्वस्येव । उभयव्यावृत्तेरिति शेषः । यथा घटीयनीलरूपं प्रति घटं प्रति च क्लप्ताभ्यां कपालीयनीलरूपादिदण्डादिसामग्रीभ्यामेव नीलघटस्योत्पत्तिसिद्धेन तत्रान्यत्कारणं कल्प्यते,तथा क्लप्तेनोक्तान्यतरत्वादिनोभयव्यावृत्त्यनुमानसम्भवात्तदर्थं न ब्रह्मविश्वयोरेक जातीयसत्यत्वादिकं कल्प्यते । अन्यथा तुच्छबह्मणोः प्रपञ्चव्यावर्तकमसत्यत्वं स्यात् । तदुभयान्यतरत्वस्य तदुभयमात्रविशेष्यकधीविशेष्यत्वस्य। व्यावर्तकत्वं तु तुल्यमिति भावः । नित्यत्वम् अविनाशित्वम् । व्यतिरेक इति । सतिसप्तम्या व्यापकत्वमर्थः । तेनानित्यत्वव्यापकमपारमार्थिकत्वमिति लभ्यते । अत एव बाधानुपपत्तिलक्षणप्रतिकूलतर्कान्नित्यत्वाद्युपाधिमत्त्वाच्चैव । अनिषेध्यत्वेनेत्यादि । स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वविषयत्वानिरूपितप्र. माविषयत्वादित्यर्थः । तस्य तत्र ईश्वरे । भान्तत्वप्रसङ्गः विशेषदर्शिनां भान्तताव्यवहारप्रसङ्गः । मिथ्यात्वेनेति । तथा च स्वसमानाधिकरणविशेषदर्शनाकालीनस्य बाधितविषयकज्ञानस्याश्रयत्वं भ्रान्तत्वव्यवहारे विषयः । कालीनान्तविशेषणानुपादाने उक्तविशेषदर्शनकालीनस्य सोपाधिकभ्रमस्य आश्रये पुरुषेऽपि 'अहं भ्रान्त इति व्यवहारस्स्यादिति भावः । अन्यथा उक्तविशेषदर्शनकालीनभूममादाय भ्रान्तत्वव्यवहारस्वीकारे । सविषयकभ्रमज्ञातृत्वेनेति । भ्रमविषयत्वपर्याप्त्यधिकरणं यत् मुखादिविशिष्टदर्पणादिकं तस्य भ्रमस्य च मिथ्यात्वेन यत् ज्ञातृत्वं तेनेत्यर्थः । भ्रान्तत्वस्य भ्रान्तत्वव्यवहारस्य । यथाश्रुते बाधितविषयकज्ञानवत्त्वरूपभ्रान्तत्वस्येष्टत्वात् असङ्गतत्वात् । तथाविधत्वात् विसंवादित्वेन ज्ञायमानत्वात् । संवादित्वेन ज्ञायमानप्रवृत्तौ ताढशस्योपादानप्रत्यक्षादेहेतुत्वे ऽप्यतादृशप्रवृत्तावतादृशस्य तस्य हेतुत्वमिति भावः।सप्रकारेत्यादि।सप्रकाराबाध्यं
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
यदर्थक्रियाकारि तत्त्वादित्यर्थः । मनोवच्छिन्नचैतन्यादेरधिष्ठानत्वपक्षे जाग्रद्धीबाध्यत्वेऽपि ब्रह्माधिष्ठानकत्वपक्षे तदबाध्या स्वाप्नधीरिति तत्पक्षे व्यभिचारमाह-जाग्रदिति । सङ्गमादीत्यादिना सोऽयमित्यादिवाक्यजन्यनिष्प्रकारकधीबाध्यभेदादिपरिग्रहः । विशेषितेति । विशिष्टेत्यर्थः । ज्ञानमेव केवलज्ञानम् । न तु सङ्गमादिविशिष्टम् । सङ्गमादिकं नार्थक्रियाकारीति यावत् । नातिरिक्तः न स्वविषयान्यो जात्यादिः । उक्तमुदयनाचार्यैः । निराकारतयेति । यदि ज्ञानादत्यन्तभिन्नो बहिः स्थितः अर्थ एव ज्ञाने विशेष इति नोच्यते, तदा जात्यादिकं ज्ञानधर्मोऽपि ज्ञाने विशेषस्स्यात् । तद्वदर्थोऽपि घटादिज्ञानगत आकाराख्यो धर्मः स्यात् । तथा च बहिरनुभूयमानार्थापलापेनानुभवबाधः स्यात् । विरुद्धनानाविधाकारत्वात् समूहालम्बनज्ञानादेस्साकारत्वादिकमेव दुर्वचं स्यात् । तस्मात् ज्ञानस्य निराकारत्वमेव युक्तम् । अत एव साक्षात्कारत्वमिन्द्रियसन्निकर्षजन्यज्ञानत्वम् । अनुमितित्वादिकं व्याप्त्यादिधीजन्यज्ञानत्वादिकम् । न तु जातिरूपमिति भावः । स्वाप्नज्ञानस्याप्रमात्वे संवादमाह-तथाचोक्तमिति। उपलक्षणत्वासम्भवादिति । येनोपस्थापितो ऽर्थ एव वाक्यार्थबोधे विषयः । न तु स्वयं, तत् उपलक्षणम् । यथा 'काकवतो गृहान् पश्यामी'त्यादौ काकोपस्थापितमुत्तृणत्वमेव गृहे विशेषणम् । न तु काकः । यथा वा शब्दाश्रय आकाशपदशक्य इत्यादौ व्यक्तिमात्रस्य शब्दाश्रयत्वोपस्थापितस्य शक्यतया भानम् । म तु शब्दाश्रयत्वस्यापि । 'सङ्गमादिज्ञानं सुखहेतु'रित्यादिव्यवहारे तु विषयेण शुद्धज्ञानव्यक्तिरुपस्थिता हेतुत्वेन बुध्यते । अननुगतत्वेन व्यक्तेरनुगतधर्ममपुरस्कृत्य हेतुत्वज्ञानासम्भवात् । नापि तद्गतो धर्मः । साकारवादापत्यादिना तदसम्भवादिति विषयो नोपलक्षणमिति भावः । ननु, फलोत्पत्तिपूर्वकालासतोऽपि व्यापारिणः कारणत्वं युक्तम् । फलं प्रति यन्नियतपूर्वभावि, तन्नियतपूर्वभाविन्यपि कारणतायाः लोके ' गोमयैः पचती ' त्यादौ वेदे 'तुपपक्का भवन्ति । 'स्वर्गकामो यजेते' त्यादौ व्यवहारात् । विषयस्य तु ज्ञानं प्रत्यपि पूर्वभावित्वाभावात् कथं कारणत्वम् । स्वस्वव्यापारान्यतरनिष्ठफलनियतपूर्ववृत्तिताकत्वस्यैव कारणत्वरूपत्वात् । तत्राह-अतीतेति । असत्वेति । तत्तत्कालावच्छिन्नं सर्वदेशनिष्ठात्यन्ताभावप्रतियोगित्वमित्यर्थः । अनाश्रयत्वेति । तत्तकालावच्छिन्नाश्रयत्वस्याभावेत्यर्थः । अतीतादेस्तत्कालासम्बन्धे तत्कालावच्छिन्नमसत्त्वादेर्धर्मस्याश्रयत्वं तत्र न स्यात् । अधिकरणे हि सम्बद्धमेवावच्छेदकम् । नासम्बद्धमिति भावः । स्वरूपेत्यादि । 'यत्र यत्र ज्ञाने स्वरूपतो न बाध्यता, तत्र
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्रदे सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका ।
१९७
विषयतोऽपि न बाध्यत्व'मिति नियमाद्विषयाबाधस्य स्वरूपाबाधव्यापकतया व्यापंकस्य विषयाबाधस्याभावे व्याप्यस्य स्वरूपाबाधस्याप्यभाव इत्यर्थः । 'इदं रजत'मिति यत् ज्ञानं जातं, तत् मिथ्येत्यादिप्रत्ययेन विषयविशिष्टस्य ज्ञानस्य मिथ्यात्वावगाहनाद्विषय एव मिथ्या । न तु ज्ञानमिति वक्तुं शक्यमिति भावः । अकारणकति । सत्यकारणहीनेत्यर्थः । मिथ्याभूतं यदि कारणं स्यात् सत्यं स्यात् । यन्नैवं तन्नैवं यथा नृशृङ्गम् । अथवा कारणं 'यदि सत्यं न स्यात्, तदा कारणं न स्या'दित्यादितर्को बोध्यः । कालसत्त्वस्य कालसम्बन्धस्य । अयमेवेति । ननु, आरोपितपदेन मिथ्यात्वेनोभयवादिसिद्धं वाच्यमिति चेन्न । जीवाणुत्वादिमिथ्यात्वस्य त्वया मया च मिथ्यात्वेन स्वीकारात्तत्र व्यभिचारो मन्मतरीत्या हि दुर्वारः । मन्मते तस्य सत्यत्वाभावनिश्चयात् । किं चोक्तसिद्धत्वं यदि ज्ञातत्वं, तदा शुक्तिरूप्यादिमिथ्यात्वे कदाचिन्मिथ्यात्वेन ज्ञातत्वाव्यभिचारः । यदि प्रमितत्वं, तदा तदसिद्धम् । प्रपञ्चे सत्त्वसिद्धेः पूर्वं तन्मिथ्यात्वज्ञानस्य प्रमात्वासिद्धेः । न च व्यावहारिकप्रमात्वं निवेश्यम् । न तु तात्त्विकम् । तथा च तत्त्वावेदकत्वरूपप्रमात्वस्य तत्रासिद्धावपि मतद्वयेऽपि व्यवहारकालाबाध्यमिथ्यात्वप्रकारकप्रमात्वरूपस्य व्यावहारिकप्रमात्वस्य निश्चयोऽस्त्येव । प्रपञ्चमिथ्यात्वं हि यदि प्रातीतिकं यदि वा व्यावहारिकमुभयथापि तन्मिथ्यात्वं व्यावहारिकमिति वाच्यम् । तथा सति व्यवहारकालाबाध्यं यत् मिथ्यात्वं तदाश्रयमिथ्यात्वं पर्यवसितहेतुः । तथा च यस्य प्रातीतिकस्य मिथ्यात्वे ब्रह्मज्ञानाव्यवहिते पूर्वकाले स्वप्नकाले वा मिथ्यात्वभ्रमः । तत्रापि हेतुसत्त्वाध्यभिचारः । बाध्यपदेन बाधयोग्योक्तावपि स्वाप्नाध्यासस्य मूलाविद्योपादानकत्वमते स्वाप्तमिथ्यात्वस्य व्यवहारकालबाधायोग्यत्वात् । ततश्च तद्वारणाय तत्त्वावेदकरूपोभयवादिसिद्धप्रमानिवेशे तात्त्विकमिथ्यात्वाश्रयमिथ्यात्वं पर्यवसितहेतुः । तथा च हेत्वप्रसिद्धिपर्यवसानम् । कल्पनासमसत्ताकत्वेन मिथ्यात्वेन । आश्रयत्वेत्यादि । तमसो अज्ञानस्याश्रयत्वं विषयत्वं च शुद्धचित्येव । पश्चिमः पश्चाज्जातोऽहङ्काराद्यवच्छिन्नात्मा । पूर्वसिद्ध. तमसो नाश्रयादिः । पश्चिमत्वादेव । तथा च शुद्धस्याविद्याश्रयविषयत्वे अविद्याकार्यभ्रमतद्विषयौ प्रत्याश्रयत्वं विषयत्वमपि सम्भवतीति भावः । शुद्धस्य धर्मासम्बन्धपक्षेऽपि न क्षतिरित्याशयेनाह । अस्तुवेति । कल्पकत्वेति । कल्पनाहेतुत्वेत्यर्थः । विरोधादिति । तथा च बाधान्मिथ्यात्वमेव कल्प्यते । नासत्त्वम् । प्रत्यक्षत्वात् साक्षितादात्म्यं कल्प्यते नासत्त्वमिति भावः । व्यावृत्ताकारेण भूमनिवतकतायोग्यज्ञानेन । मुखैक्यसाक्षात्कारोति । दर्पणाद्युपाधिसन्निधानरूपदोषषि
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
अद्वैतमञ्जरी ।
शेषाजन्यज्ञानस्यैव विशेषदर्शनविरोधित्वम् । तदुक्तं मणिदीधित्यादौ-निर्णयात्मनि साधारणे वा दोषविशेषाजन्यज्ञाने साधारणस्य निर्णयात्मनो वा विपरीतज्ञानस्य विरोधित्वादिति भावः । तद्व्यतिरेकेणोपलभ्यमानत्वस्य तदविषयकोपलब्धिविषयत्वस्य । तत्पदमात्मपरम् । प्रपञ्चोपलब्धेस्सद्रूपात्मविषयकत्वनियमात् साधनाव्यापकत्वम् । अत्रेदं बोध्यम् । तत्त्वसाक्षात्कारो विशेषणमुपलक्षणं वा । आये घटादावसिद्धिः । न हि यदात्मा साक्षाक्रियते, तदा घटादौ ज्ञानं प्रवृत्तिर्वा । उक्तं हि विवरणे-'कदाचिदद्वैतदर्शनं कदाचिद्वैतदर्शनम् । न तु तयोस्सन्तमसबहुलालोकयोरिव योगपद्य' मिति । ईशाद्यात्मदर्शनं तु न द्वैतसाक्षात्कारप्रवृत्त्यादिविरोधि । प्रमाणत्वाभावात् । द्वितीये शुक्तित्वादिरूपेण प्रत्यक्षे जातेऽपि दिनान्तरे शुक्त्यादौ रजतादावारोपिते प्रवृत्तव्यभिचारः । ऐन्द्रजालिकामिति । ऐन्द्रजालिको हि स्वमायापरिकल्पिताम्रवृक्षतत्फलादिग्रहणच्छेदनादौ प्रवृत्तो दृश्यते। हरिवंशादौ प्रद्युम्नशम्बरयुद्धादौ---'ततो मायां परां चके देवशत्रुः प्रतापवान् । सिमान् व्याघ्रान् वराहांश्च तरसूनृक्षवानरान् ॥ मुमोच धनुरादाय प्रद्युम्नस्य रथोपरि । गन्धर्वास्त्रेण चिच्छेद सर्वांस्तान् खण्डशस्तदा । प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ॥ अन्यां मायां मुमोचाथ दानवः क्रोधमूर्छितः ।।' इत्यादौ तथा श्रूयतेऽपि सः । स्वमायाविनिर्मितगजादे रक्षणादौ प्रवृत्तिस्तत्प्रत्यक्षं विना न सम्भवति । प्रवृत्तौ उपादानप्रत्यक्षस्य हेतुत्वात् । कारणात्मना कारणगतसंस्काररूपेण । न च तर्हि तत्रैव साध्यं साधनीयमिति वाच्यम् । अवस्थितत्वं हि स्थूलावस्थावत्त्वं वाच्यम् । अन्यथा अवस्थितत्वान्यांशवैयर्थ्यापातात् । अबाधितशुक्तिरूप्यादिसूक्ष्मावस्थायां व्यभिचाराच्च।
अत्रेद बोध्यम् ' ऐन्द्रजालिकेन द्वित्रिदिनस्थायिस्वमायानिमितमपि प्रदश्यते । तच्च तस्मिन् सुषुप्तेऽप्यव्यवस्थितमेवेति तत्र व्यभिचारः । मिथ्यामात्रेति । प्रतियोगित्वविषयत्वादौ व्यभिचारान्मात्रेत्युक्तम् । न्यूनवृत्तित्वस्येति । न च प्रमेयत्वे आत्मान्यसर्वान्तर्गततुच्छावृत्तौ मिथ्यात्वान्यूनवृत्तौ च साध्याव्यापकत्वमिति वाच्यम् । प्रमेयत्वस्य मिथ्याभूते स्वस्मिन्नवृत्त्या मिथ्यात्वन्यूनवृत्तित्वात् । यद्यपि प्रमेयत्वे प्रमेयत्वान्तरं वर्तते, तथापि न प्रमेयत्वत्वरूपेण । सम्बन्धप्रतियोगित्वानुयोगित्वयोरेकरूपेणास्वीकारात् । न च प्रमेयत्वे मिथ्यात्वमसिद्धमिति वाच्यम् । 'घटः प्रमेय' मित्यारोपसत्त्वात् । तथा च येन रूपेण साध्ये वृत्तिनिविष्टा, तेन रूपेणोपाधाविति न दोषः । न चैव मिथ्यात्वस्यापि स्वावृत्तित्वेन मिथ्यात्वन्यूनवृत्तित्वात् साधनव्यापकत्वमिति वाच्यम् । व्यावहारिकमिथ्यात्वे मिथ्यात्वस्य पूर्वमसिद्धत्वात् । अत एवासदन्यत्वादावपि न साध्याव्यापकत्वम् । असदन्यत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापक
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे सत्यत्वानुमानभङ्गः ]
www.kobatirth.org
लघुचन्द्रिका ।
Acharya Shri Kailassagarsuri Gyanmandir
१९९
त्वादरे तु सुतरां न दोषः । किं च सदुपरागेणासतोऽपि प्रमाविषयत्वात् । अन्यथात्मान्य सर्वमध्य पतितासद्घटितसाध्यप्रमाया असम्भवात् प्रमेयत्वादेस्स्ववृत्तित्वमतेऽपि साध्यव्यापकत्वमक्षतम् । सर्वमध्येति । न च सर्वपदेन सदन्यसर्वं वाच्यमिति वाच्यम् । असत्त्वस्य त्वन्मते शुक्तिरूप्यादावपि स्वीकारेण सर्वपदवैयर्थ्यापत्तेः । मन्मतरीत्या सदसदन्यत्वस्य पक्षे निवेशेऽपि सदन्यत्वमात्मव्यक्तित्वावच्छिन्नभेद एव निवेश्यः । अन्यथा त्रिकालावाध्यत्वस्य गुरुत्वेन तद्रूपेण भेदस्याप्रसिद्धेः । तथा चात्मासद्भ्यां भिन्नत्वं स्वाश्रयसर्ववृत्ति नेत्यनुमाने बाध एव । गुरोरवच्छेदकत्वपक्षेऽपि मन्मते सदन्यत्वस्यात्मान्यत्वरूपतया मां प्रति बाध एव । तथा च मन्मते दुष्टहेतोर्मां प्रति उपन्यासो न युक्तः । अप्रयोजकत्वादित्यादिना सत्यत्वं प्रातिभासिकान्यसर्ववृत्ति न । सत्यमात्रवृत्तित्वात् । आत्मत्ववदित्याद्याभाससाम्यम् । पदार्थम् आत्मभेदपदार्थम् । न चात्मनि त्वन्मते तदस्यास्वीकारात् न सिद्धसाधनमिति वाच्यम् । शुद्धब्रह्मणि जीवादेर्भेदसत्त्वात् आनन्दो ब्रह्मणो धर्म इत्यादिभेदस्य व्यवहारकालाबाध्यत्वाच्च । अनानन्दत्वस्येति । न च परमार्थसदैक्यरूपं साध्याभावं दिनाप्यानन्दत्वस्य उपाध्यभावस्योपपन्नत्वात् न तस्य तद्व्याप्यता ग्राहक तर्कोऽस्तीति वा - च्यम् । परमार्थसदस्यानन्दे संसर्गखण्डनयुक्तिभिर्वाधात् । 'नाल्पे सुखमस्ती' त्यादिश्रुत्या परमार्थभेदादिरूपस्य परिच्छेदस्यानन्दावृत्तित्वोक्तेश्च भावाद्वैतमते तात्वि कस्याभावरूपानात्मनः स्वीकारादाह - भावरूपेति । शब्दस्वभावेति । उदाहरवाक्यस्थ स्वपदस्य दृष्टान्तपरत्वे पदार्थत्वस्य यावत्तत्स्वरूपानुवर्तमानानात्मवत्त्वव्यभिचारित्वेन व्यापकत्वग्रहासम्भवः । स्वात्मकपदार्थत्वस्य हेतुत्वेन तद्वारणेऽपि स्वत्वान्यभागवैयर्थ्यं स्वरूपासिद्धिव । प्रतिज्ञाहेतुवाक्यस्थस्वपदयोः पक्षपरतया पक्षरूप स्वपदार्थघटितसाध्यहेत्वोः प्रतिज्ञाहेतुवाक्यनिर्दिष्टयोरुदाहरणादिवाक्ये व्याप्यव्यापकत्वादिलाभासम्भवात् कुतोऽस्य गमकत्वमित्यादिजिज्ञासानिवर्तकत्वाभावः । तथा चोक्तशब्दस्वभावोपन्यासो नानुमानोपयुक्तः । उक्तं च मणावीश्वरवादे'कार्यत्वस्वोपादानाभिज्ञजन्यत्वसाध्ययोर्व्याप्तिग्रहः किं घटोपादानान्तभीवेन, किं वा तत्तदुपादानान्तभवेन, किं वोपादानमात्रान्तभीवेन । आदौ व्यभिचारः । द्वितीये तत्तदुपादानत्वस्याननुगतत्वात् कथं व्यापकताग्रहः । अथ तच्छब्दस्य समभिव्याहृतपरत्वान्न दोष इति चेन्न । अनुमाने शब्दस्वभावोपन्यासस्याप्रयोजकत्वात् । तृतीये तु, सिद्धसाधन' मिति । स्वपदस्य पक्षदृष्टान्तान्यतरपरत्वेऽपि सिद्धसाधनम् । बन्धपदार्थस्येति । तत्तत्स्वातन्त्र्यविरोधिरूपनानार्थकं बन्धपदम् । अत एवाविद्यावतामपि निगलादिबन्धविमोके निर्बन्धत्वं व्यवहरन्ति । आत्मान्यनिवृत्तेर्हेतुत्वेऽपि व्य
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२००
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
1
र्थविशेषणत्वम् । स्वपदे चेति । दृष्टान्तपरत्वे निगलबन्धविषयाप्रसिद्ध्यादिः । पक्षपरत्वे चाज्ञानविषयविषयकज्ञानाचाध्यानात्माप्रसिद्धिः । नान्धगम्यमिति । ननु स्वविषयान्यूनानतिरिक्तविषयकज्ञानावाध्यत्वस्य साध्यत्वे नायं दोष इति चेन्न । 'अन्धोऽयं रूपज्ञानवा' नित्यस्य 'रूपमन्धगम्य' मिति वाक्यजन्यज्ञाने तात्पर्यात् । 'रूपं नान्धगम्य'मित्यस्य च 'रूपमन्धगम्यत्वाभावव 'दिति वाक्यजन्यज्ञाने तात्पर्यात् । तथा च समानविभक्तिकनामद्वयजन्यज्ञानस्य निर्विकल्पकत्वेन प्रकृते रूपमात्रविषयकत्वादुपलक्षणविधया तयोर्ज्ञानयोरन्धगम्यत्वतदभावयोः प्रकारत्वेऽपि विशेषणविधया प्रकारत्वाभावात्तादृशज्ञानयोरन्यूनानतिरिक्तविषयकत्वा तादृशधीत्राध्येऽन्धप्रत्यक्षविषयत्वे व्यभिचारस्य दुर्वारत्वात् । यथा हयुपलक्षणविधया व्यावर्तकधर्मस्य बाधक - धीविषयत्वं, तथोपलक्षणविधया बाध्यवीविषयस्य बाध्यत्वम् । न्यायतौल्यादिति भावः । चैतन्यमात्रेति । आत्मधीः आत्मव्यवहारप्रयोजकधीः । सा च चिदपीति भावः । काचादावंशतस्सिद्धसाधनात् आत्माधिष्ठानकेति । व्यावृत्ताकारेत्यादि । यं प्रति व्यावर्तकधर्मवत्तया ज्ञातं सत् स्वजन्यभ्रमाधिष्ठानं स्वजन्यभ्रमनिवर्तकं तदन्यत्वस्येत्यर्थः । अविद्यादिकं प्रति व्यावर्तकं द्वितीयाभावादिकं तद्वत्तया ज्ञातमविद्यादिजन्यभूमाधिष्ठानं ब्रह्म उक्तभूमनिवर्तकम् । अतोऽविद्याकामकर्मरूपो दोषो न तदन्यः । किं तु काचादिरिति बोध्यम् । यद्यपि व्याप्यभ्रमस्य भ्रमानुमितिजनकस्य 'हूदो निर्वहि 'रित्यादिज्ञानेन बाधाद्यथाश्रुते व्यभिचारः, तथापि भ्रमत्वव्याप्य - धर्मावच्छिन्नकार्यतानिरूपितकारणत्वनिवेशे हेत्वभावादेव न व्यभिचारः । व्याप्यभ्रमस्य दोषविधया सर्वत्र व्यापकभ्रमेष्वकारणत्वादित्याशयेन स्थलान्तरे व्यभिचारमाह - दूरादिति । न च चाकचक्यज्ञानं हेतुः । तच्च न बाध्यं मन्मत इति वाच्यम् । चाकचक्यस्य हि सर्वस्य ज्ञानं न हेतुः । किं तु चाकचक्यव्यक्तिविशेषाणाम् । तथा च तत्तद्व्यक्तिज्ञानापेक्षया तत्तद्व्यक्तेरेव लघुत्वेन हेतुत्वम् । जातिविशेषरूपेण ज्ञानस्य हेतुत्वे तद्रूपं प्रातीतिकचाकचक्यव्यक्तिष्वपि सम्भवत्येव । यत्तु व्यावृत्ताकारेत्यादेविशेषणस्य पक्षमात्रव्यावर्तकत्वेनोक्तोपाधेः पक्षेतरत्वरूपतेति । तन्न ! उक्तावधिभिन्नत्वरूपोपाधिर्हि यदभाववत्त्वेन ज्ञातमधिष्ठानं स्वजन्यभ्रमनिवर्तकं तादृशदोषान्यत्वम् । तथा च तादृशदोषप्रतियोगिकत्वरूपस्य विशेषणस्य चाकचक्यादिरूपाद्विपक्षादपि व्यावर्तकत्वेन पक्षमात्राव्यावर्तकत्वाद्विपक्षाव्यावर्तकविशेषणानवच्छिन्नस्य साध्यव्यापकत्वस्य सत्त्वात् उक्तोपाधेरसत्त्वे उक्तसाध्यानुपपत्तेः साध्यव्यापकताग्रहात् । ब्रह्मान्यानादीति । पक्षे हेतौ चानादित्वं प्रागभावाप्रतियोगित्वं चेत् तदा तुच्छे बाधव्यभिचारौ । तद्विशिष्टभावत्वं चेत्, तदापि भावत्वं तुच्छान्यत्वं चेत्
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका ।
२०१
तदा शुक्तिरूप्यादौ मन्मते तौ। अत एव प्रागभावे साधनाव्यापकत्वमुपारिति भावः । सुस्थिरमिति। देशकालसम्बन्धवत्त्वेन प्रतीयमानं वस्तुमात्रम्।ब्रह्मणोऽप्यविद्यादिदेशकालसम्बन्धात् । तथा च तदन्यभेदस्य देशादिसम्बन्धरूपाय साधने सिद्वसाधनम् । देशकालासंसृष्टसत्तारूपत्वाभावसाधनेऽपि विशेष्यवत्त्वेन निश्चितेऽधिकरणे यो विशिष्टस्याभावः, तस्य विशेषणाभावस्वरूपत्वमिति न्यायेन प्रकृतेऽपि सत्तारूपत्वेन निश्चिते उक्ताभावस्योक्तसम्बन्धरूपतया पर्यवसानात् । किञ्चित्कालावच्छिन्नदेशाद्यसम्बन्धान्यत्वमादायार्थान्तरं च । तद्वारणाय यदा यदा ब्रह्म, तदा तदा देशादिसम्बन्ध इत्युक्तौ मूलोक्तो दोषः । पारमार्थिकत्वेनेत्यादि । परमार्थं परमप्रयोजनमर्हति यत् तादृशश्रुतितात्पर्यविषयत्वस्येत्यर्थः । तथा च मुक्त्युपधायकप्रमाविषयत्वं श्रुतिनन्यधीमात्रप्रयोजनत्वं चोपाधिः । तादृशविषयत्वयोग्यताया विवक्षितत्वात् । एतेन साधनविशेषितत्वान्नायमुपाधिरीश्वरानुमाने शरीरजन्यत्वप्रिवे यमास्तम् । वस्तुतस्तु, साधनविशेषितत्वं नोपाधेराभासताप्रयोजकम् । दूपकताबीजविघटकस्यैव तथात्वेन दीधित्यादावुक्तत्वात् । साध्यव्यापकताग्राहकतर्कस्तु पूर्ववत् साक्ष्यवच्छेदिकाया इति । न च दोषजन्यत्वेनोभयवादिसिद्धं यत् ज्ञानं तदविषयत्वं वाच्यम् । अविद्यावृत्तिस्तु न तथेति वाच्यम् । तथा सति जावेशयोरैक्ये जीवानणुत्वे च तात्त्विकत्वसिध्यापत्तेः । त्वन्मते व्यभिचारात् शुक्तिरूप्यादौ व्यभिचाराच्च । न हि तबीरुभयवादिसिद्धास्ति । मया अविद्यावृत्तेस्त्वया तदन्यस्यास्वीकारात् । भ्रमविषयत्वादिति । विशिष्ट विषयकाहमाकारवृत्तेश्शुद्धात्मापि विषय इति भावः । स्वविषयेत्यादि । पूर्वभावित्वं पूर्वकालवृत्तित्वम् । तथा च यत्किञ्चित्स्वज्ञानात् पूर्ववृत्तित्वं शुक्तिरूप्यादौ व्यभिचारि । यावत्स्वज्ञानपूर्ववृत्तित्वं घटादावसिद्धम् । स्वप्रत्यक्षपूर्ववृत्तित्वं मुखादौ वृत्त्यस्वीकारपक्षे तत्रासिद्धम् । स्वप्रत्यक्षोत्पत्तिकालोत्पन्नपरिमाणविशेषादावसिद्धं च । हस्तादिपरिमाणप्रत्यक्षे हि न संयुक्तसमवायमात्रं हेतुः । हस्तादिपरिमितवस्त्रादेस्तावदवयवावच्छिन्नचक्षुम्संयोगं विनापि प्रत्यक्षापातात् । किं तु तादृशसंयोगः स्वाश्रयचक्षुस्संयुक्तमनस्संयोगवत्त्वसम्बन्धेन पुरुषनिष्ठेन हेतुः । तादृशसंयो. गवत् समवायस्य विषयनिष्ठसम्बन्धेन हेतुत्वे तु तत्तत्पुरुषीयत्वस्य कार्यकारणतावच्छेदके निवेशे गौरवम् । न चैवं तादृशपरिमाणस्योत्पत्तेः पूर्वक्षणेऽपि तत्प्रत्यक्षमुत्पद्येत । तावदवयवावच्छिन्नसंयोगस्य तत्पूर्वमपि सत्त्वादिति वाच्यम् । विजातीयत्वेनैव तस्य हेतुत्वात् । तादृशसंयोगे तादशवैजात्याभावात् । तथा चोक्तपरिमाणस्योत्पत्तिक्षणेऽपि तत्प्रत्यक्षमित्युक्तरीत्या तत्र हेत्वसिद्धिः स्यादेव । अन्यो
२६
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२०२
www.kobatirth.org अद्वैतमञ्जरी ।
न्येत्यादि । तद्धटभेदनिष्ठाभावत्वे बाधादतिरिक्तान्तम् । समवायेन तद्धटस्य योऽत्यन्ताभावः तन्निष्ठाभावत्वे बाधादेतद्धटसमानाधिकरणेति । एतद्धटसमवायिनिष्ठेत्यर्थः । कपालरूपादिनिष्ठे घटसमानाधिकरणत्वे बाधात्तद्धटप्रतियोगिकाभावेति । हेतौ च तद्धटभेदत्वे समवायावच्छिन्नतद्धटात्यन्ताभावत्वे पटात्यन्ताभावत्वे मेयत्वादौ च व्यभिचारात् क्रमेण विशेषणानि सार्थकानि । प्रागभावत्वे साधनवैकल्यात् दृष्टान्ते एतद्धटेति । शुद्धसाध्यस्यैतद्धटासमानकालीनतत्तव्यक्तित्वेऽपि सत्त्वात्तत्रोपाध्यसत्त्वादाह-साधनावच्छिन्नेति । एतद्धटेत्यादि । एतद्धटप्रतियोगिकं यदेतद्धटस्य जन्यं जनकं च तयोरन्यतरत् एतद्धटस्य प्रागभावो ध्वंसश्च । तन्मात्रवृत्तित्वस्येत्यर्थः । साध्यसमव्याप्तिरक्षार्थ मात्रेति । विषमव्यापकस्याप्युपाधित्वम् । साध्यव्याप्यत्वस्य दूषकतायामनुपयोगादिति शुद्धमते तु तत् न देयम् । सन्देह इति । एतद्धटे मिथ्यात्वसन्देहकाले तत्समवायिनि समवायेन तदत्यन्ताभावस्य सन्देहात् पक्षेऽत्यन्ताभाववृत्तित्वसन्देहः । तद्धटध्वंसप्रागभावकाले च तद्धटसमवायिनि समवायावच्छिन्नतद्धटात्यन्ताभावो नाभ्युपेयते । 'तद्धटो नास्तीतिबुद्धेस्तद्धटविरोधिप्रागभावाद्यवगाहित्वात् । अत एव यत्किञ्चिद्धटप्रागभावादिमति घटवति 'घटो नास्तीति बुद्धेर्नापत्तिः । प्रतियोगिविशेषणघटत्वादिविशिष्टं प्रति विरोधित्वेनैव संसर्गाभावस्याभावबुद्धौ मानात् । अत एव तादृशबुद्धेर्घटादिमत्ताधीविरोधित्वम् । घटादिविरोधिमत्ताज्ञानस्यैव तद्विरोधित्वात् । घटत्वाद्यवच्छिन्नात्यन्ताभावत्वरूपेणापि केवलेनाभावस्य ज्ञानं न तद्विरोधि वक्तुं शक्यम् । अव्याप्यवृत्तितादशाभाववत्त्वज्ञानस्य तदापत्तेः । किन्तूक्तविरोधित्वविशिष्टेन तद्रूपेणाभावज्ञानम् । वस्तुतस्तूक्तविरोधित्वाविषयकघटाद्यवच्छिन्नाभावबुद्धेरपि तद्विरोधित्वादव्याप्यवृत्तित्वज्ञानस्याप्रामाण्यज्ञानवदुत्तेजकत्वेनोक्तापत्तेरभावात् । घटध्वंसादिकाले जायमानतादृशबुद्धेविरोधित्वानुरोधेन घटत्वाद्यवच्छिन्नात्यन्ताभावविषयकत्वस्यावश्यकत्वम् । तथा च पक्षस्य तद्धटासमानकालीने तद्धटात्यन्ताभावे निश्चयेन पक्षे साधनस्योपाध्यभावस्य च निश्चयादुपाघेस्साधनाव्यापकत्वं निश्चितमेव । न चान्यतरवृत्तित्वस्य मात्रार्थाविशेषितस्योपाधित्वपक्षे साधनाव्यापकत्वं नेति वाच्यम्। तस्यापि तद्धटात्यन्ताभावत्वे साधनाव्यापकत्वात् । न चैवं तद्धटसमानाधिकरणतद्धटात्यन्ताभावत्वतद्धटाभावत्वयोः साध्याव्यापकत्वमिति वाच्यम् । तयोः साध्यवत्त्वानिश्चयात् । सन्दिग्धेति । यत्र व्यभिचारशङ्काविरोधी तर्कोऽवतरति, तत्र व्यभिचारधीरूपकार्याक्षमत्वात् सन्दिग्धोपाधिर्न दूषणम् । तदनवतारे तूक्तकार्यक्षमत्वात् स दूषणमेवेति भावः । संयोगेत्यादि । न च समवायेन तद्धटवति वृत्तेनिवेशान्नोक्त
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे विशेषानुमानानि]
लघुचन्द्रिका।
दोष इति वाच्यम् । समवायेन घटवति संयोगेन घटात्यन्तामावसत्त्वादिति योजनास्वीकारात् । समवायेन तद्भटाभावस्य हेतौ निवेशे तु साधनवैकल्यम् । ननु, समवायान्यसम्बन्धानवच्छिन्नप्रतियोगिताकामावत्वं हेतौ निवेश्यम् । तथा च न व्यमिचारसाधनवैकल्ये । तत्राह-साध्येति । समवायावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य नित्यत्वात्तद्धटसमानकालीनत्वेन घटात्यन्ताभावत्वमुक्तसाध्याभाववदिति भावः। ननु, तद्भुटसमवाय्यवच्छिन्नं यत् तद्धटकालवृत्तित्वं, तद्वदृत्तित्वाभावस्साध्यः। तथा च समवायेन तद्धटस्वाभावो नोक्तवृत्तित्ववान् । तद्धटसमवाय्यन्यावच्छेदेनैव तस्य तद्वत्त्वात् । तथा च न व्यभिचारस्तत्राह-अलमिति । मन्मते मिथ्यात्वघटकात्यन्ताभावस्य प्रतियोग्यविरुद्धत्वेन देशकालावच्छिन्नवृत्तिकत्वाभावेन सिद्धसाधनम् । पूर्वोक्तानुमानेषु द्वितीये अनुमाने भ्रमत्वदोषत्वयोरेननुगतत्वेन तत्तव्यक्तित्वेनैव भूमदोषयोः कार्यकारणभावस्य वाच्यत्वेन पक्षदृष्टान्तसाधारण्याभावेनासिद्धिः साधनवैकल्यं वा। पक्षदृष्टान्तवृत्त्योर्हेतुत्वयोरन्यतरत्वेन हेतुत्वे दृष्टान्तवृत्तिहेतुत्वान्यभागवैयर्थ्यम् । उक्तहेतुत्वं चासिद्धम् । पदार्थत्वादित्यत्र पदशक्यत्वमसिद्धत्वान्न हेतुः । नापि पदलक्ष्यत्वम् । पदत्वलक्ष्यत्वयोरननुगतत्वेन पक्षदृष्टान्तसाधारण्याभावेनोक्तदोषापत्तेः । दोषाजन्येत्यादिहेतावपि दोषत्वस्य तत्तद्भमननकत्वरूपत्वादननुगतत्वेनोक्तदोष इ. ति भावः ॥ इति लघुचन्द्रिकायां विश्वसत्यत्वानुमानभङ्गः ॥ । ब्रह्मज्ञानेत्यदि । ब्रह्मज्ञानान्यानाध्यं यत् ब्रह्मान्यत् , तद्वत्तित्वविशिष्टः अ. सत्त्वाभाव इत्यर्थः । पारमार्थिकसत्वेति । सामान्यानुमानोक्तरीत्या धीविशेषविषयत्वादिरूपं पारमार्थिकसत्त्वं बोध्यम् । तेन न तत्रोक्तदोषाः । पारमार्थिकसत्त्वाधिकरणवृत्तित्वमत्र व्यावहारिकं ग्राह्यम् । एतेन ब्रह्मरूपस्य पारमार्थिकसत्वस्याधिकरणमप्रसिद्धम् । कल्पिताधिकरणत्वस्य तत्रैव प्रसिद्धावपि शुक्तिरूप्यत्वे साध्याप्रसिद्धिः । तद्वृत्तित्वस्य मिथ्यात्वं तु नाद्यापि सिद्धम् । येन तत्सत्त्वेऽपि तदभावसत्त्वान्नाप्रसिद्धिः । पारमार्थिक सट्टत्तित्वेऽपि किच्चिदवच्छेदेन तदभाववत्त्वमादाय सिद्धसाधनापत्त्या पारमार्थिकसदृत्ति यत् यत् तदन्यत्वस्यैव साध्यीकार्यत्वात् । तस्य शुक्तिरूप्यत्वे ब्रह्मनिष्ठेन प्रसिद्धिरित्यादि परास्तम् । अवच्छिन्नब्रह्मनिष्ठेऽपि शुक्तिरूप्यत्वे शुद्धब्रह्मवृत्तित्वाभावानपायाश्च । अवृत्तित्वमात्रस्य दृष्टान्तावृत्तित्वेन व्याप्त्यग्राहकत्वात् ब्रह्मावृत्तित्वं हेतूकृतम् । न चावृत्तित्वमात्रस्यापि शुद्धब्रह्मनिष्ठया व्याप्तिग्राहकतेति वाच्यम् । ब्रह्मणि दृष्टान्ते साध्यवैकल्यापातात् । सत्त्वरूपत्वेन ब्रह्मणः प्रपञ्चवृत्तित्वात् परमते पारमार्थिकसत्त्वाधिकरणत्वात् । अत एव साधनवैकल्यमपि। ब्रह्मनिष्ठस्य प्रपञ्चवृत्तित्वस्याद्यापि मिथ्यात्वासिध्या ब्रह्मण्यवृत्तित्वा.
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
सिद्धेः । केवलस्यासत्त्वाभावस्य पारमार्थिकसत्तित्वेऽप्युक्तपक्षतावच्छेदकरूपेण तदभावरूपसाध्यवत्त्वमक्षतम् । अत एव ब्रह्मान्यति सार्थकम् । प्रातीतिकवृत्तित्वरूपेणासत्त्वाभावः पारमार्थिकावृत्तिः । अतः सिद्धसाधनादवाध्यान्तमुक्तम् । न चैवमपि ब्रह्मज्ञानवाध्यप्रातीतिकवृत्तित्वरूपेण तस्य पारमार्थिकावृत्तित्वेन सिद्धसाधनं तदवस्थामिति वाच्यम् । 'सर्व प्रातीतिकं स्वज्ञानविशेष्ये नास्तीति ज्ञानेन सर्वप्र.तीतिकानां ब्रह्मज्ञानान्यबाध्यत्वात् यथोक्तपक्षे साध्यस्यासिद्धत्वात्। रूप्यत्ववदिति । शुक्त्यवच्छिन्नचिट्ठ तेरपि शुक्तिरूप्यत्वस्य शुब्रह्मावृत्तित्वमिति भावः । उपहितवृत्तेश्शुद्धवृत्तित्वनियममते त्वाह-परमार्थसफ़ेदवदिति । परमार्थसद्भेदोऽपि ब्रह्मवृत्तिः । अन्यथा परमार्थत्वस्य स्वधर्मत्वानुपपत्तेः । अतो ब्रह्माणि सत्वादिरूपपरमार्थभेदो विद्यमानोऽपि न परमार्थसत्त्वावच्छिन्नप्रतियोगिताकः । तत्प्रतियोगिताया अवच्छिन्नखे मानाभावात् । व्यावहारिको वा परमार्थावृत्तिर्वा भेदो निवेश्यः। तादृशभेदस्य शुक्तिरूप्याद्युपहितचिद्वृत्तित्वेऽपि न शुद्धब्रह्मवृत्तित्वम् । परमार्थावृत्तित्वविशिष्टत्वरूपेण परमार्थवृत्तित्वासम्भवात् । अत एव महाकालावृत्तित्वविशिष्टत्वरूपेण महाकालवृत्तित्वं नेच्छन्ति । मिथ्या सद्विलक्षणम् । तेनासब्यावृत्तमि. थ्यात्वस्यासत्यभावेऽपि न व्यभिचारः । स्वसमानाधिकरणान्योन्येत्यादि । अन्योन्यापावो व्यावहारिकः प्रतियोग्यवृत्तिवी ग्राह्यः । तेन ब्रह्मनिष्ठं ब्रह्मभेदं प्रातीतिकमादाय न दोषः । स्वसमानाधिकरणतादृशभेदप्रतियोगिवृत्ति यद्यत् तदन्यत्वकूटः साध्यम् । यद्वा स्वप्रतियोगिवृत्तित्वं स्वसामानाविकरण्यं चेत्युभयसम्बन्न उक्तभेदविशिष्टं यत् तदन्यत्वं साधयम् । तेन स्वपदार्थस्य पक्षदृष्टान्तसाधारणस्य एकस्याभावेऽपि न क्षतिः । सदितरोते । परमार्थान्येत्यर्थः । सत्त्वव्यापकं अबाध्यनिष्ठभेदप्रतियोगितानवच्छेदकम् । पञ्चमप्रकाराविद्यानिवृत्तिपक्षे तस्याः ब्रह्मान्यत्वादेकत्वं पक्षीकृतम् । तच्चाविनाशित्वादिरूपम् । संयोगादिवदव्याप्यवृत्तित्वेनार्थान्तरं स्यादतो व्याप्यवृत्तिरिति । दैशिकसम्बन्धावच्छिन्ना किञ्चिदवच्छिन्ना हात्तयस्य तदन्य इत्यर्थः । घटगोत्वादेः कालिकसम्बन्धावच्छिन्नवृत्तेस्तन्त्वाद्यवच्छिन्नत्वादवच्छिन्नान्तम् । समवायेन घटादेरव्याप्यवृत्तित्वस्वीकार मते आह~-आदिशित । गोत्वादिरित्यर्थः। घटादौ त्ववच्छिन्नवृत्तिकान्यस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं शुक्तिरूप्यादिदृष्टान्तेन साधनीयमिति भावः । भेदप्रतियोगित्वमादाय सिद्धताधनान्मात्रेति । अजन्यस्य स्वसमानाधिकरणान्यस्याप्रतियोगीति पर्यवसितं साध्यम् । कपालादिनाशनाश्यघटादौ स्वसमानाधिकरणान्यनाशप्रतियोगित्वेन बाधादजन्येति अन्यस्य विशेषणम् । अभावप्रतियोगित्वादिति । ननु, प्रति
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्र.दे विशेषानुमानानि ]
www.kobatirth.org
लघुचन्द्रिका।
योगितात्वेनैव हेतुत्वसम्भवादभावेति व्यर्थमिति चेन्न । प्रतियोगितासम्बन्धेनाभावस्यैव हेतुत्वे तात्पर्यात् । यदि तु प्रतियोगितात्वं संयोगादिप्रतियोगितायामभावीयप्रतियोगितायां च नैक, तदा प्रतियोगित्वशब्दस्य नानार्थकत्वेनाभावीयप्रतियोगित्वपरतालाभायाभावपदम् । अन्यथा संयोगादिनिष्ठप्रतियोगित्वस्य हेतुत्वं गु. णादौ भागासिद्ध्यापत्तेः । मते त्विति । अभिधेयत्वमित्यनुषज्यते । मिथ्यैवेति । स्वसमानाधिकरणात्यन्ताभावप्रतियोग्यपीत्यर्थः । अनन्यस्य स्वसमानाधिकरणान्यस्याभावस्य स्वाश्रयभेदस्यैव प्रसिद्धत्वात् नाप्रसिद्धिः । प्रतियोग्यवच्छिन्नेत्यादि । प्रतियोगितावच्छेदकसम्बन्धेन यत् प्रतियोगिमत्त्वं, तदवाच्छन्नवृत्तिक इत्यर्थः । घटादिसंयोगित्वावच्छेदेन भूतलादौ जलादिसंयोगवत्त्वप्रतीते तादृशसं योगादा साध्यं प्रसिद्धम् । घटादिभेदे तु साध्यसायनयोः प्रसिद्धिः । उक्तभेदस्य कालवृत्तित्वे उक्तभेदाधिकरणदेशस्येव तहतेः घटादिसंयुक्तत्वस्याप्यवच्छेदकत्वात् । इदानीं घटसंयुक्तदेशे घटभेद' इति प्रत्ययस्य घटसंयुक्तत्वविशिष्टे अवच्छेदकत्वावगाहित्वात् । अत एव संयोगावच्छिन्नघटात्यन्ताभावस्यापि घटसंयुक्तदेशेऽस्वीकारात्तदवच्छेदन कालावृत्तित्वात् घटसंयुक्तत्वावच्छिन्नवृत्तिकत्वेन तत्र साध्यस्य सन्दिग्धत्वेन न बाधः । नन, कालिकसम्बन्धन गोत्वादिमति काले तत्सम्बन्धावच्छिन्नस्याभावस्य दैशिकविशेपणतासम्बन्धेन वृत्तौ विरोधनावच्छेदकभेदकल्पनस्य युक्तत्वेन तादृशाभावस्य गवान्यदेशावच्छेदेन वृत्तियुक्ता । गवाद्यवच्छेदेन काले गोत्वादेः कालिकसम्बन्धसत्त्वेन तदवच्छेदेनोक्ताभावम्यासत्त्वात् । समवायादिसम्बन्धेन यो गोत्वादेरभावस्तस्य काले दैशिकविशेषणतया वा कालिकविशेषणतया वा वृत्तौ नावच्छेद. ककल्पने मानमस्ति । तथा च तस्य कालवृत्तित्वे गवादिभिन्नदेशस्येव गवादिदेशस्याप्यनवच्छेदकत्वात् कथं प्रतियोगिमत्त्वावच्छिन्नवृत्तिकत्वमिति चेन्न । वाच्यत्वादिकेवलान्वयिधर्माणां कालवृत्तित्वस्य देशावच्छिन्नात्तकत्वाभावेऽपि व्यतिरेकिणां समवायादिसम्बन्धावच्छिन्नगोत्वाभावादीनां गवादिभिन्नदेशावच्छिन्नकालवृ. त्तिताकत्वस्यावश्यकत्वात् । इदानीमगविसमवायेन गावस्याभावः । न तु गवी' ति प्रत्ययात् । अथैवमपि तार्किकादिमते ताशाभावस्योक्तवृत्तिताकत्वम् । भवन्मते त्वभावमात्रस्य केवलान्वयित्वेन नावच्छिन्नकालवृत्तिताकत्वमिति बाध इति चेन्न । 'दृश्यं सर्व स्वाधिकरणे कालत्रयेऽपि नास्ती'त्यादिप्रत्ययेन दृश्याभावमात्रस्योक्तवृत्तित्वस्वीकारात् । अन्यथा तस्य केवलान्वयित्वादेव धर्मसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्यापि निरासापत्तेः । अथवा प्रतियोगिमद्देशानवच्छिन्ना सती अवच्छिन्ना वृत्तिर्यस्य तदन्यत्वं साध्यम् । तच्चावच्छिन्नवृत्तिकभिन्नेऽपि केवलान्वयिन्यभावे
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
२०६
अद्वैतमञ्जरी ।
अस्त्येव । अथ वा प्रतियोगिना यदवच्छिन्नं विशिष्टं तत्र वृत्तिर्यस्य तत्त्वं तन्निरूपितवृत्तिकत्वं पर्यवसितं साध्यम् । यद्यपि यत्किञ्चित्प्रतियोगिनिवेशे सिद्धसाधनम्। स्वप्रतियोगिनिवेशे च पक्षदृष्टान्तसाधारणस्य स्वत्वस्याभावेन साध्यवैकल्यादिकं,तथापि स्वनिष्ठप्रतियोगिताकत्वं स्वसामानाधिकरण्यं चेत्युभयसम्बन्धेन विषयविशिष्टत्वमित्यादि साध्यं बोध्यम् । स्वपदार्थस्तु, न प्रवेश्यते । प्रयोजनाभावात् । अन्यनिष्ठप्रतियोगितादेरन्यदीयसम्बन्धाघटकत्वेनाव्यावर्तकत्वात् । नित्याभावत्वादिति। ध्वंसादौ व्यभिचारान्नित्येति । ब्रह्मणि व्यभिचारादभावेति । सप्रतियोगिकस्वभावेत्यर्थः । प्रतियोग्यशेषेति । अशेषस्वप्रतियोगीत्यर्थः । पूर्वक्षणवृत्तित्वविशिष्टस्य स्वस्याभावरूपो यः प्रतियोगी, तदधिकरणवृत्तिस्सर्वोऽप्यत्यन्ताभावः तन्मात्रवृत्तित्वं च पक्षे सिद्धमतोऽशेषेति । तथा च स्वप्रतियोग्यधिकरणत्वव्यापकं यस्य यस्याधिकरणत्वं, तत्तदन्यत्ववदवृत्तित्वं साध्यं स्वप्रतियोगिकत्वं स्वसामानाधिकरण्यं चेत्युभयसम्बन्धेन विषयविशिष्टं यद्यत्तदन्यावृत्तित्वं स्वावच्छेदकविशिष्टवदवृत्तित्वं स्वनिरूपकत्वं चेत्युभयसम्बन्धेन प्रतियोगिताविशिष्टं यत् तदवृत्तित्वं वा पर्यवसितम् । प्रतियोग्यवच्छिन्नेत्यादि । प्रतियोग्यवच्छेदकावच्छिन्नवृनिकान्यावृत्तीत्यर्थः । अवच्छिन्नवृत्तिकावृत्तीति वार्थः । अवच्छिन्नवृत्तिकत्वे दैशिकवृत्तिनिवेशादेशावच्छिनकालिकवृत्तिके भेदे भेदत्वस्य सत्त्वेऽपि न साध्यवैकल्यम् । तत्र वृत्तिसामान्यस्य निवेशे तु वाच्यत्वत्वादिकं दृष्टान्तः । आद्यपक्षेऽपि दैशिकव्याप्यवृत्तिभेदत्वं दृष्टान्तः । प्रतियोगिजनकति । स्वप्रतियोगिजनकेत्यर्थः । स्वपदार्थः अत्यन्ताभावः । तत्प्रतियोगिजनकाभावस्तद्धटप्रागभावः । तत्सामानाधिकरण्यं चानवच्छिन्नं निवेश्यम् । तेन तादृशाभावानवच्छेदकेन तद्धटध्वंसकालेनावच्छिन्नं तत्सामानाधिकरण्यं तद्धटात्यन्ताभावनिष्ठमादाय न सिद्धसाधनादिकम् । तत्कपालनाशजन्यतटध्वं सत्वे व्यभिचारात् कालीनान्तम् । तत्कपालनाशानाश्यघटव्यक्तिनिवेशे तु तत् नदेयम् । अनादिप्रतियोगिकाभावत्वे व्यभिचारादेतद्धटप्रतियोगिकेति । तद्धटसंयोगत्वादौ व्यभिचारादभावेति । वस्तुतस्त्वतहटेति । एतत्कपालनाशनाश्यघटेत्यर्थः । एवं च तद्धटप्रागभावकालावच्छिन्नं सामानाधिकरण्यमादाय सिद्धसाधनात् सामानाधिकरण्ये अनवच्छिन्नत्वं देयम् । तद्धटध्वंसत्वे व्यभिचारात् कालीनान्तम् । तद्धटस्य समवायिनि तदत्यन्ताभावास्वीकारे त्वनवच्छिन्नत्वं न देयम् । ननु, स्वप्रतियोगिसमानाधिकरणवृत्तित्वमात्रसाधनेऽपीष्टसिद्धेः किमिति जनकामावनिवेश इति चे. दयं तत्र भावः । घटादेरुत्पत्तिपूर्व तत्समवायिनि तदभावः परेणापि स्वीक्रियते । तस्य चात्यन्ताभावान्यत्वे तद्देशकालावच्छिन्नवृत्तिकत्वे च गौरवान्मानाभावात् ।
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे विशेषानुमानानि ] लघुचन्द्रिका ।
२०७ प्रतियोगिसत्त्वकाले तत्सत्त्वेऽप्यविद्यादिदोषेभ्यः तदप्रत्यक्षवाद्युपपत्तेः प्रतियोगिजनकत्वेन पराङ्गीकृताभाव एव सः । किं च गवादिनाशकाले गवादौ गोत्वाद्यत्यन्ताभावः परैरपि स्वीक्रियते । अत एव ज्ञायमानगोत्वादेः स्वाश्रयप्रत्यक्षहेतुत्वे अतीतानागतगवादौ व्यभिचारमुद्भाव्य गोत्वादेाने तदङ्गीकुर्वन्ति तार्किकाः । विवृतमेतदधिकं सूत्रमुक्तावलौ नः । अधिकरणम् अनवच्छिन्नाधिकरणतावत् । तेन तदनवच्छेदकावच्छिन्नतदत्यन्ताभाववत्त्वमादाय न सिद्धसाधनम् । परमार्थेत्यादि । मिथ्यातुच्छविलक्षणवृत्तिभेदप्रतियोगितानवच्छेदकत्वं साध्यम् । तेनाबाध्यनिष्ठभेदघटितात् सत्त्वव्यापकमित्युक्तसाध्यात् भेदः । भेद इति । स्वप्रतियोग्यवृत्तिभेद इत्यर्थः । तेन मिथ्यापरमार्थोभयभेदादौ न बाधः । न च तत्रापि परमार्थनिष्ठत्वं नास्ति । मिथ्यात्वात् । अतो व्यर्थमुक्तविशेषणमिति वाच्यम् । तथापि ब्रह्मभिन्ने सर्वत्र परमार्थत्वनिषेधस्य प्रकृतानुमानफलस्य सिद्धये तदावश्यकत्वात् । अन्यथा परमार्थनिष्ठत्वमात्रस्य मिथ्यात्वेन ब्रह्मवृत्तिभेदे साध्यस्योपपाद्यत्वेन प्रपञ्चवृत्तिभेदेऽपि तेनैवोक्तसाध्योपपत्त्योक्तफलासिद्धेः । प्रतियोगिकत्वादिति । ननु, सप्रतियोगिकत्वमात्रस्यैव साधकत्वात् परमार्थसदिति व्यर्थमिति चेन्न । अभावनिष्ठस्यैव प्रतियोगिकत्वस्य लाभार्थं तदुपादानात् । यदि हि सप्रतियोगिकत्वमात्र हेतुः, तदा संयोगादिमात्रनिष्ठस्य तस्य हेतुत्वे संयोगादेरेव पक्षत्वं वाच्यम् । संयोगादेरभावस्य च प्रतियोगितामु प्रतियोगितात्वस्य एकस्याभावेनोभयसाधारणस्य हेतुत्वासम्भवात् । तथा च परमार्थनिष्ठत्वमात्रस्य मिथ्यात्वेनैव साध्योपपत्त्या ब्रह्मान्यस्य सर्वस्यापरमार्थत्वालाभः । सति चोक्तविशेषणे संयोगादिमात्रनिष्ठं सप्रतियोगिकत्वं न लभ्यते ब्रह्मणि निरवयवत्वेन मन्मते संयोगाद्यस्वीकारात् । यदि तु प्रतियोगितापदार्थमात्रे प्रतियोगितात्वमेकं स्वीक्रियते, तदा सप्रतियोगिकत्वमात्रं हेतुः । प्रतियोगिकाभाववदिति । तादृशाभावश्च भेद एव । परमते परमार्थसत्त्वस्य मेयत्वादिवदत्यन्ताभावस्य प्रतियोगितानवच्छेदकत्वात् । मन्मतेऽपि मिथ्यात्वग्राहकमानेनाकाशत्वादेस्तसत्त्वेऽपि तस्य तत्सत्त्वे मानाभावात् । तत्तद्धीविषयत्वव्यक्त्यपेक्षया गुरुत्वाच्च । सद्विलक्षणेति । सद्विलक्षणं यत् स्वप्रतियोगिस्वाधिकरणयोरन्यतरत् , तत्सम्बन्धित्वं साध्यं सदन्यप्रतियोगिकत्वसदन्याधिकरणकत्वयोरन्यतरवत्त्वं पर्यवसितम् । तेन स्वपदार्थाननुगमेऽपि न स्वरूपासियादिकम् । सकलमिथ्येत्यादि । यद्विशिष्टस्य व्याप्यं मिथ्यात्वं तत्त्वादित्यर्थः । मिथ्यात्वं यद्यद्धर्मावच्छिन्नाभाववद्वृत्ति, तत्तद्धर्मभिन्नत्वादिति यावत् । मिथ्यात्वं मिथ्यात्वत्वम् । व्यापकं व्यापकतावच्छेदकम् । तेन मेयत्वादिरूपेण व्यापकत्वमादाय न सिद्धसाधनम् । अप्रतियोगित्वा
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
अद्वैतमञ्जरी ।
त् प्रतियोगितानवच्छेदकत्वात् । न च समानाधिकरणान्तं व्यर्थमिति वाच्यम् । साधनवैकल्यवारकत्वात् । न च मेयत्वं ब्रह्मत्वं वा दृष्टान्तोऽस्त्विति वाच्यम् । मन्मते मेयत्वस्यापि तदभावात् ब्रह्मत्वस्य परमते घटादिनिष्ठात्यन्नाभावप्रतियोगितावच्छेदकत्वात् । दैशिकविशेषणतासम्बन्धावच्छिन्ना हि प्रतियोगिता हेतौ साध्ये च निवेश्या । अन्यथा स्वरूपासिद्धिबाधयोरापत्तेः । यदि च ब्रह्मत्वे परमते तन्न स्वीक्रियते।मानाभावात, तदा अधिकरणान्त न देयम् । न च स्वरूपासिद्धिरिति वाच्यम् । मिथ्यात्वत्वम्य तत्तद्धीविषयत्वाद्यपेक्षया गुरुत्वेनोक्तावच्छेदकत्वाभावात् । न चैवं प्रपञ्चे मिथ्यात्वाम्वीकारेऽप्युक्तसाध्योपपत्तिरिति वाच्यम् । ब्रह्मतुच्छोभयान्यवृत्त्यत्यन्ताभावप्रतियोगितावच्छेदकं यद्विशिष्टस्य व्यापकतावच्छेदकं तदन्यत्वस्य साध्यत्वात् प्रपञ्चेमिथ्यात्वास्वीकारे मिथ्यात्वत्वसमनियतलघुधर्मस्यावच्छेदकत्वात् । तस्य च मिथ्यात्वव्यापकतावच्छेदकत्वेन मिथ्यात्वत्वे साध्यानुपपत्तेः । दृश्यत्वं दृक्प्रतियोगिकत्वविशिष्टं व्यावहारिकं तादात्म्यम् । प्रपञ्चनिष्ठस्य ब्रह्मतादात्म्यस्य ब्रह्मण्यपि सत्त्वेन बाधादाद्यं विशेषणम् । ब्रह्मणि ब्रह्मणः प्रातीतिकतादात्म्ये बाधादन्त्यम् । न च तयोः ब्रह्मवृत्तित्वं मिथ्येति साध्यसत्त्वान्न वाध इति वाच्यम् । तथापि सर्वदृश्यमिथ्यात्वसिद्धिरूपस्य प्रकृतानुमानफलस्य उक्तविशेषणाधीनत्वात् तदभावे परमार्थवृत्तित्वमिथ्यात्वनैव साध्यसिद्ध्योक्तफलालाभात् स्वरूपासिद्धेश्च । अभिधेयमात्रवृत्तित्वात् अवाच्यावृत्तित्वात् ब्रह्मावृत्तित्वादितियावत् । पक्षभेदादाद्यानुमानाद्भेदः । ब्रह्मान्यवृत्तित्वविशिष्टं वा हेतुः । रूप्यादिपदानां प्रत्येकमभिधेयत्वानां तादात्म्येन तत्तद्व्यक्तित्वेन हेतुता तव्यक्तित्वेन पक्षता चेति वा ! एतेन शब्दार्थभेदाच्छ क्तिरूपाभिधाया भेदात् सर्वाभिधेयासङ्ग्रह इत्यपास्तम् । दृश्येतरेत्यादि । गगनाद्यवृत्तिपदार्थेषु सापसामानाधिकरण्यवाटेनव्याप्त्यभावात् धर्मेति । तदघटितव्याप्तेः साध्यत्वे तु तन्न देयम् । शुक्तिरूप्यादावंशतः सिद्धसाधनादुभयासिद्धमिति । असद्भिन्नत्वेनोभयवादिसिद्ध पक्ष: । आधारत्वस्य ब्रह्मणि स्वीकारेऽपि तत्र न व्यमिचारः । धर्माधिकरणत्वाभावम्यापि मन्मते तत्र स्वीकारेण तस्य पक्षसमत्वात् । प्रतियोग्यवच्छिन्न इत्यादि । घटादिर्घटत्वाद्यभावस्यानवच्छिन्नाधिकरणतावानित्यर्थः । तेन घटादेः स्वनाशकालाद्यवच्छेदेन घटत्वाद्यभाववत्त्वेऽपि न सिद्धसाधनम् । समवायादिना घटत्वादेरभावस्य दैशिकविशेषणतयाधिकरणत्वं निवेश्यम् । कालवत् घटादिभिन्नकालवत् । तेन पक्षदृष्टान्तभेदः । वस्तुतः पक्षतावच्छेदकान्यरूपेण पक्षस्य दृष्टान्तमध्यपातेऽपि न क्षतिः । प्रत्युत कालविधया पक्षस्यापि साध्यवत्त्वेन पराभ्युपगतत्वप्रदर्शनं प्रकृतोपयुक्तम् । किं तु घटत्वति । न च 'परमार्थसद्धटो नेत्यादि
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे विशेषानुमानानि ]
लघुचन्द्रिका।
२०९
प्रतीतेः परमार्थसत्त्वोपहिते तद्भेदप्रकारत्वान्नेदं युक्तमिति वाच्यम् । तस्याः घटत्वागुपहितप्रतियोगिकभेदविषयकत्वेऽपि परमार्थसत्त्वोपहितप्रतियोगिकभेदाविषयकत्वात् । न च परमार्थसत्तादृशघटो नेति प्रतीतेः परमार्थसत्त्वोपहितनिष्ठा घटत्वाद्यवा च्छिन्नप्रतियोगिता विषय इति वाच्यम् । साम्प्रदायिकतार्किकैस्तदस्वीकारात् । उक्तं हि तैः 'प्रतियोग्यंशे प्रकारतावच्छेदकता यादृशविशिष्टधर्मपर्याप्ता प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणत्वेनापि तादृशधर्म एव भाति । अत एव वह्नित्वं पर्वतवृत्तिधूमवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकं ने ति प्रतीतेः पर्वतवृत्तित्वाविशेषितधर्मावच्छिन्नप्रतियोगिताकभेदविषयकत्वासम्भवाव्यभिचारधीकालेऽपितादृशधीसम्भवेन तस्याः नानुमितिहेतुत्व'मिति। अथवा आत्मत्वं परमार्थप्रतियोगिकभेदकूटान्तर्गतया कयापि व्यक्त्या न व्याप्यम् । परमार्थवृत्तित्वात् परमार्थत्ववदित्यत्र तात्पर्यम् । परमार्थत्वे परमार्थप्रतियोगिकभेदत्वविशिष्टस्य व्याप्यतासत्त्वेऽपि परमार्थीयतत्तद्भेदव्यक्तित्वावच्छिन्नं प्रति व्याप्यता नास्ति । तस्य स्वप्रतियोगिनि परमार्थे अभावादिति परमार्थभेदवृत्तिः य उभयावृत्तिधर्मः तद्विशिष्टं प्रति व्याप्यत्वस्याभावरूपं साध्यं तत्रास्त्येव । आत्मान्यपरमार्थस्वीकारे तु तद्भेदव्यक्तिव्याप्यमात्मत्वमिति तत्र तत्त्वाभावसाधनं परस्यानिष्टमिति ध्येयम् । मिथ्यात्वेन प्रपश्चान्न भिद्यत इति। मिथ्यात्वहेतुकस्य प्रपञ्चभेदवत्त्वस्याभाववदित्यर्थः । तादृशभेदवत्त्वं च प्रपञ्चभेदव्याप्यमिथ्यात्वप्रकारकस्वविशेष्यकप्रमाजन्यानुमितिविषयस्य प्रपञ्चभेदस्याश्रयत्वम् । यत्रोक्ताश्रयत्वं स्थाप्यं, सः स्वपदार्थः । 'निर्धूमवान् धूमेन वहिमानय मिति वाक्यजन्यज्ञानं न प्रमा । अतः प्रमाघटितमेव हेतुत्वं तृतीयादिविभक्त्यर्थः । तथा च मिथ्यात्वे प्रपञ्चभेदव्याप्तरबाधितत्वलाभात् मिथ्यात्वव्यापकं यन्मिथ्यात्वसमानाधिकरणं, तत्त्वेन रूपेण प्रपञ्चभेदस्यात्यन्ताभावः पर्यवसितसाध्यम् । मन्मते तादशरूपविशिष्टस्य प्रपञ्च भेदस्याप्रसिद्धावपि घटत्वेन पटस्येवोक्तरूपेणोक्तभेदस्याभावो नाप्रसिद्धः । व्यवहारेत्यविवक्षितः । स्वस्येति । यत्र साध्यं स्थाप्यं, तस्येत्यर्थः । उभयोरिति । तस्य प्रपञ्चस्य चेत्यर्थः । अन्तिमपक्षस्येति । आद्यपक्षस्यासम्भवेनेत्यादिः । तेनाद्यपक्षासम्भवानुक्त्या न न्यूनता । परमतेऽपि पक्षे मिथ्यात्वस्वीकारात् तत्राद्यान्त्यपक्षयोरसम्भवः । तयोः सम्भवे तु प्रपञ्चभिन्नेऽपि पक्षे उक्तविशिष्टरूपेण प्रपञ्चभेदस्याभावसम्भवः । मिथ्यात्वसमानाधिकरणत्वरूपविशेषणाभावादिति भावः । मध्यमेति । मिथ्यात्वसमानाधिकरणत्वविशिष्टस्य प्रपञ्चभेदस्याश्रयेऽपि पक्षे उक्तविशिष्टरूपेण न प्रपञ्चभेदः । प्रपञ्चभेदे मिथ्यात्वव्यापकत्वरूपविशेषणाभावात् । प्रपञ्चस्सत्यः पक्षो मि
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
थ्येति खोकारे तूक्तविशिष्टरूपेण पक्षे प्रपञ्चमेदस्य सत्त्वान्न साध्यपर्यवसानम् । अत एव स्वस्य मिथ्यात्वं प्रपञ्चस्य सत्यत्वमिति पक्षः साध्यपर्यवसानानु. पयुक्तत्वात् पूर्वं न विकल्पित इति भावः । प्रथमेति । दृष्टान्तस्योभयसम्मतत्वापेक्षणे मन्मतेऽप्यन्त्यपक्षस्यासम्भवादुभयमतेऽपि मध्यमपक्षासम्भवात् प्रथमपक्षेणैव तत्र साध्यसिद्धिः । दृष्टान्तस्य प्रतिवादिमात्रसम्मतत्वापेक्षणे तु चरमपक्षणापि तत्र साध्यसम्भव इति प्रथम इव चरमेऽपि मिथ्यात्वसामानाधिकरण्यरूपविशेषणाभावादुक्तरूपेणाभावस्य सम्भवादिति ध्येयम् । परमार्थसत्त्वसमानाधिकरणत्वादिति । न च परमार्थसत्त्वस्यैव तादात्म्येनैव हेतुत्वसम्भवादन्यांशवैयर्थ्यमिति वाच्यम् । नव्यमते धूमप्रागभाववदवैयर्थ्यात् । आस्तां वा तस्यैव हेतुत्वे तात्पर्यम् । न च स्वरूपासिद्धिरिति वाच्यम् । अबाध्यत्वव्यापकयत्किश्चिद्वीविषयत्वस्यैव परमार्थसत्त्वरूपत्वेन तस्यैव पक्षत्वात् । श्रुतितात्पर्य विषयत्वेति । श्रुतिनिष्ठशक्त्यधीनप्रमाविषयत्वेत्यर्थः । स्वर्गसाधनयागादिनिष्ठे तादृशधीविषयत्वे साध्यवैकल्यात् पारमार्थिकत्वेनेति । अबाध्यत्वव्यापकेत्यर्थः । स चोक्तविषयत्वविशेषणम् । तादृशविषयत्वं च परमते 'विश्वं सत्य' मित्यादिश्रुतिजन्यधीविषयत्वम् । मन्मते तु 'तत्त्वमसी'त्यादिश्रुतिजन्यधीविषयत्वम् । पक्षदृष्टान्तयोरभेदस्तु न दोषः । पक्षतादृष्टान्ततावच्छेदकभेदात् । एतदित्यादि । पटान्तरप्रतियोगिकात्यन्ताभावे सिद्धसाधनात् पक्षे एतदिति । तन्त्वन्तरनिष्ठत्वस्य सिद्धत्वात् साध्येऽप्येतदिति । पटान्तरप्रागभावे व्यभिचारात् हेतावेतदिति । पटेति व्यक्तिविशेषपरिचायकम् । न तु हेतौ प्रविष्टम् । पक्षत्वे विति । तस्य पक्षत्वे हेतावपि तत्पट एव निवेश्यः । अन्यथा स्वरूपासिद्धेः । तथा चानादीति व्यर्थत्वान्न देयमिति भावः । उद्देश्यत्वादिति । न चैवं पक्षे एतदिति व्यर्थमिति वाच्यम् । त. व्यक्तिप्रतियोगिकात्यन्ताभावत्वेनैवास्मिन् कल्पे पक्षत्वेन पटत्वेनानिवेशात् । व्यधिकरणेति । एतत्पटत्वान्येत्यर्थः । तेनोभयत्वाद्यवच्छिन्नाभावमादाय न सिद्धसाधनम् । ननु, तत्पटप्रागभावस्तत्तन्त्ववछिन्नचैतन्याविद्ययोरेव वर्तते । न तु तत्तन्तौ । सिद्धान्ते तस्य तत्पटानुपादानत्वात् । तथा च तत्र तत्तन्तु निष्ठत्वाभावाव्यभिचारस्तत्राह-तन्तुशब्देनेति । तत्तन्तुशब्देनेत्यर्थः । पटोपादा नेति । तत्पटोपादानेत्यर्थः । प्रागेवेति । चित्सुखाचार्यास्त्वित्यादिग्रन्थे इति शेषः । यद्वेत्यादि । अयंशब्दार्थस्य विवरणं-समवायेत्यादि । समवायावच्छिन्नप्रतियोगिताक इत्यर्थः । एतत्पटेति । एतत्पटत्वावच्छिन्नप्रतियोगिताकेत्यर्थः । तत्तंन्तुनाशजन्ये तत्पटनाशे व्यभिचाराद्धेतावत्यन्तेति । नाशानाश्यपटव्यक्तिनिवेशे तु तन्न
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे विशेषानुमानानि]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२११
1
देयम् । वस्तुतस्तु, अत्यन्ताभावत्वान्यभागवैयर्थ्यापत्त्या अत्यन्ताभावत्वं तत्पटव्यक्त्यभावत्वं चेति हेतुद्वयम् । आद्ये तत्तन्तुत्वात्यन्ताभावस्यापि पक्षसमत्वेन तत्रा - व्यभिचारात् । तत्पटपदस्य नाशानाश्यपटव्यक्तिपरत्वात्तन्तुनाशजन्ये पटनाशे द्वितीयेन व्यभिचारः । अव्याप्येत्यादि । अव्याप्यवृत्तित्वमादाय सिद्धसाधनादेर्वारणाय सत्यन्तम् । उक्तेति । ब्रह्मप्रमान्याबाध्येत्यादिपरकीयाद्यानुमानोक्तेत्यर्थः । स्वसमानाधिकरणेत्यादि । सामानाधिकरण्यं प्रतियोगिता चेत्युभययम्बन्धनात्यन्ताभावः साध्यः । उक्तपक्षतावच्छेदकसमानाधिकरणधर्मे स्वप्रतियोगितावच्छेदकत्वं स्वाश्रयनिष्ठाधिकरणतानिरूपकतावच्छेदकत्वं चेत्युयसम्बन्धेनात्यन्ताभावः साध्य इति तु निष्कर्षः । तेन स्वपदार्थस्य पक्षदृष्टान्तोभयसाधारण्याभावेन बाधसाध्यवैकल्यादेर्नापत्तिः । न वोभयत्वावच्छिन्नाभावादिकमादाय सिद्धसाधनम् । व्यभिचार इति । तस्य ब्रह्मस्वरूपत्वेनाधिकरणाप्रसिद्ध्या नोक्तसाध्यवत्त्वं विश्वाभावत्वविशिष्टरूपेण तु हेतुमत्त्वं चेति भावः । शुद्धे ब्रह्मणि व्यभिचारः, विश्वाभावत्वोपहिते वा । नाद्यः । तत्र हेत्वभावादित्याह - तस्येति । अभावादिति । एवं चाभावमात्रस्य ब्रह्मणि व्यभिचारित्वात् आत्मत्वप्रतियोगिकत्वविशेषणं दत्तमिति भावः । मिथ्यात्वेन ज्ञाननिवर्त्यत्वेन । अत्यन्ताभावप्रतियोगितया स्वाधिकरणब्रह्मनिष्ठात्यन्ताभावप्रतियोगितया । नन्वेवं विश्वस्य सत्यतापत्तिः । विरुद्धयोरेकनिषेधे अपरस्य सत्यतानियमादिति शङ्कते न चेति । अत्यन्ताभाव इति । बोध्य इति शेषः । मिथ्या वासिद्धिरिति । निषेध्यस्यात्यन्ताभावस्य प्रतियोगिनि मिथ्यात्वासिद्धिरित्यर्थः । भावगतेति । प्रतियोगिगतेत्यर्थः । मिथ्यात्वे मिथ्यात्ववादे । एकदेशेत्यादि । दाशकसम्बन्धावच्छिन्ना किञ्चिदवच्छिन्ना वृत्तिर्यस्य तदन्यत्वं विवक्षितमित्यर्थः । घटादेः कपालाद्यवच्छेदेन कालवृत्तित्वादाद्यमवच्छिन्नान्तम् । बाध इति । उक्तप्रतियोगित्वाभाववत्युक्तप्रतियोगित्वसाधने बाध इत्यर्थः । अपास्तमिति । न च 'तन्तुषु दशासुन पटः । किं तु दशान्यभागे' इत्यादिप्रतीतेः पटादेर्देशावच्छिन्नवृत्तिकत्वस्योक्तरूपस्य सत्त्वात् अयुक्तमिति वाच्यम् । उक्तप्रतीतेः प्रमात्वे 'एकतन्तौ पटे न पटत्वम् । किं तु सर्वेषु पटारम्भकतन्तुष्वित्यादिप्रतीतेरपि प्रमात्वापत्तेः । यदि चा'थं पटः सर्वेभ्य एतेभ्यस्तन्तुभ्यो जातः । न त्वेकतन्तुने' ति द्वितीय प्रतीतेर्विषय इत्युच्यते, तदा प्रथमप्रतीतेरपि दशा भागावच्छिन्नात् तत्तन्तुसंयोगान्न पटो जातः । किं तु तदन्यभागावच्छिन्नादिति विषय इति विभावनीयम् । न च तथापि कपालादौ तन्नाशकालावच्छेदेन घटादेरसमवायादन्यकालावच्छेदेनैव समवायात्तस्यापक्षत्वापत्तिरिति वाच्यम् । यदधिकरणनिरूपिता वृत्तिर्निवेश्या, तस्याधिकरणस्य नाशप्रागभाव
1
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
अद्वैतमझरी ।
कालीनेनावच्छेदकेनावच्छिन्ना वृत्तिर्यस्य तदन्यत्वस्य निवेशात् । केवलान्वयीति। अत्यन्ताभावाप्रतियोगीत्यर्थः । अधिष्ठानचिद्रूपात्यन्ताभावस्यात्यन्ताभावप्रतियोगित्वे मानाभावात्तस्य केवलान्वयिनः प्रतियोगित्वमनात्ममात्रेऽस्तीति बोध्यम् । पदार्थत्वात् ब्रह्माविषयकविषयत्वात् । ब्रह्माणि व्यभिचारादविषयकान्तम् । स्वमते विति । आकाशादेः स्वमते वृत्तिमत्त्वात् उक्तानुमानात् पूर्व साध्यवत्त्वेनासिद्धत्वात् स्वमते स न दृष्टान्तः । तथा च नित्यद्रव्यान्यदिति न देयमिति भावः । शुक्तिरूप्येति । ननु, शुक्तिरूप्यात्यन्ताभावस्य शुक्त्यवच्छिन्नचिद्रूपतदधिष्ठानरूपत्वेन घटादिनिष्ठात्यन्ताभावप्रतियोगित्वान्न केवलान्वयित्वमिति चेन्न । विशिष्टचितः केवलचिदनन्यत्वपक्षे दोषाभावात् । तत्पक्षे हि शुक्तिरूप्याद्यधिष्ठानत्वं शुद्धचित्येव । तदवच्छेदकं शुक्त्यादिकमिति स्वीकारात् । स्वरूपेणेति । उक्तेति शेषः । तद्वैलक्षण्येति । अत्यन्तासद्वैलक्षण्येत्यर्थः । परिहारात् उक्तप्रयोजकाभावपरिहारात्। निवृत्तिप्रतियोगित्वमात्रं भावाद्वैतमते पञ्चमप्रकाराविद्यानाशे नासद्वैलक्षण्यसाधकम् । उत्पत्तिप्रतियोगित्वमनादौ न तत्साधकम् । अत उत्पत्त्यादिविशेषप्रतियोगित्वं तत्साधकं बोध्यम् । आत्माप्रतियोगिकत्वादिति । न चाप्रतियोगिकत्वमात्रस्य ब्रह्मनिष्ठस्य साधकत्वसम्भवेनात्मेति व्यर्थमिति वाच्यम् । ब्रह्मणो दृश्याभावत्वेन सप्रतियोगिकत्वात्तन्मिथ्यात्वस्य प्रकृतानुमानपूर्वमसिद्धत्वात् परं प्रति दृष्टान्तत्वासम्भवात् स्वनिष्ठप्रतियोगित्वानिरूपकत्वसम्बन्धेनात्मन एव हेतुत्वसम्भवाच्च । अदोपत्वादिति। साध्याभाववत्त्वांशे संशयरूपस्य व्यभिचारज्ञानस्य व्याप्तिग्राहकतर्काभावसहकृतस्यैव व्याप्तिग्रहविरोधित्वम् । न तूक्ततर्कसहकृतस्य । सन्दिग्धसाध्यवत्पक्षकानुमानमात्रलोपापत्तेः । प्रकृते च तर्का वक्ष्यन्ते । तथा च नतद्विरोधीति भावः । वहवश्चेति। तथा च बहूनामप्रामाण्यकल्पनामपेक्ष्य परकीयाल्पहेतुष्वेवाप्रामाण्यं युक्तमिति भावः।
॥ इति लघुचन्द्रिकायां विशेषतो मिथ्यात्वस्यानुमानानि ॥ जगदाहुरिति । सत्यभिन्नं जगदिति मतस्यासुरत्वोक्तेः सत्वं जगदिति मतं शिष्टानामित्यभिमानः । कर्मसद्भवत्वादिति । 'यो वै धर्मः सत्यं चैत'दित्यादिश्रुतिषु धर्मरूपे कर्मणि सत्यपदप्रयोगात् प्रकृतेऽपि सः । सतो ब्रह्मणो वेदाद्वा भव इति व्युत्पत्तेरिति भावः । 'सत्यं ज्ञान'मित्यादिश्रुतेरिव 'विश्वं सत्य'मित्यादिश्रुतेरपि स्वार्थे तात्पर्यम् । 'आपश्च न प्रमिणन्ती'त्यस्योपपत्तिरूपस्य तात्पर्यग्राहकत्वात् । व्यापनशीला देवता अपि विश्वं सत्यमिति प्रमिण्वन्ति तात्त्विकतया जानन्तीति हि तदर्थ इति परेषामक्तिमन्यथाकर्तुं चनेत्येतत्पदद्वयतया व्याचष्टे-चनेत्येतदिति । सिद्धमिति । यथा द्वितीयाष्टकस्थस्यैव ददाति मह्यं यादुरीत्यादेर्यादुरीत्यत्राध्यापकसम्प्रदायसि
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे आगमबाधोद्धारः ]
www.kobatirth.org
लघुचन्द्रिका
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१३
ऐक्ये सत्यपि दुरी आदरवती या मह्यं ददातीति भिन्नपदत्वेन व्याख्यानं तथा प्रकृतेऽपीति भावः । अध्याहार इति । न चाङो अभिव्याप्त्यर्थकत्वसम्भवादध्याहारो न युक्त इति वाच्यम् । अभिव्याप्तेः कर्मालाभेन साकांक्षत्वापत्तेः । न च 'यचिकेत तदभिव्याप्य सत्यं भवेदित्यर्थ इति वाच्यम् । यद्योगप्राथम्यबलादेव तादृशालाभेनाको व्यर्थत्वापत्तेः । स्पाईं वसु अभिव्याप्य जेतेत्यर्थस्तु न युक्तः । अतिव्यवधानेनासक्त्यभावात् । यथा तथेति । यद्यपि दूष्ये न्यायामृते ग्रन्थे याथातथ्यत इति ईशावास्योपनिषद्गतवाक्यं घृतं तथाप्यर्थतौल्येन श्रुत्यन्तरस्थं यथातथीत धृतम् । पूर्वसृष्टेति । ननु याथातथ्येत्यस्य नायमर्थो युक्तः । तथाशब्दस्यैवाभावात् । किं तु यथार्थं तु यथातथमित्यमरोक्तेः यथातथशब्दस्य सत्यार्थकत्वेन स्वार्थिकतद्धितान्तत्वेन च सत्यार्थकत्वमिति चेन्न । तथ्यशब्दस्यापि सत्यार्थकत्वेन याथेत्यस्य व्यर्थत्वापत्तेः । प्रत्ययस्य स्वार्थिकत्वे व्यर्थत्वापत्तेश्च । तस्मात् भावार्थकस्तद्धितः । ल्यब्लोपपञ्चम्यास्तसिल्प्रत्ययः । तथा च पूर्वं सृष्टा अर्था यथा तथाभावं प्रतिसन्धाय व्यदधादिति वाक्यार्थः । किं च 'कविर्मनीषी परिभूः स्वयंभू'रिति पूर्वभागस्य त्वन्मते वाक्यार्थेऽनुपयोगः । मन्मते तु यतः कविः पूर्वक्रान्तं सर्वं दृष्टवान् यतश्च मनीषी मनसा ईष्टे ऊहापोहकुशलः, यतश्च पूर्वसृष्टविरुद्धमिच्छतां परिभवसमर्थः, यतश्च स्वयमन्यनैरपेक्ष्येण जगद्भवनसमर्थः, ततो हेतोः पूर्वसृष्टभावं प्रतिसन्धाय जगत्सृष्टवानिति सकलं वाक्यं युक्तार्थकम् । यथातथार्थानिति वाक्येऽपि त्वन्मते अथेति पदं व्यर्थम् । तथाशब्दस्य सत्यार्थकत्वेऽपि यथाशब्दस्य तदभावात् । तथाशब्दस्य तु तथ्यपदप्रकृतित्वेन तथागतेत्यस्मिन् बौद्धनामनि तथाशब्दस्य सत्यार्थकतायाः प्रा माणिकैरुक्तत्वात् । अनुवादकतयेति । उपलक्षणमेतत् । अद्वैतश्रुत्यनुमानादिविरु
1
त्यपि बोध्यम् । न तत्परत्वमिति । प्रत्यक्षादिसिद्धव्यावहारिकसत्त्वानुवादकत्वसम्भवे अद्वैतश्रुत्यादिविरुद्धार्थविश्वतात्त्विकत्वपरत्वकल्पना न युक्ता । न हि विश्वस्य तात्त्विकत्वं विना किञ्चिदनुपपन्नमिति भावः । सर्वनामत्वात् बुद्धिविषयविशिष्टशक्तत्वात् । तथा च यथा तदादेः बुद्धिविषयविशिष्टशक्तत्वेऽपि घटत्वादि विशेषरूपं स्वरूपतो विषयीकुर्वति शाब्दानुभवे हेतुत्वम् । अन्यथा तादृशसंशयादिनिवृत्तिस्तादृशबोधान स्यात् । तथा विश्वशब्दस्यापि घटत्वादिकं स्वरूपतो विषयीकुर्वति बोधे हेतुत्वम् । अत एव 'सर्वेभ्यो दर्शपूर्णमासा' वित्यादौ पुत्रत्वादिनानाधर्माणामुद्देश्यतावच्छेदकत्वेनोद्देश्य भेदेऽप्येकपदार्थत्वान्न वाक्यभेद इति वार्तिकादावुक्तम् । कथमिति । न च घटाद्यंशे प्रत्यक्षेण सत्त्वप्राप्तावपि परमाण्वाद्यंशे तदप्राप्त्या नानुवादकत्वमिति वाच्यम् । तावतापि विध्यनुवादवैषम्यस्यापत्तेरेकस्यैव वि
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२१४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
श्वपदस्यांशभेदेन विधायकत्वानुवादकत्वयोः स्वीकारात् । हिंसात्वावच्छेदेनानिष्टसाधनत्वसम्बन्धस्तु न पूर्वं प्राप्त इति वैषम्यम् । तदिदमुक्तम्- प्रकारवैलक्षण्याभावादिति । एकशाखेत्यादि । एकवेदस्थनानाशाखागतानां विधिवाक्यानां समानार्थकानां पुरुषभेदं प्रत्येव बोधकत्वम् । 'स्वाध्यायोऽध्येतव्य' इत्यादौ स्वाध्यायशब्दितशाखायाः एकवेदस्थशाखान्तरासाहित्य रूपैकत्वविशिष्टाया एवाध्ययनस्य विहितत्वेनैकवेदस्थशाखाद्वयगतवाक्ययोरेकपुरुषेणाध्ययनस्याविहितत्वात् । तथा च तत्र यथा तादृशवाक्ययोः पुरुषभेदं प्रति बोधकत्वेन नानुवादकत्वमिति शाखान्तराधिकरणे द्वितीयस्थे निर्णीतम् । तथा वादिविप्रतिपत्त्यादिभिरनिर्णीतघटादिसत्ताकं पुरुषं प्रति प्रवृत्ता विश्वसत्त्वश्रुतिर्नानुवादिकेत्यर्थः । अशक्यत्वादिति । 'अनिहिंमस्ये' त्यादावपि स्वभाववादादौ हिमनिवर्तकत्वादावग्न्यादिनिष्ठे विवादात् । अत्रायं पुरोवाद इत्यस्येति । अत्र तद्वेदीयैकशाखाध्ये पुरुषे अयं तद्वेदीयशाखान्तरस्थवाक्यरूपो वादः पुरः पूर्वं अज्ञाततादशायामग्रिहोत्रादेर्ज्ञापक इत्यस्यार्थस्येत्यर्थः । चातुर्मास्यमध्यमपर्वणोरिति । वैश्वदेवं वरुणप्रवासाः साकमेधाः शुनासीरीयं चेति पर्वचतुष्टयस्य प्रयोगचतुष्टयरूपस्य चातुर्मास्याख्यकर्मणः मध्यमपर्वणोरित्यर्थः । चातुर्मास्यप्रकरणे श्रुतम् । 'द्वयोः प्रणयन्ति द्वाभ्यामेति' ऊरू वा एतौ यज्ञस्य यद्वरुणप्रवासाश्च साकमेधावेति । तत्र सधर्मकं यत् सौमिकमग्निप्रणयनं तदेव विधीयते । प्राकृतस्याधर्मकस्यानिप्रणयनस्य विधाने वाक्यस्य वैयर्थ्यात् । तस्य चोदकेनैव प्राप्तिसम्भवात् । अत एव सौमिकप्रणयने उत्तरवेदेस्सत्त्वेन तस्या वैश्वदेवादावपि प्रसको 'न वैश्वदेवे उत्तरवेदिमुपवपन्ति 'न शुनासीरीये' इति तत्पर्युदासरसङ्गच्छते । तेन तयोरुत्तरवेदिभिन्नाः सौमिकप्रणयनधर्माः कार्याः । अथवा अतिदेशप्रवृत्तेः पूर्वं प्राकृतमेवाग्निप्रणयनमत्र विधीयते । तत्प्रयोजनं तूत्तरवेदिरूपगुणस्य मध्यमपर्वणोरेव प्राप्त्येतरपर्वणोरुक्तगुणपरिसङ्ख्या । एतद्वाक्याभावे हि पर्वचतुष्टयेऽपि प्राकृताग्निप्रणयनप्राप्त्या तदुद्देशेनो सरवेदिविधानं पर्वचतुष्टयेऽपि स्यात् । एतद्वाक्यत्वे तु तेनोपदेशेन मध्यमपर्वद्वयीयप्रणयनस्यैव विशिष्योपस्थितत्वात्तत्रैव तदिति प्राप्ते, न सौमिकम् । तस्यानुपस्थितस्य विनियोगासम्भवात् । नापि प्राकृतं तस्याहवनीयोत्पादकत्वेनाहवनीयापादानकत्वासम्भवात् । 'आहवनीयात् द्वावग्नीप्रणयतः अध्वर्युश्च प्रतिप्रस्थाता चे 'ति शाखान्तरवाक्ये च प्राकृतप्रणयनकालोत्तरमाहवनीयापादानकप्रणयनं विधीयते । तस्मादप्राकृतमसौमिकं प्रणयनान्तरं विधी - यते । तच मध्यमपर्वणोरेव । द्वाभ्यामित्याद्यर्थवादात् । तत्र चो' पात्र वपन्ती' ति वाक्येन
"
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे आगमबाधोद्धारः]
लघुचन्द्रिका।
'उत्तरवेद्यामग्निं निदधाती'त्यनेन चोत्पत्तिविनियोगावुत्तरवेदेविधीयते । प्रथमोत्तमयोस्तत्प्रतिषेधवाक्यं तु नित्यानुवाद इति सप्तमतृतीये स्थितम् । तथा च तत्र यथा प्राप्तप्रणयनाद्विलक्षणं प्रणयनं विधीयते, तथा विश्वसत्त्वश्रुत्या प्रत्यक्षप्राप्तसत्त्वाद्विलक्षणतात्त्विकसत्त्वं बोध्यत इति समुदायार्थः । गतिसामान्यति । सर्ववेदान्तवाक्यानामद्वैतावगतिननकत्वेन समानतेत्यर्थः । 'उपक्रमोपसंहारावम्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥” इति वृद्धोक्तौ उपक्रमोपसंहारपदाभ्यां वि. चार्यवाक्यस्याद्यन्तभागयोरेकार्थपर्यवसानं लक्ष्यते । अभ्यासः अनन्यपरं पुनश्श्रवणम् । अर्थवादः स्तुतिनिन्दान्यतरबोधकवाक्यम्।एतत्त्रयं शब्दघटितत्वाच्छन्दनिष्ठम् । तत्राद्यस्यैकार्थतात्पर्यनिर्णायकत्वेन लिङ्गत्वम् । तात्पर्यविषयत्वेन सन्दिग्धानां बहूनां मध्ये यस्मिन्नर्थे आद्यन्तभागयोः पर्यवसानं, तस्मिन्नेव तात्पर्यनिर्णयात् । अन्यथा तस्य वैय
र्थ्यात् । क्वचिच्चानुवादत्वादिशकापसारकतयापि तस्य लिङ्गत्वम् । यदि हि तस्मिनर्थे वाक्यमनुवादः स्यात्, तदोक्तपर्यवसानं व्यर्थ स्यादिति युक्तेः । द्वितीयं तु समिदादिवाक्येषु यद्यपि विलक्षणनानाकर्मविधाने तात्पर्यग्राहकम् । विहितविधानायोगात्, तथापि सिद्धार्थविषयकं सदेकार्थतात्पर्यज्ञापकम् । अन्यथा पुनश्श्रवणवैयर्थ्यात्। तस्मादादरज्ञापनद्वारा तस्य तात्पर्यज्ञापकत्वम् । तदुक्तं भामत्याम्-'अभ्यासे हि भू यस्त्वमर्थस्य भवति । यथा अहो दर्शनीया अहो दर्शनीयेति । आदरश्च यद्यपि प्राशस्त्यरूपोऽभ्यस्यमानस्यार्थस्य विधेयत्वानुमानद्वारा तात्पर्यविषयत्वं ज्ञापयति । अर्थवादोऽपि प्राशस्त्यज्ञापनद्वारा तथैव तज्ज्ञापकः, तथाप्यर्थवादबाध्यं प्राशस्त्यं बलवदनिष्टाजनकत्वरूपम् । अभ्यासबोध्यं तु अर्थान्तरादुत्कृष्टत्वरूपमिति नाम्यासार्थवादयोरेथै क्यम् । अपूर्वा प्रकृतवाक्यार्थधीविषये उक्तधीपूर्वज्ञातत्वम् । फलमुताधियः प्रयोजनवत्त्वम् । उपपत्तिरुक्तधीविषयस्याबाधितत्वम् । एतस्य तु त्रयस्य प्रमात्वघटकतया तात्पर्य प्रति व्यापकतया लिङ्गत्वम् । यथा यज्ञोपवीतादिकं ब्राह्मण्यं प्रति । तत्राद्यमनुवादवाक्यस्य स्वार्थे प्रामाण्यवारणाय । द्वितीयं 'उत्ताना वै देवगवा' इत्यादेस्तद्वारणाय । तृतीयं 'ग्रावाणः प्लवन्ते' इत्यादेः । न चोत्तानादिवाक्यस्य निष्प्रयोजनार्थपरत्वे तदध्ययने प्रवृत्त्यनुपपत्तेः स्वार्थे तात्पर्याभावेऽपि प्रामाण्यशरीरे प्रयोजनवत्त्वनिवेशो व्यर्थ इति वाच्यम् । यादृशं ज्ञानं प्रवृत्तिनिवृत्तिद्वारा साक्षाद्वा प्रमातुरिष्टप्रयोजकं, तस्यैव प्रमात्वेन लोके व्यवहारेण निष्प्रयोजनस्याप्रमात्वात् । अत एव 'औत्पत्तिकस्तु शब्दस्याथैन सम्बन्धः' 'तस्य ज्ञानमुपदेशः' 'व्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति जैमिनिसूत्रे तथैवोक्तम् । औत्पत्तिकः श ब्दार्थयोस्सम्बन्धः। न तु दोषवत्पुरुषकतस्सङ्केतः । अतस्तस्य धर्मस्य ज्ञानं ज्ञा
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
अद्वैतमञ्जरी।
पकं वाक्यमप्यौत्पत्तिकं निर्दोषत्वेनानादि । किञ्च तादृश उपदेशो व्यतिरेको बाधकज्ञानवत्त्वरूपेण प्रमाणवैध\ण शून्यः । किश्चानुपलब्धे अज्ञातेऽर्थे सप्रयोजने धर्म उपदेशरूपत्वात्तद्वाक्यं प्रमाणमेवेति तदर्थो वार्त्तिकादावुक्तः । तदेतत् सर्वमभिप्रेत्याह-षड्वितात्पर्यलिंगोपेतेति । अर्थनिष्ठमिति । प्रयोजनवद्धीविषयत्वविशिष्टरूपेणार्थस्यापि प्रयोजनवत्त्वं बोध्यम् । अतिप्रसङ्गेति । अद्वितीये इव सत्यकामत्वादिविशिष्टेऽपि ब्रह्मण्यबाधितत्वादित्रयं सम्भवति । श्रुतिबोधितत्वेनाबाधितत्वस्य उपासनाविषयत्वेन प्रयोजनवत्त्वस्य च सम्भवात् । अतस्तत्रापि तात्पर्ये प्रसक्ते अभ्यासादेरद्वितीये विद्यमानत्वेन तत्रैव तात्पर्यम् । अन्यथा वैयर्थ्यापत्तेरित्येवंरीत्या तस्य सगुणतात्पर्यातिप्रसङ्गवारकत्वमिति भावः । सर्वासामिति । च्छान्दोग्ये 'एकमेवाद्वितीय'मित्युपक्रमः । ऐतदात्म्यमिदं स'मित्युपसंहारः। ऐतदात्म्यमित्यानवधावृत्तिरभ्यासः । 'येनाश्रुतं श्रुत'मित्याद्यर्थवादः । एवं श्रुत्यन्तरेऽपि द्रष्टव्यम् । अन्यथानुपपत्तीति । तात्पर्यान्यथानुपपत्तीत्यर्थः । ननु, तात्पर्यस्य प्रमानुकूलशक्तिरूपत्वेऽपि तदन्यथानुपपत्त्या नाद्वैतस्य त्रिकालाबाध्यत्वं सिध्यति । प्रमात्वस्य व्यवहारकालाबाध्यत्वघटितत्वसम्भवात् । तथा च व्यावहारिकप्रामाण्येऽप्यद्वैत श्रुतिः कथं प्रत्यक्षादिवाधिका । तत्राह-नहीत्यादि । रूपमुपलाक्षितं व्यावहारिकं व्यवहारकालावच्छिन्नस्याबाध्यत्वस्याश्रयः। व्यवहारकालवृत्तिबाधस्याविषयत्वे सति बाध्यमिति यावत् । साक्षिखरूपस्याद्वैतस्योक्तव्यावहारिकत्वस्यासम्भवः । सर्वदैवाबाध्यत्वादिति भावः । अन्यथा व्याख्यानं प्रकटयति-तथा हीति । सामानाधिकरण्यं समानविभक्तिकमिथस्साकांक्षनामद्वयत्वम् । अध्यासे आधारारोप्ययोस्तादात्म्यबोधकनिष्ठं यदाश्रिताज्ञानस्य यः परिणामस्तयोस्तादात्म्यबोधकनामद्वयनिष्ठमिति यावत् । बाधायां बाध्यमानतादाम्योपलक्षितस्याधिष्ठानस्य बोधकनिष्ठम् । स्थाणुत्वेन पूर्वं ज्ञातः पुमानेवेत्यर्थकत्वात् । विशेषणविशेष्यभावेन उक्ततादात्म्यान्यतादात्म्यबोधकनिष्ठम् । अभेदेन शुद्धव्यक्तिमात्रबोधकनिष्ठम् । अध्यासे वेति । वा शब्दो व्यवस्थितविकल्पे । बाधिते शुक्तिरूप्यादौ बाधायाम् । अबाधिते आकाशादौ त्वध्यासे । अथ वा तत्त्वे साक्षात्कृते बाधायाम् । तत्पूर्वं त्वध्यासे इति भावः । उपहितमेवेति । उपहितविषयकस्य शुद्धविषयकत्वनियमपक्षेऽपि बाधकामावे सत्येवोक्तनियमः । प्रकृते तु शुद्धानन्दस्यावृतत्वमेव बाधकम् । प्रत्यक्षप्राप्तेति।प्रमात्वेन साक्षिसिद्धप्रत्यक्षप्राप्तेत्यर्थः । सृष्टिपूर्वेति । 'नास'दित्यादिश्रुतौ तदानीमिति पदसत्त्वात् सृष्टिपूर्वकाललाभः । षड्विंशतिरित्यादि । 'अश्वस्तूपरो गोमृगस्ते प्राजापत्या' इत्यादिपशुत्रय
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आगमबाधोद्धारः]
लघुचन्द्रिका।
२१७
मश्वमेधे श्रुतम् । तत्रैकप्रयोगत्वेन तन्त्रेणाद्रिगुप्रैषे पठनीये अश्वस्य चतुस्त्रिंशद्वंक्रिकत्वादितरयोः प्रत्येकं षड्डिशतिवंक्रिकत्वात् पूर्वाधिकरणरीत्या समस्यवचने षडशीतिरेषां वंक्रय इत्यादिप्रयोगः प्राप्तः । तत्र 'चतुस्त्रिंशद्वाजिनो देवबन्धोर्वक्रिरश्वस्य स्वधितिः समेतो ति मन्त्रेणोपदेशिकेन षड्रिंशतिपदयुक्तस्याद्रिगुप्रैषान्तर्गतमन्त्रस्यातिदेशिकस्य वाधात् 'अश्वस्य चतुस्त्रिंश'दित्यादिमन्तः । इतरयोस्तु 'द्विपञ्चाशदनयोर्वक्रय' इत्यादिसमस्यपाठ इति प्रसक्ते न चतुस्त्रिंशदिति ब्रूयात् षड्रिंशतिरित्येव ब्रूयादित्यनेन चतुस्त्रिंशदित्यादिमन्तनिषेधाद्विकल्पः । न च चतुस्त्रिंशदिति पदमात्रस्यायं निषेधः । न तु तद्युक्तमन्त्रस्येति वाच्यम् । तथा सात षड्डिशतिरित्येव ब्रूया'दित्यनुवादस्यानुपपत्तेः । न हि चतुस्त्रिंशत्पदमात्रनिषेधे षड्रिंशतिपदस्य प्राप्तिः । न च तद्वाक्यं षड्विंशतिपदस्य विधिरेव । नानुवाद इति वाच्यम् । अननुवादत्वे निषेधवाक्यैकवाक्यत्वस्य प्रतीयमानस्य भङ्गापत्तेः । चतुस्त्रिंशदित्यस्याद्यपदत्वेन तद्युक्तमवबोधकत्वं सम्भवत्येव । न च 'न गिरागिरेति ब्रूयादैरं कृत्वोद्य'मित्यत्रैरमित्यादेरिव षड्विंशतिरित्यादेविधित्वमिति वाच्यम् । एवकारेण विधिशक्तिप्रतिबन्धात् इति नवमचतुर्थे स्थितम् । तथा च 'न चतुरित्यादिवचनं यथा षड्विंशतीत्यादेः प्रतिप्रसवः, तथा विश्वसत्त्वश्रुतिः विश्वसत्यत्वस्येत्यर्थः । वैशेषिकेति । विकृतिप्रकरणपाठकल्पितवचनविनियुक्तेत्यर्थः । अपोदितस्येति । 'न चतुस्त्रिंश'दिति ब्रूयादिति शेषः । वचनवत् वचनमिव । प्रतिप्रसवामिति । दृष्टान्ते विहितप्रतिषेधेन पाक्षिकः प्रतिप्रसवः । दार्टान्तिके तु नित्यः । वस्तुनि विकल्पासम्भवात् । मिथ्यात्वश्रुतेः प्रत्यक्षरूपप्रतिपक्षवत्त्वेन सत्यत्वश्रुतिबाध्यतेति भावः । मिथ्यात्वेत्यादि । बाधकत्वाभ्युपगमे तस्याः श्रुतेविरोधात् देवताधिकरणन्यायाभावः । ततश्च सत्त्वपरत्वं न सिध्यति । मिथ्यात्वश्रुतेः प्रत्यक्षबाधकत्वानभ्युपगमे तु प्रत्यक्षसिद्धानुवादकत्वमेव सत्त्वश्रुतेरिति भावः । ननु, सत्त्वश्रुतः प्रमाणत्वस्यावश्यकत्वात् सत्त्वपरत्वम् । तत्राह
-अन्यपरत्वादिति । स्तुतिपरत्वादित्यर्थः । मिथ्यात्वश्रुतेरज्ञातज्ञापकत्वेन प्रामाण्यस्यावश्यकत्वात् व्यावहारिकसत्त्वानुवादकतया स्तुतिपरत्वम् । न हि प्रपञ्चस्य तात्त्विकत्वे व्यावहारिकमपि मिथ्यात्वं सम्भवतीति भावः । क्रियादीति । प्रमिणन्तीत्यादिपदेत्यर्थः । वाक्यार्थस्य स्तुतिरूपम्य वाक्यलक्षितस्य तद्धटितस्य महावाक्यार्थस्य वा । अपूर्वत्वेन मानान्तराज्ञातत्वेन । तदर्थम् अज्ञातसदर्थकत्वार्थम् । विज्ञानवादे प्रपञ्चस्य ज्ञानातिरिक्तस्यालीकत्वं स्वीक्रियते । न तु मिथ्यात्वम् । तत्राह आदीति । शून्यवादेत्यर्थः । शून्यवादे ज्ञानज्ञेयादिप्रपञ्चस्य मिथ्यात्वं स्वीक्रियत इति भावः । ब्रह्मत्वेत्यादि । ब्रह्मत्वविशिष्ट सत्त्वादिविशिष्टधीद्वारकप्रमा जन्यत
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२१८
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
इत्यर्थः । निराकृतत्वादिति । वस्तुतः ब्रह्म सत् । अधिष्ठानत्वादित्याद्यनुमानस्य ब्रह्मण्यसत्त्वादिधी निवर्तकत्वेऽपि सत्त्वाद्युपलक्षिताखण्डस्वरूपप्रमानुत्पादकत्वात्तत्त्वमसीत्यादेरुक्तस्वरूपैक्य प्रमाया असम्भवेनोक्तैक्याज्ञानानिवृत्तेस्ता दृशप्रमोत्पादकतया सत्यादिवाक्यं नानुवादः | वर्तमानेति । स्वाधिकरणक्षणविशिष्टेत्यर्थः । स्वं ग्राहकधीः । न च 'क्षणानामतीन्द्रियत्वेन नेन्द्रियजन्यधीविषयते 'ति प्रत्यक्षमण्यादावुक्तं युक्तम् । संयुक्तादिविशेषणतया स्थूलकालस्येव क्षणानामपि तद्विषयतासम्भवात् । तेषां प्रतिबन्धकत्वकल्पने मानाभावात् । उक्तं हि न्यायरत्नाकरादौ - 'घटोऽत्र दृष्टो न वात ष्टष्टो जनो वदति सन्निहितक्षणे दृष्ट एवे 'ति । यदि तु क्षणस्यातीन्द्रियत्वं शपथेन निश्चिनोषि तदा हि धारावाहिज्ञानानां स्वोत्पत्तिक्षणद्वितीयक्षणविनाशिस्थूलकालविशिष्टार्थग्राहकत्वमास्ताम् । वस्तुतो ज्ञानसामान्यस्य स्वोत्पत्तिक्षणविशिष्टार्थग्राहकत्वं स्वीक्रियते । तच्च नेन्द्रियसन्निकर्षादिकारणविशेषप्रयुक्तम् । किं तु 'न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते ।' इत्यादिमीमांसकसिद्धान्ते ज्ञानसामान्यस्य कारणं तादृशार्थविषयकमेव ज्ञानं जनयतीति नियमेन ज्ञानकारणमात्रनियम्यम् । अत एव प्रमात्वस्यापि तथात्वमिति प्राभाकराः । वैफल्येनेत्यादि । अध्ययनस्य हि प्रयोजनवदर्थज्ञानोद्देशेन विधानम् । न त्वक्षरावाप्त्युद्देशेनेति पूर्वमीमांसकमते तादृशज्ञानस्यान्यतस्सिद्धत्वात् तदुद्देशेनानुवादकवाक्यस्याध्ययने अध्ययनविधिना प्रवृत्तिर्न स्यादित्यर्थः । विद्वद्वाक्ये 'य एवं विद्वान् पौर्णमासी यजते स यावदुक्थ्येनोपाप्नोति तावदुपाप्नोति य एवं विद्वानमावास्यां यजते स यावदतिरात्रे -
पानोति तावदुपासोती 'ति वाक्ये । समुदायेत्यादि । 'दर्शपूर्णमासाभ्यां स्वर्गकामोजे' ति वाक्यबोधितं यत्समुदाययोद्वित्वं तत्सम्पादन रूपप्रयोजनवत्त्वनेत्यर्थः । पौर्णमास्यनावास्यापदाभ्यां विद्वद्वाक्यगताभ्यां त्रिकस्य त्रिकस्योक्त्या एकधीविषयत्वरूपसमुदायविशिष्टयोस्त्रिकयोविंद्वद्वाक्येन लाभे सति दर्शत्यादिवाक्येन तयोद्वित्वं बोद्धुं शक्यते । नान्यथा । तदबोधेऽत्र न षण्णामेव फलसम्बन्धः । किं त्वन्येषामपि । आज्यभागयाहं द्वित्वं प्रसिद्धम् । न दर्शादिकालयोगित्वम् । अनेयादिषट्कस्य तु तत् प्रसिद्धम् । न द्वित्वम् । अतस्तदुभययुक्तस्य बोधकं दर्शपौर्णमासाभ्यामिति पदं ल णया आज्यभागाप्रयादिसकलया गपरं स्यात् । समुदायवोचे तु विद्वद्वाक्येन कृते षण्णामेवान्यादीनां फलसम्बन्ध इति भावः । अत एव स्वार्थपरत्वादेव । वाक्यै - कवाक्यता फलवाक्यार्थान्वितसमुदायद्वयप्रमापकता । अन्यथा अज्ञातसमुदायद्वयबोधकत्वेन स्वार्थपरत्वाभावे । अर्थवादवत् अर्थवादान्तरवत् । स्तुतिपरत्वेनेति शेषः । - दैकवाक्यता फलवाक्यापेक्षितस्तुतिलक्षकपदता । विद्वद्वाक्ये इति शेषः । समुदाया
I
1
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे आगमबाधोद्धारः]
लघुचन्द्रिका ।
२१९
नुवादेन विद्वद्वाक्यसिद्धसमुदाये द्वित्वसम्पादनस्य द्वित्वबोधस्य फलवाक्याधीनस्य शक्यत्वादिति । वस्तुतस्तु तत्रापि न स्वार्थपरत्वम् । तद्धि खार्थप्रमापकत्वम् । प्र. मा च विद्वद्वाक्येन स्वार्थत्रिके न जन्यते। किं तु तद्बोधोत्तरं समुदायद्वयप्रमा मानान्तरेणैव । तथा च 'धूमोऽस्तीति वाक्यस्येव परम्परया प्रमोपयोगेऽप्यनुवादकत्वमस्त्येव । किं तु तत् सप्रयोजनम् । विश्वसत्त्वानुवादकत्वं तु निष्प्रयोजनम् । वादिविप्रतिपत्तिनिरासस्तु न प्रयोजनम् । विश्वसत्त्वस्य प्रत्यक्षसिद्धत्वात् । यदि त्वन्यतोऽसिद्धप्रयोजनवती या अबाधितविषयकधीः प्रमा तज्जननानुकूलशक्तिरेव तात्पयमित्युच्यते, तदा ‘अर्थेऽनुपलब्धे तत् प्रमाण मिति जैमिन्युक्तावनुपलब्धपदस्य लाक्षणिकत्वापत्तिरिति भावः । एतदभिप्रायं सप्रयोजनानुवादाभिप्रायम् । याथार्थ्य अबाधितार्थकत्वम् । यथाशब्दस्य सत्यार्थकत्वात् । सः शब्दार्थः स एव शब्दप्रमेयः । मुख्यतया शब्दप्रमेय इति यावत् । तेन तात्पर्याविषयस्यापि देवताविग्रहादेर्वाचस्पतिमते शब्दप्रमेयत्वेऽपि न दोषः । न तत्रेति । येन ज्ञानेन यस्यार्थस्य सिद्धिः विपरीतज्ञानानुत्पत्तियोग्यत्वरूपा, तत्रार्थे तत् ज्ञानं प्रमा । उक्तयोग्यत्वं च अज्ञाननिवृत्तिरूपम् । तच्चाप्राप्त एवार्थे ज्ञानाधीनम् । न प्राप्तार्थे । अतथाभूतस्यापि प्रमात्वे इच्छाद्वेषादेरपि प्रमात्वापत्तिरिति भावः । अयमनुवादः 'विश्वं सत्यं' 'इदं सर्वं यदयमात्मे' त्याद्यनुवादः । स्तुत्यर्थः स्तुतिधीद्वारः । इत्यादिवत् । इत्यादिविध्यर्थकजुहोतीत्यंश इव । अप्राप्तेत्यादि । विश्वं सत्यमिति देवा अपि न प्रमिणन्तीत्येवं निषेधस्याप्राप्तस्य प्राप्त्यर्थत्वादित्यर्थः । तथा चान्यविधानायैवायमनुवादः । अप्राप्तप्रापणस्यैव विधानत्वादिति भावः । स्वप्नाध्याये स्वप्नफलस्याज्ञातस्य ज्ञापनपरग्रन्थे । ज्ञानेति । भ्रमेत्यर्थः । निषेध्यतया मि. थ्यात्वेनास्यानुवादस्य नेहनानेत्यादिवाक्यैकवाक्यतापन्नस्य 'इदं सर्वं यदयमात्मे त्याधनुवादस्य सर्वपदेन सर्वनाम्ना सत्यष्टथिवीत्वादिना पृथिव्यादेरनुवादान्निषेधार्थत्वसम्भवः । पूर्वोक्तमन्त्रगतस्य विश्वं सत्यमित्यस्य त विध्येकवाक्यत्वात् न नेहनानेत्यादिनिषेधार्थत्वमिति ध्येयम् । न तात्त्विकत्वमिति । विधानायानुवाद्यस्य ज्ञानमात्रमपेक्ष्यते । न तु तात्त्विकत्वमित्यर्थः । सामान्यतो दृश्यमात्रस्याधिकरणे ब. ह्मणि निषेध्यसमर्पणे ब्रह्मरुपाधिकरणनिष्टतया आकाशादिबोधने किञ्चनेति सर्वनाम्नः ब्रह्मनिष्ठाकाशत्वादिनैव बोधकत्वम् । विशिष्य 'विश्वं सत्यन्न प्रभिणन्ती' त्यादिरूपेण निषेधे विशिष्य घटाद्यधिकरणे यत्र निषेधः तत्रैव प्रतियोगिप्रसक्तेरपेक्षणात् विश्वं सत्य'मित्यादिवाक्येनैव सेति भावः । वाक्यान्तरापेक्षा वाक्यान्तरापेक्षानियमः । प्रसङ्ग इति । तत्र रागेणैव प्रतियोगिप्रसक्तौ प्रकृतेऽपि तथेति
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
भावः । सतीति । रागमूलप्रत्यक्षादिनेवोक्तवाक्येनापि सा सम्भवतीति भावः । यद्यपि स्तुत्यर्थकत्वमपि सम्भवति, तथापि तस्य पूर्वमेवोचत्वादत्र विधानार्थानुवादत्वपक्षस्य परेणाशङ्कितत्वात्तदेवोक्तम् । ननु, सत्यत्वासत्यत्वयोरेकत्रासम्भवेऽपि क्वचिद्दृश्ये सत्यत्वं क्वचिच्चासत्यत्वं बोध्यताम् । तत्राह — षोडशीत्यादि । अलौकिकस्य प्रत्यक्षाद्यविषयस्य । आपश्च न प्रमिणन्ति व्यापनशीला देवा अपि यथार्थतया जानन्तीति तदन्यपरत्वस्य तस्योक्तवाक्यस्य स्तुतिपरताया उक्तत्वात् । न प्रमिणन्तीति योजनया न हिंसन्तीत्यर्थधीद्वारा स्तुतिपरत्वस्योक्तत्वादित्यर्थः । अनुवादलिङ्गति । यच्छब्दरूपलिङ्गेत्यर्थः । कल्पनादिति । यच्छन्दादिलिङ्गरहिते विश्वसत्वानुवादे यच्छन्दादिरूपलिङ्गस्य कल्पनादित्यर्थः । सर्वशाखा प्रत्ययन्यायेन यच्छब्दादिकमुपसंह्रियते । वस्तुतस्तु, 'न तौ पशौ करोतीत्यादेः निषेधार्थानुवादत्वेsपि यच्छब्दाद्यभावात् तादृशानुवादत्वं यच्छब्दादिकं विनापि कल्प्यते इति भावः । अनुसारेण बलवत्त्वानुरोधेन । एकवाक्यताम् उक्तवाक्यैकवाक्यताम् । मैत्रेयीब्राह्मणे -' इदं सर्वं यदयमात्मे' त्युक्त्वा 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्ये' दित्याद्युक्तम् । तत्रैवकारेणात्मान्यसर्व दृश्यनिषेधात् केन कमित्याक्षेपार्थक किंशब्देनापि तथा निषेधात्तदर्थमिदं सर्वमित्यादिवाक्यं प्रतियोगिप्रसञ्जकतयोपयुज्यत इति भावः । ' इदं सर्वं यदय' मित्यादौ बाधायां सामानाधिकरण्यस्वीकारे 'इदं सर्वं य' दित्यस्यैव दृश्याभाववद्बोधकत्वेन निषेधरूपत्वान्नानुवादत्वमिति । इत्यादीनीत्युक्तः स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो हायं पुरुष' इत्यादौ पश्यत्याद्यन्तवाक्यानां निषेधार्थानुवादत्वं लभ्यते । निष्प्रपञ्चवाक्यस्य बलवत्त्वे प्रयोजकमाह - निष्प्रपञ्श्चतायाः पुरुषार्थत्वदर्शनादिति । जाग्रत्स्वप्नसुखापेक्षया जाग्रत्स्वप्नरूपप्रपञ्चशून्यसौषुप्तसुखस्य पुरुषैरुत्कृष्टत्वेन व्यवहारदर्शनादित्यर्थः । सुषुप्तौ भासमानं सुखं यद्यपि जाग्रत्स्यनयोरपि भाति 'मा भूवमिति न किं तु भूयास 'मित्यस्या अन्येच्छानधीनेच्छायास्तयोरात्मन्युत्पत्तेः सुखभिन्ने तस्या असम्भवात्, तथापि 'कष्टं कर्मे 'ति लोकानुभवात् जाग्रत्स्वप्नयोः स्थूलसूक्ष्मदेहक्रियाभिर्दुः खोत्पत्तेर्विषयसुखानामपि तादृशदुःखमिश्रितत्वात् दुःखान्तरहेतुत्वाच्च जाग्रदादिसुखापेक्षया सुषुप्तिसुखमुत्कृष्टम् । लोकेत्वविवेकात् तथा न ज्ञायते । तदुक्तमाचार्यैः कष्टं कर्मेत्यनुभवो लोकानामिति । उक्तं च वार्त्तिकामृतेन तदस्ति सुखं लोके यन्न दुःखकरं भवेत् । विषयप्राप्तिवि - च्छेदक्षयेष्वसुखकृद्यत इति । तथा च जाग्रदादिसुखात् सुषुप्तिसुखमिव सुखमात्रात् निष्प्रपञ्चं मुक्तिसुखसुत्कृष्टम् । अतस्तस्य साक्षात्कारप्रयोजके निष्प्रपञ्चवाक्यार्थज्ञाने परमप्रयोजनवत्त्वात् अज्ञातविषयकत्वाच्च निष्प्रपञ्चश्रुतस्तात्पर्यस्याव
1
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आगमबाधोद्धारः]
लघुचन्द्रिका ।
२२१
श्यकत्वात् सप्रपपञ्चश्रुतेरतथात्वेन तदपेक्षया निष्प्रपञ्चश्रुतेर्बलवत्त्वात्तदुपकारकानुवादत्वं तस्यास्स्वीक्रियत इति भावः । निष्प्रपञ्चता सुषुप्तिकालीना न पुरुपार्थः न स्वतःप्रयोजनम् । तथा च सुषुप्तौ सुखस्य भासमानस्याभावात्पुरुषार्थ एव न । जाग्रदाद्यपेक्षयोत्कर्षस्तु दूरापेत इति भावः । सुषुप्तावपीत्यपिशब्दो हेतौ । तेन न च वाच्यमित्यत्र हेतुलाभः । स्पुरणेति । अनावृतचिदित्यर्थः । तदानीं माभूवमिति नेत्याकारेच्छानुदयेन साक्षिसुखमावृतमिति भावः । मुग्धे मूर्छावस्थरूपे मूढे । आवृत इति यावत् । साक्षिणीति शेषः । अर्धसम्पत्तिः सुषुप्तेरर्धम्। ज्ञानेन्द्रियाणामुपरमेऽपि कर्मेन्द्रियाणामनुपरमेण सम्पूर्णसुषुप्त्यभावात् । कर्मेन्द्रियानुपरमश्च हस्तादिचेष्टापरिशेषात् इति व्याससूत्रार्थः । कालीनेति । कालीनत्वेन श्रुतिबोधितेत्यर्थः । निष्पपञ्चतायामिति । प्रमितेनेति शेषः । 'सुषुप्तिकाले सकले विलीने तमोऽभिभूतस्सुखरूपमेति' । 'आनन्दभुक्चेतोमुखः प्राज्ञः' । 'पुनश्च जन्मान्तरकर्मयोगात् । ततस्तु जातं सकलं विचित्रमित्यादिश्रुतिभिस्सुषुप्तौ प्रपञ्चलयस्य तदुत्तरं प्रपञ्चोत्पत्तेश्वोक्तत्वात् । 'सुखमहमस्खाप्समिति सुषुप्त्युत्तरस्मृतेश्च सुषुप्तौ संस्काराविद्याद्यन्यप्रपञ्चशून्यत्वरूपा निष्प्रपञ्चता प्रमितेति भावः । निप्प्रपञ्चसुखं मासमानं सुषुप्तौ साधयित्वा तस्य जाग्रदादिसुखाद्युत्कर्षे मानमाहतथा चेति । द्वितीयात् आनात्मज्ञानात् । भयं 'दुःखसाधनमिदमिति धीप्रयुक्तो वृत्तिविशेषः । तथा चानात्ममात्रस्य दुःखसाधनत्वेन लोकानामनुभूयमानत्वात् तस्य च श्रुत्यानुवादाजाप्रदादिकाले च दुःखसाधनानां सुषप्तिकालीनाज्ञानाद्यपेक्षया बाहुल्यात् सुषुप्तिसुखं जाग्रदादिसुखापेक्षया अर्थादुत्कृष्टमिति भावः । सप्रपञ्चता जाअत्स्वप्नसुखम् । पुरुषार्थः सुषुप्तिसुखतुल्यपुरुषार्थः । दुःखसाधनत्वेन दुःखोपधायकक्रियाकूटविशिष्टत्वेन विषयाप्राप्त्यादिमूलककालान्तरीयदुःखप्रयोजकरागजनकानुभवविषयत्वेन च। पुरुषार्थत्वायोगात् सुषुप्तिमुखतुल्यपुरुषार्थत्वायोगात् । अवि
कीति । येषां विवेकाभावेन जाग्रत्स्वप्नसुखे उक्तदुःखसाधनत्वाग्रहः' तेषां तत्र द्वेषाभावादिच्छायां सत्यां विषयाप्राप्तेरेकाकित्वे तयोरभावः । तदनुवादिका चोक्तश्रुतिः । न तु तावता सौषुप्तसुखतुल्यता तस्येति भावः । सप्रपञ्चता सप्रपञ्चजाअदादिमुखम् । पुरुषार्थः सौषुप्तसुखादुत्कृष्टपुरुषार्थः । यथा निष्प्रपञ्चसुखरूपब्रह्मसाक्षात्कारो मुक्तिसाधनं त्वयोच्यते, तथा प्रेरकत्वादिप्रपञ्चयुक्तब्रह्मसाक्षात्कारो मन्मते मुक्तिसाधनम् । तथा च स्त्रीपुत्रादिद्वितीयज्ञानस्यैव दुःखहेतुत्वं द्वितीयादित्यादिश्रुत्या अनूदितम् । न त्वनात्मधीमात्रस्य । तथा च प्रेरकत्वादिविशिष्टेश्वरादिसाधारणसप्रपञ्चवाक्यमात्रं कथं निष्प्रपञ्चवाक्योपकारकमिति भावः । प्रेरकत्वे
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
अद्वैतमञ्जरी ।
न पृथक्त्वेन च मत्वा मच्यते इति नोक्तश्रुत्यर्थः । किं तु तत्त्वमतेः पूर्व प्रेरकत्वेन पृथक्त्वेन च उपलभ्यमानमखण्डात्मरूपं मत्वा मुच्यत इत्यर्थ इति भावेनाह-मतेरित्यादि । प्रेरकत्वादिरूपेण मत्वेत्यर्थकत्वेऽपि न क्षतिरित्याशयेनाह-सगुणेति । गुणान्तरयुक्तेत्यर्थः । एकधेत्यादि । केवलार्थकैकपदेन शुद्धब्रह्मण उक्तत्वात् तत्स्वरूपविषयरूपप्रकारो धाप्रत्ययेनोच्यते। तथा च शुद्धब्रह्मविषयकमेव ज्ञानं मोक्षहेतुः । न प्रेरकत्वादिविशिष्टस्य ज्ञानमित्यर्थः । इत्यादीत्यादिपदेन 'शिवमद्वैत चतुथं मन्यन्ते' 'सोऽयमात्मा स विज्ञेय'इत्यादिश्रुतिसङ्ग्रहः । ननु, सङ्ख्यावाचकादेकशब्दाद्धाप्रत्ययविधानात् केवलार्थकशब्दादुत्तरः सोऽसाधुरिति चेन्न । कैवल्यस्यापि गौणैकत्वरूपत्वेन गौणसङ्ख्यात्वात् । 'पशुना यजेते'त्यादौहि पश्वन्तरराहित्यरूपमेकत्वमेकवचनार्थः । अन्यथा पशुद्वयस्यापि प्रत्येकं मुख्यैकत्वसङ्ख्यासत्त्वेनैकवचनेन छागान्तरस्यानिवारणात् 'एकमेवाद्वितीय'मित्यादावेकपदेन 'येन जातानि जीवन्ती' त्यादावेकवचनेन च कैवल्यमेव बोध्यते । 'एका जातिः जातेान' मित्यादौ च न मु. ख्यैकत्वस्य बोधसम्भवः । किं तु कैवल्यस्यैव । किं च कैवल्यस्यैव सर्वत्रैकपदैकवचनप्रतिपाद्यत्वसम्भवेन न मुख्यैकत्वस्य तत्र भानम् । तथा च कैवल्यरूपैकत्वादिवाचकादेव धाप्रत्ययोऽनुशिष्टः । अत एव प्रेरकज्ञानस्य साक्षान्मोक्षाहेतुत्वादेव । जोषेति । ब्रह्मलोकावच्छिन्नप्रीतिविशेषेत्यर्थः । तथा च मत्वा प्रीतस्सन् ततस्ताहशप्रीतिसमाप्तौ । तेन मननेन । तत्त्वसाक्षात्कारद्वारा मुच्यत इत्यर्थः । तथेति । शुद्धज्ञानस्य मोक्षहेतुत्वोक्ते रित्यर्थः । उत्तरत्र 'उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च । अत्रान्तरं वेदविदो विदित्वा लीना' इत्यादिवाक्ये प्रेरितारं च मत्वामुच्यत' इति यदुक्तमेतद्गीतमात्रम् । न तु मुक्तस्साक्षात्कारणबोधकम् । परमं शुद्धं तु ब्रह्म वेदविदो विदित्वा वेदान्तवाक्यस्य तात्पर्यज्ञानद्वारा साक्षात्कृत्य । शुद्धबमणि लीना उपाधिमात्रोच्छेदेनैकीभूता योनिमुक्ता जन्महीना भवन्तीति साक्षान्मु. क्तिकारणोक्तिरित्यर्थः । कीदृशं परमम् । तत्राह-तस्मिन् परमे त्रयं स्थूला सूक्ष्मा च समष्टिरपञ्चीकृतभूतानि स्वप्रतिष्ठमनादि अक्षरमव्याकृतं चेत्येतानि सन्ति । अत्र एतेषु । अन्तर मधिष्ठानम् । श्वेताश्वतरीयोक्तवाक्यं प्रथमाध्याये द्वितीयाध्यायेऽपि तदात्मतत्त्वमित्यादिवाक्यं तादृशमित्याशयेनाह-तदात्मेति । वीतशोक इति । यदात्मतत्त्तेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येदिति शेषः । तथा च युक्तः त्रिरुन्नतमित्यादिना पूर्वोक्तयोगविशिष्टरसन् दीपोपमेन स्वप्रकाशेन येनात्मनस्तत्त्वेनानारोपितरूपेणाभिन्नं ब्रह्मतत्त्वं प्रपश्येत्, तत्तु तदखण्डमेव प्रकर्षेण श्रवणाद्युत्तरं सम्यग्वेदान्तवाक्यनेक्षित्वा एकः द्वितीयशून्यः । कृतार्थो भवते तदेव ब्रह्म प्राप्नो
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
लघुचन्द्रिका ।
प्रदे आगमवाघोद्धारः ]
२२३
ति । 'भू प्राप्ता'विति स्मृतेः । एतेन निष्प्रपञ्चमुखस्य सप्रपञ्चसुखादुत्कृष्टत्वन सप्रपञ्चमुखबोधकस्य विश्वसत्त्वबोधकवाक्यस्य निष्प्रपञ्चवाक्यशेषतावर्णनेन। निरस्तमित्यत्र हेत्वन्तरमप्याह-भावेत्यादि । श्रुतेरेवेति । विश्वसत्त्वाभावबोधकत्वनेति शेषः । विश्वगतसत्त्वे सद्रूपब्रह्मसम्बन्धस्य प्राप्तत्वेन तस्यापि नेति नेती'त्यादिश्रुत्या निषेधात्तत्र विश्वसत्त्वश्रुत्यपेक्षा । विश्वसत्त्वाभावत्वप्रकारकज्ञाने विश्वसत्त्वज्ञानस्य हेतुत्वादिति भावः । न तु सत्त्वश्रुतेरिति । ननु, सत्त्वं मिथ्यात्वाभाव एव । तथा च विश्वस्मिन्मिथ्यात्वाभावबोधं प्रति विश्वविथ्यात्वबोधस्य हेतुत्वान्मिथ्यात्वबोधिकां नेतीत्यादिश्रुतिं सत्त्वश्रुतिरपेक्षत एवोत चेन्न । विश्वसत्त्वस्य दृथिवीसत्त्वजलसत्त्वादिरूपस्य निषेधं ब्रह्मणि 'नेती'त्यादिश्रुतिः वोधयतीत्यवश्यं वाच्यम् । ब्रह्माण प्राप्तस्य सर्वस्य ब्रह्मणि तया निषेधबोधनात् । तथा च तावतैव प्रपञ्चस्य मिथ्यात्वलाभेन प्रपञ्चे ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वबोधने तस्यास्तात्पर्ये मानाभावः । न च तस्या विश्वसत्त्वाभावस्य ब्रह्मणि बोधने न तात्पर्यम् । किंतु प्रपञ्चम्य ब्रह्मणि निषेध इत्येव कि न स्यादिति वाच्यम् । विश्वसत्त्वस्यापि प्रपश्चान्तर्गतत्वेन तनिषेधे तात्पर्यस्यावश्यकत्वात् । तथा च 'नेती'त्यादिश्रुत्या विश्वसत्त्वाभाव एव बोध्यते । ब्रह्मणि न घटादेरभाव इति घटादौ ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वाबोधकत्वेन न सा सत्त्वश्रुत्यापेक्ष्यते । ननु, त्वन्मते 'नेती'त्यादिश्रुतेर्विश्वसत्त्वाभाव एव तात्पर्य युक्तम् । मन्मते तु तस्याश्शून्यतः प्राप्तानुवादित्वस्वीकारेण सर्वमिथ्यात्वानुवादकत्वात् सत्त्वश्रुत्यपेक्षणीयत्वम् । तत्राह-अन्यथेति। 'नेती'त्यादिश्रुतेम्सत्त्वश्रुत्यपेक्षणीयत्व इत्यर्थः । नेतीत्यादिश्रुतर्विश्वसत्त्वाभावांशे सत्त्वश्रुत्यपेक्षा सत्त्वश्रुतेमिथ्यात्वाभावघटितसत्त्वांशे 'नेती' त्यादिश्रुत्यपेक्षेत्यन्योन्याश्रयः । तस्माद्विश्वसत्त्वस्य प्रत्यक्षादिना ज्ञातत्वात् सत्त्वश्रुतिरनुवादः । विश्वसत्त्वाभावस्य तु शून्यवाद्यभिज्ञं प्रति प्राप्तत्वेऽपि सर्वान् प्रत्यप्राप्तत्वेन 'नेती'त्यादिश्रुति नुवादः । ननु, सत्त्वस्यापि सत्त्वाभावाभावत्वेन तद्हेऽपि नेतीत्यादिश्रुत्यपेक्षास्तीति चेन्न । उक्तरूपेण ग्रहे तदपेक्षणेऽपि सत्यतारूपेण ग्रहे तदनपेक्षणात् । तदिदमुक्तं भावग्रहो निरपेक्षत्वात् नाभावग्रहमपेक्षत इति । प्रतियोगितावच्छेदकरूपेण आहे नाभावग्रहापेक्षेति भावः । नाग्नीषोमीयेति । रागप्राप्तनिषेधबोधकत्वेनैव 'न हिंस्यादिति वाक्योपपत्तौ तत्र शास्त्रवाधकत्वस्यविकल्पापादकस्यान्याय्यत्वादग्नीषोमीयहिंसाद्यन्यहिंसानिषेधे तत्तात्पर्यकल्पनान्न तेनाग्नीषोमीयवाक्यमपेक्ष्यत इति भावः । न्यूनेति । न्यूनविषयकस्यैवापवादकत्वम् । तदविषये उत्सर्गप्रवृत्तिसम्भवात् । समेति । अन्यूनेत्यर्थः । रहितत्वेनेति । यथा पटादेस्सत्त्वं प्रत्यक्षप्राप्तं,तथा धर्मादेरनु
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
अद्वैतमञ्जरी ।
मानादिना प्राप्तम् । न हि प्रमाया भ्रमस्य च ज्ञानस्योत्पत्तिकाले तत्र सद्विषयकत्वरूपं प्रामाण्यमावयोमते तद्राहकेण न गृह्यते । स्वतः प्रामाण्याभ्युपगमात् । तथा च धीविषयस्य सर्वस्य सत्त्वप्राप्त्या तदनुवादिकैव विश्वसत्त्वश्रुतिः सममिव्याहतविध्यपेक्षितस्तुतिमात्रपरेति भावः । अत एव निषेधवाक्यशेषत्वादेव । धर्मादीति । यद्यपि धर्मादेरप्यनुमानादिना सत्त्वं प्राप्तं, तथापि न प्राप्तमिति परेणोक्तत्वात् तदनुसृत्यैवमुक्तम् । अथवा ननु, स्वतः प्रामाण्यादुक्तरीत्या विश्वसत्त्वं ज्ञानग्राहकेण प्राप्तं यत्, तत् व्यावहारिकमेव । श्रुत्या तु तात्त्विकं तत् प्रतिपाद्यते । तथा च सा नानुवादः । तत्राह----अत एवेत्यादि। धर्मादीत्यादिपदेन प्रत्यक्षप्राप्तघटादेस्सङ्ग्रहः । एवकारोऽपिकारश्च स्थानव्यत्ययेन योज्यः । तथा च प्रत्यक्षप्राप्तघटादेस्तदन्यधर्मादेश्वोपस्थापनद्वारा निषेधवाक्यशेषत्वादपि वाक्यसाफल्यं भवत्येवेत्यर्थः । तथा च व्यावहारिकसत्त्वोपस्थापनेनापि साफल्यसम्भवे तात्त्विकसत्त्वतात्पर्यकल्पनं व्यर्थम् । अन्यथा 'यजमानः प्रस्तर'इत्यादेरपि तात्त्विकाभेदपरत्वापत्तेः । मानान्तरसिद्धार्थानुवादेन वाक्यस्यान्यशेषत्वेनोपपत्तावद्वैत श्रुतिबाधो न युक्त इति तु सममिति भावः । 'विश्वं सत्यमित्या दिशुतोर्मथ्यात्वश्रुत्यबाधकत्वे स्थिते मिथ्यात्वानुमानाबाधकत्वमपीत्याह-अत इति । दशाविशेषे परलोकानङ्गीकर्तृवादिविप्रतिपत्त्या स्वर्गादौ सत्यतासन्देहदशायां यद्यपि स्वप्नादिविषयमिव मिथ्यात्वसत्यत्वाभ्यां सन्दिग्धमपि स्वर्गादिकमुद्दिश्य प्रवृत्त्यादिकं सम्भवत्येव, तथापि तत् . 'अलीकं न वे'ति सन्देहे तदसम्भवादलीकवैलक्षण्यज्ञानाय श्रुत्या सत्तादात्म्यरूपं सत्त्वमुच्यते । तच्च व्यावहारिकम् । व्यवहारकाले प्रपञ्चस्याबाधादिति भावः । प्रयोजनवत्त्वादिति । तथा च स्वार्थानुवादरूपत्वेऽपि समुदायद्वित्वसम्पादनरूपप्रयोजनवत्त्वाद्विद्वद्वाक्यं यथा स्वार्थपरं, तथोक्तप्रयोजनसत्त्वाद्विश्वसत्त्ववाक्यमिति भावः । श्रुतिविरोधादिति । व्यावहारिकसत्त्वपरत्वे सम्भवति मानान्तरासिद्धाबाध्यत्वपरत्वकल्पने गौरवादित्यपि बोध्यम् । दृढभ्रान्तीति । श्रुतिजन्यभ्रान्तेर्मानान्तरप्राप्तार्थकत्वेन संवादात् भ्रमत्वज्ञानाविषयत्वरूपं दृढत्वमित्यर्थः । अत्यन्तापामाण्येति । उक्तदृढभ्रान्तिजनकत्वव्यवहारेत्यर्थः । प्रतिपादनवत् प्रतिपादनस्य 'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीया'दिति श्रुतेः पश्यतीत्यन्तभागस्येव । मिथ्यात्वश्रुतेः एकमेवाद्वितीयमित्यादिश्रुतेः । समानविभक्तिकनानानामरूपत्वेनेति शेषः । अग्रहीत्वा चेति । चकारात् ब्रह्मणस्सा. क्षित्वेन बाधानुपपत्तेरिति हेत्वन्तरस्य समुच्चयः । तथा च बाध्याधिकसत्ताकविषयकत्वं बाधकत्वे प्रयोजकमिति पक्षे तात्त्विकविषयकज्ञानस्यैव वाधकत्वात्
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आगमबाधोद्धारः]
लघुचन्द्रिका ।
शून्यवादानुपपत्तिः । बाध्यान्यूनसत्ताकविषयकत्वस्यैव बाधकत्वे प्रयोजकत्वमिति पक्षे च साक्षिणो वाधानुपपत्त्या सेति भावः । नन्वद्वैतश्रुतेः प्राबल्येऽपि कर्मवाक्यवत् व्यावहारिकप्रामाण्यमस्तु । तत्राह-वैदिकतात्पर्येति । वेदमहातात्पर्येत्यर्थः । तथात्वे तात्त्विकत्वे । नन्वेवं विश्वसत्वेऽपि तात्त्विकत्वमस्तु । तच्छुतेरुपपत्तिरूपतात्पर्यलिङ्गसद्भावात् । 'आपश्च न प्रमिणन्ती'ति प्रामाणिकत्वं तन्न मोघमित्यर्थक्रियाकारित्वं चोपपत्तिर्हि वाक्यशेषे तत्राप्यस्ति । तत्राह-सत्त्वश्रुतीति । अन्यपरत्वात् स्तुतिपरत्वात् । मन्मते ब्रह्ममात्रपरमतात्पर्यकत्वात् परमते स्तुतिद्वारा वादिविप्रतिपत्तिनिरासद्वारा वा प्रवृत्तिनिवृत्तिपरमतात्पर्यकत्वात् चकारान्मानान्तरप्राप्तिविरोधाभ्यां विश्वसत्त्वे न तात्पर्यम् । तद्विरुद्धति । प्रत्यक्षतदनुवादादिश्रुतिविरुद्धेत्यर्थः। प्रत्यक्षमाप्तानुवादिसत्त्वश्रुतीति । प्रत्यक्षं च तत्प्राप्तानुवादिसत्त्वश्रुतिश्वेत्युभयेत्यर्थः । प्रत्यक्षापेक्षया बलवत्त्वमागमत्वादिनोक्तश्रुत्यपेक्षयाप्युक्तं, तथापि दूषणान्तरनिराचिकीर्षया श्रुत्यपेक्षया पुनराह-प्राप्तेति । अतत्परा स्वार्थपरत्वशून्या विश्वसत्त्वादिश्रुतिः । गुणवादः स्वार्थपरश्रुतिशेषस्वार्थबोधहेतुः । 'डिति चेतीति । इन्लक्षणगुणवृद्ध्योनिषेधोऽयम् । 'किति चेति विहिता वृद्धिस्तु नेग्लक्षणा । इग्लक्षणत्वं हि इक्पदमुच्चार्य विहितत्वम् । तथा च भिन्नविषयत्वादत्र सामान्यविशेपन्यायोक्तिः परस्य भ्रान्त्यैवेति बोध्यम् । सावकाशखेत्यादि । सावकाशत्वादिकं बलवैपरीत्यं निरवकाशत्वादिकं वलमिति व्युत्क्रमेणान्वयः । वादिनः वादिनोऽपि । तत्प्रतिपादकति । जगतः सदसदन्यत्वपरेत्यर्थः । यतः अनीश्वरम् ईश्वरोपादानशून्यं अतोऽसत्यं सत्योपादानशून्यम् । अतश्च बाधावधिरूपप्रतिष्ठाशून्यमिति ये माध्यमिका वदन्ति, तन्निन्दया सत्योपादानकं सत्यज्ञानबाध्यं चेत्युक्तस्मृतावुक्तम् । शास्त्रदर्पणोक्तामधिकरणरचनामाह-~-तथा हीत्यादि । वदतः प्रतिपादयतः । समन्वयस्य प्रथमाध्यायस्य । तकपीज्यत्वात् तर्कविरुद्धरूपात् । तथा हि-न सत्। बा. धयोग्यत्वात् । नासत् । कालसम्बन्धात् । न सदसत् । विरोधात् । न चानुभयतत्त्वकं तात्त्विकत्वेन सदसद्भेदयोरभाववत् । ताभ्यां निर्वचनासम्भवात् । विमतं सत्त्वेन प्रतीत्यर्हम् । तेन तुच्छे न बाधासिद्धी । चरमसाध्ययोस्तु विषयत्वेनैव पक्षता। तुच्छेऽपि हेतुसाध्यसत्त्वात् । न शून्यत्वमिति । ब्रह्म न बाध्यम् । बाधायोग्यत्वात् । इत्यत्र तात्पर्यम् । निरवधित्वेति । बाध्याधिकसत्ताकवस्त्वविषयकत्वेत्यर्थः । बाधित इत्यादि । वस्तूनामपह्नवो बाधः । मानर्बाधितः । मानानामबाधितविषयकत्वरूपप्रामाण्यस्यौत्सर्गिकत्वात् मानविषये बाधासम्भव इति भावः । ननु, बाधकप्रमाणवलाद्वस्तुग्राहकमानानां व्यावहारिकमानतास्तु । तत्राह-व्यावहारिके
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२२६
www.kobatirth.org अद्वैतमञ्जरी ।
त्यादि । अनाश्रित्य बाधकधीविषयत्वेनास्वीकृत्य । यत् यद्वाधकधीविषयः, तत् तदपेक्षया अधिकसत्ताकम् । अन्यथा समबलत्वेन बाध्यवाधकत्वव्यवस्थानुपपत्तेः । अतस्तात्त्विकस्य धीरेव व्यावहारिकस्य बाधिकेति भावः । अथ वा अनाश्रित्य साक्षित्वेनास्वीकृत्य । साक्षिणो बाधे तस्य साक्षी अन्यो वाच्यः तस्याप्यन्य इत्यनवस्था । साक्ष्यन्तरास्वीकारे निस्साक्षिकबाधानुपपत्तिः । तदुक्तम्- 'अप्रत्यक्षप्रकाशस्य नार्थदृष्टिः प्रसिध्यति ।' इति। अप्रकाशमानप्रकाशेन नार्थसिद्धिरित्यर्थः । उपाधीति। बाध्यत्वादेः स्वप्नधर्मस्य ब्रह्मादावभावप्रदर्शनेन स्वप्नादौ निश्चितसाध्यव्यापकत्वं ब्रहणि साधनाव्यापकत्वं च दर्शितमिति भावः । विमता नीलाद्यनुभवरूपा धीः । ज्ञानव्यतिरिक्तालम्बना । न स्वात्यन्तविलक्षणविषयिका नानुभवत्वशून्यविषयिकेति यावत् । खस्वरूपसमानसत्ताकविषयतादात्म्ययुक्तेति वार्थः । विज्ञानवादिना हि ज्ञानतद्विषयप्रमात्रादीनामत्यन्ताभेदेऽपि कल्पितभेदेन प्रमाणप्रमातृप्रमेयप्रमितिभेद इत्युच्यते । अनीलादिव्यावृत्युपहितं ज्ञानं प्रमेयम् । तत्प्रकाशनोपहितं प्रमितिः । तब्यक्त्युपहितं प्रमाणम् । तदाश्रयत्वोपहितं प्रमातृ । उक्तं च भामतीकल्पतर्वादावेवम् । तथा च ज्ञानविषयतत्तादात्म्यानामेकजातीयसत्ता विज्ञानवादे स्वीक्रियते । औपनिषदमते नीलादितादात्म्यमनुभवनिष्ठमपि नानुभवसमानसत्ताकमिति न सिद्धसाधनम् । धीत्वात् अनुभवत्वात् । स्वप्नधीवत् अनुभवविषयकस्वाप्नधीवत् । औपनिषदमते शुद्धस्यानुभवस्य स्वाप्ने अवच्छिन्नानुभवे विषयतारूपतादात्म्यसत्त्वान्न साध्यवैकल्यम् । न चोक्तानुभवविषयस्य जडस्वानुभवत्वशून्यत्वात् बाध इति विज्ञानमात्रविषयके अननुभवाविषयकत्वसत्त्वात् सिद्धसाधनं तदवस्थमिति वाच्यम् । तवानुभवाविषयकत्वावच्छेदेनानुभवाविषयकत्वासत्त्वात् औपनिषदं प्रत्यनुभवत्वाश्रयविषयकत्वस्यैव साध्यत्वाद्वा । नीलादिरूपो योऽननुभवस्तद्विषयकत्वावच्छेदेनानुभवविषयकत्वस्यास्तिकैरस्वीकारान्न सिद्धसाधनम् । योगाचारेण तु, एकव्यक्तेरेवानुभवत्वनीलत्वादि
खीकारात् नीलत्वाद्याश्रयविषयकत्वावच्छेदेनैवानुभवविषयकत्वं स्वीक्रियत इति न बाधः । एवं नीलाद्यनुभवः स्वसमसत्ताकनीलस्वादिसंसर्गयुक्तः । अनुभवत्वात् । यो यद्विषयकानुभवः सः तवृत्त्यसाधारणधर्मस्य स्वसमानसत्ताकसंसर्गवान् । यथाऽनुभवविषयकानुभवोऽनुभवत्वस्य स्वसमसत्ताकसंसर्गवानिति सामान्यतो व्याप्तिः । बुध्यार्थस्य सहेक्षणादित्यादेस्तर्कप्रदर्शनपरत्वमाह-न हीत्यादि । ननु, तुच्छस्य ज्ञानत्वशून्यस्यापि ज्ञानविषयत्वाव्यभिचारः । तत्राह-न ज्ञानातिरिक्तं सदिति। ज्ञानत्वशून्यं न सत् । न तुच्छविलक्षणमित्यर्थः । तथा च तुच्छविलक्षणविषयकज्ञानत्वमेवानुभवत्वम् । तुच्छज्ञानं तु विकल्पः । नानुभव इति नानुभवत्वं व्यभि
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्र०दे असतस्साधकत्वम्]
लघुचन्द्रिका । .
२२७
चारीति भावः । बाधेनेति । सहार्थे तृतीया । ज्ञानादत्यन्तभेदस्यार्थेषूपलम्भात् ज्ञानज्ञेययोरभेदानुमानं बाधितार्थकं बाध्यत्वादुगाधियुक्तं चेत्यर्थः । उपायोत । यथा प्रभा रूपग्रहे उपायभूता तद्विषयीभूतापि न रूपं, तथा ज्ञाने उपायभूतो विषयो ज्ञानग्रहे विषयीभूतोऽपि न ज्ञानम् । विषयोपरागेणैव ज्ञानग्रहाद्विषयस्य ज्ञानोपायता । अथ वा उपायो ज्ञानग्रहस्य विषयग्राहकतानियामकं ज्ञानविषयत्वम्। तस्य भावेन विषये विद्यमानत्वेन । सर्वथापि सहोपलम्भो नोक्तसाध्यसाधक इति भा. वः । ननु, ज्ञानेनैव सर्वव्यवहारोपपत्तेः ज्ञानान्यविषयकल्पने गौरवम् । तत्राह-सारूप्येत्यादि । अपिशब्दः काकाक्षिवदुभयत्रान्वेति । स्थूलार्थभङ्गेऽपि सारूप्यतो ज्ञानतदर्थयोरत्यन्तभेदः सौत्रान्तिकस्येव तव योगाचारस्यापि आवश्यकत्वेन तुल्यः । सौत्रान्तिको ह्यवयविखण्डनादियुक्तिभिस्स्थूलार्थं खण्डयित्वा परमाणुसमूहमेव ज्ञानादत्यन्तभिन्नमर्थमङ्गीकृतवान् । अन्यथा ज्ञाने विषयस्य प्रतिबिम्बरूपसारूप्यानुपपत्तेः। त्वयापि स्थूलार्थ खण्डयता तथाङ्गीकार्यम् । अन्यथा विषयात्मकरूपस्य तादात्म्यरूपं यत्त्वदभ्युपगतं ज्ञाने विषयस्य सारूप्यं, तदनुपपत्तेः । ज्ञानविषययोरभेदे तादात्म्यानुपपत्तेः । न हि ज्ञानं ज्ञानमिति तादात्म्यधीस्सम्भवति । न च तयोः कल्पितभेदस्वीकारेण नोक्तानुपपत्तिरिति वाच्यम् । भेदस्येव तादात्म्यस्यापि कल्पितत्वस्यौचित्यात् । अन्यथा ज्ञानस्योत्पत्तिविनाशकल्पने गौरवात् । संसर्गखण्डनयुक्त्या ज्ञाने नीलादितादात्म्यस्य बाधात् । न चौपनिषदानां मते विषयाणामुत्पत्तिनाशकल्पनेन मया साम्यमिति वाच्यम् । अनादिविषयकज्ञानस्थले तव ज्ञानोत्पत्यादिगौरवात् । तेषां विषयस्याप्युत्पत्त्यकल्पनात् । बाध्यत्वाद्युपाधीति । स्वनधी ध्येति तत्र साध्यव्यापकता । जाग्रद्धीरबाध्येति तत्र साधनाव्यापकतेति भावः । ननु, मिथ्यात्वानुमाने मानसिद्धस्यैव पक्षत्वामिग्राहकमानबाधः । तत्राहधर्माति । धमिग्राहकमाने व्यावहारिकप्रामाण्यमुपजीव्यम् । तच्च मिथ्यात्वानुमानेन नापसार्यते। यच्चापसार्यते, तत् तात्त्विकमामाण्यं नोपजीव्यमित्यादि पूर्वमुक्तम् ॥
इति लघुचन्द्रिकायां विश्वमिथ्यात्वे आगमादिबाधस्योद्धारः ।। परस्परेति । मिथ्यात्वसाधकानां प्रतिज्ञादीनामनुमितेश्च मिथो व्याघातः । प्रतिज्ञया मिथ्यात्वस्य हेतुवाक्यादिना हेतुत्वादेश्चाबाध्यत्वलाभः । प्रतिज्ञाद्यधीनया मिथ्यात्वानुमित्या च मिथ्यात्वहेतुत्वादिदृश्यमात्रस्य मिथ्यात्वरूपबाध्यत्वलाभइति व्याघातात् । एवं पक्षादौ तद्विशेषणीभूतधर्माणामभावस्य मिथ्यात्वानुमित्यादिविषयीकरणादाश्रयासिद्ध्यादिकम् । तथा चोक्तव्याघातादिमत्त्वेन मिथ्यात्वसाधकं दुर्बलमिति भावः । प्रतिज्ञादिना मिथ्यात्वादेरबाध्यत्वं लभ्यत इति यदुक्तं,
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
अद्वैतमञ्जरी
तत् प्रतिज्ञादेस्तद्वोधकत्वाद्वा, तद्बोधकत्वान्यथानुपपत्तेर्वा । नान्त्यः । व्यवहारकालाबाध्यबोधकत्वेनैव तदुपपत्तेरित्याह- मिथ्यात्वेति । नाद्य इत्याह-प्रतिक्षेति । अप्रतिपादनादिति । तद्वाचकपदाभावादिति शेषः । नन्वेवमप्याश्रयासिध्यादिकं स्थितमेव । न च मिथ्यात्वानुमितेः पूर्वमाश्रयासिच्याद्यनिश्चयात्तस्या उ. त्पत्तौ बाधकाभाव इति वाच्यम्। कार्योत्पत्तिकाले बाधबुद्ध्यभावस्यापेक्षणीयत्वेन मि थ्यात्वानुमितेः दृश्यमात्रे तदाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वप्रकारिकाया उत्पत्त्यसम्भवात् । प्रतिज्ञादिजन्यबोधेन तस्याः पूर्वमप्याश्रयासियादिबोधना. चेति चेन्न । व्याहत्यभावादित्यनेनैवाश्रयासियादिकृतव्याहत्यभावस्याप्युक्तत्वात् । तथा हि-अनुमित्या प्रतिज्ञादिजन्यबोधेन वा पक्षतावच्छेदकविशिष्टे मिथ्यात्वं बोध्यते । न च तावता आश्रयासिद्ध्यादिधीः । पक्षविशेषणतावच्छेदकादिविशिष्टे पक्षादिनिष्ठात्यन्ताभावप्रतियोगित्वज्ञानस्यैवाश्रयासिझ्यादिनिश्चयत्वात् । यथा 'आकाशीयकुसुमं नीलगन्धवत् । शुक्लरसवत्त्वा'दित्यादौ कुसुमादिनिष्ठात्यन्ताभावप्रतियोगित्वस्याकाशीयत्वादौ ज्ञानस्य । पृथिवी मिथ्येत्यादिविशेषानुमानेषु तु नाश्रयासिद्ध्यादेः शङ्कापि। किं च प्रतियोगिव्यधिकरणाभावस्याश्रयासिद्ध्यादिघटकत्वान्मिथ्यात्वे च तस्याघटकत्वान्न कोऽपि दोषः । ननु, स्वतः प्रामाण्यबलात् धीमात्रस्य तद्राहकेणाबाध्यविषयकज्ञानत्वरूपं प्रामाण्यं गृह्यत इति चेन्न । त्रिकालाबाध्यत्वादिघटितप्रामाण्यस्य स्वतस्त्वासम्भवेन मिथ्यात्वेन यदज्ञातं, तद्विषयकज्ञानत्वरूपप्रामाण्यस्यैव स्वतस्त्वात् । न हि ज्ञानग्राहकेण साक्षिणा स्वासम्बद्धं कालादिकं गृह्यते । अज्ञातत्त्वं तु स्वसम्बन्धत्वात् गृह्यत एव । तद्विशेषणतया मिथ्यात्वमपि गृह्यते । तदुक्तं विवरणे । 'ज्ञाततया अज्ञाततया वा सर्व साक्षिभास्य'मिति । साधकत्वेति । सिद्धिजनकत्वेत्यर्थः । ननु, सत्यत्वरूपं सत्त्वं न साधकताघटकम् । किं तु धीविषयत्वादि । तत्राह-न तु धीति । धीमात्रं धीत्वविशिष्टम् । साधकताप्रयोजकं साधकताबटकसत्त्वरूपम् । तादृग्वुद्धीति । व्यावहारिकसत्त्वेन धीरेव तादृशीति भावः । उक्तमेतत् खण्डने । 'कथं पुनरसतः कारणत्वमवसेयम् । प्राक्सत्वनियमानभ्युपगमात् । असत्त्वस्य सर्वासत्तविशेषादिति चेन्न । इदमस्मात् प्राक् सदिति बुद्ध्या विशेषात् यादृश्या त्रिचतुरकक्ष्याबाधानवबोधे विश्रान्तया वस्तुसतानिश्चयस्ते, तादृश्यैव कारणतानिश्चयो ममापी'ति । आत्मनो गौरत्व इति । पारलौकिकफलार्थकानुष्ठानायापेक्षितेन देहात्मनोंर्भेदनिश्चयेनात्मगौरत्वादेर्व्यवहारकालबाध्यत्वात्तत्र व्यवहारकालाबाध्यसत्त्वधीर्नेति भावः । नल्यादीति । नैल्यादिसाधकताप्रसङ्गेत्यर्थः । सत्त्वमेवेत्येवकारेण पारमार्थिकसत्त्वमेव प्रयोजकमिति
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे असतः साधकत्वम् ]
लघुचन्द्रिका ।
२२९
नियमो व्यवच्छिद्यते । न तु प्रातीतिकसत्त्वस्य प्रयोजकत्वम् । तस्याग्रे वक्ष्यमाणत्वात् । तत्त्वावेदकेत्यत्र तत्त्वं व्यवहारकालाबाध्यमबाध्यं वा । आद्ये आह-सत्वेनेति । व्यावहारिकसत्त्वनेत्यर्थः । प्रमाणेति । व्यावहारिकप्रमाणेत्यर्थः । द्वितीये आह-एकेति । मिथ्यात्वेत्यर्थः । अंशान्तरेति । मिथ्यात्वघटकस्यात्यन्ताभावस्य तात्त्विकत्वे तदंशे तत्त्वावेदकत्वम् । तस्य व्यावहारिकत्वे परमतात्पर्येण ब्रह्मांशे तदित्यर्थः । अज्ञानादिसाधक इति । अज्ञानादिघटितेनाज्ञानादिज्ञानत्वेन रूपेणाज्ञानादिविषयकेच्छाद्वेषादिकार्यजनक इत्यर्थः । यथा श्रुते त्वसङ्गतिः। अज्ञानसाधकत्वं हि अज्ञाननिश्चयत्वम् । न तु क्वचित्कार्थे जनकत्वम् । ननु, व्यावहारिकसत्त्वमेव प्रयोजकमिति यदुक्तं, तन्न युक्तम् । प्रातीतिकादपि विषयसम्बन्धात् सुखविशेषरूपकार्योत्पत्तेदृष्टत्वात् । अथालीकस्य व्यावृत्तये एवकारः । न तु प्रातीतिकस्येवि वाच्यम् । तथापि स्वाप्नयागादिना व्यावहारिकवर्गादिकं स्यात् । तत्राह
-यत्र चेत्यादि । यत्र कार्ये । साधकं कारणम् । व्यावहारिकं व्यवहारसिद्ध प्रामाणिकमिति यावत् । कारणता यत्कार्य प्रति प्रमाणसिद्धो यस्येत्यर्थः । तत्र तव्यावहारिकमिति । तस्मात्कारणात्तत्कार्योत्पत्तिः प्रामाणिकीत्यर्थः । प्रातीतिकमप्रामाणिकम् । तथैव अप्रामाणिकमेव । कारणतायां प्रमाणाभावे कार्योत्पत्तावपि स इत्यर्थः । न तु व्यावहारिकम् । न तु व्यावहारिकमेव कारणं कार्यमिति वा नियम इत्यर्थः । यादृशयोः कार्यकारणत्वं प्रामाणिकं, तादृशयोरुत्पत्तितत्प्रयोजकत्वम् । न तु व्यावहारिकत्वाद्यन्तीवेन नियम इति भावः । ननु, व्यवहारकालाबाध्यत्वस्य प्रयोजकत्वं न कारणतावच्छेदकत्वम्। तद्रूपेण कारणतायां मानाभावात् तव्याप्यरूपेणैव कार्यकारणत्वविशेषाणां स्वीकारेण निर्वाहात् । नापि कारणताव्याप्यत्वम् । प्रातीतिकस्येवालीकस्य कारणत्वाप्रतिक्षेपात् । नापि कारणताव्यापकत्वम् । प्रातीतिकस्यापि कारणत्वात् । अत एवालीकान्यत्वस्य प्रयोजकत्वमपि दुर्वचमिति चेत् । अत्रोच्यते । तुच्छवैलक्षण्यस्य कार्यप्रयोजकत्वं यत्र चेत्यादिनन्थेन लब्धम् । अलीकवैलक्षण्यं च कालसम्बन्धरु पम् । तस्य च कारणतानवच्छेदकत्वेऽपि कार्योत्पत्तिप्रयोजकत्वमस्त्येव । कार्यवदेशावच्छेदेन कार्याव्यवहितपूर्वकालसम्बन्धस्य कारणनिष्ठस्य कार्योत्पत्तिनियामकत्वात् । ननु, 'सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः । विरोधात् न हि सिमत्वं सामान्यं सिमवृक्षयो' रित्यादीनि तर्कचरणीयानि भट्टवाक्यानि ब्रह्मप्रपञ्चप्रातीतिकसाधारणं त्वदभ्युपगतं तुच्छवैलक्षण्यरूपसामान्यधर्म न सहन्ते । तत्राह-भट्टेत्यादि।व्याख्यास्यन्ते इति । परमसत्यत्वस्य मृषार्थनिष्ठतोक्तवचनेन निषिद्धा। न तु तुच्छवैलक्षण्यादेरित्यादि वक्ष्यत इत्यर्थः ।
इति लघुचन्द्रिकायां असतः साधकत्वम् ॥
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२३०
www.kobatirth.org अद्वैतमञ्जरी।
विंबात्मनेति । औपाधिकपरिच्छेदशून्यत्वे सति उपाध्यन्तर्गतत्वरूपेणा, रोपितधर्मेण विशिष्टत्वं प्रतिबिंबत्वम् । तादृशधर्मशून्यत्वे सति उपाधिसन्निहित बिंबत्वम् । सत्यन्तं घटाकाशे घटरूपोपाधिसमानपरिमाणे अतिव्याप्तिवारणाय । अपे क्षणीय एवेति । तथा च कारणत्वस्याभावेऽपि तदवच्छेदकत्वात् ज्ञानरूपं का. यं प्रति प्रयोजकत्वरूपं साधकत्वमिति भावः । धर्ममात्रेति । जपापुष्पधर्ममात्रेत्यर्थः । लोहितिमेति । आत्मनः कर्तृत्वादिकं दार्टान्तिकम् । पञ्चपादिकति । तथा च तन्मतमालम्ब्योक्तम्। तेन वाचस्पतिमते लौहित्यं प्रतिबिंबो धर्मारोपम्य धारोपव्याप्यत्वेऽपि धर्मप्रतिबिंबस्य न धर्मिप्रतिबिंबनियम इत्युक्तावपि न दोषः । ननु,कर्तृ. त्वादेमनोधर्मस्यात्मनि संसर्ग आरोप्यते । न तु स्वरूपम् । 'इदं रजत'मित्यादौ रजतत्वादेश्शुद्धम्यारोपे तस्य व्यावहारिकरजतादावविद्यमानस्यैवोत्पत्तेवांच्यत्वेन व्यावहारिकरजतवृत्तिरजतत्वादिप्रकारकप्रवृत्त्यादिकार्यम्य भ्रमाधीनस्यानुपपत्तेः। तथा च दृष्टान्तेऽपि लौहित्यसंसगस्थैवारोपोक्तिसम्भवात् कथं लौहित्यस्वरूपमिथ्यात्वसाधकत्वं पञ्चपादिकाया इति चेदुच्यते । संसर्गारोपमात्रेण न प्रतिबिंबत्वम्। किं त्वन्तरैकदेशावच्छिन्नसंसर्गारोपेण। लौहित्यस्य तु स्फटिके व्याप्यवृत्तित्वात् नोक्तारोप इति न प्रतिबिंबत्वम् । किं तु संसृष्टरूपेण मिथ्यात्वमिति भावः । ध्वनिसाहित्यं दै
श्रियध्वनिसाहित्यम् । नासत्वात् नारोपितत्वात् । शङ्काविति । ' विषमिदमिति भ्रमस्य भयविशेषोत्पादकस्य विशेष्येत्यर्थः । अवच्छेदकस्य उपाधेः । अवच्छिन्नस्य तदुपहितस्य । उपलक्षणत्वात् उपलक्षणत्वापातात् । अनुष्ठानेति । यद्यपि मैत्रावरुणरूपदण्डी नात्र वाक्ये विधीयते । 'मैत्रावरुणः प्रेष्यति चान्वाहे' ति वचनप्राप्तत्वात्, तथापि दण्डस्यात्रावश्यं विधिः । तस्य चोपलक्षणत्वे प्रैषानुवचने साधनतया तद्विधानेऽपि कदाचित् सत्तामात्रेण तस्य साधनत्वसम्भवेनोद्देश्यानुवचनकालव्याप्यं च तद्धारणं नानुष्ठीयेत । यद्यपि हि तस्यावलम्वनरूपदृष्टद्वारा प्रैषानुवचने साधनता, तथापि तत्पूर्वसत्तामात्रेणापि तत्सम्भवात् तत्कालसत्ता दण्डस्य न लभ्यते । विशेषणत्वस्वीकारे तु अनुवचनकर्मकभावनायां साधनतयान्वितस्य दण्डस्य विशेष्यीभूतभावनान्वयिन्यनुवचने समानकालीनत्वसम्बन्धेनान्वयादनुवचनकालीनदण्डस्य साधनतालाभः । यथा 'पक्ता दण्डी'त्यादौ पाकादौ समानकालीनतासम्बन्धेन दण्डाद्यन्वयः । वस्तुतस्तु, दण्डस्य पदार्थैकदेशत्वेन भावनायामन्वयासम्भवादेव विशेषणत्वं स्वीक्रियते । विशेषणत्वे हि दण्डिनो भावनायां साधनत्वेनान्वयात्तद्विशेषणतापन्नस्य दण्डस्यापि भावनायां साधनत्वेनान्वयसम्भवः । तत्र भावनायां दण्डिनः साधनतया प्राप्तत्वेऽपि दण्डस्याप्राप्तत्वात्तत्रैव विधिता
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदे असतस्साधकत्वाभावे बाधकम् ] लघुचन्द्रिका ।
.
२३१
त्पर्यम् । कृचिदिति । सहकारिलाभस्थले । जनकत्वेति । उपधायकत्वेत्यर्थः । कार्यमात्रस्य कर्तृजन्यत्वेन कर्तृज्ञानादिजन्यत्वं कुलालादेर्घटाद्यालोचनद्वारेव घटादिहेतुत्वात् । स्वस्वव्यापारान्यतरेति । पूर्ववृत्तिन एव कारणत्वम् । तच्च साक्षादिव परम्परयापि सम्भवति । 'गोमयैः पचती त्यादिलौकिके 'तुषपक्का भवन्तीति वैदिके च प्रयोगे कारणकारणेऽपि तावहारात् । अथ तत्र प्रयोजकत्वमेव व्यवह्रियने । न कारणत्वम् । तथापि मागादेस्स्वर्गादौ कारणत्वमावश्यकम् । इष्टकारणत्वमेव हि विधिना बोध्यते । नेष्टकारणकारणत्वमपि । शक्तिद्वयकल्पने गौरवात् । तथा च कार्याव्यवहितपूर्वक्षणवृत्ति यत् स्वस्वकार्ययोरन्यतरत' तत्सम्बन्धित्वमेव कारणत्वम् । स्वकार्यत्वं च स्वाधिकरणक्षणाव्यवहितोत्तरक्षणवृत्तित्वमिति नानवस्थादिकम् । तस्मादिीत । तस्य कारणत्वे तव्यापारसत्त्वापत्तिरिति भावः । कारणत्वं परिणामित्वम् । जडत्वेति । जडत्वमात्रेत्यर्थः । कार्यस्य चित्परिणामत्वे चिद्रूपता स्यात् । न तु जडत्वमात्रमिति भावः । ननु, प्रतिबिम्बादेः लिङ्गविधया किम्बानुमित्यादिकारणत्वं वाच्यम् । तच्च न युक्तम् । अतीतानागतधूमादेरिव तस्यापि कारणत्वस्य हातुमुचितत्वात् । अन्यथा गौरवात् । तत्राह-न हीति । क्वचित् अतीतलिङ्गादिस्थले । मुख्येति । प्रतिबिम्बादिरूपलिङ्गज्ञानमनुमितिकारणमित्याकारके प्रत्यक्षादिरूपे कारणताग्राहके ज्ञाने लिङ्गस्य विशेषणत्वसम्भवेन तत्रापि कारणताग्राहकत्वम् । विशिष्टे प्रवृत्तस्य प्रमाणस्य हि विशेषणेऽपि प्रवृत्तिरोत्सर्गिकत्वेन मुख्या। अतीतधूमादिस्थले तु बाधादेव न सा । तथा चोक्तगौरवं प्रामाणिकमिति भावः । सङ्कति । तस्यादोषत्वे तु ज्ञान इव विषयेऽप्येकस्य वैजात्यस्य सिद्ध्यापत्तेः विषयस्य हेतुत्वसिद्धिः । न च व्यावहारिकसुवर्णज्ञानसाधारण्येन कारणत्वस्य सुवर्णेऽपि स्वीकारे व्यावहारिकसुवर्णादज्ञातादपि सुखविशेष उत्पद्येतेति वाच्यम् । तावतापि तादृशवैजात्यस्य स्वाप्नप्रातीतिकसुवर्णे व्यावहारिकसुवर्णज्ञाने च वृत्तौ बाधकाभावात् । अन्यदति । अतीतानागतादेर्यदा ज्ञानं, तदा सूक्ष्मावस्थारूपेण सत्तावश्यं वाच्या । अन्यथा तस्य प्रमाणविषयत्वासम्भवादिति पूर्वमुक्ते कालान्तरे सत्त्वात् तस्य ज्ञानमुपपद्यते इत्याशङ्कायामन्यदेत्यादिकं खण्डन उक्तम् । तस्यायमर्थः । पाटच्चरश्चोरः । यामिकः तद्वारणाय जाग्रत्पुरुषः । प्रमाया अतीतादिविषये विषयित्वासम्भवः । अलीके सम्बन्धासम्भवात् । कालान्तरसत्त्वं तु एतत्कालीनज्ञानेन सम्बन्धेन प्रयोजकम्।सम्बन्धिनोरेकक्षणवृत्तित्वस्य सम्बन्धे प्रयोजकत्वमित्यस्य संयोगादिस्थले दृष्टत्वादिति।तदिदंरूपान्तरेण सत्त्वेऽपितुल्यम्।यद्रूपोपहितस्य हि कारणत्वं तद्रूपोपहितस्य सत्त्वमपेक्षितम्।अन्यथा कार्याव्यवहितपूर्वक्षणसम्बन्धस्यासत्य
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
अद्वैतमञ्जरी ।
सम्भवेन कारणत्वासस्भवात्।त्वन्मते हि मिथ्यात्वस्यालीकत्वरूपत्वं स्वीकृत्य मिथ्याभूतस्यन कारणत्वमित्युच्यत इति भावः । न चेति । भ्रमो यद्यबाधितः स्यात् , तदा अबाधितविषयकः स्यादित्यत्रेति शेषः । दोषादीत्यादिपदादविद्या गृह्यते । तथा चाविद्यापरिणामत्वादिना भ्रमस्य मिथ्यात्वं बाधावतारकाले विषय इव ज्ञायते । दोषस्य स्वविशिष्टं प्रति कारणत्वम् । दोपविशिष्टत्वं च दोपाश्रयशक्त्याद्यवच्छिन्नचित्तादाम्यम् । तच्चाविद्यापरिणामत्वेन रजतादितदाकाराविद्यावृत्त्योरविशिष्टमिति भावः । अनभ्युपगमादिति । वस्तुतः तुच्छज्ञानादेस्तुच्छोपहिलरूपेण तुच्छत्वेऽपि न क्षतिः। न हि तेन रूपेण तस्य कारणत्वादिकं त्वयापि स्वीक्रियते । किं तु जातिविशेषरूपे. ण । प्रातीतिकस्य तु कालसम्बन्धादिनोत्कर्षादिना च तन्मया स्वीक्रियत इति बोध्यम् । न चैवं मिथ्यात्वस्य तुच्छवैलक्षण्यघटितत्वेन तद्धियोऽपि तुच्छत्वापत्तिरिति वाच्यम् । तुच्छवैलक्षण्यादेः कालसम्बन्धत्वादिना मिथ्यात्वादिघटकत्वात् । पूर्वसम्बन्धनियमे अनन्यथासिद्धत्वे सति कार्याव्यवहितपूर्वक्षणावच्छिन्नकार्यसामानाधिकरण्याश्रयस्यान्योन्याभावस्य प्रतियोगितानवच्छेदकत्वे । सिद्धान्ते दण्डादिमत्यपि दण्डादेरत्यन्ताभावस्वीकारादत्यन्ताभावाप्रतियोगित्वं त्यक्त्वान्योन्याभावादिकमुक्तम्। हेतुतत्त्वं हेतुता । तबहिर्भूतं तदघटकम् । तादृशे ये सत्त्वासत्त्वे तत्कथा वृधेत्यर्थः । यदि कारणस्य सत्तासम्बन्धोऽपेक्ष्यते, तदा सोऽस्त्येव कल्पितः।कल्पिते अकल्पितस्तुसम्बन्धोऽलीकः । परं तु स नापेक्षित इत्याशयेन कथा वृधेत्युक्तम् । कारणस्य सज्ञानियमे साधकाभावमुक्त्वा बाधकमाह । अन्तरित्यादि-अन्तर्भावितसत्त्वं सत्ताविशिष्टं सत्ता तदाश्रयश्चेति यावत् । यदि तदुभयं कारणं, तदा सत्तानाश्रयः कारणमिति सिद्धम् । न हि सत्तायां सत्तान्तरमस्ति । न वा सैव सत्ता । आद्ये द्वितीयादिसत्ताया अपि स्वप्रत्यक्षादिकारणत्वसिद्धये सत्तान्तरस्वीकारादनवस्था । नानासत्तास्वीकारेण सत्ताकारानुगतधीलंघने जातिमात्रलोपापत्तिश्च । यदि च अन्तर्भावितसत्त्वं न कारणं सत्ता न कारणम् । किं तु सत्तोपलक्षितं कारणं, तथापि सत्ताभावकाले अतीततादशारूपे दण्डादेः कारणत्वादसत् कारणमिति सिद्धम् । अथ सत्ता कारणताश्रये न विशेषणम् । नाप्युपलक्षणम् । किं तु उपा. धिः । यदा यदा यत्र कारणत्वं, तदावश्यं तत्र सत्तेति यावत् । तथापि सत्यरूः पादन्यत् कारणमित्यागतम् । न हि सत्तासम्वन्धि दण्डादिकं सद्रूपम् । ब्रह्मणः सद्रूपताया आवश्यकत्वेन तत्सम्बन्धादेव तत्र सद्रूपताप्रत्ययसम्भवात् श्रुत्यादिवाध्यत्वाच्च । न चैवमित्यादि । कारणत्वस्थले अधिष्ठानत्वमादाय पूर्वोक्तदोष इत्यभिमानः । स्वरूपत इति । सद्रूपमेवावच्छिन्नानवच्छिन्नरूपेण प्रातीतिकव्या
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे असतस्साधकत्वाभावे बाधकम्] लघुचन्द्रिका ।
२३३
वहारिकाध्यासमात्राधिष्ठानमिति भावः । स्वरूपेति । दण्डादिकारणस्वरूपेत्यर्थः । उक्तयुक्तिभिस्स द्रूपस्याकारणत्वात् सद्रूपसम्बन्धिन्येव कारणत्वं त्वया वाच्यम् । तथा च सद्रूपं कारणं तवासिद्धमिति भावः । ननु, दण्डत्वादिना कारणत्वे खीकृते प्रातीतिकदण्डादेरपि घटाद्युपधायकत्वापत्तेः व्यावहारिकदण्डत्वादिनैव तत्स्वीकार्यं त्वया । तथा च हेतुतत्त्वबहिभूतेत्याद्यसङ्गतमिति चेन्न । तावतापि पारमार्थिकत्वरूपसत्त्वस्य हेतुत्वबहिनीवानपायात् । किं च न व्यावहारिकत्वघटितरूपेण कारणत्वं क्वापि स्वीक्रियते । अथ तदुक्तापत्तिः कथं वार्यत इति चेत् । सामग्रीव्याप्तिमध्ये व्यावहारिकत्वविशिष्ट पदार्थानामेव निवेशात् व्यावहारिकेण कारणतरवच्छेदकेन विशिष्टं ययावहारिकं तत्समूहस्य व्यावहारिकसम्बन्धविशिष्टो यो व्यावहारिकक्षणः, तस्माद्यावहारिकोत्तरत्वविशिष्टो यो व्यावहारिकक्षणः, तत्त्वं कार्योत्पतिव्याप्यमिति स्वीकारात् प्रातीतिकदण्डादेर्न घटाद्युपधायकत्वम् । न च प्रातीतिकघटादेरपि व्यावहारिकदण्डादितः उत्पत्तिः स्यादिति वाच्यम् । आपादकाभावात्। कार्यतावच्छेदकविशिष्टं प्रत्येव तादृशक्षणत्वस्य व्याप्यत्वादकार्यतावच्छेदकपातीतिकत्वरूपेण कार्यस्यापत्त्यसम्भवात् । न च दण्डादिकं विनापि प्रातीतिकवटाद्युत्पत्या व्यभिचार इति वाच्यम् । व्यावहारिकं प्रति मूलाविद्यायाः प्रातीतिकं प्रति पलुवाविद्यायाः परिणामिकारणत्वेन सामग्रीभेदात् । आंधया कार्यजनने दण्डादेः द्वितीयया कार्यजनने दोषादेस्सहकारित्वात् । एवं च यत्र च व्यावहारिकं साधकमित्यादि व्याख्यातं मूले । साधकस्य व्यावहारिकत्वं मूलाविद्यात्वम् । प्रातीतिकत्वं पल्लवाविद्यात्वम् । पल्लवाविद्यानङ्गीकारे तत्स्थानीयविषयावरणत्वम् । न च तथापि प्रातीतिकेनापि कार्यजननात् सामग्रीव्याप्ती सर्वत्र कथमुक्तरीत्या व्यावहारिकत्वं निवेशितमिति वाच्यम् । प्रातीतिकस्य कुत्रापि कार्ये हेतुत्वास्वीकारात् तज्ज्ञानस्यैव हेतुत्वात् । न च तद्विषयकत्वघटितरूपेण ज्ञानस्यापि प्रातीतिकत्वम् । उक्तञ्चाचार्यैः । 'ज्ञानमिथ्यात्वं विना विषयस्य मिथ्यात्वासम्भवः । स्वरूपतो बाधाभावे विषयतो बाधासम्भवादिति । "इदं रजत'मिति यत् ज्ञानं जातं, तन्मिथ्येति विषयविशिष्टज्ञानस्य मिथ्यात्वानुभवादिति वाच्यम् । तावता वृत्तिरूपस्य ज्ञानस्य स्वरूपतः प्रातीतिकत्वेऽपि चिद्रूपस्य तदभावात् । रजतादिप्रातीतिकविषयकत्वरूपेण न चितो हेतुत्वम् । किं तु रजतत्वावच्छिन्नविषयताकत्वरूपेण । तच्च न प्रातीतिकघटितम् । असद्विशिष्टचितोऽपि न प्रातीतिकत्वम् । न च भ्रमस्थले रजतादितादात्म्यस्य शुक्त्याद्यवच्छिन्नचित्युत्पद्यमानस्य विषयतात्वेन विषयता प्रातीतिकीति वाच्यम् । व्यावहारिकपूर्वसिद्धतादात्म्येनैव रजतादेरुत्पत्तेरिदमादितादात्म्यं रज
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
ताद्यवच्छिन्नचिति ज्ञायमानं न विषयता । सांसर्गिकविषयताश्रयत्वात् । न हि विषयविषयतयोरभेदः परैः स्वीक्रियते । तथा चेदमादेर्विषयतापि भ्रमात् पर्वसिद्धा । तथा संसर्गरूपमुक्ततादात्म्यमपि पूर्वसिद्धसांसर्गिक विषयतासम्बन्धेन जायत इति विषयतामात्रं व्यावहारिकम् । न हि ज्ञानं तद्विषयताचारोप्यते इति परैः स्वीकियते । किं तु विशेषणं विशेष्यविशेषणयोस्संसर्गश्च । द्वयोरपि बाधानुभवात् । तस्मात् प्रातीतिकं न कारणम् । यद्वा यादृशकार्यं प्रति शक्तिर्यत्र तिष्ठति, तत्तस्य कारणम् । शक्तेरेव कारणतारूपत्वात् । प्रातीतिके दण्डादौ व न घटादेरशक्तिः । यस्य च शक्तिः प्रातीतिके, तत्तस्माज्जायत एव । तथा च व्यावहारिकत्वस्य उतरीत्या न व्याप्तौ निवेशः । न चैवमपि व्यावहारिकत्वस्य कारणतास्ववच्छेदकत्वकरूपने गौरवमिति वाच्यम् । कारणे वस्तुगत्या येन रूपेण सम्बन्धेन च यत्कार्योत्पत्तिपूर्वक्षणे कार्याधिकरणे यत् सम्बद्धं तद्रूपसम्बन्धाभ्यां तादृशसम्बद्धत्वविशिष्टेष्वेव तच्छक्तेस्वीकारात् । विशिष्टस्य च केवलातिरिक्तत्वेनानतिप्रसङ्गात् । व्याप्तेरिव शक्तेरवच्छिन्नत्वे स्वरूपसम्बन्धरूपे मानाभावात् । अनयोः कल्पयोर्द्धतीयस्यैव मूलानुसारित्वेऽपि प्रथमः परपराभवे प्रभुरेव । द्विष्ठेति । एकानुयोगिकापर प्रतियोगिकेत्यर्थः । कश्चिद्विषयताविशेषरूपः । विशेषेति । व्यावृत्तीत्यर्थः । ननु उक्तरूपयोर्न व्यावर्तकता । आद्यस्याननुगतत्वात् । द्वितीयस्य सर्पत्वावच्छिन्नस्य विशेष्यत्वस्य प्रकारत्वस्य वा सकलेषु सर्पज्ञानेष्वभावात् । किञ्च प्रत्यक्षे व्यावर्त्तकज्ञाने तयोर्विषयघटितरूपेणैव भानात्तेनैव रूपेण व्यावर्त्तकत्वमुचितम् । तत्राह – किश्चेति । धर्म्यन्तरसम्बन्धमनपेक्ष्य विलक्षणं स्वविषयसम्बन्धान्येन वैलक्षण्येन युक्तम् । तेन विषयतामादाय न सिद्धसाधनादिकम् । शक्त्यन्येत्यपि विशेषणं वैलक्षण्ये देयम् । तज्जनकेति । असर्पज्ञानजनकेत्यर्थः । विलक्षणेति । भिन्नेत्यर्थः । असर्पज्ञानावृत्तिजन्यताश्रयत्वादिति पर्यवसितो हेतुः । सर्पज्ञानत्वादेर्जन्यतावच्छेदकत्वे गौरवात् तदन्यदखण्डवैलक्षण्यं विना जन्यताया अवच्छिन्नत्वानुपपत्तिरनुकूलतर्कः । स्याताभिति । चैत्रादिसम्बन्धत्वादेर्गुरुत्वात्तदन्यदखण्डवैलक्षण्यं जन्यजनकतावच्छेदकं कल्प्यत इत्युक्तौ सर्पज्ञानेऽपि तथेति भावः । सर्वज्ञानेति । सर्वसर्पज्ञानेत्यर्थः । जातिरूपः जातिपदेन तान्त्रिकैर्व्यवहार्यः । मांनाभावादिति । सर्पज्ञानमात्रवृत्तिकारणत्वादेरवच्छिन्नत्वस्य स्वरूपसम्बन्धरूपस्यावश्यकत्वे अवच्छेदकत्वाख्यविषयताविशेषसम्बन्धेन सर्पत्वादिजात्यैव तत्सम्भवः । वस्तुतस्तु तादृशावच्छिन्नत्वे मानाभावः । अत एव स्थूलसर्पत्वादिगुरुधर्मस्यावच्छेदकत्वे गौरवात्तदवच्छिन्नविषयताकज्ञानमात्रवृत्तिकारणताद्यवच्छेदकत्वेनाखण्ड
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे असतस्साधकत्वाभावे बाधकम् लघुचन्द्रिका ।
२३५
धर्मविशेपो जात्यन्यः कल्प्यत इति परास्तम् । कारणतारूपशक्तिविशेषस्तु स्वीक्रियत एवेति भावः । घटसंयोग इत्यादि । घटसंयोगः पटसंयोगावृत्तिजातिशून्यः। तादृशजातिग्राहकमानाविषयत्वादित्यत्र तात्पर्यम् । धर्म्यन्तरसम्बन्धमिति। यो यदवृत्तिजन्यतावान्, स खाधिकरणसम्बन्धान्यस्य तदवृत्तिधर्मस्याश्रय'इति व्याप्तिः पूर्वमुक्तेत्याशयेन इदम् । ज्ञाने चोक्तसाध्यमस्ति । विषयस्य ज्ञानानधिकरणत्वात् । एतेन स्वविषयसम्बन्धान्यधर्मत्वेन पूर्वोक्तरूपेण साध्यतायां न व्यभिचारः । किं तु साध्याप्रसिद्धिरिति परास्तम् । व्यभिचार इति । संयोगजन्यान्यसंयोगं प्रति क्रियायाः कारणत्वात् क्रियाजन्ययोर्घटपटसंयोगयोमिथो व्यावृत्तजातिमत्त्वे मानाभावात् व्यभिचार इति भावः । कार्यकारणभावेति । कार्यतादेरवच्छिन्नत्वे मानाभावः । न चैवं प्रतियोगितादेरपि अवच्छिन्नत्वं न स्यात् । प्रतियोगिताविशेषसम्बन्धेन घटादिविशिष्टाभावस्यैव ‘घटो नास्ती'त्यनुभवादिनिर्वाहकत्वसम्भवादिति वाच्यम् । इष्टत्वात् । अतोऽभावादीत्यादिपदमुक्तम् । तेन च जातिविशेषविषयकप्रत्यक्षस्यानुभवो गृह्यते । तथा च कारणतादेरवच्छेदकतया जाति कल्प्यताम् । तादृशानुभवेनैव तत्सिद्धिस्तु भवत्येवेति भावः । अत एवेत्यादि । अपिशब्दोऽत एवेत्यस्योत्तरं योजनीयः । तेनामावनिदर्शनस्यासिद्धत्वादिति समुच्चीयते । तथा हि-घटाभावादौ प्रतियोगिभिन्नो विशेषो न प्रत्यक्षः । नापि कारणताद्यवच्छेदकतया अनुमेयः । तस्यावच्छिन्नत्वे मानाभावात् । भाव वा प्रतियोग्यविशेषितरूपेणाभावस्यान्यथासिद्धेः प्रतियोगिन एव तदवच्छेदकत्वात् । उक्तान्यथासिध्यस्वीकारे तदभाकव्यक्तेरेव स्वनिष्ठकारणताद्यवच्छेदकत्वसम्भवेनोक्तविशेषासिद्धेः । स्वोपरागात् स्वोपरागमादाय । काले विशेष्योपरञ्जकामात । व्यावृत्तिधीविशेष्ये विशेषणतया व्यावृत्तिधीकाले भासमानं सत् व्यावृत्तिधीकाले विद्यमानमित्यर्थः । ध्वंसादेरितरस्मात् व्यावर्त्तके प्रतियोग्यादावुपाधावतिव्याप्तिवारणाय विशेष्यदलम् । उपलक्षणे तद्वारणाय सदित्यन्तं विशेषणदलम् । ननु, 'अयं न गवेतर' इत्यनुमितौ गोत्वलिनिकायां गोत्वस्याविषयत्वात् व्यावृत्तिधीकाल इत्ययुक्तम् । अत आह-येन चेति ! उदासीनं कुर्वतेत्यस्य विवेचनं विशेष्येत्यादि। व्यावर्तकेति । व्यावृत्तिव्याप्येत्यर्थः । तथा च यस्य धर्मस्य व्यावृत्तिबुद्धौ तत्कारणे व्यावर्तकधर्मवत्त्वेन व्यावर्त्तनीयधर्मिणो ज्ञाने च न भानं, तस्योपरागः उदासीनः । यस्य तु तस्यां तस्मिन्वा भानं, तत् विशेषणम् । अतो व्यावृत्तिबुद्धिकाले भासमानमित्यनेन व्यावतकव्यावर्तनीयवैशिष्ट्यज्ञाने विशेष्यतावच्छेदकतया व्यावर्तकरूपविशेषणविषया वा विषयो विवक्षित इति भावः । अत्रोपल
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६ .
अद्वैतमञ्जरी
क्षणलक्षणे कुर्वतेत्यन्तेन विशेषणान्यत्वं विशेषणमित्युक्तम् । तदनुक्तौ विशेषणस्यापि व्यावर्त्तकान्तरोपस्थापकत्वात्तत्रातिव्याप्तिः । विशेष्य इति । व्यावृत्तिधीकाल इति शेषः । विशेषणादुपलक्षणाच्चान्यत्वे सति व्यावर्तकमित्यर्थः । शब्दप्रयोग इति । शब्दजन्यानुभव इत्यर्थः । उपस्थापयतः उपस्थापकधीविषयौ। जनयतः जनकधीविषयौ। व्यावर्तकौ उक्तानुभवविषयस्य व्यावर्तकौ । उपाधी एवेति । उक्तानुभवानुपरक्तत्वात् उक्तानुभवहेतुधर्मान्तरज्ञानजनकज्ञानाविषयत्वादुक्तानुभवविषयव्यावर्तकत्वादुक्तानुभवं प्रत्युपाधी । गोत्वादेस्तूक्तव्यावृत्तिबुद्धयुपरक्तत्वादिना तादृग्बुद्धिं प्रति विशेषणत्वादिकमिति भावः । ननु, पद्मत्वादेरिव तत्तत्पद्मव्यक्तित्वस्य तावत्पद्मव्यक्तीनामन्यतमत्वस्य चोक्तानुभवविषयव्यावर्तकत्वेन तस्यापि प्रयोगोपाधित्वव्यवहारः स्यात् । किं च कुमुदादावपि पङ्कजादिपदप्रयोगसम्भवात् कथं ततो व्यावर्तकत्वम् । न हि त्वया समुदायशक्तिः स्वीक्रियते । न च विशेष्यतासम्बन्धेनोक्तानुभवं प्रति पद्मत्वादिकं कारणम् । अतो न कुमुदादौ प्रयोग इति वाच्यम् । अवयवशक्तिभिर्लक्षणया वा कुमुदादौ प्रयोगस्योत्पत्तेः। तत्राह-इदं चेति । सम्मतं युक्त्या स्वीकृतम् । सा चोच्यते । यावदवयवशक्तिज्ञानजन्यशाब्दानुभवे पद्मत्वादिना पद्मादेस्तादात्म्येन हेतुत्वात् पद्मान्वये अनुपपत्तिज्ञानकाले लक्षणयैव कुमुदादा प्रयोगः । तथा चोक्तकारणतावच्छेदकतयोतानुभवविषयव्यावर्तकत्वं पद्मत्वादेरेव । न तव्यक्तित्वादेः । किं च तत्परिचायकः पद्मत्वादिरेव वाच्यः । तथा च तत्रैव व्यावर्तकत्वव्यवहारः । अत एव शब्दपणावपि प्राभाकरमते स्थित्वा मणिकतोक्तं यथा 'सर्वनामतत्त्वमहंपदेषु बुद्धिस्थत्वसम्बोध्यत्वोच्चारयितृत्वानि प्रयोगोपाधयः । तेन बुद्धिस्थत्वादिकं तैन बोध्यते । किं तु तदुपलक्षितम् । तस्यैव तच्छक्यत्वात् । तथा पद्मत्वादिकं पङ्कजादिपदेषु प्रयोगोपाधिः । तेन तत् तैन बोध्यते । किं तु तदुपलक्षित'मिति । यत्तु बुद्धिस्थत्वोपलक्षितधर्मविशिष्टे सर्वनाम्नां शक्तिज्ञानात् बुद्धघटत्वादिप्रकारेण घटादेशाब्दबोधः । सम्बोध्यतावच्छेदकत्वोपलक्षितधर्मविशिष्टे युप्मच्छब्दस्योच्चारयितृतावच्छेदकत्वोपलक्षितधर्मविशिष्टे अस्मच्छब्दस्य शक्तिग्रहाच्छुद्धचैत्रत्वादिप्रकारेण शाब्दबोधः । न तु तत्र बुद्धिस्थत्वादिभानम् । तथा च दृष्टान्ताभावान्न पद्मत्वादेः प्रयोगोपाधित्वमिति यत् पक्षधरैरुक्तं,तन्न।बुद्धिस्थत्वाद्युपलक्षिततत्तद्धर्मविशिष्टे शक्तिज्ञानं तत्तद्धर्मप्रकारकशाब्दबोधे हेतुरित्यवश्यं वाच्यम् । अन्यथा कदाचित् घटत्वं कदाचिदन्यत् शाब्दबोधे प्रकार इत्यत्र नियामकाभावात् । तथा च धर्मविशेषमादाय कार्यकारणभावे गौरवात् बुद्धिस्थत्वादिकं विषयतावच्छेदकत्वसम्बन्धे
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे असतस्साधकत्वाभावे बाधकम् लघुचन्द्रिका ।
२३७
न शाब्दबोधं प्रति हेतुरिति प्रयोगोपाधित्वमेव युक्तम् । सर्वनामतदादिपदस्य धर्मविशिष्टे शक्तिः । घटे व बुद्धिस्थे सति तादृशशक्तिज्ञानादिना घटत्वप्रकारकः शाब्दबोधः । युष्मदस्मत्पदयोरात्मन्येव शक्तिः । यस्यात्मनो यदा सम्बोध्यत्वमुच्चारयितृत्वं वा, तदा तस्यात्मनि शक्तिज्ञानाच्छाब्दधीः । सर्वनाम्नां पर्यायत्वापत्तिस्तु इ. ष्टा । वस्तुतः उद्देश्यतावच्छेदकबुद्धिः सर्वपदे, प्रश्नोपक्रमबुद्धिः किंपदे, तत्पदोद्देश्यबुद्धिर्यत्पदे,अवान्तरवाक्योद्देश्यबुद्धिस्तत्पदे,प्रत्यक्षबुद्धिरिदमेतत्पदयोः,परोक्षबुद्धिरदःपदे नियामिका । तावता विशेषेण पर्यायतावारणात् । अत एव युष्मदस्मदोरपि न प
यता। सोऽयं नवा' 'त्वमहं नवे'ति संशयस्त्विदंपदादिबोध्यत्वप्रकारक इति दिक् । शब्दप्रयोगे शब्दजन्यवोधे । उदाहरणमिति । शब्दाश्रयत्वस्योक्तबोधे अनुपरक्तत्वात्तदुपरक्तधर्मान्तरानुपस्थापकत्वाच्चोपाधित्वमिति भावः । उक्तं हि शब्दमणौ-'आकाशपदं शब्दाश्रयत्वोपलक्षितव्यक्तौ शक्तम् । तस्या एवोपस्थापकमनुभावकं च। शब्दाश्रयत्वांशे शक्तिन स्वीक्रियते । शक्यानां नानात्वे हि तेषु प्रातिस्विकरूपेण शक्तिग्रहासम्भवात् अनुगतरूपेण शक्तिग्रहार्थं तोऽपि शक्तिः स्वीक्रियते। घटत्वेन रूपेण हि शक्तिग्रहे तद्रूपेणैव शाब्दबोधः । न चाशक्यम्य शाब्दबोधे संसर्गो भाति । तस्मातत्रापि शक्तिः । आकाशपदे तु शुहाकाशे शक्तत्वज्ञानात्, शाब्दधीसम्भवात् न शब्दाश्रयत्वे शक्तिः । ननु, द्रव्यगुणादेः केनचिद्रूपेणैव भानम् । न तु शुद्धस्य । किं चाकाशमस्तीत्यादिवाक्यादाकाश एकत्वादेरन्यधीन स्यात् । शाब्दबोधीयमुख्यविशेप्यतायाः किश्चिद्रूपावच्छिन्नत्वनियमात् । न चैकत्वादावाधेयत्वसम्बन्धनाकाशस्य विशेषणत्वमिति वाच्यम् । विभक्त्यर्थे सङ्ख्यायां नामार्थस्य विशेषणत्वासम्भवात् । अन्यथा पाशाधिकरणविरोधादिति चेत् । अत्रोच्यते । एकत्वविशिष्ट आकाशे अस्तित्वान्वयधीरेव प्रकृते स्वीक्रियते । न तु शुद्धाकाशविशेष्यकेति । साक्षित्वादाविति । अनावृतविषयप्रकाशत्वरूपे साक्षित्वेऽनुपरक्तं तदाश्रयव्यावर्तकान्तरानुपस्थापकमविद्यादिकमुपाधिरेवेति भावः । तत्रोपाधित्वेति । यद्यपि व्यावृत्तिधीकाले व्यावर्तनीये विद्यमानं विशेप्यान्वयिन्यनन्वितं व्यावर्तकमुपाधिः । यत्तु 'ताहशविद्यमानं सद्विशेष्यान्वयिन्यन्वितं व्यावर्तकं, तद्विशेषणम् । यत्तु न तादृशविद्यमानं, न वा विशेप्यान्वयिन्यन्वितमथापि व्यावर्तकं, तदुपलक्षणमि' ति कल्पतर्वादावु. क्तम् । तथा च ध्वंसादौ प्रतियोग्यादिकमुपलक्षणम् । धर्मान्तरोपस्थापकत्वस्य तल्लक्षणेऽनुपादानात्, तथापि तस्य व्यावर्तकत्वं सर्वसम्मतमेव । न च तस्योपाधित्वस्वीकारो निर्मूल इति वाच्यम् । तस्य संक्षेपशारीरकादिमूलकत्वात् । तथा हि तत्रोकम्-'लक्ष्यस्वरूपमपि सद्यदमुष्य साक्षात् अर्थान्तरात् भवति भेदकमेतदाहुः ।
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
अद्वैतमझरी ।
अन्य स्वलक्षणतयैव तु लक्षणं खं च्छिद्रं जलं द्रवमितीदृशमेव लोके ॥ स्वानुरक्तमतिजन्मकारणं यत् पुनर्भवति लक्ष्यवस्तुनि । तद्विशेषणतयास्य लक्षणं केसरदिकमित्राश्ववस्तुनः ॥ स्वानुरक्तमतिजन्महेतुतां लक्ष्यवस्तुनि निरस्य लक्षणम् । अस्वरूपमपि तस्य यत् भवेत् काकवत्तदुपलक्षणं विदुः ॥' इति । यद्यप्यत्रोपलक्षणोपाध्योर्द्वयोरुपलक्षणत्वेन ग्रहणं, तथापि तयारवान्तरलक्षणं नापलपितुं शक्यते । अत एव जगत्कारणत्वादिकं ब्रह्मणः इतरव्यावृत्त्युपलक्षितस्वरूपबुद्धौ उपाधिरेवेति विशेषणस्वलक्षणान्यव्यावर्तकत्वेनैकीकृत्योपलक्षणपदेन शास्त्र व्यवहारः । अत एव शब्दमणो 'शब्दाश्रयत्वमाकाशपदप्रयोग उपलक्षण मित्यु. क्तम् । ‘गोत्वोपलक्षिते धेनुपदशक्तिरित्युक्तम् । विशेषणान्यत्वेनोपलक्षणत्वव्यवहारसम्भवात् । वस्तुतस्तु धर्मान्तरोपस्थापकमुपलक्षणमित्येव युक्तम् । कल्पतर्वादिवाक्यमपि तदनुसारेण नेयम् । तथाहि विशेषणोपाध्युपलक्षणानां पूर्वस्य पूर्वस्योत्तरोत्तरापेक्षया श्रेष्ठत्वम् । तेषामन्यतमस्य वाक्यादिप्रमेयत्वसन्देहे पूर्वपूर्वस्यैव तत्प्रमेयत्वमिति यावत् । तथा चोपाध्यपेक्षयोपलक्षणस्य जघन्यत्वे व्यावर्तकान्तरोपस्थापकतया तत्सापेक्षत्वं बीजम् । व्यावृत्तिधीकाले व्यावर्तनीये विद्यमानत्वाभावमात्रं तु न बीनं सम्भवति । उपाधिवढ्यावर्तकत्वाविशेषात् । अथ यथा तव मते उपाधेविशेषणवव्यावर्तकत्वेऽपि व्यावृत्तिधीकालासत्त्वादेव जवन्यत्वं, तथा मन्मते उक्ताभावमात्रेण उपलक्षणमुपाधितो जघन्यमिति चेन्न । तथापि स्वतो व्यावर्तकस्य व्यावर्तकोपस्थापकादव्यावर्तकात् श्रेष्ठत्वं त्वयापि वाच्यम् । तच्च त्वन्मते न प्रतिपादितम् । तेन तव न्यूनता । अथ तवापि विशेप्यान्वयिन्यन्वितानन्वितयोः। आये श्रेष्ठत्वम् । तच्च त्वन्मते न प्रतिपादितम् । तेन तव न्यूनतेति चेन्न । मम हि विशेषणोपाध्योस्तादृशमुख्यजघन्यत्वमनुकमाल्लभ्यते । अथ तार्ह ममापि साक्षात् परम्परया व्यावर्तकयोर्मुख्यजघन्यत्वमालभ्यत इति चेत् । तर्हि नास्त्यावयोर्विवादः । ननु, 'दण्डययमासी'दित्यादौ दण्डे विशेषणे अव्याप्तिः। व्यावृत्तिधीमति एतत्काले तस्यासत्त्वात् । 'दण्डिनं भोजये' त्यत्र दण्डस्य विशेषणत्वाभावात्तत्रातिव्याप्तिः । व्यावृत्तिधीकालसत्त्वादिति चेन्न । आद्ये अतीतसत्तायां दण्डस्य विशेषणत्वेऽपि व्यावृत्तिबुद्धावविशेषणत्वात्तद्विशेषणस्यैव प्रकृते लक्ष्यत्वेनाव्याप्त्यभावात् । अतएव नातिव्याप्तिः। भोजनीयत्वं प्रत्यविशेषणस्यापि व्यावृत्तिबुद्धौ विशेषणत्वात् । सामान्यतो विशेषणलक्षणं तु यत् यदुपरक्तं, तत् तत्र विशेषणमित्यादि बोध्यम् । तत्तदाकारत्वेनेत्यादि । तृतीयानामभेदोऽर्थः । तस्य च वैलक्षण्येऽन्वयः । वृत्तेचिदुपरागार्थत्वपक्षे प्रतिविम्बितत्वेनेतिआवरणभङ्गार्थत्वपक्षे तदभिव्यक्तत्वेनेति। आकारसमर्पकत्वेन
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रदे ग्रयसम्बन्धभङ्गः ]
लघुचन्द्रिका |
२३९
तत्तद्विषयितारूपाकारापेक्षणीयत्वेन । तच्चोक्तरीत्या बोध्यम् । व्यवहारेति । व्यवहारजनकेत्यर्थः । परिचायकत्वेन इतरस्माद्व्यावर्तकत्वेन । ज्ञानस्वभावानामननुगतत्वात् तेषामेव न तेषु व्यावर्तकत्वम् । न वा व्यवहारजनकत्वं व्यावर्तकम् । तस्योपधाय कतारूपत्वे अननुगमात् । स्वरूपयोग्यतारूपत्वे जनकतावच्छेदकरूपत्वेन विषयघटितत्वावश्यकत्वात् ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति लघुचन्द्रिकाय असतोऽसाधकत्वे बाधकम् ॥
संयोगसमवाययोरभावादिति । गुणादौ नात्मनस्संयोगः । द्रव्येऽपि तस्यातीतत्वादिकाले उत्पत्तिकाले वा न सः । न चोत्पत्तिकाले संयोगो मास्तु । अतीतादौ तु तदीयसूक्ष्मावस्था संयोगद्वारकस्सम्बन्धः । एवं गुणादावपि द्रव्यद्वारेति वाच्यम् । ཏུ व्यादेर्निरवयवत्वेन तत्र तद्गुणादौ च तदसम्भवात्सावयव एव संयोगस्य स्वीकारा - न्निरवयवे अवच्छेदकासम्भवात् । दिकालविशेषाणां तु त्रुत्यादौ सम्बन्धस्य दैशिकव्याप्यवृत्तितया दैशिकाव्याप्यवृत्तिस्वभावसंयोगादौ अवच्छेदकत्वासम्भवात्। आत्मगुणत्वं तु न ज्ञानस्य सम्भवति । तत्र मनस एवोपादानत्वात् । अन्यथात्मनस्तत्रोपादानत्वं मनसो निमित्तत्वमित्यत्र गौरवात् । आत्मरूपज्ञानस्य जगदुपादानस्य समवायो नातीता
सम्भवति । न वा अनादौ । अनाध्यासिकस्येति । अधिष्ठानारोप्ययोः यत्तादात्म्यं, तदन्यस्येत्यर्थः । उक्ततादात्म्यं तु ज्ञानस्वरूपस्याधिष्ठानत्वं विषयस्यारोप्यत्वं साधयतीति वक्ष्यते । द्विष्ठसम्बन्धात्मकत्वेति । सम्बन्धस्य यो द्विष्ठस्वभावस्तदात्मकत्वेत्यर्थः । संयोगस्य द्विष्ठत्वेनोभयवादिसिद्धत्वात् कल्प्यो ज्ञानविषययोस्सम्बन्धोऽपि तादृशः कल्पयितुमुचितः । अन्यथा विषयनिष्ठा विषयता ज्ञाननिष्ठा च विषयितेति द्वयोः कल्पने गौरवात् । तदकल्पने विषयस्य प्रमात्वानुपपत्तेः । अत एव स्वत्वादिसम्बन्धोऽपि न युक्तः । स्वस्वामिनोविद्यमानस्यैकसम्बन्धस्यैव युक्तत्वात् । न हि चैत्रधनयोस्सम्बन्धद्वयं कस्यापि वुद्धिविषयः । अत एव गुणगुण्यादिस्थले तादात्म्यमेव भट्टादिमते स्वीक्रियते । न चैवं स सम्बन्धो गुणे गुणवतो वृत्तिनियामकः स्यादिति वाच्यम् । कुण्डवदरनिष्ठस्यापि संयोगस्य कुण्डवृत्त्यनियामकत्वस्य दृष्टत्वात् । अनङ्गीकारादिति । अज्ञानस्य प्रामाणिकत्वेन तन्निवृत्ते - रेव ज्ञानफलत्वसम्भवेन ज्ञातता न स्वीक्रियते । न च सैव विषयतेति वाच्यम् । प्रातीतिके अनुवाद्ये च विषये तदसम्भवात् । अतीतादाविति । ज्ञातता नातीते ज्ञानेनोत्पादयितुं शक्यते । तदुत्पत्तिपूर्वमुपादानस्य विषयस्य सत्वाभावात् । न च विद्यमानविषये तादात्म्येन सम्बद्धा सा निरूपकत्वसम्बन्धेनात्मनि सम्बध्यते इत्यवश्यं वाच्यम् । अन्यथा ज्ञानोपरमेऽपि पुरुषविशेषीयतया तस्याः प्रत्यक्षं न स्यात् । तथाचा
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
त्मन्येव तादात्म्येन सर्वत्र सोत्पद्यते । विषये तु निरूपकत्वसम्बन्धेनेति न विषयस्तस्या उपादानमिति वाच्यम् । तादात्म्यस्यैव सामानाधिकरण्यप्रत्ययनियामकत्वेन तदभावे विषये तदनुपपत्तेः । ननु, भट्टमते एककनकव्यक्तिपरिणामानां कटककुण्डलादीनामुपादानीभूततादृशव्यक्त्यात्मना भेदाभेदयोस्स्वीकारादेकमृव्यक्तिपारणामयोःस्थूलसूक्ष्मभावापन्नयोः कार्ययोरपितादात्म्यस्वीकारात् घटतत्सूक्ष्मावस्थयोरपि भेदाभेदस्वीकारात् सूक्ष्मावस्थायां ज्ञातताया उत्पत्त्या स्थूलावस्थारूपे घटादौ सामानाधिकरण्यप्रत्ययोपपत्तिः । अत एव भट्टवार्तिके यागादेहत्तरावस्था, स्वर्गादेः पूर्वावस्था वा अपूर्वम् । अतो यागादेरस्वर्गादौ साक्षादेव कारणत्वमित्युक्तमिति चेन्न । ज्ञाततायास्सूक्ष्मावस्थायामप्रत्ययेऽपि स्थलस्यातीतस्य ज्ञातत्वप्रत्ययात् । किं च ज्ञानं विषये सम्बद्धं सदेव ज्ञाततां जनयतीति विषये ज्ञानस्य ज्ञाततान्यसम्बन्धस्यावश्यकत्वेन तेनैव 'ज्ञातमिद'मिति धीः । न च ज्ञानेन ज्ञातत्वोत्पत्तिं विना धीकर्मत्वं नोपपद्यत इति ज्ञाततान्यसम्बन्ध इव ज्ञातताप्यावश्यकीति वाच्यम् । तावतापि तस्याः विषयज्ञानयोस्सम्बन्धत्वासिद्धेः । परोक्षस्थल इवाज्ञाननिवृत्तेस्संस्कारादेवी धीकर्मतात्वसम्भवाच्च । गगनादाविति । सदा सम्बन्धापेक्षाभ्यां हानोपेक्षयोस्तत्रासम्भवादुपादानस्य पूर्वसिद्धत्वात् न तेषां तत्र फलत्वम् । कलधौतेति । कलधौतमात्रस्य ज्ञानेन तन्मलालोचनद्वारा तहानजननात्तस्य तद्विषयत्वापत्तिः । न द्वितीय इति । हानाद्यभावबुद्धेः पूर्वसत्त्वेन गगनादौ हानादिबुद्धेरसम्भवात् उपादानबुद्धेः पूर्वसिद्धत्वाच्च हानादिधीन फलम् । तदाकारेति । तत्स्वरूपात्मकाकारपदार्थेत्यर्थः । हेतूनामिति । अर्पकत्वस्य हेतुत्वरूपस्यैव वाच्यत्वादिति शेषः । यथा दृश्यत्वमिति । दृक्तादात्म्ये ढक्तादात्म्यान्तरं न स्वीक्रियते । अनवस्थापत्तेः । अतः स्वस्मिन् स्वरूपसम्बन्धेन तत्सत्त्वात् दृश्यत्वव्यवहारः । तथा योग्यतायां तयैव तयवहारः । संविद इति । घटे ज्ञानमित्यादौ प्रकृत्यर्थस्य विषयत्वप्रतीतेः प्रकृतेऽपि तथा स्यात् । विषयताघटितत्वेन विषयताश्रयत्वरूपत्वेन । मत्समवेतं मत्समवायवत् । अन्योन्याश्रय इति । प्रयोगे जाते तेन सम्बन्धेन विषये ज्ञानस्य विशिष्टप्रमयाऽयं ज्ञानविषय इति प्रयोगः, तस्मिन् सति च सेत्यन्योन्याश्रयः । अभियुक्तस्य मन्त्रे एव मन्त्रशब्दप्रयोक्तृत्वस्य मन्त्रत्वघटितत्वादन्यादृशस्य दुर्वचत्वान्मन्त्रपदशक्यतावच्छेदकधर्मवत्त्वमेव मन्त्रत्वम् । स च धर्म आनुपूर्वीविशेषो नानाविधः । यद्यपि विषयपदशक्यतावच्छेदकवत्त्वं विषयत्वमिति शक्यते वक्तुम् । शक्तेरखण्डधर्मत्वमते शक्त्या घटितत्वेनानुगमसम्भवात्, तथाप्यत्रैवास्य ज्ञानस्य विषयत्वमिति व्यवहारो न तेन सम्भवति । तस्य सर्वत्र सत्त्वा
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेढग्दृश्यसम्बन्धभङ्गः]
लघुचन्द्रिका ।
२४१
त् । अत एव वायुभिन्न एव रूपसमवाय इति प्रमया समवायनानात्वमाहुरित्याशयेनाह-एतावतेति । ननु, तत्तद्विषये पूर्वपूर्वप्रयोग एवोत्तरोत्तरज्ञानस्य विषयत्वम् । तत्राह-न चास्मिन् सादाविति । तस्य पूर्वप्रयोगस्य प्रथमं सादिपदार्थे ज्ञानविषयोऽयमिति प्रयोगो न स्यात् । पूर्वप्रयोगाभावात् । न च ज्ञानस्येव पूर्वप्रयोगस्यापि पूर्वमुत्पन्नस्येदानीमुत्पन्नविषये सम्बन्धात्तज्ज्ञानादेवेदानी प्र. योग इति वाच्यम् । तद्विषयव्यक्तिमात्रप्रयोगस्य पूर्वसत्त्वे मानाभावात् ।। अत एव भाविप्रयोगमादायापि नोपपत्तिः । तत्र तत्रेति । घटादिव्यवहारे इत्यर्थः । तत्तवृत्तिविषयत्वेनेति । घटादिनिष्ठं यद्वृत्तिविषयत्वं, तद्धटितेन घटादिज्ञानत्वेनेत्यर्थः । विषयत्वादिति । कारणतावच्छेदकरूपं स्वरूपयोग्यत्वं विषयताघटितमित्यर्थः । तस्यापोति । कारणतावच्छेदकवत्त्वेन यन्निर्णीतं, तस्यैव कार्याभाववत्त्वं सहकार्यभावप्रयुक्ततया ज्ञातुं शक्यते । शिलादावंकुराधभाववत्त्वस्य जलाद्यभावप्रयुक्तत्वेनाज्ञानात् । तथा चोक्तान्योन्याश्रयः स्थित एवेति भावः । क्षणिकविशेषस्य तद्व्यक्तित्वेन कारणस्य कार्यभाववत्त्वमेव नास्ति । सहकारिकूटसम्पनत्वात् । कुतस्तस्य सहकार्यभावप्रयुक्तत्वम् । अतोऽनुगतेत्युक्तम् । कार्यानुपधायकवृत्तीति तदर्थः । शक्यावयवे स्वशक्यसम्बन्धिविशेषे । तेन रूपं करोति सुखं करोतीत्यादौ रूपादिसमवायिनि नाशं करोतीत्यादौ नाशप्रतियोग्यादौ लक्षणा लभ्यते । यत्सम्बन्धेत्यादि । स्वान्यसम्बन्धाद्यघटितस्य ज्ञानसम्बन्धित्वस्याश्रय इति अवच्छेदकान्तार्थः । स्वविषयकज्ञानसमवायित्वादात्मन्यव्याप्तिमाशङ्कय निरस्यति । यद्यपीति । ज्ञानावच्छेदे ज्ञानावच्छेदकत्वे । समवायापेक्षा समवायघटितत्वम् । यज्ज्ञानानवच्छिन्नेत्यस्य कृत्यमाह- यद्यपि चेति । समवेतेत्यादि । आत्मसमवायस्य स्वभावः समवेतात्मकरूपज्ञानावच्छिन्नः इच्छाया इष्यमाणात्मकेन नाशस्य प्रतियोग्यात्मकेन रूपज्ञानेनावच्छिन्नः स्वभाव इत्यर्थः । घटायवच्छिबेति। ज्ञानं स्वग्राहकेण विषयावच्छिन्नरूपेणैव गृह्यते इति तदेव तत्स्वभावः । विषयस्तु न ज्ञानावच्छिन्नरूपेणैव गृह्यते इति स न तथेति भावः । यज्ज्ञानानवच्छिन्नेत्यत्र यत्पदकृत्यमाह-यद्यपि स्वग्राहकेति । ननु, सर्वं ज्ञानं वाच्यत्वेन जानामीत्याद्यनुव्यवसायः खं प्रति विषयः स्वेनावच्छिन्नस्वभावश्चेत्यव्याप्तिः । अथ येन रूपेण विषयता, तेन रूपेण तज्ज्ञानानवच्छिन्नस्वभावता वाच्या । प्रकते च येन सर्वज्ञानत्वेन विषयता, तेन रूपेण न ज्ञानावच्छिन्नता । किं तु ज्ञानत्वमात्रेणेति चेत् । तथापि वाच्यस्य ज्ञानं वाच्यत्वेन जानामीत्यनुव्यवसाये अव्याप्तिः । अतो असङ्गतेयं परोक्तिरिति ध्येयम् । सम्बन्धिभूतस्वज्ञानेति । न च
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४२
www.kobatirth.org
भद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
यत्र ज्ञाने समवायो विषयः तेनानवच्छिन्नत्वं तत्राक्षतमिति वाच्यम् । समवायस्यैकत्वेन रूपज्ञानसमवायस्य रूपज्ञानज्ञानीयत्वात् रूपज्ञानम्मत्समवेतधीविषयइति ज्ञानावच्छिन्नत्वस्य समवाये सत्वाच्च । असम्भवादिति । ननु, ज्ञानत्वेनावच्छेदकत्वं निवेश्यम् । आत्मसमवायस्य तु स्वविषयकज्ञानं सम्बन्धित्वेनावच्छेदकम् । न तु ज्ञानत्वेन । विषयस्तु न केनापि रूपेण ज्ञानावच्छिन्नः । ज्ञानं विनापि घटोऽयमित्यादिनिरूपणादिति चेन्न । ज्ञानत्वेनावच्छेदकतानिवेशे तज्ज्ञानानवच्छिन्नेत्यस्य कृत्याभावात् । न हि नाशेच्छादौ ज्ञानत्वेन ज्ञानमवच्छेदकम् । किं तु प्रतियोगित्वविषयत्वादिना । अथ येन रूपेण सम्बन्धिताधीस्तेनावच्छेदकत्वं निवेश्यम् । तथा च ज्ञानं नष्टमित्यादौ ज्ञानत्वेन सम्बन्धित्वस्य प्रत्ययात्तद्वारणम् । तर्हि प्रकृतेऽपि तथा प्रत्ययाद्दोषः । विषयस्त्वित्यादिकं तूक्तव्याप्तिनिरासान्निरस्तम् । ज्ञानं गुण इत्यादौ विषयं विनापि ज्ञाननिरूपणाच्च । न च यज्ज्ञानप्रत्यक्षत्वं यदीयसम्बन्धव्याप्यं, तस्य स विषय इति वाच्यम् । यज्ज्ञानस्य प्रत्यक्ष विषयतानिवेशे आत्माश्रयात् । सम्बन्धसामान्यनिवेशे आत्मादेर्धीमात्रविषयत्वापत्तेः । अथ यदित्यादि । 'प्रकाशस्य सतस्तदीयतामात्र निबन्धनः स्वभावविशेषो विषयतेत्युदयनाचार्यवाक्यं बौद्धादिकारस्थम् । तत्र शिरोमण्यादीनां व्याख्यानं प्रकाशस्य ज्ञानस्य सतः विद्यमानस्य विषये विद्यमाने अतीतादौ च विद्यमानज्ञानसम्बन्ध - ज्ञापनायेदम् । तदीयतामात्र निबन्धनस्तदीयत्वोपहितस्वभावः स्वरूपमिति । ननु, तदीयत्वं ज्ञानविशेषपरिचायकम् । न तु लक्षणे प्रविष्टम् । तथा च वस्तुगत्या यदीयं यत् ज्ञानं तत् तस्य विषयता । तत्राह रूपेति । अनेन शिरोमण्युक्तदूषणेन दूषणान्तराण्यपि सूचितानि । तदुक्तं शिरोमणिभिः । यदि ज्ञानमेव विषयता, तदा घटपटाविति समूहालम्बनस्य भ्रमत्वापत्तिः । घटत्वाभाववति पटे घटत्वविषयकत्वात् । यैव हि घटनिष्ठा तद्धीरूपा विषयता घटत्वविषयतानिरूपिता, सैव पटनिष्ठा विषयता । किं च यथा घटादिज्ञानन्तत्स्वरूपसम्बन्धेन घटादीयं, तथा स्वीयं कालीयं स्वाभाविीयं चेति स्वाभावादिविषयकत्वेनापि व्यवह्रियते । अपि च विषयता विषयतवं वा यदि नातिरिच्यते ज्ञानात्, तदा घटविषयकज्ञानत्वादिना कथं हेतुत्वादिकम् । तत्तज्ज्ञानव्यक्तीनामननुगमात् । तस्माद्विषयता विषयतात्वं च ज्ञानादन्यत् । प्रकारत्वादयस्तद्विशेषाः । एवं प्रतियोगित्वाधिकरणत्वादिकमपि प्रतियोग्यादिभिम्नम् । न चैवं विषयताया अपि विषयता तदन्या । एवं तद्विषयतापीत्यनवस्थेति वाच्यम् । अगत्या तत्स्वीकारा' दिति । तदेतत् 'अनवस्थादयो दोषाः सत्तां निघ्नन्ति वस्तुनः । अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ||' इति खण्डनोक्तरीत्या अस्मद
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्र.दे दृग्दृश्यसम्बन्धमङ्गः]
लथुचन्द्रिका ।
नुकूलम् । दूषणान्तरं चाचाक्ष्यते । इति चेन्नेति । प्रत्यक्ष प्रतीन्द्रियमनोयोगत्वेनेव चाक्षुषं प्रति चक्षुर्मनोयोगत्वेन हेतुत्वादिति शेषः । तत्पुरुषायचाक्षुषवृत्तिनातिविशेषावच्छिन्नं प्रति जातिविशेषेण चक्षुस्संयोगस्य हेतुत्वेऽपि चाक्षुषत्वेन कार्यत्वमवश्यं वाच्यम् । जन्यमात्रवृत्तितया प्रत्यक्षादिसिद्धजातेः कार्यतावच्छेदकत्वं विना आकस्मिकत्वापत्तेः । तत्र च कारणत्वं चक्षुष्वेन संयोगत्वेन वेत्यस्याविनिगम्यत्वाञ्चक्षुमनोयोगस्यापि चाक्षुषमात्रे हेतुत्वम् । यथा हि समवायेन चाक्षुषं प्रति संयोगेन चक्षुः कारणं सम्भवति, तथावच्छेदकतासम्बन्धेन चाक्षुषं प्रति तेनैव चक्षुर्मनोयोगोऽपि । तस्य शरीरे तत्सम्बन्धसम्भवात् । वस्तुतो रसनादीन्द्रियसंयुक्ते मनसि सति चक्षुर्विषयसंयोगेऽपि चाक्षुषानुत्पत्तेश्चाक्षुष प्रति चक्षुर्मनोयोगस्य जातिविशेषेणोक्तसम्बन्धेन हेतुत्वमावश्यकमिति भावः । लिङ्गज्ञानं लिङ्गादिज्ञानम् । तयाप्तत्वं स्वविषयलिङ्गव्यापकत्वम् । ननु, व्याप्तिघटकसम्बन्धत्वरूपेणानुमितिस्थलोयसन्निकर्षों निवेश्यः । स च व्यापकधर्मसम्बन्धयोरपीति चेन्न । व्याप्तिघटकप्रतियोगित्वादावतिव्याप्तेः । न च ज्ञानेत्यादि । 'ज्ञानं मदीयं 'घट जा. ना मीत्यादौ ज्ञानावच्छेदकत्वादात्मादिकं घटज्ञानादिविषयस्स्यादत आद्यं दलम् । मन आदिवारणाय द्वितायम् । ज्ञानावच्छेदकत्वस्य परम्परासम्बन्धेन व्याप्यो धमों मनआदावपि । अतः साक्षात्सम्बन्धेन व्याप्यतालाभाय साक्षादिति । वस्तुत्वादीति । ज्ञानसामान्यकारणत्वं यदि निवेश्यते, तदोक्तलक्षणं वस्तुमात्रेऽपीति वस्तुत्वादिकमेव लाघवाल्लक्षणमस्तु । यदि तत्तद्धीकरणत्वं निवेश्यते, तथापि सन्निकर्षस्यानतित्रसक्तत्य दुर्वचत्वात् सम्बन्धमात्रस्य निवेशे स एव दोषः । तथा चास्य ज्ञानस्यायमेव विषयो नान्य'इति व्यवहारो न स्यादिति भावः । संयोगादौ संयोगसमवाययोः ज्ञानज्ञेययोस्वरूपं सामान्यतः कस्यचित् ज्ञानस्य विषयतेत्युक्तावप्ययं दोषः । तदुभयान्यत्वं संयोगसमवायान्यत्वम् । हिमति । तत्तज्ज्ञानज्ञेययोः स्वरूपं तयोविषयतेत्युक्तावप्ययं दोषः । स्वस्यैव स्वस्मिन् सम्बन्धत्वे हिमवति विन्ध्यस्य स्वरूपसम्बन्धेन धीरपि प्रमा स्यात् । अथ तत्र बाधात् स्वरूपं न सम्बन्धः । तहि ज्ञानेऽपि ज्ञेयस्य बाधात्तथा । अथ सम्बन्धान्तरं तद्वाधधीविषयः । तहिं तत्रापि तथा स्यात् । तस्मात् 'स्वं न खस्मिन्' 'खं न स्वीय'मित्यनुभवेन स्वस्य स्वप्रतियोगकत्वस्वानुयोगिकत्वयोबधिात स्वरूपं न सम्बन्ध इति भावः । समवायस्यति । सम्बन्धान्तगविषयकधीरेव निवेश्येत्युक्तौ त्वनवस्थादिकम् । स्वरूपस्य सम्बन्धिस्वरूपस्य । अभावभ्रमेति । यस्य स्वरूपं सम्बन्धस्तद्भमेत्यर्थः । अवच्छेदकाविषयिणीति । सम्बन्धतावच्छेदकं यत् संयोगत्वादिकमुक्तयाोग्यतावच्छेदकं वा तदविषयिणीत्यर्थः ।
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
अवच्छेद्यविषया संयोगादिस्वरूपमात्रनिष्ठसांसर्गिक विषयताका । तस्य घटाभाववतः । उभयात्मकत्वेन उभयात्मकरूपसम्बन्धघटितत्वेन । घटत्वेनेति । तथा च तद्भिन्नेत्यस्य घटवद्विशेष्यकरूपतद्विलक्षणेत्यर्थ इति भावः । तेन तस्यैवानुपपत्तेरिति यदुक्तं, तत् तस्यैवोपपत्त्या समाहितम् । नियमादिति । एतादृशनित्यस्य स्वरूपयोग्यत्वे सहकारिसमवधानमावश्यकम् । अन्यथा तत्साधारणोक्तगुरुरूपेण तदङ्गीकारे मानाभावादभावत्वादिनैव स्वरूपयोग्यतासम्भवात् । अत्रेदमपि बोध्यम् । प्रतियोगिदेशान्यदेशवृत्त्यभावस्वरूपस्य विशिष्टधी स्वरूप योग्यतां वदतापि न दूषणमुद्धृतम् । प्रतियोगिदेशे अभावधियः प्रमात्वापत्तेः पूर्वोक्ताया अनुहारात् । न च घटादेराश्रये तदभावधी भ्रमः । अन्यत्र सा प्रमेत्ययुक्तं युक्तम् । तद्वति तद्वदन्यत्वस्वरूपसम्बन्धस्यावारितत्वात् । एतेनोक्तरूपेण नाभावधीरूरूपयोग्यता । किं तूक्तरूपोपहितमभावस्वरूपमेव अभावस्य सम्बन्ध इत्यपास्तम् । तयोः घटपटाद्योः । विशिष्टसम्बन्धि आत्मसमवेतम् | अविशिष्टविषयेति । स्वविषयक - समूहालम्बनेत्यर्थः । अविशिष्टेत्यनेन घटपटाद्योमिथो वैशिष्ट्यशून्ययोस्स्वरूपसम्बन्धो न युक्त इति सूचितम् । विषयकृतेति । न च ज्ञानस्याभाव इत्यत्र या ज्ञानव्यक्तिर्विषयः ज्ञातोऽभाव इत्यत्र न सा विषय इति विषयभेद इति वाच्यम् । विषयतावच्छेदकरूपेण विषयस्य हि भेदः प्रकृते अवश्यं वाच्यः । अन्यथा स्वाभावविषयकज्ञानविषययोरुक्ताकारज्ञानयोर्विषयव्यक्तिभेदस्य वक्तुमशक्यत्वात् । अतिरिकेति । ज्ञानज्ञेयादिस्वरूपान्यो धर्मविशेष इत्यर्थः ।
॥ इति लघुचन्द्रिकायां दृग्दृश्यसम्बन्धभङ्गः ॥
वृत्तिद्वारकः वृत्तिसापेक्षः । तद्वारकः स्वावच्छिन्नवृत्तिविषयत्वम् । परोक्षवृत्तिविषयत्वस्य प्रकाशासम्पादकत्वात् । स्वावच्छिन्नेति । यत्र विषयत्वं स्थाप्यं, स स्वपदार्थः । वस्तुतो वृत्त्यवच्छेदकत्वमेव सम्बन्धः । वृत्त्यविषये वृत्त्यवच्छेदकत्वाभावात् । ननु तत्तत्पुरुषीयज्ञाने तत्तद्विषयाणामध्यासेनाध्यासिकसम्बन्धो वृत्त्यनेपक्ष एव विषयप्रकाशनियामकः । न हि दृष्टिसृष्टिपक्षे वृत्तिसापेक्षो विषयप्रकाशः । अपि तु तत्तन्मनः परिणामान' घटादीनां तत्तन्मनोऽवच्छिन्नचित्यध्यासादाध्यासिकतादात्म्यमात्रापेक्षः । तत्राह - न हीति । भवतां शुद्धचिति घटादेरध्यास इति सृष्टदृष्टिपक्षं वदताम् । ननु, सृष्टदृष्टिपक्षेऽपि एकस्यां चिति नाध्यासः । किं तु भिन्नभिन्नचिति भिन्नभिन्नविषयाणाम् । तत्राह - शुद्धेति । जीवचिदेव विषयप्रकाश इति पक्षे तस्या जगदनुपादानत्वे घटादौ तादात्म्याभावेन वृत्तिद्वारकोक्तसम्ब न्ध एव विषयभानव्यवहारे कारणं त्वदुक्तमिष्टमेव । न च तर्हि दृग्दृश्ययोः सम्बन्धा
For Private and Personal Use Only
-
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे अनुकूलतर्कनिरूपणम् ].
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
२४५
i
नुपपत्तिरूपतर्कः मिथ्यात्वसिद्ध्यनुकुलो न स्यात् । दृग्दृश्ययोस्तादात्म्यस्यैवानुपपन्नत्वादिति वाच्यम् । उक्तसम्बन्धस्याप्यनुपपन्नत्वात् । संसर्गमात्रस्यानुपपन्नत्वं हि वक्ष्यते । तस्या जगदुपादानत्वे तु तादात्म्यरूपसाक्षात्सम्बन्धसम्भवे उक्तसम्बन्धी विषयावभासको न युक्तः । अत एव मनोवच्छिन्नचितो जीवत्वपक्षे जीवस्य जगदनुपादानत्वेन विषयतादात्म्याभावेऽपि ब्रह्मण एव जगदुपादानत्वेन विषयतादात्म्यात् विषयप्रकाशकं तादात्म्यमेव । वृत्तिस्तु विषयभासकब्रह्माभेदाभिव्यक्त्यर्थेत्याशयेनाह - प्रकाशस्येति। ज्ञानालोकयोरन्यतरस्येत्यर्थः । साक्षात्स्वसंसृष्टप्रकाशकत्वेति । स्वकीयसाक्षात्संबन्धाश्रये कार्यविशेषप्रयोजकत्वेत्यर्थः । प्रकाशयति स्वप्रयोज्यका - यविशेषभाजं करोति । यथालोकः संयोगरूपसाक्षात्सम्बन्धेन घटादौ गतो 'घटः प्रकाशत' इति व्यवहारं तमोनाशञ्च जनयति तथा चित् तादात्म्येन घटादौ गता घटो 'भाती' त्यादिव्यवहारं प्रवृत्त्यादिकञ्च । परम्परासम्बन्धेन तज्जनकत्वे गौरवादिति भावः । नन्वनावृतचित्तादात्म्यस्य जनकत्वे वृत्तेरेव तद्युक्तम् । तस्या एवावरणविरोधित्वात् लाववाच्च । तत्राह - अतो विषयेति । आवरणभङ्गोऽनावृतत्वम् । क्वचिदिति शेषः । तथा च वृत्तेरुक्तजनकत्वे सुखादिस्थले तदभावादनुपपत्तिः । किं च वृत्तिमात्रस्योत्तजनकत्वाभावात् अपरोक्षत्वेन तस्य जनकत्वं वाच्यम् । तच्चानावृतचित्तादात्म्यवद्विषयकत्वम् । तथा चोक्तचित एवो
कारणत्वे लावमिति भावः । अत एवानावृताधिष्ठानचितः प्रकाशकत्वादेव । अतन्त्रतापात इति । प्रतिबिम्बचितोऽनधिष्ठानत्वादिति शेषः । घटाभिव्यक्तेति । घटावच्छेदेनाभिव्यक्तेत्यर्थः । स्फुटतरः भातीत्यादिरूपः । युक्तत्वादिति । अन्यथोक्तचैतन्यस्य परोक्षस्थलेऽपि सत्त्वेनोक्तव्यवहारापत्तिः । तदधिष्ठानत्वं तदुपादानत्वम् । शुद्धेति । घटाद्यनुपहितेत्यर्थः । अविद्यावशादधिष्ठानेति । ब्रह्मणउपादानत्वपक्षे अविद्याविशिष्टतया अविद्योपहिततया वोपादानत्वम् । जीवस्योपादानत्वपक्षेऽप्यविद्योपहितस्यैव नीवत्वात् सुतरां तथेति भावः । तदवस्थाविशेषेति । पल्लवाविद्येत्यर्थः । आदिपदादेकाज्ञानपक्षे मनोनवच्छेदप्रयुक्तस्य विषयचित्प्रमातृचितोर्भेदस्य सङ्ग्रहः । तथा च मूलाविद्या घटाद्यवच्छिन्नचितं नावृणोति । एकाज्ञानपक्षे मनोसम्बन्धमेव विषयमावृणोति । अतो नोक्तदोष इति भावः । प्रमात्वादिति । प्रमाविषयत्वेनेति शेषः । प्रकृते घटादिभासकदृशि । तदभावादिति । बाधितविषयकवृत्तेः भ्रमत्वेन दोषजन्यतेति भावः । विशिष्टधीः ज्ञातो घट' इत्याकारकधीः । विशेषणविशेष्यसम्बन्धविषया ज्ञानघटयोर्विषयगताभ्यां निरूपिता या किञ्चिन्निष्ठविषयता तद्विशिष्टा । तेन ज्ञानघटयोः सम्बन्धविशेषस्य पू
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
अद्वैतमञ्जरौ । वमसिद्धावपि न क्षतिः । न वा ज्ञानत्वादिसंसर्गमादाय सिद्धसाधनम् । संयोगसमवायविषयकत्वमादायार्थान्तरवारणाय विशेष्यकान्तम् । परस्परमसंयुक्तमसमवेतञ्च यद्विशेषणविशेष्यं तद्विषयकेत्यर्थः । ज्ञानत्वावच्छिन्नविषयतानिरूपिताया संयोगे समवाये वा सांसर्गिकविषयता तच्तून्येति यावत् । एतेन परस्परासंयुक्तत्वादिनिर्णयस्य संयोगादिनिष्ठसांसर्गिकविषयताकत्वसिद्धावप्रतिबन्धकत्वादुक्तविशेषणं नोक्तार्थान्तरस्य वारकमित्यपास्तम् । न चैवमपि ज्ञानवटस्वरूपयोः पक्षीभूतज्ञानाविषयस्य घटादेर्वा सांसर्गिकविषयतामादायार्थान्तरमिति वाच्यम् । स्वरूपयोस्स्वप्रतियोगिकत्वासम्भवेन घटादेरुक्तज्ञानाविषयत्वेन च तस्याः बाधात् । विशिष्टधीत्वात् सप्रकारकत्विात् । दण्डीति । दण्डज्ञानयोः विशिष्टधियः पक्षत्वे ज्ञानं सं. योगेन दण्डविशिष्टमिति भ्रमो दृष्टान्तः । यदि तु यत्त्वं तत्त्वं चानुगतमिति प्राचाम्मतमवलम्ब्यत, तदा यदुभयविशेष्याविशेषणकं यत् , तत् तदुभयविषयतानिरूपितया किञ्चिन्निष्ठसांसर्गिकविषयतया विशिष्टमिति सामान्यतो व्याप्तौ 'द ण्डीपुरुष' इति प्रमापि दृष्टान्तरसम्भवति । विशेषणविशेष्यसम्बन्धनिमित्तकोति। स्वीययोर्विशेष्यताविशेपणतयोराश्रयौ यौ, तयोस्सम्बन्धेन जन्येत्यर्थः । तेन संयोगज्ञानयोविशिष्टबुद्धौ संयोगजन्यत्वात् न सिद्धसाधनम् । स्वपदं पक्षीभूतधीपरम् । विषयविधया सम्बन्धस्य जनकत्वं निवेश्यम् । तेन कालादिविधया तदादाय नार्थान्तरम् । अत्र स्वत्वाननुगमात् साध्याप्रसिद्धिः । न च संयोगसमवायस्वरूपसम्बन्धानिमित्तकत्वेन पक्षविशेषणेऽपि सामान्यतस्सम्बन्धनिमित्तकत्वेन पक्ष एव सन्देहात् संशयरूपा प्रसिद्धिरिति वाच्यम् । तत्संशये हेतौ तत्सामानाधिकरण्यस्याप्यौचित्यावर्जितसंशयोदयेन व्याप्त्यनिश्चयात् । तावतापि दृष्टान्ते साध्यवैकल्याच्चेति दूषणं स्फुटत्वादुपेक्ष्य दूषणान्तरमाह-प्रथमे द्वितीये चेति । व्यभिचारश्चेति । न च लौकिकापरोक्षत्वस्य हेतौ निवेशान्न व्यभिचार इति वाच्यम् । सम्बन्धांशे तन्निवेश्यते, सर्वविषयांशे किं चिद्विषयांशे वा । आद्ये द्वितीये च 'ज्ञातो घट' इति चाक्षुषादिप्रमायां स्वरूपासिद्धिवाधौ । तृतीये सम्बन्धांशे परोक्ष व्यभिचारः । पक्षतावच्छेदके लौकिकमानसापरोक्षत्वनिवेशे चाक्षुषादौ साध्यासिद्धिः मन्मते आश्रयासिद्धिश्चेति भावः । ननु, स्वसम्बन्धिसमसत्ताकसम्बन्धविषयकत्वादिकं साध्यम् । अतो न बाधितसम्बन्धेनार्थान्तरमिति चेन्न । किश्चित्सम्बन्धिसमसत्ताकत्वं निवेश्यते, यावत्सम्बन्धिसमसत्ताकत्वं वा । आधे विषयस्यातात्त्विकत्वेनार्थान्तरावारणात् । द्वितीये त्वप्रसिद्धिः । ज्ञानज्ञेयोभयसमसत्ताकाप्रसिद्धेः। किञ्च स्वपदं पक्षस्य दृष्टान्तस्य वा विषयसम्बन्धं वदति । आधे साध्यवैकल्यम् । द्वितीये बाधः । वि.
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र०दे अनुकूलतर्कनिरूपणम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२४७
प्रकर्षाभाव इति । यद्देशावच्छेदेन काले कालिकसम्बन्धेन यस्याधिकरणत्वं प्रतीयते, तत्रैव देशे दैशिकसम्बन्धस्तस्य स्वीक्रियते । यथा भूतलाद्यवच्छेदेन घटादेः काले कालिकसम्बन्धेनाधारत्वप्रत्ययात् भूतलादौ घटादेरेव संयोगादिदैशिकसम्बन्धः प्रामाणिकः । न तु मेरुविन्ध्ययोः । तथा च यथा तयोरेकावच्छेदेनापरस्य काले कालिकसम्बन्धेनाधिकरणत्वं न सम्भवति, तथा ज्ञानज्ञेययोभिन्नकालीनयोरपि । सोऽयं देशकालविप्रकर्षो मेरुविन्ध्ययोरिवातीतादिविषये ज्ञानस्य तदीयकालिकाधिकरणतानवच्छेदकत्वरूपः तदभावस्य चोक्तांधिकरणतानवच्छेदकत्वस्य तदीयदैशिकसम्बन्धसामान्यव्यापकत्वात्तदभावेन तदभावस्सिध्यति । न च केवलान्वयिवाच्यत्वादेस्सम्बन्धस्य घटादौ सत्त्वात्तत्र वाच्यत्वीय कालिकसम्बन्धावच्छिन्नाधिकरणत्वावच्छेदकत्वस्याभावाच्चोक्वव्यापकत्वमसिद्धम् । अतो नोद्देश्यसिद्धिरिति वाच्यम् । तावता व्यतिरेकिप्रतियोगिकसम्बन्धव्यापकत्वे बाधकाभावात् । घटादेः कालिकसम्बन्धवत्यपि महाकाले तदीयोक्ता धिकरणतावच्छेदकत्वाभावात् दैशिकेति सम्बन्धविशेषणम् । न चातीतादिविषयस्य ज्ञानकाले सूक्ष्मावस्थासत्त्वात्तस्यां सत्यसम्बन्धसम्भवेन तत्तादात्म्यात् स्थूलस्य विषयत्वव्यवहार इति वाच्यम् । स्थूलज्ञानस्य सूक्ष्मविषयकत्वव्यवहारापत्तेः । स्थूलसूक्ष्मयोरत्यन्तभेदस्येवात्यन्ता भेदस्याभावेन भिन्नकालीनत्वान्मिथ्यातादात्म्यस्यैव वाच्यत्वन स्थूले ज्ञानस्य साक्षात्तादात्म्यस्यैव मिथ्याभूतस्य वक्तुमुचितत्वाच्च । ननु, मूले तात्त्विकसम्बन्धस्येत्यत्र तात्त्विकपदमनुपपन्नम् । स्वमते सम्बन्धस्य तात्त्विकत्वासिद्धेः । किं च तद्यर्थम् । ययोस्सम्बन्धव्यापकस्याभावः, तयोर्न सम्बन्ध इत्यस्यैव नियमस्योद्देश्यत्वादिति चेत् । सत्यम् । तथापि तदुक्तावयं भावः- उक्तनियमन सम्बन्धाभावसिद्धावपि तदविरोधी मिथ्यासम्बन्धः ज्ञानतद्विषययोर्विशिष्टधी बलात् कल्प्यते । शुक्तिरजतयोरिवेति सत्यत्वेन सम्बन्धस्याभावोऽनुमानात् पर्यवस्यतीति । समवायवदिति । यथा समवायस्यैकत्वपक्षे रूपादेर्नाशेऽपि तदीयस्समवायो घटादावस्ति । तस्य नानात्वपक्षेऽपि नित्यत्वात् स तदा तत्रास्त्येव, तथा नष्टस्यापि विषयस्य विषयता ज्ञानेऽस्तीति भावः । विशिनष्टि विशिष्टव्यवहारमाजं करोति । तथा च विद्यमानेऽपि समवाये नष्टप्रतियोगिकत्वाभावेनोक्तनियमे न व्याहतिः । यत् येन विप्रकृष्टं तत् तत्प्रतियोगिकसम्बन्धशून्यमित्यस्याक्षतत्वात् । लाघवादाह – किश्चेति । अध्यासोऽपि अधिष्ठानारोप्ययोस्तादात्म्यमपि । अतिरिक्तः सम्बन्धिभ्यां भिन्नः । अन्तर्गत इति । स्वकरणसम्बन्धाश्रयत्वादिरूपत्वादिति शेषः । न नो निर्बन्ध इति । विप्रकर्षस्य बाधकस्य । सर्वेषु पक्षेषु तुल्यत्वेन मिथ्यात्वस्यावश्यकत्वेन तस्यैव सर्वानुपपत्तिपरिहा
}
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
अद्वैतभञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
रकत्वादिति शेषः । न तु प्रतियोगीति । ननु, प्रतियोग्यनुयोगिभावादिसम्बन्धे मिथ्यात्वसंशये सम्बन्धव्यापकत्वमविप्रकर्षे न निश्श्रेतुं शक्यते इति चेन्न । उक्तानुकूलतर्कसत्त्वे व्यभिचारसंशयस्याप्रतिबन्धकत्वात् । अन्यथा पक्षावृत्युपाधौ साध्यव्यापकत्वस्यानिश्वयापत्तेः । बाधे विप्रकर्षहेतुकस्य सम्बन्धाभावानुमानस्य सामग्न्याम् । अदृढे तर्कानवतारेणानुत्पन्ने । अन्यसाम्यात् किमिति । ज्ञानज्ञेये तात्त्विकसम्बन्धयुक्ते । विशिष्टप्रमाविषयत्वात् । प्रतियोग्यभावादिवदिति सत्प्रतिपक्षरूपादन्यसाम्यघटितात् प्रयोगात् किं फलम् न किमपीत्यर्थः । सम्पन्नायां ह्यनुमानसामन्यां प्रत्यनुमानसामग्री सफला । नासम्पन्नायामिति भावः । दृढे उक्ततर्कावतारेण तस्यां सम्पन्नायाम् । तदपि साम्यप्रतियोगी प्रतियोग्यभावसनोऽपि । बाध्यतां विप्रकर्षेण प्रतियोग्यादावभावादिसम्बन्धाभाव उक्तसामग्यैवानुमीयताम् । तस्यास्तर्कवत्त्वेन निस्तर्कोक्तसामन्या सत्प्रतिपक्षासम्भवादिति भावः । बाधे दृढे इत्यत्र न्याये दृढे इति पाठकल्पनं तु न युक्तम् । खण्डनग्रन्थे तदभावात् । दर्शनेति । सहचारदर्शनेत्यर्थः । रूपवत्त्वादिकं रूपादिसाधकत्वम् । समकक्ष्यः अधिष्ठानारोप्ययोर्यस्सम्बन्धस्तदन्यः । परस्पराध्यासात्मकेति । सम्बन्धिनोः परस्परावच्छेदेन अध्यस्तं यत् परस्परतादात्म्यं तत्त्वरूपेत्यर्थः । सम्बन्धासम्भवेनेति । सम्बन्धिनोविंप्रकर्षात् सम्बन्धस्य मिथ्यात्वे सिद्धे मिथ्यासम्बन्धोपहितरूपेण सम्बन्धिनोरपि मिथ्यात्वं सिध्यति । तथा चोक्तरूपे
ज्ञानज्ञेययोमिथ्यात्वेऽपि शुद्धरूपस्य ज्ञानस्यामिथ्यात्वेनाधिष्ठानत्वसम्भवात्तयोस्सम्बन्धः अधिष्ठानारोप्ययोः पर्यवस्यति । प्रतियोग्यभावयोस्तु नाधिष्ठानारोप्यतासम्भवः । द्वयोरपि तयोश्शुद्धरूपेणापि ज्ञेयत्वेन मिथ्यात्वात् । तस्मात् शुद्धरूपेण सम्बन्धिनोर्मिथ्यात्वसाधकाभावे अधिष्ठानत्वमेवेति भावः । ननु, प्रतियोग्य भावयोः परस्परावच्छेदेन तादात्म्याध्यासासम्भवे 'घटोऽत्यन्ताभावीयः अत्यन्ताभावो घटीय' इति धीस्तयोः परस्परविशेष्यविशेषणता च न स्यात् । न च घटावच्छेदेन तदत्यन्ताभावस्य तादात्म्यानध्यासात् घटचित्सम्बन्धस्य उक्ताभावश्चित्सम्बन्धानवच्छेदकत्वेऽपि घटांशे उक्ताभावस्य विशेषणत्वव्यवहारो नानुपपन्नः । उक्ताभावीय प्रतियोगिताया घटावच्छेदेन तादात्म्याध्याससम्भवात्तादृशतादात्म्यरूपसांसर्गिकविषयताया घटविषयतावच्छिन्नत्वसम्भवादिति वाच्यम् । तावतापि घटांशे उक्ताभावस्य विशेषणत्वासम्भवात् । यदीयविषयताविशिष्टसंसर्गविषयता यदीयविषयत्वेनावच्छिन्ना, तदेव तत्र विशेषणमिति ं विवेचितम् । न चोक्ताभावविषयता घटादिविषयत्वेनावच्छेत्तुं शक्या । तयोर्भिनदेशावच्छिन्नत्वादिति चेन्न । प्रतीयमानस्य विशेष्यविशेषणभावस्यापलापायेागात्
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे अनुकूलतर्कनिरूपणम्]
लघुचन्द्रिका ।।
२४९
उक्तानुपपत्तेमिथ्यात्वसाधकसहायत्वेनास्मदनुकूलत्वात् । न हि परमतेऽपि तत्रानुपपत्तिर्नास्ति । सम्बन्धस्यैवासम्भवात् । ज्ञानाज्ञानयोरिति । इच्छादेर्विषयेऽध्याससम्बन्धासम्भवाद्विषये विषयिणोऽध्यासस्सम्बन्ध इति नोक्तम् । अध्यासः अधिष्ठानारोप्यगतः । उपपद्यत इति । यद्यपि ज्ञाने ज्ञेयस्येवाज्ञाने तद्विषयस्य तादात्म्यमेव न सम्बन्धः । किं तु विषयितापि, तथापि सोक्ताध्यास एव । अधिष्ठानारोप्यगतत्वादिति भावः । अज्ञानतद्विषयशुद्धचितोः परस्परावच्छेदेन न तादात्म्याध्यासः । सुषुप्तौ भासमानस्याज्ञानाध्यासस्य निर्विकल्पकत्वेन निर्विशेष्यकत्वादज्ञानचित्सम्बन्धेऽवच्छे. दकस्य चित्सम्बन्धस्य वक्तुमशक्यत्वात् । अतो ज्ञानाज्ञानयोः स्वविषयेण परस्पराध्यासस्सम्बन्ध इति नोक्तम् । अध्यासविशेषस्य ' अहं ब्रह्मे' त्यादिवाक्यघटितसामग्रीजन्यवृत्तिनिष्ठस्य ब्रह्मतादात्म्यस्य । तथा च ताढशसामग्येव शुद्धब्रह्माकारतायां वृत्तिनिष्ठायां नियामिकेति भावः । फलेति । यादृशसामग्रीजन्यज्ञाने ब्रह्माज्ञाननिवृत्तिफलकत्वं, तस्यैव ब्रह्माकारत्वं कल्प्यत इति भावः । अनुभवबलमप्याह-न हीति । अत्र घटादिज्ञाने । नन्वविप्रकर्षस्य सम्बन्धव्यापकत्वे इच्छाया भाविविषयकत्वं न स्यात् । तस्मादिच्छाया इव ज्ञानस्यापि विप्रकृष्टे सम्बन्धोऽस्त्विति शङ्कां प्रतियोगिध्वंसादिन्यायेन पूर्वनिरस्तामपि प्रकारान्तरेण निरस्यति-इच्छेति । ज्ञानद्वारकः खोपधायकज्ञानविषयत्वरूपः । तथा च नेच्छासम्बन्धो दृष्टान्तः । ज्ञानसम्बन्धस्यैव इच्छासम्बन्धत्वादिति भावः । अधीनस्य द्वारकस्य । ज्ञानात् भिन्नः ज्ञानाघटितः । नन्वेवं ज्ञानस्यापि खोपधायकेन्द्रियसन्निकर्षादिकमेव सम्बन्धोऽस्तु । तत्राह-ज्ञाने विति । उपस्थितिं विषयताम् । सम्बन्धानुभवादिति । घटप्रत्यक्षकाले घटज्ञानमित्याकारको घटज्ञानयोस्सम्बन्धानुभवो वर्त्तते । स च सम्बन्धो नेन्द्रियादिघटितः । तस्यातीन्द्रियत्वेन प्रत्यक्षज्ञानाविषयत्वात् । साक्षिज्ञानेन हि स्वासम्बन्धोऽपि विषयः स्वसम्बन्धज्ञानविषयो गृह्यते । इन्द्रियादिघटितसम्बन्धस्तु स्वासम्बन्धोऽपि स्वसम्बन्धज्ञानस्याप्यविषयो न तद्विषयतया ग्रहीतुं शक्यत इति भावः । प्रत्यक्षाविषयस्यापि अनुमित्यादिविषयत्वेन साक्षिग्राह्यतासम्भवात् अनुमित्यादिनोपस्थिति विनेत्युक्तम् । असत्वादिति । अनुभवाधीनस्सम्बन्धः स्वोपधायकानुभवविषयत्वं, खोपधायकसंस्कारोपधायकानुभवविषयत्वं वा । नान्त्यः । संस्कारस्य साक्ष्यभास्यत्वेन साक्षिग्राह्यस्मृत्यविषयत्वेन च पूर्वोक्तन्यायेन घटस्मृतिसम्बन्धानुभवानुपपत्तेः । नाद्यः । अनुभवस्य खानुपधायकत्वात् । न ह्यविद्यमानमुपधायकमिति भावः । ननु, खोपधायकत्वं न सम्बन्धे निवेश्यम् । किं तु स्वसमानाधिकरणीयं यत् घटत्वाद्यवच्छिन्नं वि
३२ .
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र.रे अनुकूलतर्कनिरूपणम्]
लघुचन्द्रिका ।
२५१
नित्यत्वस्य लाघवेन स्वीकारात् । अस्मन्मतेऽपि आकाशादिवत्तस्या जन्यत्वेऽपि तद्वदेव कल्पपर्यन्तस्थायित्वे बाधकाभावः । तदिदं मूले वक्ष्यते-उक्तमकारेणेति । जनकज्ञानीयविषयतैव केन चिद्रूपेण जन्येच्छादिसम्बन्ध इत्युक्तप्रकारेणेति तदर्थः । तत्साधकमानेति । 'आद्यकार्य सकर्तृकम् । कार्यत्वात् । घटव'दित्यनुमानरूपनित्यज्ञानेच्छाकृतिमज्जन्यस्वसाधकेत्यर्थः । विलक्षणेति । जन्येच्छायां तजनकज्ञानायविषयत्वं सम्बन्धः । नित्येच्छायां तु तत्समानाधिकरणज्ञानीयं सर्वविषयत्वमिति भावः । जन्येति । तथा च जन्यनित्यज्ञानीयत्वयोर्विशेषयोस्सत्त्वेऽपि स्वकालीनघटत्वाद्यवच्छिन्नविषयतात्वरूपेण विषयता जन्यनित्येच्छयोस्सम्बन्धः । अन्यथा दृष्टान्ते उपादानादिविषयता इच्छादेर्यादृशी तादृशी न सिपाधयिषितसाध्यगतेच्छादौ इति पक्षे साध्यवैकल्याद्यापत्तेरिति भावः । अभ्युपगमादिति । बौद्धाधिकारादौ स्वीकारादित्यर्थः । 'प्रकाशस्य सतस्तदीयतामात्रनिबन्धनः स्वभावविशेषो विषयते'त्युदयनाचार्योक्तौ प्रकाशपदं ज्ञानार्थकम् । इच्छादेहि विषयता यात्रितमण्डनन्यायेन न स्वाभाविकीति वर्धमानादयः । एतेन यदि जनकज्ञानं तद्विषयत्वं वा इच्छादेस्सम्बन्धः, तदा समूहालम्बनमादायातिप्रसङ्गः । अथ यद्विषयकत्वेन ज्ञानस्येच्छादौ जनकता, तद्विषयकज्ञानादिकं तथेत्युच्यते, तदा नित्येच्छायाम्सर्वविषयकत्वं न स्यात् । तेन रूपेण इच्छां प्रत्यजनकत्वात् । अथ यद्विषयकज्ञानस्य स्वसमानाधिकरणयदिच्छासमये तदव्यवहितपूर्वसमये वा नियमतस्सत्त्वं, तद्विषयकज्ञानं तदिच्छासम्बन्धो महाप्रलयाव्यवहितपूर्वक्षण एवेश्वरेच्छासमयाव्यवहितपूर्व इति चेत् । तर्हि पाकादीच्छायामिष्टसाधनत्वादिविषयकत्वं स्यात् । न स्याच कृतेः पाकादिविषयकत्वमित्यादिकं बौद्धाधिकारीयशिरोमण्युक्तदूषगमनवकाशमिति सूचितम् । ज्ञानम्य ज्ञानजन्यत्वस्य । लोष्टेऽपीति । लौहित्यमिति शेषः । तथा च त्वन्मते स्फटिक इव लोष्टेऽपि लौहित्यस्य स्वाश्रयसंयोगेन प्रमा स्यात् । अबाधितप्रत्ययाभावस्तु, समानः । एवं परमते यथा समवायादिसम्बन्धेन घटादेः कार्यतास्वीकारात् समवायो घटादेरेव सम्बन्धो नाभावादेः, तथोक्तसम्बन्धेन इच्छादेर्ज्ञानादिकार्यत्वस्वीकारात्तस्यैवोक्तसम्बन्धो न सुखादेरिति मन्मते स्वीक्रियते इति बोध्यम् । साक्षादेवेति । एतेन यत्र चैतन्ये विषयोऽध्यस्तस्तदेव वृत्त्यवच्छिन्नं सज्ज्ञानम् । अतो ज्ञानस्य विषये अध्यास एव सम्बन्धइति नियमो न व्याहत इति वक्ष्यमाणं सूचितम् । परम्परोति । स्वावच्छेदकवृत्तिविषयत्वेत्यर्थः । न च वृत्तिविषयतादात्म्यविशिष्टा चिदेव ज्ञानमस्तु । तथा सति हि विषये ज्ञानस्य तादात्म्यसम्बन्ध एव लभ्यत इति वाच्यम् । पुरुषान्त
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
अद्वैतमञ्जरी।
रीयवृत्तिमादाय निवृत्तिकस्यापि पुंसो 'घटं जानामीति व्यवहारापत्तेः । न च स्वतादात्म्याश्रयविषयकवृत्तिमत्त्वसम्बन्धेनोक्तव्यवहारे ज्ञानं विशेषणमिति वाच्यम् । वृत्तौ चितः परम्परासम्बन्धद्वयनिवेशे गौरवात् । न च चि. देव ज्ञानमस्तु । तस्य चोक्तसम्बन्धेनोक्तव्यवहारविषयत्वमिति वाच्यम् । शुद्धचितो जानातिनानुपस्थितेः किञ्चिद्रूपेणैव लोके ज्ञानपदार्थस्य भानात् । वृत्तिविशिष्टचिद्वाचित्वं विना जानातेः सकर्मकतानुपपत्तेश्च । अत एव धातुवाच्यं यत् चिदूपधातुवाच्यव्यापारव्यधिकरणं वृत्तिरूपं फलं, विषयतासम्बन्धेन तद्विशिष्टत्वात् घटादेः कर्मता । वृत्तेरावरणभङ्गार्थकत्वपक्षे त्वसत्त्वापादकाज्ञानाविषयत्वप्रयोजकविशिष्टचिदेव जानात्यर्थः । उक्ताविषयत्वरूपफलवत्त्वादेव घटादेः कर्मता। सुखादौ वृत्त्यस्वीकारपक्षे तु तादृशप्रयोजकत्वं स्थूलावस्थसुखादितादात्म्यस्य बोध्यम् । सूक्ष्मावस्थे हि सुखादावज्ञानं भ्रमादितत्कार्योदयात् । न तु स्थूलावस्थे इति भावः । ज्ञेयस्य चित्तादात्म्यवतः । निवृत्तेरिति । अध्यासस्सम्बन्ध इत्यनेन योजना । प्रतियोग्यधिकरण इति । सतीति शेषः । तत्र प्रतियोग्यधिकरणे कपालनाशजन्ये घटनाशे व्यभिचारात् सत्यन्तम् । अध्यास एवति । अविद्यानिवृत्तेरविद्योपादानकत्वाभावात् ज्ञानानिवर्त्यत्वान्मिथ्यात्वाभावेन पञ्चमप्रकारत्वेऽपि चित्तादात्म्यं विना स्फुरणसत्तासम्बन्धप्रत्ययासम्भवात्तदावश्यकम् । एवं भावाद्वैतमते प्रपञ्चाभावादेस्सत्यत्वेऽपि तदावश्यकम् । ननु, तत्र चित्तादात्म्यस्वीकारे दृग्दृश्यसम्बन्धानुपपत्तिरूपतर्कसहकतेन दृश्यत्वादिहेतुना मिथ्यात्वसिद्धेः पञ्चमप्रकारत्वादिकमनुपपन्नम् । तत्राह-वस्तुत इति । तदेवेति । ब्रह्माणि घटादिविषयाणां तदाकारवृत्तेश्चाध्यासात् घटाद्यधिष्ठानस्य वृत्त्यवच्छिन्नत्वम् । जीवस्य जगदुपादानत्वेऽप्येवम् । तथा च यत् विषयाधिष्ठानं तत्रावश्यं ज्ञानत्वोपहिताभेद इति नियमः । न तु ज्ञानत्वोपहितत्वरूपेणावश्यमधिष्ठानत्वमिति प्रत्यक्षस्थलेऽपि तदसम्भवादिति भावः । सम्बन्धे 'घटं जानामी'ति सम्बन्धव्यवहारे। निरपेक्षति । तावेवोपाधी स्वोपहितयोमिथो भेदकौ, यो अन्योन्यनैरपेक्ष्येण स्वोपहित ये पधायकौ यथा भिन्नदेशस्थौ घटौ खोपहिताकाशस्य भेदकौ भवतः । तदृत्तिघटयोस्तु स्वोपहिताकाशं प्रति न भेदकता । न चैव 'अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टरूपयोः । घटते न यदैकदा तदा सुतरां तद्विपरीतरूपयो'रिति संक्षेपशारीरकवाक्यविरोधः । तस्य ह्ययमर्थः-अविरुद्धे मिलिते ये विशेषणे घटत्वद्रव्यत्वादिरूपे तदुपहितयोर्यदा नैकता घटते, तदा जगत्कारणत्वसंसारित्वरूपविरुद्ध विशेषणोपहितयोस्सुतरामेकता न घटत इतीति वाच्यम् । एकतेत्यस्यात्यन्ताभेदार्थकत्वात् । तथा च मिलितयो
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे अनुकूलतर्कनिरूपणम् ] लघुचन्द्रिका । रुपाध्योर्भेदकत्वेऽपि नात्यन्तभेदकता । अमिलितयोस्तु सा । तस्मान्निरपेक्षोपाधिरमिलितमुपाधिद्वयम्। तयोर्यथा एकोपहितादन्योपहितस्यात्यन्तभेदः, तथा शुक्त्युपहितचितः अविद्यावृत्त्युपहितचिता नेत्यर्थः । तत्र हेतुः-एकेत्यादि । एकावच्छिन्ने शुक्त्युपहिते चैतन्य एवापरावच्छेदेनाविद्यावृत्त्युपहितत्वेन । अभियुक्तैः पञ्चपादिकाविवरणकारादिभिः। फलैक्यात् अभिव्यक्तत्वरूपफलत्वाश्रयस्य चैतन्यस्यैकतापन्नाभ्यां शुक्तिरजतादिभ्यामवच्छिन्नत्वात् । ज्ञानस्य शुक्त्यवच्छिन्नाविद्यावृत्त्यवच्छिन्नचितोः। उच्यते उपचर्यते । तथा च विषययोर्मेलनात् तदाकारप्रत्यक्षवृत्तिद्वय स्यापि मेलनेन तदुपहितचिद्रूपज्ञानयोरत्यन्तभेदाभावात् अत्यन्ताभेद उपचर्यत इति भावः । पञ्चपाद्यामुक्तो कमेव ज्ञानमेकफलमिति । व्याख्यातं च तद्विवरणे-'विषयावच्छिन्नं फलम् । विषयश्च सत्यमिथ्यावस्तुनोरन्योन्यात्मकतयैकतामापन्नः । तेनैकविषयावच्छिन्न फलैकत्वोपाधौ सत्यमिथ्याज्ञानद्वयमप्येकमित्युपर्यत' इति । तथा चानिरपेक्षोपाध्योरत्यन्तभेदकत्वमेतद्न्थविरुद्धम् । अत्यन्तभेदाभावस्य प्रकृते एकत्वोपचारनिमित्तत्वादिति भावः । इदमशेति । शुक्तित्वविशिष्टेत्यर्थः । वृत्त्यवच्छिन्नस्यति। ननु, प्रत्यक्षवृत्त्यवच्छिन्नचितः घटादिविषयेऽपि तादात्म्येन सत्त्वात् 'घटो जानाती' त्यादिव्यवहारापत्तिरिति चेन्न । आख्यातार्थस्यानुकूलव्यापारस्य प्रकते मनोनिष्ठस्यैव प्रत्ययादनुकूलताविशेषस्यैव भाने समभिव्याहारविशेषस्य नियामकत्वात् । अन्यथा तण्डुलक्रयणादिव्यापारस्यापि पचतीत्यादौ बोधापत्तेः । विद्यमानसुखादौ वृत्त्यस्वीकारपक्षे तु स्वप्रतिबिम्बाश्रयो. वृत्तिपदार्थः । स्वपदं विशेष्यभूतचित्परम् । 'सुखं जानामी'त्यादौ द्वितीयार्थस्तादात्म्यम् । स्वप्रतिबिम्बविशिष्टसुखे तदन्वयः । 'घटं जानामी'त्यादौ तु स्वप्रतिबिम्बाश्रयवृत्तौ द्वितीयार्थस्य विषयत्वस्यान्वयः । यदि तु प्रतिविम्बविशिष्टरूपेण सुखादेः केवलसुखादितो भेदसत्त्वात्तद्विषयकत्वं स्वीक्रियते, तदा जानातिसमभिव्याहृतद्वितीयामात्रस्य विषयित्वमेवा. र्थः । असत्त्वापादकाज्ञानविषयत्वाभावप्रयोजकविशिष्टचितो जानात्यर्थत्वे तु तादृशप्रयोजकमेव वृत्तिपदार्थः । उक्ताभावे द्वितीयार्थस्याधेयत्वस्यान्वयः । विस्तरस्तु, सिद्धान्तबिन्दुटीकायां मदीयायां ज्ञातव्यः । अधिष्ठानतादात्म्येन आधारतादात्म्येन । कारणाप्रवृत्तरिति । 'अज्ञातो घट ' इत्याकारा प्रमाणवृत्तिन सम्भवति । प्रमाणवृत्तेरज्ञातताविरोधित्वेन स्वसमानकालीनाज्ञातताविषयत्वासम्भवात्। स्वासमानकालीनाज्ञातताविषयकप्रमाणवृत्तेस्सम्भवेऽपि तस्याज्ञातत्वविशिष्टघटादौ कारणतादिग्रहेऽनुपयोगः । अतस्स्वसमानकालीनाज्ञातत्वविशिष्टघटादिविषयकं चिद्रूपं प्रत्यक्षमेव तदुपयोगि वाच्यम् । किं चोक्तघटादिज्ञानं विनोक्तघटेन्द्रियसंयो
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२५४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
"
1
गानुकूलव्यापारे प्रवृत्तिर्न स्यात् । न च स्मरणसंशयाद्यप्रमाणवृत्त्यैव सात •वाच्यम् । उक्तघटस्याननुभूतत्वस्थले स्मरणासम्भवात् । ' घटोऽज्ञातो न वे 'ति संशयोत्तरं चौचित्यावर्जितः अज्ञातघटेन्द्रियसंयोगादेस्संशय एव स्यात् । न तु निश्चय इति भावः । ननु, अप्रमाणवृत्तिसंशयादिनोक्तघटादिग्रहणासम्भवेऽप्यविद्यावृत्तिस्तद्राहिकास्तु । तत्राह - तद्विलक्षणमित्यादि । वृत्तेर्जडत्वेन मिथ्यात्वेन च मोक्षानन्वयित्वात् अप्रकाशमानसुखरूपस्य मोक्षस्या पुरुषार्थत्वाच्च स्वप्रकाशचिद्रूपत्वं मोक्षस्यावश्यकम् । तथा च तस्य नित्यत्वादेकत्वाच्च वृत्युपहितः स एव ज्ञानम् । अन्यथा वृत्तेर्ज्ञानत्वे ' तदा ज्ञात' मिदानीं ज्ञातं ' घटो ज्ञातः 'पटो ज्ञात' इत्यादिप्रत्ययानामनुगतैकविषयकत्वमानुभाविकमपलप्येत । वृत्तेरपि स्वप्रकाशत्वे कल्प्यमाने गौरवञ्चापद्येत । न च चितः स्वप्रकाशत्वं तत्तद्देहादी संशयाद्ययोग्यत्वम् । तदपि देहादावनावृतत्वम् | चितो हि पूर्णानन्दरूपेणावृतत्वेऽपि स्फुरण रूपेणानावृतत्वमेव । अन्यथा 'अहं स्फुरामि न वा' 'मनस्फुरति न वे 'ति 'न स्फुरती 'ति वा संशयविपर्यासापत्तेः । तथा च वृत्तिज्ञानस्यापि तादृशत्वप्रकाशत्वमस्त्येवेति कथं गौरवम् । तदुक्तं तार्किकादिभिरपि । ' न हि जानन्नेव पुरुषो जानामि न वेति न जानामीति वा जानातीति । 'घटज्ञानवान् पुरुषो ' 'घटमहं जानामि न वेति घटं न जानामी 'ति वा नानुभवतीति तदर्थ इति वाच्यम् । स्वान्यभानानपेक्षभातीतिव्यवहारविषयत्वं स्वप्रकाशत्वमिति हि मूल एवं जडत्वस्य मिथ्यात्वहेतोर्विवेचने उक्तम् । तथा चोक्तविषयत्वे वृत्तौ स्वीक्रियमाणे गौरवम् । 'सुखं भाति' 'चिद्वाती 'त्यादौ चित्तादात्म्यस्यैव प्रयोजकतया क्लृप्तत्वेन वृत्तिभीतीत्यादौ वृत्तितादात्म्यस्य प्रयोजकतया कल्पनीयत्वात् । किं चताकिकादिमते संशयाद्ययोग्यत्वरूपमनावृतत्वं निश्चयविषयत्वम् । न त्वावरणाविषयत्वम् । तैर्भावरूपस्यावरणस्यास्वीकारात् । तथा च वृत्तेर्घटादिवदुक्तविषयत्वेऽपि न स्वप्रकाशत्वम् । न च तन्मते सर्वस्य ज्ञानस्यानुव्यवसायाभावेनोक्तविषयत्वासम्भवात् । संशयादिविषयत्वे ज्ञानतादात्म्यमेव विरोधित्वेन कल्प्यम् । तथा च तादृशतादात्म्यमेव स्वप्रकाशत्वमिति वाच्यम् । उक्तकल्पनायां गौरवात् । तैर्युक्तविषयत्वं प्रति निश्चितत्वमवश्यं विरोधि वाच्यम् । अविद्यमानस्यापि घटादिज्ञानस्यात्मनि निश्वये तत्संशयानुत्पत्तेः । तथा च विद्यमानेऽपि घटादिज्ञाने निश्चितत्वस्यवोक्त• विरोधित्वं सम्भवति । अनुव्यवसायस्य सर्वदोत्पत्त्यसम्भवेऽपि सिद्रूपमित्यानुव्यवसायेन निश्चितत्वसम्भवात् । किं च सुखादेरप्युक्तविरोधित्वं त्वया वाच्यम् । तथा च मुखत्वादिसाधारणस्याहमर्थविशेष्यतानिरूपितनिश्चयप्रकारतावच्छेदकत्वस्य धी
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे अनुकूलतर्कनिरूपणम] लघुचन्द्रिका ।
२५५
त्वमीत्वादिनिष्ठसंशयादिप्रकारतावच्छेदकत्वविरोधित्वसम्भवात् सुखादीनामनन्तविरोधित्वकल्पनं न युक्तम् । तस्मान्न जन्यज्ञानादेः स्वप्रकाशत्वम् । चित्तादात्म्येनैव तस्य मातीत्यादिव्यवहारात् स्वान्यभानेत्यादिलक्षणाभावादिति भावः । अज्ञाननिवर्तकमिति । यद्यप्यज्ञानस्य प्रमातृचिदनुपरागम्य वा निवर्तकत्वं वृत्तावेव । आवरणभङ्गश्च वृत्त्येति मूले पूर्वमुक्तं, तथापि तदुपरक्तचित्यपि तदस्तीति तथोक्तम् । न हि तन्निवृत्तिजनकत्वं तत् । येनोक्तचित्त्वरूपेण तदुक्तौ गौरवं स्यात् । किं तु तद्विरुद्धस्वभावत्वम् । ननु, प्रमोत्पत्तेः पूर्वमप्रतीतमप्यज्ञातवटादिकं पश्चादनुमानादिना ज्ञेयत्वात् नासत् । अन्यथा कदाचित् केनचिदप्रतीतिमात्रेणासत्त्वे सर्वमसत् स्यात्। न च तदा केनापि तस्याप्रतीतत्वमिति वक्तुं शक्यम् । नं चाज्ञातताकाले घटादिज्ञानाभावे प्रत्यक्षे तत्कारणेन्द्रियसन्निकर्षे चोक्तघटादेः कारणताग्राहकान्वयव्यतिरेकज्ञानासम्भव इति वाच्यम् । उक्तघटादेरभानापादकाज्ञानकाले अनुमित्यादिनापि तत्सम्भवात्तत्राह-नाभिव्यनक्तीति । नाभिव्यक्त्युद्देश्यकप्रवृत्तिमानित्यर्थः । तथा च यथा जगत्तमोनाशमुद्दिश्य सवितुः प्रवृत्तिः, न तु शशशृङ्गीयतमोनाशमुद्दिश्य । तस्यालीकत्वेनाज्ञानासम्भवात् । तथा . घटाज्ञाननाशार्थ न कस्यापि प्रवृत्तिः स्यात् । घटाज्ञानस्य प्रमाणज्ञानासम्भवात् । अतस्तस्य ज्ञान साक्षिचिदेव । ननु, प्रमाणवृत्त्यभावेऽपि घटादेरज्ञाततया भानस्वीकारे तदा तत्र भातीति व्यवहारः स्यादिति चेत् , अज्ञाततया भातीति स्यादेव । घटादेरनुमित्यादिकाले अनुमितत्वादिना घटो भातीतिवत् । घटो भातीति व्यवहारस्य तु नापत्तिः । अज्ञातत्वज्ञातत्वाभ्यामुपहितस्थैव घटादेस्तदानावृतसाक्षितादात्म्यस्वीकारात् । अत एवोक्तं विवरणे-'अज्ञाततया ज्ञाततया च सर्व साक्षिभास्य'मितीति भावः । आमासस्य वृत्तिप्रतिबिम्बितचितः । ब्रह्मानुभक्तः ब्रह्माभिन्नसाक्षिणः । वदतेति । त्वदाचार्येणेति शेषः । चैतन्यस्य शुद्धचिदुपहितचितोः । एकत्वातादात्म्यात् । इत्यस्मिन्नधिकरणे इति । सर्वदृश्यानुस्यूतत्वात् स्वप्रकाशचिद्रूपत्वाच्चात्मा खेतरसर्वभासक इत्यादि तत्रोक्तम् । आक्षेपस्य अर्थापत्तिकल्प्यस्य । उपपादकत्वं यद्विना आक्षेपकमनुपपन्नं तत्त्वम् । आक्षेपकस्येति । यस्यानुपपन्नत्वधीरर्यापत्तिकरणं तस्येत्यर्थः । अर्थापत्तीति । अनुपपत्तिधीकरणकार्थापत्तीत्यर्थः । अथ वा यत्संशयोऽर्थापत्तिकरणं, सोऽप्याक्षेपकः । तथा च संशयकरणिकाप्यर्थापत्तिः प्रकृते ग्राह्या । यथा हि जीविनो देवदत्तस्य गृहासत्त्वं बहिस्सत्त्वं विना अनुपपन्नमिति धीः उपपादकस्य बहिस्सत्त्वस्य देवदत्ते अर्थापत्तिरूपे ज्ञानविशेषे करणम् । तथा जीविनो देवदत्तस्य गृहासत्त्वज्ञानं पूर्वनिश्चितयोर्जीवनगृहसत्वनियमयो.
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
संशयाहितजीवनसंशयद्वारा करणम् । उक्तनियमसंशयो वा जीवनसंशयद्वारा करणम् । करणस्य सव्यापारत्वानियमात् । जीवनसंशय एव वा करणम् । देवदत्तो बहिरस्तीत्यर्थापत्त्यन्वयव्यतिरेकानुविधानस्याविशेषात् । बहिस्सत्त्वं विनानुपपन्नत्वं तु बहिस्सत्त्वाभावव्यापकाभावप्रतियोगित्वम् । प्रकृते तु 'ढग्दृश्ययोरन्यतरमिथ्यात्वं विना सम्बन्धोऽनुपपन्न' इति धीः पूर्वनिश्चितयोईग्दृश्ये सम्बन्धे एव तयोस्सम्बन्धः सत्य एवेति नियमयोः संशयाहितं दृग्दृश्ये सम्बन्धे न वेति संशयं द्वारीकृत्य विप्रकर्षहेतुकः । तयोस्सत्यसम्बन्धाभावनिश्चयः तादृशसंशयो वा करणमुक्तान्यतरन्मिथ्येत्य
पत्ताविति द्रष्टव्यम् । प्रतिकलमिति । सम्बन्धिमिथ्यात्वे सम्बन्धमिथ्यात्वनियमात् मिथ्यात्वस्य च तुच्छत्वरूपत्वात् सम्बन्धस्वरूपस्य कालादिसम्बन्धिनः प्रतिकूलं सम्बन्धिमिथ्यात्वमिति पराभिमानः । परमते शुक्तिरूप्ये मिथ्यात्वसम्बन्धस्य शुक्तिरूप्याभावस्य च सत्यत्वस्वीकारात् तत्र मिथ्याप्रतियोगिकत्वमिथ्यानुयोगिकत्वयोमिथ्यात्वासाधकत्वान्नेयं परोक्तियुक्ता । मन्मतेऽपि प्रपञ्चाभावे ब्रह्मस्वरूपे व्यभिचारो बोध्यः । उक्तरीत्या इच्छादाविव ज्ञानेऽपि विषयस्य सत्यस्सम्बन्ध इत्यादि. रीत्या सम्बन्धान्तरेण अध्यासान्यसम्बन्धेन आक्षेप्यं विनाक्षेपकस्यानुपपत्तिमाहसत्यत्व इति । दृग्दृश्यसत्यत्वे इत्यर्थः । नन्वनध्यस्तसम्बन्धस्य त्वयानङ्गीकारादध्यस्त एव सम्बन्ध आक्षेपकः । अध्यस्तता च नाक्षेपात्पूर्वं सम्भवति । आक्षेपस्यैव सदृश्यमिथ्यात्वसाधकत्वादित्याशङ्कय निषेधति-न चाध्यस्तत्वस्येति । सम्बन्धत्वेन विप्रकृष्टयोस्सम्बन्धत्वेन । स च तादृशरूपविशिष्टसम्बन्धश्च । अबाधित इति । तथा च मिथ्यात्वरूपेण सम्बन्धस्येव तदभावस्थापि निश्चयो नाक्षेपपूर्वमस्तीति मिथ्यात्वरूपेण सम्बन्धसिद्धौ न बाधकमिति भावः । न विशेष इति । अधिष्ठानारोप्ययोः सम्बन्धः अध्यस्तसम्बन्धशब्दार्थः । स च न सम्भवति । अधिष्ठाने आरोप्यस्य सम्बन्धप्रत्ययासम्भवात् । अधिष्ठानज्ञानं हि आरोप्यसम्बन्धज्ञानविरोधीति भावः । ननूक्तप्रत्ययोऽपि न सम्भवति । शक्तिरूप्ययोस्सम्बन्धविषयकत्वात्तत्राह-चैत्रस्येति । अभावे अभावकाले । तथा च चत्रमैत्रयोः मिथो वैशिष्टयग्रहासम्भवकाले। यथा चैत्रस्य पिता मैत्र इत्यत्र ज्ञाने चैत्रस्य जनकतायां विशेषणत्वं, तथा शुक्तित्वविशिष्टस्य रूप्यसम्बन्धग्रहासम्भवेऽपि भ्रमविशेष्यत्वरूपाधिष्ठानत्वघटके भ्रमे रूप्यस्य सम्बन्धावगाही प्रत्ययो नानुपपन्न इति भावः । वृत्तिगतत्वेऽपीति । ननु, वृत्तौ तुच्छाकारताखीकारे तुच्छे वृत्तिसम्बन्धोऽपि स्वीकृत इति चेन्न । वृत्तौ तुच्छाकारता हि न सार्वदिकी । किं तु, वृत्तिकालावच्छिन्ना । तुच्छे तु वृत्तिविषयत्वं याच्यते, तदा तदपि तादृशमेव
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे अनुकूलतर्कनिरूपणम्] लघुचन्द्रिका ।
वाच्यम् । सार्वदिकत्वासम्भवात् । तथा च वृत्तिकालस्य तुच्छासम्बन्धित्वेन तुच्छनिष्ठे वृत्तिविषयत्वे अवच्छेदकत्वासम्भवादनुपपनिरिति भावः । उक्तं च माध्वादिभिरपि-ध्वंसादावेव प्रतियोग्यादेस्सम्बन्धो न तु प्रतियोग्यादी ध्वंसादेस्सम्बन्ध इति । न च तुच्छे वृत्तिनिष्ठसम्बन्धनिरूपकत्वं विनोक्तसम्बन्धोऽनुपपन्न इति तइवश्यं वाच्यम् । तथा च तस्याप्यसार्वदिकत्वादुक्तावच्छिन्नत्वस्यावश्यकत्वादनुपपत्तिरिति वाच्यम् । सम्बन्धस्य तदन्यसम्बन्धास्वीकारात् । सामान्यसम्बन्धेन सम्बन्धसामान्येन । इति सत्येनेत्यादिः । प्रसिद्धविशेषे सत्यसम्बन्धे । सामान्यस्य सम्बन्धसामान्यस्य । बाधशङ्कयेत्यादि । यदि सत्यसम्बन्ध एव विशेषः, तदा विप्रकृष्टयोस्सम्बन्धिनोस्तदसम्भवात् सम्बन्धसामान्यं न स्यात् । विप्रकृष्टयोविशिष्टधीस्सम्बन्धाविषयिकैवेति स्वीकारे सन्निकृष्टयोरपि सा तथा स्थादित्यतिप्रसङ्गः । तस्मात् विशेषान्तरं मिथ्यासम्बन्धरूपं वाच्यम् । तच्च कथमुपपद्यत इति निज्ञासा तदुपपादनं च न व्यर्थम् । सम्बन्धसामान्यस्थापनद्वारोक्तातिप्रसङ्गनिरासस्य फलस्य सत्त्वादित्यर्थः । सम्बन्धिभिन्नत्व इति । ढरहस्ययोस्सम्बन्धमात्रस्य रूसम्बन्धिभिन्नत्वे इत्यर्थः । अनवस्थानादिति । घटतद्दशोस्स्वभिन्ने सम्बन्धे ढक्सम्बन्धान्तरं तत्रापि ढक्सम्बन्धान्तरमिति अनवस्थानादित्यर्थः । खनिर्वाहकत्वं खं प्रति सम्बन्धत्वम् । सम्बन्धत्वायोगात् 'खं न स्वस्य न वा स्व. स्मिन्निति प्रतीतेः स्वप्रतियोगिकत्वस्वानुयोगिकत्वयोः कुत्राप्यभावात् स्वं प्रति कस्यापि न सम्बन्धत्वम् । न चैवं घटादाविव दृश्यत्वेऽपि दृशस्तादात्म्यं मिथ्याभूतं स्वीक्रियतामेवं तत्रापीत्यनवस्था तव मतेऽपि दुर्वारेति वाच्यम् । घटादाविव दृश्यत्वादौ तदननुभवात् यावदनुभवमेव मिथ्याभूतस्य स्वीकारात् । भूषणत्वादिति । उक्तं हि खण्डने । 'अनवस्थादयो दोषास्सत्ता निघ्नन्ति वस्तुनः । अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ॥ इति । सत्तां निघ्नन्ति सत्ताभावं ज्ञापयन्ति । तत्प्रसञ्जकाः सत्ताभावज्ञापकाः । न चेति । भिन्नत्वे अनवस्थादिनेति शेषः । तदुपपत्त्येति । अधिष्ठानान्यमिथ्यात्वमेव उपपादकमिति भावः । अन्तरेणेति । विनिगमकाभावाद्विषयतत्संबन्धयोमिथ्यात्वमुपपादकम् । न तु तत्सम्बन्धमात्रस्येत्यर्थः । अन्यतराध्यासे विषयविषयिणोरन्यतराध्यासे आवश्यके । अनुवृत्तखेत्यादि । ननु, यत् भ्रमान्तरानुवृत्तं, तदवश्यं तद्भमैतद्भमाधिष्ठानमिति वा तत् एतद्भमेऽनारोपितमिति वा न व्याप्तिः । शुक्तिरूप्याद्यवच्छिन्ने चैतन्ये भ्रमान्तरोदयेन शुक्तिरूप्यादेः स्वभ्रमानधिष्ठानत्वादिना व्यभिचारात् । नापि सर्वभ्रमानुवृत्तत्वमारोपितत्वव्यतिरेके हेतुः । तावतापि शुक्त्यवच्छिन्नचितोऽधिष्ठानत्वासिघ्यादितादवस्थ्यादिति
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
चेत्, सत्यम् । तथापि यस्य भ्रमस्य बाधकाले बाधकधीविषयतया यदनुवर्तते,. तत् तद्भमाधिष्ठानमित्यादिव्याप्तिसम्भवः । ज्ञानस्वरूपं हि चैतन्यम् । तथा शुक्तिरूप्यादिभ्रमस्थलेऽपि शुक्त्याद्यवच्छिन्नसद्रूपेण तत्तथा । इयं शुक्तिस्सतीति हि बाधकज्ञानम् । भवति च शुद्धब्रह्मज्ञानमपि सर्वभ्रमवाधने खरूपयोग्यम् । एवं यद्यत् स्वप्रकाशं, तत् न मिथ्या । तबाधकमन वृतस्तेन भास्यत्वासम्भवात् तस्यां भासकान्तरकल्पने च गौरवात् । आदिपदेन विनाशित्वाविनाशित्वसङ्ग्रहः । यद्यद्विनाशि, तत् न सर्वभ्रमाविष्ठानम् । तन्नाशे तस्याधिष्ठानत्वासम्भवादित्यादि बोध्यम् । तत्त्वेति । त्रिकालाबाध्येत्यर्थः । सत्ता त्रिकालाबाध्यता । तादृक् पगेक्षम् । इंडक् अपरोक्षम् । यत्र न प्रसरति । यस्य प्रतीचो न समसत्ताकलक्षणं मूलाज्ञानविषयत्वादिकमपरोक्षमपि न समसत्ताकम् । दुनिरूपत्वतः अनिर्वाच्यत्वस्यैव लक्षणस्योक्तेः । अनिर्वाच्यत्वं सत्यस्य लक्षणादेरनिर्वचनम् । खण्डनोक्तरीत्येति । 'अभीष्टसिद्धावपि खण्डनानामखाण्डि राज्ञामिव नैवमाज्ञा । तत्तानि कस्मान्न यथावदेव सैद्धान्तिकेऽप्यध्वनि योजयध्व'मिति रीत्येत्यर्थः । संसर्गखण्डनादियुक्तिभिः पराभ्युपगतप्रक्रियाखण्डनरूपाभीष्टसिद्धौ सत्यामपि खण्डनानां स्वाभ्युपगतप्रक्रियाखण्डने स्वतन्त्रतारूपा या राज्ञामिवाज्ञा सा नाखण्डि नास्माभिः निरस्ता । तस्माद्यथावत् परप्रक्रिवायामिव स्वप्रक्रियायामपि तानि खण्डनानि कस्मान्न योजयध्वम् । यूयं छैनवादिन इत्युक्तपद्यार्थः । तथा च ब्रह्मण्यानन्दत्वादिसंसर्गखण्डनेग ब्रह्मानानन्दाद्यात्मकमिति भावः । स्वरूपेण सत्त्वान्यरूपेण । तन्निर्वचनेति । सत्त्वेन निर्वचनेत्यर्थः । व्यापकानुपलब्धीति । सत्यत्वव्यापकाविप्रकाद्युपलब्धिविरोधिविप्रकपादिग्राहकमानेत्यर्थः । मिथ्यात्वसाधकमानेति यावत् । लक्षणानुक्तेः सत्यलक्षणानुक्तेः । कीदृगित्यादिना समसत्ताकलक्षणात्मकेन। सत्त्वेन निर्वक्तुं शक्यत्वात् तत्सदित्यस्यानन्दत्वसत्यत्वाग्रुपलक्षितस्वरूपप्रमापकशब्दस्य वक्तुं शक्यत्वात् । प्रतीत्यभावश्चेति । त्रयं विषयस्य वाच्यं, तच्चेति शेषः । तदज्ञानकार्यभ्रमविशेष्यत्वं तज्ज्ञाननिवर्त्यभ्रमविशेप्यत्वं तदनुविद्वतया प्रतीत्यभावश्चेति त्रयं न सम्भवतीत्यर्थः । ज्ञानस्य स्फुरणकाले विषयाध्याससत्त्वादाधद्वितीययोरसम्भवः । अधिष्ठानस्यावृतत्वेन तदनुविद्धतया आरोग्याप्रतीतिर्वाच्या । साऽपि न सम्भवति । 'घटं जानामीति ज्ञानानुविद्धतयैव विषयप्रतीतेरिति तृतीयासम्भव इति भावः । अस्त्येवेति । तथा च सद्रूप इव ज्ञानरूपेऽप्यनुविद्धतया विषयप्रतीतेस्तद्रूपं नाधिष्टानम् । अपि तु शु. द्वचिद्रूपं पूर्णानन्दरूपम् । तदनुविद्धतया चाप्रतीतिरस्त्येवेति भावः ॥
॥ इति लघुचन्द्रिकायां मिथ्यात्वानुमाने अनुकूलतर्कनिर्णयः ॥
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे प्रतिकर्मव्यवस्था ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२५९
प्रतिकर्मव्यवस्थायाः कस्य चित्पुंसः कदाचिदेव कश्विदेव विषयो ज्ञानकर्म । न सर्वस्य सर्वदा सर्व इति प्रतिनियतकर्मव्यवस्थायाः । चक्षुर्वदिति । तथा च यथा चक्षुः तेजस्त्वात् प्रभावत् शीघ्रं दूरस्थसूर्यादिसंयुक्तरूपेण परिणमते, तथा मनोऽपीति भावः । यथा नदीत्यादि । यथा नदीजलं नद्या अविभक्तमेव केदारादिना संयुज्यते, तथा देहादविभक्तं मनः विषयेणेति भावः । सर्वगतमिति । यथा गोत्वादिजातिः स्वरूपादिसम्बन्धेन सर्वगतापि गवादिव्यक्तावेवाभिव्यक्तत्वात् तत्रैव समवायेन वर्तत इति प्राचीनतार्किकादय आहुः । तथा जीवः सर्वतादात्म्याविशिष्टचित्तादात्म्यादिसम्बन्धेन सर्वगत इत्यर्थः । जीवचैतन्यमिति । जीवस्य जगदुपादानवे स एव भासकः । तस्य तदभावपक्षे तु तदुपरक्तमा वैष्ठानचैतन्यमेव भासकम् । वक्ष्यते हि 'अधिष्ठानचिदेव भासिका । प्रकाशस्य साक्षात्स्व सम्बन्ध भासकत्वा' दित्यादि । तथा चाद्ये जीवोऽपि भासकः । द्वितीये ब्रह्मैवेत्यर्थः । अनावृतमावृतश्च - ति । जीवस्य जगदुपादानत्वपक्षे मनदेखि घटादेरपि सर्वस्य व्यवहारकाले भातीतिव्यवहारापत्त्या मन आद्यवच्छेदेनानावृतमपि घटाद्यवच्छेदेनावृतं जीवचैतन्यम् । तस्य जगदनुशदानत्वपक्षे तु वक्ष्यमाणस्य भासवः तानियामकसम्बन्धस्य कादाचित्कत्वादेव घटादेरुक्तव्यवहारे कादाचित्कत्वसम्भवादनावृतमेव तदिति भावः । उपरागार्थेति । स्वप्रतिविम्बाश्रमवृत्तितषार्थीत्यर्थः । वृत्ते संश्लेषस्तु संयोगादिराकाराख्यविषयता चेत्युभयरूपो बोध्यः । रूपाकारवृत्तेः संयुक्तसमवायस्य रसादावपि सत्त्वाद्विषयतानिवेशः । परोक्षवृत्त्या रूपादेर्भानवारणाय संयोगादिनिवेशः । उक्तोभयस्थाने अवच्छेदकता निवेश्यते । सा च न परोक्षवृत्तेः, न वा रसादौ रूपाकारवृत्तेः । वृत्त्यवच्छेदकत्वस्येन्द्रियसन्निकर्षादिसामग्रीनियम्यत्वादिति तु वस्तुगतिः । द्वितीये त्विति । तुशब्दादुपरागार्थत्वव्यवच्छेदः । जीवस्योपादानत्वे घ
तादात्म्यरूपपरागस्य सिद्धत्वादिति शेषः । आवरणाभिभवार्थेति । एवकारश्शेषः । तेनोपरागार्थत्वपक्षेऽप्यावरणाभिभवार्थत्वलाभः । ब्रह्माकारवृत्तेहिं नोपरागार्थत्वम् । साक्षिणस्तादात्म्यरूपोपरागस्य ब्रह्मणि वृत्तिं विनापि सम्भवात् । न हि वृत्तिघटित एवोपराग सर्वत्रापेक्ष्यते । अविद्यातद्वृत्तिषु मभस्तत्परिणामेषु च तदभावात् । अथ वा साक्षिणः प्रतिविम्बमेव सर्वत्रोपरागोऽपेक्ष्यते । मनआदाविव मनस्त्वादावपि वृत्तिं विनापि साक्षिणः प्रतिविम्बं स्वीक्रियते । घटादावपि वृत्तिसंश्लिष्टे साक्षिणः प्रतिविम्बं स्वीक्रियते । अत एव स्वल्पजलादिसंयुक्तमृदादौ सूर्यादिप्रतिबिम्बमनुभूयते । न च जलादावेव तत्प्रतिविम्बं न तु मृदादाविति वाच्यम् । ज्लादियुक्तमृदाद्यन्तर्गततया सूर्यादेः प्रत्ययात् । तथा च वृत्तिं विना ब्रह्मणि
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
अद्वैतमञ्जरी
साक्षिणः प्रतिबिम्बरूपोपरागाभावादुपरागाथैव सर्वत्र वृत्तिः प्रथमपक्षे इति भावः । अभेदाभिव्यक्त्यर्थेति । मनोऽनवच्छेदप्रयुक्तं भेदं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठमनोवृत्तिर्नाशयति । स्वत एव मनोऽवच्छिन्नस्य सुखाद्यवच्छिन्नब्रह्मचैतन्यस्य तु सुखादिभासनाय न वृत्त्यपेक्षा । मनोऽवच्छिन्नस्यापि ब्रह्मणो धर्मादेश्वावृतत्वादेव न भानम् । अत एव ब्रह्मणि वृत्तिर्न जीवाभेदाभिव्यक्त्यर्था । किं त्वावरणाभिभवार्था । उक्तञ्च सिद्धान्तबिन्दौ--'जीवस्य जगदुपादानत्वे आवरणाभिभवार्था । ब्रह्मणस्तत्त्वे तु आवरणाभिभवार्था प्रमातृचिदुपरागार्था चेति । ब्रह्मण्यावरणाभिभवार्था अन्यत्र प्रमात्रुपरागार्थेति द्वितीयकल्पार्थः । नन्वभेदार्थेत्येव वक्तुमुचितम् । लाघवात् । किमित्यभेदाभिव्यक्त्यर्थेत्युक्तम् । उच्यते । रूपाद्याकारवृत्त्या रसाद्यवच्छिन्नचिति प्रमात्रभेदेऽपि ‘मया रसस्साक्षाक्रियत' इति व्यवहाररूपाभेदाभिव्यक्त्यभावात् । (यदाकारा वृत्तिस्तदवच्छिन्नचितस्तत्साक्षात्कारत्वेन व्यवहारः। पूर्वोक्ततदीयसंश्लेषविशिष्टवृत्त्यवच्छिन्नचित एव तत्साक्षात्कारत्वात् इति ज्ञापनाया)भिव्यक्तीत्युक्तम् । शुद्धं ब्रह्म न जगदुपादानम् । किं त्वविद्ययोपहितं विशिष्टं वेति पक्षे तु शुद्धब्रह्मणि मनस्तादात्म्याभावेन प्रमात्रनुपरागादेवाभानोपपत्तावपि शुद्धं ब्रह्म न जानामात्यावरणानुभवाज्जगदुपादानाच्छुद्धब्रह्मणो मनस्तादात्म्येन प्रमात्रुपरागात्तत्रावरणस्यावश्यकत्वाच्च तदभिभवार्थी वृत्तिरिति भावः । वृत्त्यैवोपरज्यत इति । भासकतानियामकसम्बन्धोऽविधातवृत्तिमनस्तत्परिणामेष्वेव जीवस्येत्यर्थः । 'जीवेशावाभासेन करोते । माया चाविद्या च स्वयमेव भवती'त्यादिश्रुत्या जीवस्याविद्याप्रतिबिम्बत्वान्मनसो जीवस्वरूपमाधारीकृत्य 'अज्ञोऽह ' मित्यारोपादविद्यातवृत्त्योरिव मनस्तत्परिणामयोरपि स्वच्छत्त्वाच्चाविद्यातवृत्तिमनस्तत्परिणामेष्वेव साक्षिणः प्रतिबिम्बरूपोपराग इति भावः । विषयैः अविद्यादिभिन्नैः । असङ्गत्वात् उक्तविषयोक्तोपरागवत्त्वे मानाभावात् । तथा च घटादावुपरागार्थमेव वृत्तिरिति भावः । सम्बन्धान्तरेण संसृएस्यापि नान्यसम्बन्धप्रयुक्तकार्यकरत्वमित्यत्र दृष्टान्तमाह-यथेत्यादि । सर्वगतमपि गोत्वादिकं सास्नादिमत्येव यथाभिव्यज्यते 'अयं गौ'रित्यादिव्यवहारं जनयति, तथा सर्वगतोऽपि जीवः अविद्यातवृत्त्यादावेव वृत्त्यभावे ‘अवि. चां साक्षात्करोमी ति व्यवहारं जनयति ! न तु घटादौ । उक्तव्यवहारजनकत्वं चोकोपरागवत्त्वमेव । ननु, घटादौ साक्षिणः प्रतिबिम्बमेवेन्द्रियसन्निकर्षादिना
१. 'यद करा वृत्तिः तदेव पूर्वोक्ततदीयसंश्लेषविशिष्टम् । तत्संश्लिष्टवृत्त्यवच्छिन्नचित एव तत्साक्षाकारत्वात् । न रसायवच्छिन्नचितः तत्साक्षात्कारत्वेन व्यवहार इति ज्ञापनाय ।' इति पाठान्तरम् ।
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्रदे प्रतिकर्मव्यवस्था]
लघुचन्द्रिका ।
२६१
जायत इति स्वीक्रियताम् । किं वृत्तिंघटितोपरागेण । तत्राह-केवलानीत्यादि। यथा अनिरनभिव्यक्तिरूपेण सर्वगोऽपि तृणाद्ययःपिण्डाद्यभिव्यक्त एव दहति । न त्वतादृशः । तथा घटादितत्तद्विषयसंश्लिष्टवृत्त्यभिव्यक्त एव साक्षी घटादिकं भासयतीत्यर्थः । तथा च केवलविषयस्यास्वच्छत्वान्मनसः प्रतिबिम्बयोग्यत्वस्य क्लतत्वाच्च क्लुप्तवृत्तिरूपेण परिणतमनस्येव प्रतिबिम्बः स्वीक्रियत इति भावः । चैतन्याभेदेनेति । विषयाधिष्ठानब्रह्मणो मनोऽनवच्छेदप्रयुक्तस्य जीवभेदस्याभावेनेत्यर्थः । गौरवादिति । कल्पितत्वं मिथ्यात्वम् । प्रातीतिकत्वं तु यदा यदा स्वयं तिष्ठति, तदा तदानावृतं यत् तत्त्वम् । तथा च प्रातीतिकत्वे मिथ्यात्वात न गौरवम् । प्रत्युत मिथ्यात्वस्य स्वान्यूनसत्ताकाभावप्रतियोगित्वादिघटितत्वात् प्रातीतिकत्वाद्गुरु । तस्मात् गौरवोक्तिः परस्य भ्रान्त्येति बोध्यम् । नन्विन्द्रियसन्निकर्ष विना प्रत्यक्षवृत्त्यसम्भवात् प्रपञ्चो न भायात् । तत्राह-प्रतीतेरिति । भानस्येत्यर्थः । तथा च तावता प्रपञ्चः सत्योऽस्तु । इन्द्रियजमनोवृत्ति विनापि स्वप्नवत् प्रत्यक्षो वास्त्विति भावः । परीक्षितलेति । मानान्तरसंवादाविसंवादेत्यर्थः । व्यावहारिकस्योक्तपरीक्षितत्वेन स्थायित्वसिद्धिः । प्रातीतिकस्य तु न मानान्तरण संवादो 'नात्ररूप्य'मित्यादिमानेन विसंवादश्चेति भावः । विषयकृतं अनावृतचित्तादात्म्यविशिष्टविषयकत्वम् । सकर्मकवृत्तीति । सकर्मकज्ञानेत्यर्थः । घटप्रकाशरूपा घटकर्तृकस्फुरणरूपा । तथा च एकस्यां क्रियायामेकस्य कर्तृत्वकर्मत्वयोर्विरोधादेकस्याः क्रियायाः सकर्मकत्वाकर्मकत्वयाविरोधादनावृतचिद्रूपस्फुरणक्रिया घटकर्तृकापूर्वोक्तजानात्यर्थरूपक्रिया घटकर्मिकेति भावः । अनुकलयन इति । कालसम्बन्धप्रयोजकयत्न इत्यर्थः । उक्तमेतत् न्यायकुसुमाञ्जल्यादौ-'तथा हि फलानुकूलत्वेनैव करोतिशक्यता । न तु यत्नत्वेन फलानुकूलयत्नत्वेन वा । यततिकरोत्योरेकार्थकत्वापत्तेः । 'रथो गच्छती' त्यादौ करोत्यर्थकाख्यातस्य मख्यार्थकत्वानुपपत्तेश्चेत्याशङ्कच, कृताकृतविभागेन कर्तृरूपव्यवस्थया । यत्न एव कृतिः पूर्वाऽपरस्मिन् सैव भावना॥ यत्नपूर्वकत्वस्य प्रतिसन्धानात् घटादौ कृतत्वव्यवहारात्तदप्रतिसन्धाने सहेतुकत्वप्रतिसन्धानेऽप्यकुरादौ कृतत्वाभावव्यवहारादाश्रयार्थकतृजन्तकर्तृपदस्य कृत्याश्रयएव प्रयोगाच न फलानुकूलमात्रं करोत्यर्थः । किं तु तादृशयत्नः सैव भावना । यतः परस्मिन् स्वकार्ये पूर्वा कारणीभूता भावयतीति व्युत्पत्तेः । तथा च करोतिना विवरणादाख्यातमपि तादृशार्थकम् । 'रथो गच्छती'त्यादौ त्वेकदेशे फलानुकूले प्रयोगः। साङ्गवेदाध्येतृवाचकस्य श्रोत्रियपदस्य ब्राह्मणमात्रे प्रयोग इवे'ति कुसुमाञ्जलौ मूलटकिाभ्यामुक्तम् । तण्डुलक्रयणादिकाले पचतीत्यादिप्रयोगः स्यादित्याशङ्कय याह.
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६२
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
भानापत्त्या
शोऽनुकूलताविशेषाश्रयव्यापारः परेषामर्थः, तादृशो यत्नो ममापीत्युक्तं शब्दमणावपि । यत्तु यत्नत्वमेवाख्यातस्य शक्यतावच्छेदकम् । अनुकूलत्वं तु धात्वर्थस्य संसर्गतया यत्ने भासत इति पक्षवराइिटीकायामुक्तम् । तत् न युक्तम् । वर्तमानत्वादिसमानाधिकरणस्यानुकूलत्वस्य लडादिसमभिव्याहारे सम्बन्धतया लडोदर्वर्तमानत्वादौ शक्तिलोपापत्तेः । शक्तिलोपापत्तेः । अथ पचतीत्यादौ अथ पचतीत्यादौ समवायादेरेव सम्बन्धत्वेन भानं न तु वर्तमानत्वादेः । तस्य त्वाख्यातात्प्रकारत्वेन भानमिति बषे, तर्हि तुल्यं तत् अनुकूलत्वे । किं च गम्यादेरपि क्रियामात्रमर्थोऽस्तु । 'ग्रामं गच्छतीत्यादौ द्वितीयार्थं संयोगादिकं स्वीकृत्य तस्यानुकूलत्वसम्बन्वेन क्रियायामन्वयः स्वीक्रियताम् । अथ द्वितीयाविभक्तिं विनापि 'चैत्रस्य गमन' मित्यादौ संयोगाद्यनुकूलक्रियात्वरूपेण प्रतीतेस्तेन रूपेण बोधकत्वं विना तस्य सकर्मकत्वानुपपत्तेः । फलानुकूलव्यापारवाचित्वस्य स्ववाच्यव्यापारव्यधिकरणफलवाचित्वस्य वा सकर्मकत्वरूपत्वात् । तेन रूपेण गम्यादिशक्यतावश्यकी । तर्हि 'अंकुरः कृत' इति प्रयोगादंकुरो यत्त इत्यप्रयोगात् करोतेरसकर्मकत्वाच्च करोतिरनुकूलयत्नार्थकः । करोतिना विव्रियमाणत्वादाख्यातमपि तथा । अत एव 'भूवादयो धातव' इति सूत्रे करोतिरुत्पादनार्थकः अन्यथा यतिवदकर्मकतापतेरिति महाभाष्ये उक्तम्- 'कर्मवत् कर्मणा तुल्यक्रिय' इति सूत्रे च वैयाकरणैरुक्तम्'कृञो ऽकर्मकतापत्तेः न हि यत्नोऽर्थ इष्यते । किं तूत्पादनमेवातः कर्मवत् साधनाद्यपी'ति । उत्पादनमुत्पत्ति प्रयोजकव्यापारः । उत्पत्तिः कालसम्बन्धत्वेनैव निवेश्यते । न तूत्पत्तित्वेन । अननुगतत्वादुत्पत्तिरूपकालसम्बन्धस्यैव कारणप्रयुक्तत्वेन तन्निवेशस्य व्यर्थत्वाच्च । यदि तत्पत्तित्वेनैवोत्पत्तेः प्रकृते अनुभवः, तदा कारवृत्तित्वमेवोत्पत्तिरनुगता निर्वाच्या । तच्च स्वाधिकरणकालध्वंसान बैंकरणत्वं कालिकत्वञ्चेत्युभयसम्बन्धेन बोध्यम् । आद्यक्षणे हि तत्सम्बन्धेन जन्यमात्रं वर्तते । एवञ्च' घटं करोती' त्या दौ घटनिष्ठोत्पत्तेरिव पचतीत्यादावपि पाकनिष्ठोत्पत्तेः प्रयोजको यत्नो बुध्यते । यदि च यत्नत्वेनैवाख्यातस्य करोतेश्व शक्यतेत्याग्रहः, तदापि करोतेरसकर्मकत्वानुरोधाल्लक्षणया अनुकूलोपस्थिते सम्भवात् तादृश एव बोधः । यत्तु जानातच्छत्यादिकमिव करोतिरपि न सकर्मक इति, तन्न । जानातेरसकर्मकत्वस्योक्तत्वात् इच्छत्यादेरपि फलप्रयोजकेच्छाद्यर्थकत्वेन सकर्मकत्वात् । फलञ्चच्छायासुखादौ प्रमातृसम्बन्धादिः । गवादौ स्वत्वादिः । द्वेषस्य शत्र्यादौ तत्तदनिष्टम् । सुखाद्यनुत्पत्तावपि इच्छादेरुक्तसम्बन्धस्वरूपयोग्यत्वानपायात् । ' मुखमिच्छती 'त्यादिप्रयोगो ग्रामप्राप्त्यनुपधानेऽपि गच्छतीत्यादिप्रयोगवदिति बो
1
'ग्रामं
For Private and Personal Use Only
CODES OF TH
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रतिकर्मव्यवस्था ]
लघुचन्द्रिका । .
२६३
ध्यम् । कुत्रापीति । ननु, भावनेतिशब्दस्याख्याततुल्यार्थकत्वेऽपि न सकमकता । किं त्वाख्यातस्याख्यातान्तपदस्य वेति चेन्न । नाम्नस्सिद्धत्वे आख्यातस्य साध्यत्वे च शत्तनिरूढलक्षणाया वा स्वीकारेण तयोरतुल्यार्थकत्वात् । तदुक्तं भर्तृहरिणा । 'सिद्धभावस्तु यस्तस्याः साधनादिनिलन्धनः । साध्यभा. वस्तु यत्तस्याः स आझ्यातनिवन्धनः ।।' इति । एवं तृतीयादिविभक्तः करणादिशब्दस्य च भिन्नार्थकत्वात्तस्या एव साकांक्षत्वम् । न तु तस्य । तस्य तु तृतीयादिविभक्तिद्वारैव तत् । उक्तं हि वार्तिके 'कृदन्तेन कारकशक्तिविशिष्टं द्र व्यमुच्यते । न तु निष्कृष्टा सेति । वृत्तेः ज्ञानस्य । स्थितेः गतिनिवृत्तेः । अगमनत्वेन गमनसंसर्गाभावत्वेन । यद्यपि 'ग्रामं न गच्छति ग्रामस्यागमन'मित्यादौ गमनस्यैव सकर्मकतया ज्ञेयस्याभावधीः, तथापि ' गच्छ गच्छसि चेद्दर' मित्यादौ गमिना लक्षणीयस्यागमनस्य सकर्मकत्वसम्भवः । अभावविशेषणे गमने दूरदेशरूपकर्मानन्वयादिति भावः । इष्टापत्तरिति । अनावृतचित्तादात्म्यस्योक्तधीविषयत्वादिति शेपः । अभ्युपेत्याह-तत्रापीति । क्रियाननुभवादीति । ' मुखमिच्छती' त्यादरेव प्रयोगस्य दृष्टया सकर्मकत्वमेवेच्छादिक्रियायाः। उक्तं हि वैयाकरणैः 'विषयताप्रयोजककाम एवेच्छत्यादेरर्थ' इति । यद्यपीच्छाया विषयत्वमिच्छोत्पत्तिकालेऽप्यस्ति, तथापीच्छायास्स्वजनकसामग्युपहितरूपेण स्वविषयताप्रयोजकत्वमक्षतम् ।अथवा विषयत्वमत्रासत्त्वापादकाज्ञानाविषयत्वरूपम् । तत्प्रयोजकत्वं हि प्रमाणवृत्त्युपहित इव कामद्वेषादिवृत्त्युपहितेऽपि चैतन्ये स्वीक्रियत एव । न हि कामादिवृत्तिमति प्रमाणवृत्तिशून्येऽपि सुखादावुक्ताज्ञानमनुभूयते । अत एव सुखादौ विद्यमाने वृत्त्यस्वीकारपक्षे सुखादेरेवोक्ताज्ञानविरोधित्वात् सुखाद्यवच्छिन्नचितोऽप्युक्ताज्ञानाविषयत्वप्रयोजकविशिष्टचिद्रूपज्ञानत्वमि. त्युक्तम् । तत्संश्लेषस्तन्त्रमिति । संश्लेषस्संश्लेषमात्रम् । मात्रेत्यनेन विषयत्वरहितसंश्लेषलाभः । तेन कजलादौ वृत्त्यविषयेऽप्यापत्तियुज्यते । ननु, कजलादौ संयोमादिरूपस्य संश्लेषस्य सत्त्वे मानाभावः । तत्राह-परमाण्वादेरिति । तत्र महत्त्वाभावादिप्रत्यक्षानुरोधेन संश्लेष आवश्यकः । आदिपदाद्रूपाकारवृत्तेरसादौ संश्लेषादापत्तिः । ननु, विषयत्वसंश्लेषोभयसम्बन्धेन वृत्तेनिवर्तकत्वे गौरवात् वृ. त्तावपरोक्षत्वनातिं स्वीकृत्य तद्रूपेण विषयत्वमात्रसम्बन्धेन तस्याज्ञाननिवर्तकत्वं स्वीक्रियताम् । अपरोक्षार्थविषयकशाब्दादिधीसामग्या अपि तादृशविशिष्टवृत्तिनियामकत्वसम्भवात्तत्रापि तन्निवर्तकत्वम् । तत्राह-तस्मादिति । सन्निकृष्टतेजस्त्वेन सन्निकर्षसम्बन्धेन तेजस्त्वेन । न त्याग इति । 'यद्विशेषयोः कार्यकारण
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
अद्वैतमञ्जरी ।
भावो बाधकं विना तत्सामान्ययोरपि स'इति न्यायादज्ञानतमोऽन्यतरनाशं प्रति संयोगेन संयुक्तसमवायादिना च सम्बन्धेन तेजस्त्वेन हेतुत्वम् । न चैवं विशेषतः कार्यकारणभावो व्यर्थ इति वाच्यम् । आलोकसंयोगे सति मनश्चक्षुरादिभिस्सह घटादेः संयोगे चासति घटादौ शाब्दादिवृत्त्या आवरणनिवृत्त्यापत्तेश्चक्षुरादिसंयोगे सति आलोकसंयोगे चासति मनोवृत्त्यावरणनिवृत्त्यापत्तेविषयत्वसंश्लेषोभयसम्बन्धेन मनोवृत्तेरभानापादकाज्ञाननाशे हेतुत्वं संयोगाद्यन्यतमसम्बन्धेन प्रभायाम्तमोनाशे हेतुत्वमित्यस्यावश्यकत्वात् । अवच्छेदकत्वसम्बन्ध एवो कोमयसम्बन्धस्थानीयो लाघवादिति तूक्तम् । एवं चापरोक्षत्वजातेस्तद्विशिष्टोत्पत्तौ शाब्दादिसामग्या नियामकत्वस्य चाकल्पनालाघवम् । सन्निकृष्टतेजःकारणत्वेति । सन्निकर्षसम्बन्धे न मनोवृत्तिकारणत्वेत्यर्थः । तत्रावरणभङ्गे कारणत्वं तत्कार्यप्रवृत्यादिकारणत्वं बोध्यम् । वृत्तेहि नाज्ञाननाशे हेतुत्वम् । किं त्वावरणविरोधित्वमात्रम् । आलोकस्यापि तमोध्वंसरूपत्वाचाक्षुषादिमनोवृत्त्यादिरूपकार्ये हेतुत्वम् । न तु तमोनाश इति बोध्यम् । तस्य मनस्सन्निकर्षस्य । चक्षुरादेरिव मनसोऽपि सन्निकर्षश्चाक्षुषादिकार्य हेतुः । विनिगमकाभावात् । यदि हि मनो न स्थूल तार्किकादिमतवत् स्यात्, तदा तस्य जीवनकाले देहात् बहिरगमनान्न घटादिसन्निकर्षसम्भवः। यदा तु युगपद्धस्तपादाद्यवच्छेदेन सुखदुःखादिनानापरिणामभागित्वेन स्थूलं, तदा चक्षुरादितुल्यत्वेन तत्सन्निकर्षः कथं न चाक्षुषादिहेतुः । चाक्षुषादिहेनुतावच्छेदकजातिविशेषस्य तत्रापि सम्भवात्। चक्षुरादेर्मनोमिश्रितत्वात् घटादिसंयुक्तचक्षुरादिभागावच्छेदेनापि तदितरचक्षुरादिभागावच्छेदेनेव विनिगमकाभावेन चक्षुरादौ मनससंयोगस्य चाक्षुषाद्युत्पत्तिकाले सत्त्वात् घटादौ मनस्संयोगस्यावश्यकत्वाच्च । न हि मनश्चक्षुरादेरेकदेश एव संयुज्यत इति नियन्तुं शक्यते । किं तु विशरारुतेजोभागबहुलत्वेन तदीयसर्वभागेषु । तथा च चक्षुरादेः क्रियैव मनसो घटादिसंयोगे हेतुः । एवं च घटादौ संयुज्यमान चक्षुरादिमिश्रितं मन एव घटाद्याकारवृत्तिः चक्षुरा. दिसंयोगनान्तरीयकत्वात् तज्जन्यतया व्यवहियते । न तु सा तज्जन्येति लाघवम् । तादृशवृत्तौ चक्षुरादिक्रियाया अपि न हेतुत्वम्। प्रयोजनाभावात् । संयोगविशेष एव घटादिनिष्ठे तस्या हेतुत्वम् । तदर्थमेव चक्षुरादियुक्तमनःक्रियायां प्रमातृप्रवृत्तिरिति संक्षेपः । अधिष्ठानस्येति । कर्णादिकं यथा श्रोत्रादेरधिष्ठानं, तथा त्वमेव त्वगिन्द्रियस्याधिछानमिति भावः। तेजस्त्वस्येति । विषयसंयुक्तेन्द्रियसंयुक्तमनस्त्वस्येत्यपि बोध्यम् । तत्प्रमापकस्य विषयसंसृष्टत्वप्रमापकस्य । ज्ञानवत् चाक्षुषादिमनोवृत्ताविव । परागित्यादि। परागर्थप्रमेयषु या फलत्वेन सम्मता । संवित् सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमा.
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे प्रतिकर्मव्यवस्था ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
२६५
णतः।। 'इति वार्तिकम् । प्रकाशकमिति ! साक्षिचित् प्रकाशिका । तदुक्तं सिद्धान्तविन्दौ— सर्वानुसन्धातृ चैतन्यं जीवेशानुगतं साक्षीत्युच्यते' इति । तथा च बिम्बप्रतिबिम्वचितोरीशजीवत्वपक्षे शुद्धचिदेव तदुभयानुगता साक्षिणी जगदुपादानम् । अविद्याप्रतिविम्बमनःप्रतिविम्बयोरीशजीवत्वे तु अविद्याविम्बत्वोपहिता चित्तथा । अविद्यामनोगतचिदाभासयोरीशजीवत्वे त्वीश एव तथा । तत्र आद्यः पक्षो विवरणकृतः । द्वितीयः संक्षेपशारीरककृतः । तृतीयः वार्तिककृतः । वाचस्पतिमते तु जीव एव तथा । तस्यैवाविद्याविषयत्वोपहिते ईशे तादात्म्येनानुगतत्वात् । घत्वद्रव्यत्वोपहितयोरिवाविद्याविषयत्वाश्रयत्वोपहितयोस्तादात्म्यसम्भवात्तयोरिव भेदस्यापि सत्त्वात् नेशजीवसाङ्कर्यम् । न हि द्रव्यत्वघटत्वोपहितयोरत्यन्ताभेदः । ईशं प्रति दृश्यमात्रस्यानावृतत्वात् तं प्रति जीवस्य भासकत्वं न वृत्तिसापेक्षमिति दिक् । कल्पनान्तरेति । भातीतिव्यवहारे विषयसंश्लिष्टवृत्तिप्रतिविम्बितचितः प्रयोजकत्वे सुखादौ तदसम्भवादनावृतचित्तादात्म्यस्यापि तत्कल्पनया तत्रापि वृत्तिकल्पनया च गौरवं वृत्तावपि वृत्त्यन्तरकल्पनाप्रयुक्तानवस्था चेति भावः । निर्विकल्पकरूपं तार्किकादिसम्मत निर्विकल्पकतुल्यम् । जानामीत्यादिव्यवहाराविषय इति यावत् । आच्छादितेति । यथा सूक्ष्मवस्त्राद्यावृतो दीपो - ऽन्वतमसविरोच्यप्यनन्धतमसाविरोधित्वाद्रव्यत्वादिरूपेणैव घटादेर्व्यवहारे प्रयोजकः न तु रूपविशेषादिमत्त्वेन तथानभिव्यक्तं चैतन्यमज्ञातत्वेनैव तद्व्यवहारे न तु ज्ञातत्वादिति भावः । आपन्नजाड्येति । अनभिव्यक्तीत्यर्थः । आपादकत्वं सम्पादकत्वम् । अभिभावकत्वं अभिभवप्रयोजकतावच्छेदकरूपवत्त्वम् । प्रयोज्यत्वेन घटितत्वेन । स्वप्रतिबिम्बवद्वृत्त्याकारत्वस्यैवोक्तसम्बन्धरूपत्वात्ततदाकारक वृत्तिज्ञानत्वस्यैवोक्ताभिभवप्रयोजकतावच्छेदकत्वाच्चोत्ततत्तदाकारत्वस्योरूपत्वे आत्माश्रय इति भावः । अस्तीत्यादीत्यादिपदात् सन्निति व्यवहारसङ्ग्रहः । अज्ञानेत्यनेनासत्त्वापाद काज्ञानमुक्तम् । तत्सन्निकृष्टेति । तदीयव्याप्तिज्ञानादिरूपेत्यर्थः । जन्यत्वस्य जन्यतावच्छेदकस्य तदीयो यः आकाराख्यंस्सम्बन्धविशेषः तद्विशिष्टत्वस्येति यावत् । यद्यप्युक्ताज्ञाननिवृत्तियोग्यत्वमपि तदेव, तथापि तादशसम्बन्धस्योक्तनिवृत्तिजनकत्वे व्याप्तिज्ञानादिजन्यत्वे चावच्छेदकीभूयोपपादकत्वेन स आवश्यक इति ज्ञापनाय द्वैविध्योक्तिरित्याशयेनाह - त दुभयमिति । तदुभयात्मक आकाराख्यस्सम्बन्धः । स्वकारणेत्यादि । स्वस्य वृत्तिज्ञानस्य कारणाधीनात् स्वभावविशेषात् अनुगतरूपेणैव कारणनियम्यत्वादनुगतरूपेणैव कार्यनियामकत्वाच्च । तथा चोक्तसम्बन्धं विना तयोरसम्भवात् स
३४
For Private and Personal Use Only
-
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
आवश्यकः । तस्य च युक्तिदुष्टतायाः पूर्वमुक्तत्वेऽप्यनिर्वाच्यत्वात् 'घटं जानामीत्यादिसाक्ष्यनुभवसिद्धत्वाच्च नापलाप इति भावः । ननूक्तनिवृत्तिजनकतावच्छेदकरूपवत्त्वेनोक्तनिवृत्तिजनकत्वे आत्माश्रयः । जनकतायां तद्धटितस्यावच्छेदकत्वात् । तत्राह-न चेति । स्वरूपयोग्यतया तत्तदाकारकत्वेन । तथा च तदाकारतात्वेनैवावच्छेदके निवेशः । न तु निवृत्तिजनकतावच्छेदकत्वेनेति भावः । दृग्भिन्नत्वात् भासकान्यत्वात् । ब्रह्मणोऽपीति । दृश्यत्वादिति शेषः । एकधेति । ननु, धाप्रत्ययस्य प्रकारोऽर्थः । स च विशेषणीभूतो विषय इति कथमुक्तश्रुतिबलात् निविकल्पकस्य मोक्षहेतुतेति चेन्न । न हि धीविशेषणरूपप्रकारार्थक एव धाप्रत्यय इति नियमः । एकधा भुक्तमित्यादौ तदसम्भवात् । किं तु क्वचित् कश्चन प्रकार इति प्रकृते विषयमात्ररूप एव प्रकार आत्मदर्शने बुध्यते । इत्यादीत्यादिपदात् अव्यवहार्यमलक्षणं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थ मन्यन्ते सोऽयमात्मा स विज्ञेय'इत्यादिश्रुतिसंग्रहः । कारणात्मना सूक्ष्मरूपेण । साधारणस्य साधारणानुगतरूपस्य । अवस्थानां भेदेऽप्यवस्थास्वनुगतरूपं प्रत्यभिज्ञादिबलात् स्वीक्रियत इत्युक्तं अन्यतरत्वेन वोपाधित्वमिति भावः । उद्धृतरूपहीनेऽपि गुहाकाशादौ मुखाद्यवच्छिन्नशब्दादिप्रतिबिम्बनोपाधितादृष्टेः शब्दान्येति । स्वच्छत्वं प्रतिबिम्बनोपाधितायोग्यत्वम् । प्रकाशस्वभावत्वेन उक्तोपाधिताविरोधिरूपहीनत्वेन । अस्त्येवेति । अनुगतरूपेणोपाधीनामेकस्य हेतुत्वस्यासम्भवात् प्रतिबिम्बरूपफलं दृष्ट्वा तदनुसारेण तत् कल्प्यत इति भावः । सत्त्वात्मकताया अपीत्यपिशब्देनेदं सूचितम् । सत्त्वात्मकत्वमपि नोपाधितायां प्रयोजकम् । जीवेशभेदे अविद्याचित्सम्बन्धादौ चाविद्यानात्मकेऽपि तत्स्वीकारात् । अन्यथा तस्य भास्यत्वानुपपत्तेरिति । दर्शनादिति । तथा च दर्शनमेव नियामकम् । यद्यप्याकाशादेः प्रतिबिम्बितत्वं वाचस्पत्यादिभिर्विप्रतिपन्नं, तथापि विवरणकारादिसम्मतमेव । कथमिति । स्वप्रतिबिम्बवद्वृत्तिसंयुक्तसमवायरूपस्योपरागस्य रूप इव रसादावपि सत्त्वादिति भावः । रूपं प्रत्येवेति । रूपावच्छिनमज्ञानं चाक्षुषवृत्त्यवच्निचिता निवर्त्यते । न तु रसाद्यवच्छिन्नाज्ञानमित्यर्थः । तथा च चिदुपरागसत्त्वेऽपि रसादावज्ञानसत्त्वान्न प्रकाश इति भावः । ननु, य. था प्रभा चक्षुस्सहकारित्वात् तद्राह्यस्यैव भासिका, तथा चिदपि स्यात्तत्राह-प्रभायामिति । सहकारित्वेति । ग्राह्यभासकत्वेत्यर्थः । विलम्बेन अभावेन । विलम्बस्य गन्धाद्यभासकत्वस्य । यदि स्वप्रतिबिम्बवद्वत्तिसंश्लेषसम्बन्धेन चितो भासकत्वं, तदा आश्रयद्वारेत्युक्तम् । यदि तु तत्संसृष्टवृत्त्यवच्छिन्नचितस्सर्वगतत्वनियामकसम्बन्धेन भासकत्वं तदाह-साक्षाद्वति । आश्रयाद्वारा वेत्यर्थः । तेन
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रतिकर्मव्यवस्था]
लघुचन्द्रिका ।
२६७
जीवस्य गुरुत्वादौ तादात्म्याभावेऽपि नासङ्गतिः । आकरे बृहदारण्यकभाष्यादौ । उक्तं हि तत्र 'यदि स्वाभाविकं कर्तृत्वं स्यात् , तदात्मनो मोक्ष एव नस्यात् । अतो दृष्ट्वैव पुण्यं च पापं चेत्यादिना कर्तृत्वाभावप्रतिपादनेन स्वभावतोऽकर्तेति ज्ञापितम् । 'ध्यायतीव लेलायतीवे'त्यादिना च पूर्वमकर्तृत्वमुक्तम् । तत्र चासङ्गत्वं हेतुः । कारकसङ्गिनो हि मूर्तस्यैव कर्तृत्वम् । अत एव व्यासः 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।' इति । नेयेति । जीवस्येव ब्रह्मणो वस्तुतोऽसङ्गत्वेऽप्युपादानत्वात् ब्रह्म प्रपञ्चाश्रयः । अत एव 'न च मत्स्थानि भूतानी'ति स्मृतिरिति भावः । तस्यैवेति । तथा च स्वप्रतिबिम्बवद्वृत्तिविषयत्वघटितसंश्लेषसम्बन्धेनावच्छेदकत्वसम्बन्धेन प्रतिबिम्बसम्बन्धेनैव वा जीवस्य भासकत्वम् । अत एव न सर्वावभासकत्वप्रसङ्ग इति भावः । अत एव निरुक्तसम्बन्धेन जीवस्य भासकत्वादेव । स्वतः स्वरूपेण । चिद्विम्बाग्राहके चित्प्रतिबिम्बायोग्ये । वृत्तिं वृत्तिसंश्लेषम् । तदाकारत्वायोगात् स्वतश्चिद्विम्बाग्राहके प्रतिबिम्बितत्वायोगात् । सूर्यादेः जलादिसंयुक्तमृदादाविव जीवचितो वृत्तिसंश्लिष्टे घटादौ प्रतिबिम्बस्य सम्भव इति भावः । ननु, सुखादेरिव शुक्तिरूप्यादेरपि स्वच्छत्वसम्भवातत्र वृत्तिकल्पना न युक्तेति चेन्न । अस्वच्छव्यावहारिकरजतादिजातीयं कामयमानस्य पुरुषस्य प्रवृत्तिरस्वच्छरजतादावेव जायत इति तदनुरोधेन भ्रमस्थले तादृशमेव रजतादिकं कल्प्यते । किं च रजतत्वावच्छेदेनाखच्छत्वास्वीकारे यस्या व्यावहारिकरजतव्यक्तेरुत्पत्तिद्वितीयक्षणादौ प्रत्यक्षोत्तरं नाशः, तस्याः वृत्तिर्न वीक्रियेत । इष्टापत्तौ च 'व्यावहारिकरजतप्रत्यक्षं सर्वमिन्द्रियजन्यमिति प्रतिसन्धाय तदर्थमिन्द्रियव्यापारे प्रवृत्तेरनुपपत्तिरिति भावः । स्वभावस्य गन्धादिभेदसामानाधिकरण्यस्य । द्रव्यसमवेतस्य चाक्षुषे गन्धादिव्यावृत्तरूपेण रूपादेहेतुत्वं रूपादिव्यावृत्तरूपेण गन्धादेः प्रतिबन्धकत्वं वेति न गन्धादौ चाक्षुषादिकमिति भावः । अन्यः वृत्तिसंश्लेषादिरूपः । दृश्यत्वे भास्यत्वे। अभेदाभिव्यक्तीति । अभेदाभिव्यञ्जकोपरागेत्यर्थः । सम्बन्धावभासः विषयसाक्षिणोस्सम्बन्धेत्यर्थः । मायोपाधिकेति । मायावृत्तिरूपोपाधिघटितेत्यर्थः । अधिष्ठानत्वम् अकल्पिते कल्पितस्य तादात्म्यम् । असङ्गत्वेऽपीति । अविद्यादौ यादृशः स्वप्रतिबिम्बरूपस्सम्बन्भस्तादृशस्य घटादावभावेऽपीत्यर्थः । अध्यासेन अध्यासतादात्म्येन । नोपादानत्वं न सर्वमासकताप्रयोजकोपादनत्वपदार्थः । शुद्धस्येति शेषः। कल्पितानामिति । परमार्थतश्शुद्धमपि अविद्ययेव दृश्यान्तरैरपि सार्वश्यादिभिस्सम्बध्यत इति भावः । तेषामिति। शुद्धं प्रतीति शेषः । उक्तं च विवरणादौ तथेति भावः । भन्यस्य अन्यस्मिन् कल्पि
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
अद्वैतमञ्जरी
तस्य ! कल्पिते कल्पितत्वादन्यदनावृतमित्यर्थः । अज्ञानादीत्यादि । अज्ञानाद्यपाध्यवच्छिन्नस्य प्रकाशेऽप्यशनायाद्यतीतत्वोपलक्षितपूर्णानन्दरूपेणावरणमावश्यकम् । अप्रकशादित्यर्थः । शक्तिमदविद्यति। शक्तिनाशाच्छक्तिविशिष्टरूपेणाविद्याया नाश इति भावः । उच्छेदेति । ज्ञानमज्ञानप्रयुक्तस्यैवोच्छेदकमित्येवंरूपत्वादित्यर्थः । अज्ञानप्रयुक्तत्वं चाज्ञानव्याप्यत्वम् । तच्चाज्ञाने तद्व्याप्ये अनादिदृश्ये तत्कार्थे चास्त्येव । उच्छेदश्च पूर्वोक्तो बोध्यः । यदि तु ज्ञानमेवाज्ञानस्य नाशस्तदुत्पत्तिक्षणस्य चाज्ञानप्रयुक्तदृश्याधिकरणकालपूर्वत्वाभावनियम इति स्वीक्रियते, तदा निवकिमित्यस्य निवृत्तिरित्यर्थ इति ज्ञानमज्ञानस्यैव निवृत्तिरिति नियमो बोध्यः । बदनङ्गीकारात् ज्ञानादज्ञानस्यैवेति नियमास्वीकारात् अज्ञानभिन्नस्य ज्ञानात् सूक्ष्मरूपता नेत्यस्यास्वीकारादिति यावत् । तथा चैकाज्ञानपक्षे शक्तिभेदस्य शुक्तिरूप्याद्यनुपादानत्वेऽपि शुक्त्यादिज्ञानेन रूप्यादिनिवृत्तियुज्यत एवेति भावः । शक्तिभेदस्य पल्लवाज्ञानस्य वा तदुपादानत्वपक्षे तु बाध एव सम्भवतीत्याह-शुक्तिज्ञानस्य चेति । तुलाज्ञानेति । मूलाज्ञानीयावस्थातच्छकत्यन्यतरेत्यर्थः । अनभ्युपगमादिति । उपादानमविद्यादिकम् आकाशादिरूपेण परिणमते, मिथस्संयुक्तकपालद्वयादिकं घटादिरूपेण परिणमते इत्येव स्वीक्रियते । तथा च घटादौ कपालादेः सम्बन्धो नास्ति । तस्य हि स्वीकारे घटस्येव कपालद्वयस्यापि गुरुत्वादिकं स्वकार्यानुमानादिकं कुर्यात् । तस्मात् परिणामवाद एव युक्तः । उक्तं चारम्भणाधिकरणभाष्यादौ--'द्रव्यारम्भोऽपि न सर्वत्रारम्भकसंयोगादेवे'ति । तथा चावयवसंयोगेनैव द्रव्योत्पत्तावनुभवविरोधः । शीघ्रमेव प्रभादिस्थले द्रव्यस्योत्पत्तेः । अभिव्यक्तौ प्रमातृचिदुपरागे । तदवच्छेदेनैवेति । यद्यपि शुद्धनिष्टमेव सर्वमावरणं, तथापि तदभिभवो घटाद्याकारवृत्त्या क्रियमाणो घटाद्यवच्छिन्न एव । स हि यद्यज्ञाननाशः, तदा वृत्तिज्ञानस्वरूपत्वात् घटाद्यवच्छिन्न एव । प्रत्यक्षमनोवृत्तेस्तथात्वस्येन्द्रियसन्निकर्षाधीनत्वात् । परोक्षवृत्तिप्रयुक्तस्याभिभवस्य प्रमातृमात्रनिष्ठाज्ञाननाशरूपत्वान्न घटाद्यवच्छिन्नत्वमिति वक्ष्यते । आवरणस्य शक्तिरूपत्वेऽपि तदभिमवो वृत्तिस्वरूपत्वात् तथैव । यदि तु वृत्त्यभावविशिष्टो योऽज्ञानसम्बन्धः, तदभाव एवाभिभवः। न त्वज्ञानस्य नाशः । अज्ञानस्यैकत्वेन घटादिवृत्त्या नाशासम्भवात् , तदापि घटादिवृत्त्या सम्पाद्यमानः स एवेति भावः । शक्त्यभिभवाद्वेति । शक्तिरावरणशक्तिः । तूलाज्ञानमावरणविक्षेपशक्तियुक्तं ब्रह्मज्ञानान्यज्ञाननाश्यमूलाज्ञानतादात्म्यानापन्नमज्ञानम् । अवस्थाविशेषस्तु तादृशं मूलाज्ञानतादात्म्यापन्नम् । वक्ष्यति हि 'अज्ञानावस्थायास्तदभिन्नाया' इति । एकदेशनाशस्तु वृत्तौ सत्यामज्ञानं स्वकार्याक्षमं तत्रापि
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे प्रतिकर्मव्यवस्था ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२६९
वृत्तिकाला भावविशिष्टमज्ञानं भानविरोधीत्युपान्त्यपक्षः । वृत्त्युत्पत्तिक्षणोत्तरवृत्तिकालाभावविशिष्टमज्ञानं भानविरोधीत्यन्त्यपक्षः । अत एव यथा प्रतिभटागमनक्षण एवं भोरुभटापसरणं, तथा वृत्त्युत्पत्तिक्षण एवावरणाभिभवः । यथा च हस्तसंयोगोत्पत्त्युत्तरं कटस्य वेष्टनं, तथा वृत्त्युत्पत्तिक्षणोत्तरवृत्तिकाले आवरणाभिभव इत्याशयेन दृष्टान्तो युज्यते । अत एव च नानाज्ञानपक्षे शक्तः ज्ञाननाश्यत्वपक्षे वा वृत्त्यावरणस्याभिनवो वृत्तिरेव वा स इति पक्षद्वयं बोध्यम् । वक्ष्यमाणरीत्या चरमपक्षाभ्यां भिन्न एव वा एकदेशनाशपक्षो बोध्यः । एकाकारं एकाज्ञानस्वरूपम् । यथा घटादिरूपावस्थास्वनुगतमप्यज्ञानं घटादिनाशेऽपि न नश्यति तथा अज्ञानरूपनानावस्थासु अनुगतमज्ञानं तासां नाशेऽपि न नश्यति । एतावांस्तु विशेषः । यत् घटाद्यवस्थानादिरज्ञानोच्छेदं विना नोच्छिद्यते । अज्ञानरूपावस्था तु स्वानुगताज्ञानवदनादिः तदुच्छेदं विनाप्यच्छिद्यते च । न चाज्ञानत्वादेव तासां ज्ञाननाश्यत्वसम्भवात्तत्र मूलाज्ञानतादात्म्यस्वीकारो व्यर्थ इति वाच्यम् ।' अजामेकां ' ' अज्ञानेनावृतं ज्ञानमित्यादिश्रुतिस्मृतिप्वावारकस्यैकस्वरूपाभिन्नत्वप्रत्ययात् ' अज्ञातः पटः '' अज्ञातो घटः' इत्याद्यनुगतप्रतीतिषु तथाप्रत्ययाच्चेति भावः अनीदृक्त्वात् । अज्ञानत्वशून्यत्वात् । प्रागभावान्तरनिबन्धनमिति । 'अज्ञातो मे घट' इत्यादिप्रत्यक्षधीस्तत्पुरुषीयज्ञानाविषयवृत्तित्वविशिष्टं तत्पुरुषीयज्ञानस्य संसर्गाभावमवगाहत इति परैः स्वीक्रियते । तत्र यथा तत्पुरुषीयकिञ्चिज्ज्ञानविषये घटे तादृशप्रत्यक्षाभावो विषयविधया तादृशप्रत्यक्ष कारणीभूतस्य तादृशाभावस्याभावात्, तथा मन्मते वृत्तिज्ञानमेकाज्ञाननिवर्तकं अन्याज्ञानप्रयुक्तस्य 'बटो न भातो'ति व्यवहारस्यानुत्पत्तौ प्रयोजकम् | तत्त्वञ्च तादृशव्यवहारं प्रति घटाकारवृत्तेः प्रतिबन्धकत्वाद्वृत्तिविषयत्वाभावकालोपहित एव । घटे आवृतत्वस्वीकारात् । वृत्त्यविषयत्वविशिष्टं यदज्ञानं, तदभावविशिष्टचितो मानत्वस्वीकारेण वृत्तिकाले तस्याः घटादौ सवाद्वा । सर्वथापि तादृशव्यवहाररूपकार्यानुत्पत्तिव्याप्यार्थकं प्रतिबन्धकपदं वृत्तावस्मदीयैः प्रयुज्यते इति समुदायार्थः । प्रतिबन्धकपदेन प्रतिबध्नातीत्यनेन । प्रतिबन्धकतायां 'घटो भाती'त्यादि व्यवहारोत्पत्तिप्रयोजकाभावप्रतियोगितायाम् । सा च भातीत्यादिव्यवहारे वृत्त्यभावविशिष्टसम्बन्धस्य प्रतिबन्धकत्वाद्वा वक्ष्यमा - रीत्या वा बोध्या । अत्रेदं बोध्यम् । वृत्त्यनवच्छेदकत्वसमानाधिकरणो यो ऽज्ञानसम्बन्धः, तस्य भातीतिव्यवहारे प्रतिबन्धकत्वात् घटादौ वृत्त्यवच्छेदकत्वकाले तथा व्यवहारः । अथवोक्तसम्बन्धाभावाश्रयतादात्म्यापन्ना चिदेव भानम् । तेनोक्तका -
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२७०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
ले अज्ञान सम्बन्धसत्वेऽपि विषयसत्तादुक्तव्यवहारः । तदन्यकाले तु विषयासत्त्वादेव नोक्तव्यवहारः । एतस्मिन् पक्षे च प्रतिबन्धकत्वं न कल्प्यते । वृत्तिविषयवासमानाधिकरणासत्त्वापादक ज्ञानसम्बन्धाभावस्यास्तित्वव्यवहारे प्रयोजकत्वमपि तथैव बोध्यम् । अज्ञानस्य सम्बन्धस्तु सर्वत्र विषयतावच्छेदकत्वम् । तच्च घटादावेव । न सुखादाविति वृत्त्यभावेऽपि सुखादो भातीत्यादिव्यवहारः । यद्यपि ब्रह्मणि वृत्तिविरह का लेप्युक्तावच्छेदकत्वस्याभावात् 'ब्रह्म साक्षात्करोमी' ति व्यवहारापत्तेर्भानं न तद्घटितं, तथाऽपि विषयत्वतदवच्छेदकत्वयोरन्यतरदुक्तावच्छेदकत्वशब्दार्थ इति ब्रह्मणि वृत्तिविरहकाले अज्ञानविषयत्वसत्त्वेन उक्तान्यतराभावस्यासत्त्वात् उक्तान्यतरा भावविशिष्टविषयतादात्म्यापन्नसाक्षिणो विषयसाक्षात्कारत्वे दोषाभावः । अवच्छेदाभ्युपगमादिति । अज्ञानस्यैकत्वपक्षेऽपि शुद्धचिन्निष्ठा विघयता काचित् केनाप्यनवच्छिन्ना स्वीक्रियते । सैव ब्रह्मज्ञाननिवर्त्या । अन्यास्तु विषयताः शुद्धचिन्निष्ठा अपि आगन्तुकेनापि कादाचित्कप्रकाशेन घटादिनावच्छिद्यन्ते । यथा घटाद्यत्यन्ताभावस्यानादिविशेषणतासम्बन्धे परमते कालवि शेषस्यावच्छेदकत्वं तद्वदेव च तत्र न नियामकापेक्षा | अथवा कादाचित्कप्रकाशस्य घटादिकार्यस्य स्वावच्छिन्नविषयिताकत्वसम्बन्धेनाविद्यानिष्ठायामुत्पत्तौ तादात्म्यसम्बन्धेनाविद्यायाः कारणत्वात् घटादिनिष्ठाक्तविषयतावच्छेदकत्वमविद्यानियम्यमेव । अनादीश्वरादिनिष्ठं तत् केवलम् । न हेतुनियम्यम् । अथवावच्छेदाभ्युपगमादित्यस्याज्ञानविषयता घटाद्यवच्छिन्नेत्यत्र न तात्पर्यम् । किं त्वज्ञानविषये शुद्ध घटादिसम्बन्ध इत्यत्र । नचैवं सुखादौ भातीतिव्यवहारो न स्यात् । घटादौ हि वृत्त्यभावकाले तद्वारणाय वृत्त्यनवच्छेदकनिष्ठस्या - ज्ञानतादात्म्यस्योक्तव्यवहारविरोधित्वं वाच्यम् । तच्च सुखादावप्यस्तीति वाच्यम् । • सुखादावेकस्याऽविद्यावृत्तेरनादेः स्वीकारसम्भवात् प्रतिभासव्याप्यस्थितिकस्य कार्यस्व विषयित्वसम्बन्धेन तादृशवृत्तिनिष्ठोत्पत्तौ तादृशवृत्तेस्तादात्म्येन कारणत्वसम्भवात् । यदवच्छिन्नगोचरेति । यत्संश्लिष्टा यदाकारा चेत्यर्थः । तदवच्छेदेनैवावरणापसरणादिति । तस्यैवोक्ताज्ञानसम्बन्धाभाववत्त्वादित्यर्थः । आवरणमभानापादकं ग्राह्यम् । तेनापरोक्षवृत्तेः प्रमात्रवच्छेदेनावरणनिवर्तकत्वेऽपि न क्षतिः । प्रसङ्ग इति । अज्ञाननाशं प्रति ब्रह्माकारवृत्तेरेव हेतुत्वात् घटाद्याकारवृच्या नाज्ञानस्य नाशः । किं तु तदीयानां घटाद्यवच्छिन्नानां विषयतानां पलवाज्ञानानां मूलाज्ञानशक्तीनां चेति न तया मूलाज्ञाननाशप्रसङ्ग इति भावः । तदेवमेकदेश पक्षान्तर्भावेनोपान्त्यान्त्यपक्षयोः व्याख्यानं कृतम् । अथवा तयोः
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रतिकर्मव्यवस्था
लघुचन्द्रिका ।
२७१
पक्षयोः उपपादनं पूर्वमेव कृत्वा · ननु, चैतन्यस्य निरवयवत्वा'दित्यादिनोक्तपक्षाभ्यां भिन्नत्वेन स्वीकृत्य एकदेशनाशपक्ष उपपाद्यते । तत्र यदवच्छिन्नेत्यादेरयमर्थः । यत्कालावच्छेदेन घटादौ मनोवृत्तिः, तत्कालावच्छेदेन नाज्ञानविषयतावच्छेदकत्वम् । किं तु तदन्यकालावच्छेदेन । तथा चास्मिन् पक्षे अज्ञानविषयतानवच्छेदकत्वविशिष्टघटादेस्तादात्म्यविशिष्टा चिदेव घटादेर्भानम् । अस्तित्वं त्व. सत्त्वापादकाज्ञानघटितमिति लाघवम् । यत्तु शुक्त्यादिज्ञानस्याज्ञानशक्तिनाशकत्वमयुक्तम् । शक्तेभ्रमोपादानत्वे अज्ञानत्वापत्तेः । भ्रमानुपादानत्वे तन्निवृत्तावपि भ्रमानिवृत्त्यापत्तेः । शक्त्यन्यस्याज्ञानम्य वैयर्थ्याच्चेति, तन्न । भ्रमोपादानत्वेऽपि हि शक्ते ज्ञानत्वम् । तादृशशक्तिमत्त्वस्यैवाज्ञानलक्षणत्वात् । अत एव न तम्या वैयर्थ्यम् । कार्यप्रयोजकशक्तिमत्त्वं विना कारणत्वासम्भवात् । अथ वा शक्तिोंपादानम् । किं तु तद्वदज्ञानम् । शक्तिर्हि मीमांसकमते कारणतैव । न तु कारणम् । तन्मात्रस्य निवृत्त्यापि रूप्यादिनिवृनिस्सम्भवत्येव । शक्तिविशिष्टरूपस्योपादानस्य नाशात् । यदपि नानाज्ञानपक्षे अज्ञानीयनानाशक्तिपक्षे च शुक्त्यादिज्ञानेन किञ्चिदज्ञानस्य शक्तेश्च नाशः । अज्ञानस्य शक्त्यन्तरस्य च कार्यक्षमतया अवस्थानं न युक्तम् । सर्वत्राज्ञाने शक्तौ च कार्याक्षमत्वस्थ वक्तुं शक्यत्वा. देकाज्ञानपक्षस्यैव युक्तत्वादिति। तदपि न युक्तम् । 'ज्ञानादज्ञानं नष्ट'मितिप्रत्ययस्य बाधस्य चोपपादनाय नानाज्ञानशक्तिपक्षयोरपि युक्तत्वात् । अधिष्ठानचैतन्यामिति । जीवचैतन्यस्य भासकत्वपक्षेऽपि तस्याधिष्ठानीभूतचित्स्वरूपकत्वादयमुपसंहारो युक्तः । अत एव प्रकाशकं तावदधिष्ठानचैतन्यमेवेत्यादिपूर्वग्रन्थः यथाश्रुतोऽपि रम्य एव । एवञ्च जीवस्य सर्वगतत्वनगदुपादानत्वयोः स्वीकारपक्षे जीवस्यैव भासकत्वं पूर्वोक्तं न विरुध्यत इति बोध्यम् । ननु, एकजीववादे जी. वस्य जगदुपादानत्वादावरणभङ्गार्थव घटादौ वृत्तिः । तथा चैकस्य प्रमातुः तादृशवृत्तिकाले अपरस्यापि घटादिकमपरोक्षं स्यात् । एवमेको जीवोऽसङ्गः स. वंगतो ब्रह्मैव जगदुपादानमितिपक्षे साक्षिचिदुपरागाथैव सा । तथा चोक्तापत्तिः । साक्षिणः सर्वान् प्रमातॄन् प्रत्यविशिष्टत्वेन घटादिचित्युपरक्तत्वादित्यत आह-तदयमित्यादि । प्रमेयचैतन्यमिति । जीवचैतन्यस्य मासकत्वपक्षेऽपि तद्भास्यं घटाद्यवच्छिन्नं
चैतन्यम्।मनोवृत्तेस्तदाकारत्वात्। घटादेस्तु तदवच्छेदकत्वस्यैव स्वीकारात्।घटादिकं तु तादृशेन प्रमेयचिता भास्यते । अत एव तत् स्वयं भासमानं सत् खाध्यस्तं घटाद्यपि भासयतीति मूले अग्रे वक्ष्यते। अन्तःकरणेति । देहावच्छिन्नमनोभागेत्यर्थः । अन्तःकरणवृत्तीति । देहविषययोर्मध्यस्थमनोमागेत्यर्थः । प्रमाणामिति । वि.
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
अद्वैतमञ्जरी ।
षयस्थमनोभागावच्छिन्ना चित्तु प्रमितिरिति शेषः । विषयीभूतचिति आवरणाभिभवस्य फलस्य विषयगतमनोभागसम्बन्धाव्यवहितोत्तरक्षण एव सम्पत्त्या तदवच्छिनचिदेव क्रियारूपा प्रमितिः । तस्यास्तु प्रमातृव्यापाराविष्टेनोक्तमध्यभागेन सम्पत्त्योक्तमध्यभागावच्छिन्ना चित् प्रमाणम् । कर्तृव्यापारेण हि नमनोन्नमनादिनाविष्टं कुठारादिकं भिदादिक्रियानिप्पादकं करणं भवति । तादृशकरणं प्रति देहावच्छिन्नप्रयत्नेन देहावच्छिन्नभागम्य प्रेरकत्वात् प्रमासाधनसकलकारकेषु स्वतन्त्रत्वाच्च तदवच्छिन्ना चित् प्रमात्री । केवलस्योक्तभागस्याचेतनत्वात् । केवलचितोऽपि निर्व्यापारत्वात् कर्तृत्वासम्भवात् मिथस्तादात्म्यं प्राप्तस्य तदुभयस्य प्रमातृत्वम् । तस्य च तादशेनैव चिदात्मकेन स्वव्यापारेण प्रमारूपेण विषयं व्याप्नुयामहमितीच्छया तादृशव्यापाररूपेण विषयसंश्लिष्टपरिणामप्राप्तेस्तस्या अपि विषयशरीरमध्यस्थतादृशपरिणामप्राप्तिद्वारकत्वात् । प्रमितिप्रमाणयोरपि चिदचिढ़ात्वम् । न हि चैत्रकुठारछिदानामिव प्रमात्रादीनां मिथोऽत्यन्तभिन्नत्वम् । अपि तु प्रमामुद्दिश्यैव प्रमातुः प्रयत्नोदयात् प्रमायाश्च प्रमातृपरिणामरूपत्वेन चिद. चिद्रपत्वमेव । ननु चक्षुरादीनामपि प्रमाणत्वसम्भवात् तदनुक्त्या न्यूनतापत्तिरिति चेन्न। प्रत्यक्षप्रमामात्रे प्रमाणादिकं प्रकते विवक्षितम् । तच्चोक्तमेव । चक्षुरादिकं तु तद्विशेषे प्रमाणम् । तथा च तदनुक्तिन दोषः । किञ्चान्तःकरणवृत्तीत्यनेन चक्षुरादिद्वारेत्यनेन चक्षुरादिकमपि प्रमाणमित्युक्तमेव । मनो हि चक्षुरादिनैक्यं प्राप्तमेव विषयसंश्लिष्टरूपेण परिणमते । तथापि त्रयाणामौपाधिकभेदसत्त्वेऽपि । यदीयेति । यत्प्रमातृसम्बन्धीत्यर्थः । तथा च प्रमातुरुपरागाथैव वृत्तिन साक्षिण इति नैकप्रमातृवृत्त्या अपरप्रमातृप्रत्यक्षता घटादेरिति भावः। यत्प्रकाशकं यदवच्छिन्नम्।यत्तमातृचैतन्येति। यत्प्रमातृमनोवृत्त्यवच्छिन्नचैतन्येत्यर्थः। जानाति साक्षात्करोति।अन्यम् अस्वच्छमन्यम्। तेन स्वच्छस्य मुखादेवृत्ति विनैव प्रत्यक्षत्वेऽपि न दोषः। अन्यः अन्यजीवः। तेनेशस्य चक्षुरादिद्वारकवृत्ति विनैव सकलदृश्यप्रत्यक्षवत्त्वेऽपि न दोषः । तदवच्छेदेन तद्विषयावच्छेदेन । अज्ञाननिवृत्त्या अनभिव्यक्तिनिवृत्त्या । तेन वृत्तेः प्रमातृचिदुपरागार्थत्वपक्षस्यापि संग्रहः । अनुपरागस्याप्यनभिव्यक्तित्वात् निवृत्त्या भासमानं निवृत्त्यभिन्नस्य भासमानत्वस्याश्रयः । फलमिति । वृत्तेरेवावरणनाशत्वात् प्रमात्रुपरागत्वाच्च फलत्वात्तद्विशिष्टरूपेण घटादिचैतन्यं फलम् । न च फलत्वं क्रियारूपवृत्तेरनुपपन्नमिति वाच्यम् । घटादिसंयोगोपधायकक्रियोपहितरूपेण वृत्तेः क्रियात्वं तादृशसंयोगोपहितरूपेण फलत्वमिति स्वीकारात् । तादृशरूपयोः पौर्वापर्यात् फलव्याप्यं फलभास्यम् । ननु, परोक्षवृत्तिस्थलेऽप्यावरणं
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र०दे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२७३
1
नष्टमित्यनुभवात् परोक्षभ्रमोच्छेददर्शनाच्चावरणभङ्गस्य वाच्यत्वात् । तत्रापरोक्षभ्र. मस्योच्छेदः स्यात् । पर्वते वह्नि जानामी 'तिवत् 'पर्वते वह्नि साक्षात्करोमी' ति व्यवहारः स्यात् । तत्राह - यन्निष्ठेत्यादि । निष्ठा संश्लिष्टा । तन्निष्ठं तदवच्छिन्नाश्रयताक म् । तदाकारं तदवच्छिन्नविषयताकम् । अज्ञानमनभिव्यक्तिम् । स्फुरति मानाश्रयः । आदिपदात् 'वटं साक्षात्करोमी' त्यादिसङ्ग्रहः । मे इति । प्रमातृविशेषनिरूपितत्वं षष्ठ्यर्थः । तस्य च स्फुरणघटके अज्ञाने अन्वयः इदमेव असत्त्वापादकाज्ञानमेव । अभानापादकत्वमसत्त्वापादकत्वं च जातिविशेषौ । प्रमात्रवच्छिनेति । विषयनिष्ठवयादि जनकत्वादसत्त्वापादकस्याप्यज्ञानस्य विषयनिष्ठत्वं वक्तुमुचितम् । अन्यथा हृदादिचित्सम्बन्धरूपविशेष्यताया वहयादिचित्सम्बन्धरूपत्रकारतावच्छिन्नत्वासम्भवात् । न हि दूरस्थयोरवच्छेद्यावच्छेदकत्वं सम्भवति । अमानापादकस्याप्यज्ञानस्य प्रमात्रवच्छिन्नत्वे प्रमाणाभावः । प्रमातृविशेषस्य तु निरूपकत्वमेवाज्ञाने सम्बन्धः । अन्यथा 'ब्रह्म मे न स्फुरती' त्यादौ का गतिः । न हि मूलाज्ञानं प्रमात्रवच्छिन्नम् । तथा च द्विविधमप्यज्ञानं विषयेणैवावच्छिन्नं न प्रमात्रेति युक्तं पश्यामः । सिद्धान्तबिन्दुटीकायामधिकं विवेचितमस्माभिः । सा - क्षादेवेति । अवच्छेदकतारूप इत्यर्थः । परम्परेति । अम्युपेत्य वादोऽयम् । आकाराख्यविषयतायास्साक्षात्सम्बन्धस्याचार्यैरेव स्थलान्तरे उक्तत्वात् ॥
॥ इति लघुचन्द्रिकायां प्रतिकर्मव्यवस्था ॥
स्वरूपेण ज्ञातले सति विशेषेणाज्ञातत्वस्येति । ज्ञातत्वे सत्यज्ञातत्वमेव प्रयोजकम् । ज्ञातस्याज्ञातत्वं च न विरुध्यते । स्वरूपविशेषरूपाभ्यां ज्ञातत्वाज्ञातत्वसम्भवादित्याशयेनोभयरूपोक्तिः । यद्यपि सद्रूपपूर्णानन्दरूपयोर्न न्यूनाधिकवृत्तिकत्वरूपस्सामान्यविशेषभावः, तथापि भ्रमे भासमानाभासमानत्वरूपो बोध्यः । तत्रा ज्ञातेति । यद्यपि स्थाणुत्वमन्यत्र ज्ञातमपि स्थाणावज्ञातमित्यज्ञातविशेषवत्त्वमक्षतं, तथापि भ्रमधर्मिणि ज्ञातविशेषस्यान्यत्राज्ञातत्वेऽपि भ्रमानुत्पत्तेस्तत्राज्ञातेत्यवश्यं वाच्यम् । तथा च गौरवमिति भावः । स्वप्रकाशत्वेन ज्ञानात् स्वप्रकाशचिद्रूपज्ञानात् । पूर्णानन्दत्वादिना चाज्ञानात् पूर्णानन्दसत्यादिस्वरूपाज्ञानाच्च । उपपन्नमिति । यद्यप्युक्तरूपद्वयमकें, तथापि तयोराविद्यकानादिभेदः स्वीक्रियते । 'पूर्णानन्दो नास्ति न भाति चिद्रपमस्ति भाती 'ति व्यवहारात । तथा च रजतादिभ्रमेषु शुक्त्या - द्यवच्छिन्नभिव जगद्भ्रमेऽनवच्छिन्नमेवाज्ञातत्वं प्रयोजकमिति भावः । वस्तुतस्तु विचारतस्तु | सुलभमिति । अज्ञातस्वरूपत्वमेव भ्रमे प्रयोजकम् । न त्वज्ञातविशेषवत्त्वम् । 'सोऽय'मित्यादिभ्रमे तथा दर्शनात् । शुक्तिरूप्यादिभ्रमे प्रयोजकस्याज्ञात
३५
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
त्वस्य विशेषावच्छिन्नत्वेनाज्ञातविशेषवत्त्वं प्रयोजकमिति न नियमः । विशेषस्य हि शुक्तित्वादेर्जडत्वेनाज्ञातत्वाभावात् । अथापि यदि तवाज्ञातविशेषवत्त्वमपेक्ष्यते, तदा तदस्त्येव प्रकृते इति भावः । करिपतसामान्यविशेषाणां स्वरूपेण मिथ्याभूतानां घटकपालादिसामान्यधर्माणाम् । प्रवाहानादित्वादिति । तथा च कपालादिसामान्ये घटादेरध्यासेऽपि घटादिसामान्ये न कपालादेरध्यासः । किं तु स्वावयवे तस्यापि स्वावयवे इति तत्तत्सामान्यानां प्रवाहानादित्वान्नान्योन्याश्रयः । नन्वा काशादेरध्यासे सत्त्वानन्दत्वादिकमेव सामान्यधर्मः । 'सदाकाश'मित्यादिभ्र मोदयात् । तथा च सत्त्वादीनामपि संसृष्टरूपेण ब्रह्मधर्मतया कल्पितत्वात्तदध्यासे आकाशादिकमेव सामान्यमित्यन्योन्याश्रयः । तत्राह-सत्त्वेति । स. त्वानन्दत्वादिसामान्यधर्मस्यानादिसंसर्ग एव ब्रह्मणि स्वीक्रियते इति नान्योन्याश्रयशङ्का । तस्य सादित्वस्वीकारेऽप्यज्ञानविषयत्वमेव तदध्यासे सामान्यम् । नाकाशादिः । तच्चानाद्येवेति न तदध्यासे अन्यसामान्यापेक्षेति भावः । व्यक्तिभेदेनेति । वस्तुतस्तु, भ्रमे भासमानत्वमेव सामान्यत्वम् । न तु नानाव्यक्तिवृत्तित्वम्। एकमात्रवृत्तिधर्मविशिष्टेऽपि धर्मिण्यारोपात् । कथमिति । 'इदं रजत मिति भ्रमे तादृशसंस्कारस्य सादृश्यादिविशिष्टधर्मिज्ञानोबुद्धस्य यथा हेतुत्वं, तथा सदाकाश' मित्यादिभ्रमे ताशसंस्कारस्यापीति भावः । ननु, सद्रूपं नाधिष्ठानम् । अध्यसनीयानुविद्धत्वेनाप्रतीयमानत्वात्तत्राह-न हीति । नन्वध्यसनीयापेक्षया अधिकसत्ताको योऽज्ञातविशेषः, तद्वत्त्वमधिष्ठानत्वे तन्त्रम् । रूप्यादौ तथादर्शनात्तत्राह-यद्वति । न तु विशेषाज्ञानं न त्वधिष्ठानवृत्तितादृशविशेषस्याज्ञानम् । 'नायं स'इत्यादिभ्रमे शु.
व्यक्तिमात्राज्ञानस्यैव हेतुत्वेन तदधिष्ठाने तादृशज्ञानस्याहेतुत्वादिति शेषः । प्रधानपदेन यदि कालान्तरे देशान्तरे वा विद्यमानमध्यस्तजातीयमुच्यते । तत्राह-अत्रा. पीति । यदि तु तादृशं सत्त्वमुच्यते, तताह-अध्यासो हीति । विपरीते भ्रमजन्यसाधारणेन संस्कारत्वेन हेतुत्वे । हेतुः प्रयोजकम् । न तु तत् न तु प्रमाघटकतया अधिष्ठानं प्रयोजकम् । शून्येति । तथा चाधिष्ठानप्रमाया हेतुत्वेन अधिष्ठानं यथा सत्यमपेक्ष्यते, तथा प्रमाजन्यसंस्कारस्य हेतुत्वेन प्रधानमपि सत्यमिति भावः । भ्रमाहेतुत्वे भ्रमाप्रयोजकत्वे । अज्ञानद्वारा अज्ञातत्वोपहितरूपेण । हेतुत्वेन उपादानत्वेन । अज्ञानकल्पितत्वेन अज्ञानप्रयुक्ततायोग्यत्वेन अस्वप्रकाशत्वेनेति यावत् । तथा च जडस्य प्रकशाप्रसक्त्या नाज्ञातत्वमिति भावः । भ्रमावाधकत्वेति । व्यावहारिकभ्रमाबाधकत्वेत्यर्थः । ननु, मिथ्याविषयकमप्युतभ्रमबाधकमस्तु । तत्राह-जगतीति । विरुद्धं व्यावृत्तरूपम् । तत्त्वं बाध्यापेक्षया
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका ।
२७६ ऽधिकसत्ताकम् । उपदर्शयता विषयी कुर्वता । एवकारः शेषः । ननु, आचार्यरेव द्वितीयमिथ्यात्वविवेचने स्वाप्ननिषेधस्य स्वाप्नबाधकत्वमुक्तम् । सत्यम् । तत्र बाधकत्वं भ्रमत्वज्ञापकत्वम् । न तूच्छेदकत्वमित्यस्माभिर्व्याख्यातम् ! तथा च स्वाप्नस्य गजाधभावस्य स्वाप्नगजादिसमसत्ताकत्वेन अन्यूनसत्ताकाभावघटितं मिथ्यात्वं ज्ञापयन्निषेधो बाधक इत्युच्यत इति बोध्यम् । न चेति। तत्कल्पीयज्ञानजन्यसंस्कारस्य पूर्वमभावात् इति शेषः । पानादाविति । इष्टसाधनत्वस्मृत्यसम्भवेनेति शेषः । कार्यानुमेयेत्यादि । यतः कार्यलिङ्गैकगम्यः संस्कारः, अतः कार्यात् पूर्व तदप्र. तीतेः तत्सत्त्वे मानाभावादित्यर्थः । प्रतीत्यभावेऽपीति । ननु, संस्कारकल्पनागौरवात् अध्यस्तत्वमाकाशादेस्त्यक्तुं युक्तमिति चेन्न । तत्तज्ज्ञाननाशस्यैव संस्कारत्वेन त्वयापि संस्कारस्य पूर्वानुभूतविषयकस्यावश्यं वाच्यत्वेनागौरवात् । प्रपञ्चान्तरविषयतति । उक्तनिषेधप्रतियोगित्वेन प्रपञ्चान्तरविषयतेत्यर्थः । निरुपाधिकेड पीति । न च 'पीतरशङ्ख' इत्यादौ चक्षुषा सहितस्य पित्तद्रव्यस्य शङ्खादौ संसर्गात्तदीयपीतत्वमनुभूयमानमारोप्यत इति जपासंयुक्तस्फटिकादौ लौहित्यादिधीवदौपाधिकाध्यास एवायमिति वाच्यम् । पित्तद्रव्यस्य शङ्खादिसंयोगे पुरुषान्तरेण तस्य तद्गतपीतरूपस्य वा ग्रहणापत्तेः पुरुषान्तरं प्रति तदयोग्यत्वकल्पने गौरवापत्तेश्च । चक्षुर्गोलकस्थपित्तद्रव्यस्यैव स्मर्यमाणपीतिमभ्रमजनकत्वादादिपदग्राह्ये रजतपात्रादौ स्थिते जलादौ नैल्यभ्रमे सोपाधिकत्वस्य शङ्कितुमशक्यत्वात् । न हि तत्र स्वसमीपवर्तिनि स्वधर्मसंक्रामकस्योपाधिपदार्थस्य सम्भवोऽस्ति । प्रागवगतमिति । प्रधानसम्बन्धितया यत् कदाचिदवगतं, तस्यैव सादृश्यस्य शुक्लत्वादेानस्य सम्बन्धिज्ञानविधया प्रधानसंस्कारोबोधद्वारा भ्रमहेतुत्वात् प्रागवगतत्वमावश्यकम् । अध्याससमये अध्यासोत्पत्त्यव्यवहितपूर्वक्षणे । प्रागेव अध्यासोत्पत्त्यव्यवहितपूर्वक्षण एव । संशायकत्वादिति। प्रधानस्य लौहित्यादिमत्तया अधिष्ठानस्य च स्फटिकादेलौंहित्याद्यभाववत्तया ज्ञानात्तदुभयवृत्तित्वेन द्रव्यत्वादिज्ञानस्य साधारणधर्मवद्धर्मिज्ञानविधया संशयहेतुत्वादित्यर्थः। तथा च संशयसामग्यां सत्यां न निश्चयरूपो भ्रम इति भावः। सादृश्यं सादृश्यादिधीः । उद्बोधेन शक्त्युत्पादनेन । अथ वा न स्वतो भ्रमकारणमिति । सादृश्यधीत्वेन भ्रममात्रे न कारणमित्यर्थः । संस्कारोबोधनेन संस्कारसहकारित्वेन । सामग्रीति । क्वाचित्कभ्रमसामग्रीत्यर्थः । एवं च संस्कारसहकारिविशेषत्वमेवोद्बोधकत्वमिति स्वीकारेऽपि न क्षतिः । प्रणिधानसूत्र इ. ति । गौतमीयन्यायपञ्चाध्यायीतृतीयाध्यायद्वितीयाह्निकस्थे 'प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्ति
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
अद्वैतमञ्जरी ।
व्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्य ' इति सूत्र इ. त्यर्थः । प्रणिधानं मनोधारणं यस्मिन् विषये तद्गतविशेषस्य स्मारकम् । अभ्यासः ज्ञानावृत्तिकृतः संस्कारः शीघ्र स्मारकः । लिङ्गं व्याप्यव्यापके । लक्षणं व्यावर्त्यव्यावर्तके । सादृश्यं सदृशाः । परिग्रहः स्वसामिनौ । आश्रयाश्रितौ पोषकपोप्यौ । सम्बन्धः शिष्याचार्यादयः । आनन्तर्य पूर्वापरकालानुष्ठेयाः स्नानतर्पणादयः । वियोगः वियुक्ताः । एककार्यम् एककार्याः । अतिशयः आश्रयान्यूनाधिकाः । विरोधो विरुद्धाः । व्यवधानमसिकोशादयः आच्छाद्याच्छादकाः । प्राप्तिः प्राप्यप्रापकौ । निबन्धः एकवाक्योक्ताः प्रमाणप्रमेयादयः । एते मिथः स्मारकाः । सुखदुःखे अनुभूयमाने स्वमूलस्य । इच्छा स्नेहः । अर्थित्वमप्राप्तेच्छा। रागो लब्धविषये बुभुक्षा । एते द्वेषश्च यत्र विषये जातास्तस्य मुत्स्स्मारकाः । भयं यतो जातं तस्य । धर्मः गतजन्मादेः । अधर्मो यस्य ज्ञानाहुःखं जायते तस्य । निमित्तमुन्मादादिकम् । सूत्रे स्मृतिरिति शेषः । गुणावयवसामान्येति । गुणद्वारा अवयवद्वारा वा सादृश्येत्यर्थः । कारणान्तरं सादृश्यनिरपेक्षदोषादिकारणम् । घटादीनामिवेति । तथा च विषयविधया अविद्यायास्तत्र जनकत्वादेवाविद्यारूपदोषजन्यत्वमप्रमाण्यप्रयोजकं स्थितमेव । न हि भ्रमत्वेन दोषजन्यत्वं तत्प्रयोजकम् । तत्तदननुगतदोषकार्यत्वस्य भ्रमत्वाविशेषिततत्तद्वचक्तित्वादिनैवावच्छेदात् । अपि तु भ्रवत्वव्याप्यरूपेण दोषजन्यत्वं तत्त्रयोजकम् । तथा चाविद्यारूपविषयजन्यवृत्तिज्ञानमात्रनिष्ठधर्मस्योक्तविषयजन्यतावच्छेदकस्यापि भ्रमत्वव्याप्यत्वेन तद्रूपेण जन्यत्वमपि तथा । न च विषयजन्यप्रत्यक्षस्येन्द्रियसन्निकर्षजन्यत्वमावश्यकम् । तदभावान्न विषयजन्यत्वमिति वाच्यम् । इन्द्रियजन्यप्रत्यक्षस्यैवोक्तनियमात् । तार्किकादिनव्यमतेऽ पि सुखादिप्रत्यक्षस्येन्द्रियाजन्यत्वस्वीकाराच्च । साधिष्ठानकत्वेति । यस्य ज्ञानादध्यासोच्छेदस्तत्तादात्म्येत्यर्थः । उपपद्यत इति । ननु, बाधितविषयकत्वेन भ्रमत्वं नित्यज्ञानस्य दोषानन्यत्वेऽपीत्ययुक्तम् । गुणाप्रयुक्तत्वेन प्रमात्वस्येव दोषाप्रयुक्तत्वेन भ्रमत्वस्यापि स्वतस्त्वापत्तेः । अत एव शाबरवाक्ये दुष्टकरणजन्यत्वं मिथ्यात्वधीश्च समुच्चितमुभयमप्रमात्वप्रयोजकमित्यर्थ इति चेन्न । भावान. वबोधात् । यथा हि तार्किकमते जन्यप्रमात्वं गुणजन्यतावच्छेदकम् । न तु प्र. मात्वमात्रम् । तस्य नित्यसाधारण्यात् । तथा जन्यभ्रमत्वमेव दोषजन्यतावच्छे. दकम् । न च तावता तस्य स्वतस्त्वम् । शाबरवाक्यं तु नोभयस्याप्रमात्वप्रयोजकत्वपरम् । चरमस्यैव तत्सम्भवात् । आद्यं तु जन्यभ्रमत्वस्य दोषजन्यतावच्छेदक. त्वज्ञापनाय । तदपि भ्रमत्वे बौद्धसम्मतस्य स्वतस्त्वस्य निरासायेति बोध्यम् ।
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र०दे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका ।
Acharya Shri Kailassagarsuri Gyanmandir
२७७
यदपि विषयजन्यप्रत्यक्षत्वं प्रमात्वव्याप्यमिति । तदपि न । अनुभूयमानरक्तत्वादेः स्फटिकादावारोपे व्यभिचारात् । कुतो नेति । ईक्षणाभावात् आकाशादिसृष्टौ विलम्बः । ततश्च देहादिसृष्टौ विलम्ब इति भावः । ननु, कुत ईक्षणोत्पत्तौ विलम्ब इति चेत् । परेषां मतेऽप्याद्यकार्यस्योत्पत्तौ कुतो विलम्बः । अथ तार्किकाणां व्यणुकोत्पादकसंयोगः परमाणुक्रियाविशेषादेव । साङ्ख्यानां सत्त्वादिगुणपरिणामविशेषादेव महत्तत्वोत्पत्तिः । तथा च प्रलये आद्यकार्यविलम्बः तदभावादिति चत् तर्हि ममापि तथैव समाधानम् । यथा हि साङ्ख्यानां मते प्रलये सत्त्वादिगुणानां परस्परापेक्षयोद्रिक्तपरिणामस्य सृष्टिप्रयोजकस्यावीकारेऽपि परस्परापेक्षया समाना एव परिणामाः स्वीक्रियन्ते , तथा मन्मतेऽपि । एतावांस्तु विशेषः । यत्तैः क्षणिकाः परिणामास्वीक्रियन्ते । 'प्रतिक्षणपरिणामिनो हि भावा ऋते चिच्छते' रिति तत्सिद्धान्तात् । अस्माभिस्तु क्षणद्वयस्थायिनस्ते स्वीक्रियन्ते । उत्तरपरिणामस्य पूर्वपरिणामनाशकत्वात् । तात्त्विकत्वादिति । प्रामाण्यापात इत्यग्रेऽन्वयः । प्रामाण्यं तात्त्विकप्रामाण्यम् । ननु, दोषाणामेव प्रतिबन्धकत्वात् कथं तात्त्विकप्रामाण्याश्रयस्योत्पत्तिः । तत्राह-अतात्त्विकेनेति।तात्विककायेति। तात्त्विकप्रामाण्याश्रयेत्यर्थः । तेन तस्यायुक्तत्वे दृष्टान्तमाह-बौद्धेनेति । दु. एतया दोपजन्यतया । समसत्ताकत्वेनेति । ननु, स्वसमसत्ताकेऽपि ब्रह्मज्ञाने अविद्यादोषो नाप्रामाण्यप्रयोजकः । मिथ्यात्वात् । अतोऽद्वैतज्ञानेऽपि तथा । न च ब्रह्मज्ञाने अविद्याया उपादानत्वेऽपि भ्रमत्वेन नाविद्यादिदोषनिमित्तकारणतानिरूपितकार्यतेति सा न तथेति वाच्यम् । न ह्युक्तकार्यता भ्रमत्वेन प्रपञ्चज्ञानेऽप्यस्ति । किं तु कार्यत्वेनाविद्योपादानतानिरूपितकार्यतैवेत्यत आह-कार्यकारणभावनियमेनेति । तथा च यत्र विषयेऽविद्योपादानं तस्यैव ज्ञाने अप्रामाण्यप्रयोजिकेति न ब्रह्मज्ञाने सा तथेति भावः । सत्यतापातः तात्त्विकप्रामाण्यादिरूपस्य भ्रमवैलक्षण्यस्यापातः । ननु, विद्यमानस्याप्यविद्यादोषस्य मिथ्यात्वेन तात्त्विकस्य तदभावस्य सत्त्वात कुतो न तात्विकप्रामाण्यापातः । तस्य ब्रह्मज्ञाने तत्प्रयोजकतया क्लप्तत्वात् । तत्राह-कारणीभूतेति । दोपाभावे प्रतियोगिव्यधिकरणदोषामावे । तथा च नोक्ताभावः ब्रह्मज्ञाने उक्तप्रयोजकत्वेन क्लुप्तः । आवयोः प्रामाण्यस्य स्वतस्त्वेन ब्रह्मज्ञाने प्रामाण्यस्योक्तप्रयोजकं विनापि तात्त्विकत्वसम्भवात् । न हि तदपवादकं बाधकज्ञानं तत्रास्ति । उक्ताभावमात्रस्य तात्त्विकप्रामाण्ये प्रयोजकत्वे काचादिदोषस्य मिथ्यात्वेन तत्कालेऽपि तदभावस्य तात्त्विकस्य सत्त्वेनोक्तदोषजन्येऽप्युक्तप्रामाण्या
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
अद्वैतमञ्जरी ।
पत्तेश्च । अत एव भ्रमत्वे दोषस्य प्रयोजकत्वात्तदभावे तात्त्विको दोषाभावः प्र योजक इत्यपास्तम् । अथ प्रतियोगिव्यधिकरणः स भ्रमत्वाभावे प्रयोजक उच्यते । तदपि न । तावता काचादिदोषाभावस्य तत्सम्भवेऽप्यविद्याभावस्य तादृशस्य तदसम्भवात्तत्काले द्वैतज्ञानस्यैवाप्रसिद्ध्या तत्र तत्प्रयोजकत्वस्याप्यप्रसिद्धत्वादिति भ्रमवैलक्षण्यं न द्वैतज्ञाने आपादयितुं शक्यते इति भावः । नन्वेवं द्वैतज्ञाने भ्रमत्वं निर्मलम् । न हि तस्य भ्रमत्वेन रूपेण कार्यता । मानाभावात् । तत्राह-कारणमिथ्यात्व इति । कारणस्याविद्यारूपप्रयोजकस्य मिथ्यात्वे ज्ञाननिवर्त्यत्वे । कार्यस्याविद्याप्रयुक्तद्वैतमात्रस्य । मिथ्यात्वावश्यकत्वात् अविद्यानिवृत्तिद्वारा ज्ञाननिवर्त्यत्वावश्यकत्वात् । तथा च भ्रमत्वेन कार्यत्वस्यास्वीकारेऽपि द्वैतस्याविद्याप्रयुक्तत्वेन ज्ञाननिवर्त्यत्वरूपमिथ्यात्वसत्त्वात् तज्ज्ञानस्य मिथ्याविषयकत्वरूपं भ्रमत्वमावश्यकमिति भावः । नन्वेवं बौद्धदुष्टवेदजन्यज्ञानस्य द्वैतज्ञानस्य च कल्पितदोषप्रयुक्तत्वेऽप्यविद्यादोषस्य द्वैतज्ञानसमसत्ताकत्वात् भ्रमत्वप्रयोजकत्वमिति पर्यवसितम् । तच्च न युक्तम् । भ्रमत्वनिश्चयात् पूर्व समसत्ताकत्वस्य ब्रह्मज्ञानत्राध्यत्वरूपस्य तयोरनिश्चयात् । तत्राह-ब्रह्मज्ञानेति । तथा च पूर्वं ब्रह्मज्ञानेतराबाध्यत्वरूपसत्ताया ब्रह्मणीव प्रपञ्चेऽपि निश्चयसम्भवात् द्रुतं यदि मिथ्या न स्यात्, तदा स्वसमानसत्ताकाविद्याप्रयुक्तं न स्यादिति तर्केण मिथ्यात्वनि. श्रयः युक्तः । उक्तवेदज्ञाने तु न तथा । बौद्धकल्पितदोषस्य प्रातीतिकतया स्वसमसत्ताकतत्प्रयुक्तं न स्यादित्यापत्तेरिष्टत्वादिति भावः । साधयेत्यादि । तकोभावेऽपि दोषत्वादिसाधर्म्यमात्रेण यदापादनं तद्बोधकवाक्यत्वात् । तदभावार्थतदत्यन्ताभावार्थम् । असाध्यत्वादिति । निवृत्तिस्तु, बन्धस्य न सम्भवति । शशविषाणवत्तस्य मिथ्यात्वेन तुच्छत्वात् । मिथ्यात्वादिति । तथा च तस्या निवृत्त्यसम्भवेनात्यन्ताभावार्थमेव यत्नो वाच्यःतत्रासाध्यत्वदोष उक्त इति भावः । ननु, क्षेमसाधारणं साध्यत्वमत्यन्ताभावेऽप्यस्ति । तत्राहअन्यथेति । अनिवर्त्यस्यापि मिथ्याभूतस्य बन्धत्वे इत्यर्थः । पारमार्थिकत्वाकारेण मिथ्यात्वमिति । पारमार्थिकत्वावच्छिन्नं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमित्यर्थः । निवृत्तिरेवेति । न तु मिथ्यात्वमिति शेषः । नेति । अ येत्यादिकं यदुक्तं तन्नेत्यर्थः । मिथ्यात्वं बन्धस्य मिथ्यात्वम् । तदर्थं मिथ्याबन्धस्य निवृत्त्यर्थम् । प्रवृत्त्यनुपपत्तिरिति । स्वप्नदृष्टम्यानिष्टस्य निवृत्त्यर्थं प्रवृत्त्यदर्शनादिति शेषः । तथैवेति । तदा बन्धनाशस्य सिद्धत्वनिश्चयादिति शेषः । बन्धनाशस्यात्मस्वरूपत्वे हि तत्त्वज्ञानोपलक्षितात्मस्वरूपे तत्र तदा सिद्धत्वं निश्चितम्।
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रतिकूलतर्क निराकरणम् ] लघुचन्द्रिका |
एवं पक्षान्तरेऽपीति भावः । चामीकरप्राप्तये चामीकरसम्बन्धाय । तस्य सिद्धत्वेऽप्यसिद्धत्वभ्रमेण तत्रेच्छेति ज्ञापनाय कण्ठगतत्वविस्मृतत्वयोरुक्तिः । भ्रमबाधकज्ञानो"त्पत्तये बन्धनाशाय । तादृशज्ञानस्योत्पत्तिर्यस्मै इति व्युत्पत्तिसम्भवात् । चरमवृत्तिरेव बन्धनाश इति पक्षे तु यथाश्रुत एवार्थः । ननु, 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।' इति वार्तिकोक्त्या तत्वज्ञानोपलक्षितस्यात्मनोऽज्ञाननिवृत्तित्वम् । अज्ञानमेव च बन्धः । 'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । ' इति वार्तिकोः । तथा चोक्तात्मनोऽज्ञाननाशत्वे तस्य ज्ञानपूर्वमपि सत्त्वेन सिद्धत्वनिश्चयात् तदुद्देशेन प्रवृत्त्यनुपपत्तिः । न च ज्ञानोपहितात्मोद्देशेनैव प्रवृत्तिः । तादृशात्मनोसिद्धत्वनिश्चयादिति वाच्यम् । ज्ञानोपलक्षितात्मनोऽज्ञाननाशत्वोक्तिरूपवार्तिकविरोधात्तत्राह - सा चेति । घटनाशेति । घटावयवविभागाद्युपहितस्य घटावयवस्य निप्पत्तिर्घटनाशः । ऊहनीयेति । बन्धनाशार्थत्वेनोहनीयेत्यर्थः । तथा च ज्ञानोपहितात्मस्वरूप निष्पत्त्यर्थं मननश्रवणयोः प्रवृत्तिः । उक्तस्वरूपस्याज्ञाननाशत्वस्वीकारात् वार्तिके ज्ञानोपलक्षितात्मनोऽज्ञाननाशत्वोक्तिस्तु ज्ञाने नष्टेऽपि ज्ञानोत्तरमनःपरिमाणोपहितस्याप्यात्मनोऽज्ञाननाशत्वसूचनाय । आत्मस्वरूपमात्रस्य तन्नाशत्वे ज्ञानात्पूर्वमप्यज्ञाननाशव्यवहारापत्तेर्ज्ञातित्वोपलक्षितत्वोक्तिवैयर्थ्यापत्तेश्च । अथैवं चर
For Private and Personal Use Only
२७९
मस्य मनःपरिणामस्य नाशः क इति चेत् न कोऽपि । तर्हि स क्व गत इति चेत् नायमस्मान् प्रत्येव । तार्किकादीन् प्रत्यपि तत्सम्भवात् । यद्यपि हि तेषां मते दुःखस्य पापस्य वा चरमो नाशो मोक्ष इत्युच्यते, तथापि तादृशदुःखादि क्व गतमिति पर्यनुयोगस्तान प्रत्यस्त्येव । सांख्यादिमतेऽपि दुग्धादेर्दध्यादिपरिणामकाले दुग्धादि क्व गतमिति पर्यनुयोगः । अथ यथा घटादिकं कुत आगतमिति न पर्यनुयोगः । यत्क्षणे आगतं तदव्यवहितपूर्वक्षणे दण्डादिसामग्रीसम्बन्धादेवागतमित्युत्तरात् । तथा क्व गतमित्यपि नसः । नाशजनक सामग्रीमत्क्षणस्य प्रतियोग्यधिकरणकालपूर्वत्वाभावनियमान्नाशक्षणे प्रतियोगी नास्त्येवेति स्वीक्रियते । न तु कुत्रापि गत इत्युत्तरादिति तार्किकादिभिर्वाच्यमिति चेत् तर्हि प्रमायाः स्वसमानविषयक ज्ञानाधिकरणकालपूर्वत्वाभावनियमवच्चरमस्य तत्त्वज्ञानोत्तरमनः परिणामस्य स्वपरिणाम्यज्ञानतत्प्रयुक्तदृश्याधिकरणकालपूर्वत्वाभावनियमस्यास्माभिः स्वीकारादस्मान्प्रत्यपि न पर्यनुयोगः । तस्माद्यथा विभक्तरूपेणासिद्धत्वात् घटावयवे सिद्धेऽपीच्छा, तथा स्वरूपेण सिद्वेऽप्यात्मनि ज्ञानोपहितरूपेणासिद्धत्वादिच्छा । न चैवमुक्तरूपेण साध्यत्वात् बन्धनाशस्य सिद्धचामीकरस्य तद्दृष्टान्ततया पूर्वमुक्तिर्विरुध्येतेति वाच्यम् । यथा चामीकरं स्वरूपेण सिद्धमपि कल्पितेन कुण्ठा वृत्तित्वेनासिद्धतया ज्ञायमान
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
२८०
त्वात् इष्यते तथा स्वरूपेण सिद्धोऽप्यात्मा कल्पितेन बन्धनाशत्वावच्छेदको क्तरूपेणासिद्धतया ज्ञायमानत्वादिष्यत इति भावात् । चरमवृत्त्यादेर्बन्धनाशत्वपक्षेऽपि दृष्टान्तो नानुपपन्नः । यथेोक्तरूपेण कल्पिते चामीकरे इच्छा, तथा कल्पितबन्धप्रतियोगिकनाशत्वरूपेण कल्पिते चरमवृत्त्यादाविति भावात् । ननु, ज्ञानोपहितात्मनोऽज्ञाननाशत्वे ज्ञानादज्ञाननाशोत्पत्तिर्न सम्भवति । युगपदेव ज्ञानतदुपहितात्मनोरुत्पादात् । तथा च ' ज्ञात्वा देवं मुच्यत' इत्यादिश्रुतिविरोधः । तत्राह - अतिरिक्तेत्यादि । अनिर्वचनीयेति । अतिरिक्ताया अपि निवृत्ते र्भुज्यमानादृष्टासमानकालीनेन तत्त्वज्ञानेन तत्संस्कारेण वोच्छेद्यत्वेन ज्ञाननिवर्त्य - त्वादनिर्वाच्यत्वम् । ननु तत्त्वज्ञानान्तरस्यानुत्पादेऽपि भोगसमाप्तौ कैवल्यसम्भवादुक्तनिवृत्तेः ज्ञाननिवर्त्यत्वासम्भवेनानिर्वाच्यत्वासम्भवः । संस्कारद्वारा ज्ञाननिवर्त्यत्वं तु न मिथ्यात्वम् । साक्षाज्ज्ञानोच्छेद्यत्वस्यैव तद्रूपत्वात् । तत्राहपञ्चममकारेति । ज्ञानानुच्छेद्येत्यर्थः । तथा च ज्ञानानुच्छेद्यत्वेऽपि चिद्भास्यत्वादेव तस्य मिथ्यात्वम् । संस्कारद्वारकसाधारणं ज्ञानोच्छेद्यत्वं वा मिथ्यात्वम् । ननु, ज्ञानमेवाज्ञाननाशोऽस्तु अतिरिक्ततत्कल्पने गौरवात्तत्रेष्टापत्तिमाह-- चरमवृत्तिरिति । न कापीति । यद्यपि प्रथमपक्ष एव बन्धनाशः सुखरूपत्वेन पुरुषार्थः । न त्वन्यपक्षेषु, तथापि सुखाभिव्यक्तिरूपत्वेनाप्यनात्मरूपनिवृत्तेरपि पुरुषार्थता । अज्ञाननिवृत्तिर्हि स्वप्रकाश सुखरूपात्मनोऽभिव्यक्तिः । ननु, सुखमेव पुरुषार्थः । न तु तदभिव्यक्तिः । यदवगतं सदवश्यमिष्यते, स पुरुषार्थ इति तार्किकोक्तेरिति चेत् सत्यम् । परं तु मन्मते केवलसुखस्वरूपस्यात्मनः सुखत्वमभिव्यक्त्युपहितत्वम् न तु तत्स्वरूपत्वम् । तत्स्वरूपस्य सदा सिद्धत्वेनावृतत्वेन चेच्छायोग्यत्वाभावादुक्तो - पहितत्वविशिष्टात्मन एव सुखपदवाच्यत्वाच्च । लोकेऽपि चन्दनादियोगजन्यमनोवृत्युपहितात्मन एव सुखपदेन व्यवहारात् । तथा चोक्तसुखत्वावशिष्टं मन्मतेऽपि पुरुषार्थः । तच्चावगतमवश्यमिष्यते । एवमात्मनः स्वरूपाभिव्यक्तेरपि पुरुषार्थत्वमव्याहतम् । अभिव्यक्तात्मन इवात्माभिव्यक्तेरपि सुखपदवाच्यत्वादिच्छायोग्यत्वाच्च । य दवगतमवश्यमिष्यत इति पुरुषार्यलक्षणसत्त्वात् । जातिरूपं वा सुखत्वमभिव्यतात्मनि आत्माभिव्यक्तौ च स्वीक्रियते । अत एव कल्पितव्यक्तिभेदेन ज्ञानत्वानन्दत्वादिकम् । जातिरित्यनुपदमेव मूल उक्तम् । अभिव्यक्त पूर्णानन्दपूर्णानन्दाभिव्यक्त्योरस्तु सर्वदुःखविरोधित्वेन परमपुरुषार्थत्वमिति भावः । निवृत्तिः बा - धः । निवृत्त्ययोगात् बाधायोगात् । श्रवणादिनियमादृष्टमिति । श्रवणाद्याश्रितनियमजन्यादृष्टमित्यर्थः । अवघातादिनियमविधिस्थले हि वैतुप्यादिविशिष्ट -
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र०
दे प्रतिकूलतर्क निराकरणम् ] लघुचन्द्रिका
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
I
व्रीह्मांद्यर्थमवघातादिकं न विधीयते । तस्य प्राप्तत्वात् । किं तु अवघाताद्याश्रितो नियमः । अत एव कृष्णलयागादाववघातादिबाधात्तदाश्रितनियमस्य नानुष्ठा नम् । अथवा नियमतात्पर्यकविधिविषयश्रवणादिजन्यादृष्टमित्यर्थः । अवघातादेहि वैतुष्यादिविशिष्टे साधनतया प्रापकत्वमाक्षेपस्य यद्यप्यस्ति तथापि तत्प्रवृत्तेः पूर्वमेव प्रत्यक्षविधिस्तत्प्रापकस्स्वीक्रियते । प्रयोजनसत्त्वात् । आक्षेपप्रवृत्तिप्रतिबन्धेन दलनादिनिवृत्त्या अवघातादिनियमो हि प्रयोजनम् । सोऽपि न व्यर्थः । नियमप्रत्ययान्यथानुपपत्त्या अवघातादेर्यागी यापूर्वसाधनापूर्वविशिष्टत्रीह्याद्युद्देशेन विध्यन्तरकल्पनात् यागीयापूर्वे अवघातादिजन्यापूर्वसाध्यत्वप्रत्ययस्य फलत्वात् । अत एवाघातादौ तज्जन्यापूर्वस्य पश्चात्कल्प्यत्वेन न प्रयोजकत्वम् । किं तु वैतुप्यादिदृष्टफलस्येति तदभावात् कृष्णलयागादाववघातादिलोपः । अप्रसक्त्येति मुक्तौ तु तादृशोपायान्तरं प्रसक्तमिति पराभिमानः । दृशिनेति । साक्षात्कारस्यैव निदिध्यासनप्रयोजनत्वेन तदुद्देशेनैव तद्विधानात् श्रवणमननयोरपि तथा वाच्यम् । अन्यथा परोक्षज्ञानबोधनाय हशेरावृत्तिप्रसङ्गात् एकप्रतिसन्धानेनार्थद्वयबोधनासम्भवात् । सकृदुच्चरितरशब्दस्सकदेवार्थं बोधयतीति व्युत्पत्तः । ननु, 'आत्मा वारे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यादा मनननिदिध्यासनसहितं श्रवणमात्मनिश्चयाय विधीयते । दृशेश्राक्षुषज्ञानवाचित्वेsपि प्रकृते निश्चये लाक्षिणकत्वात् । निश्चयत्वञ्चासम्भावनाविपरीत भावनाप्रयुताप्रामाण्यधीरहितधीत्वम् । तथा चासम्भावनानिवृत्तिद्वारा मननस्य विपरीतभावनानिवृत्तिद्वारा निदिध्यासनस्य प्रधानीभूतश्रवणफलनिश्चयोपकारकत्वात् श्रवणस्यापि तात्पर्यनिश्चयद्वारकतात्पर्यसंशयनिवृत्तिद्वारा निश्वयसाधनत्वात् - शिना निश्चयत्वेनैव ज्ञानमुद्दिश्यते । तथा च साक्षात्कारत्वमेव श्रवणादिनियमादृष्टप्रयुक्तम् । तच्च साक्षात्कारत्वेन प्रतीयमानत्वं परोक्षत्वेनाप्रतीयमानत्वञ्च । उक्तं हि विवरणे - ' आपरोक्ष्यनिश्चयानुकूलस्तक मननम् । अपरोक्ष्यधीविरोधितर्कों निदिध्यासन' मिति । मनननिदिध्यासनस्त्वरूपयोर्दृष्टविधयोक्तसाक्षात्कारत्वप्रयोजकत्वेऽपि तदीयनियमादृष्टस्य उक्तसाक्षात्कारत्वप्रतिबन्धकस्यासम्भावनादिजनकस्य च पापस्य निवर्तकतयोपयोगः । एवं श्रवणनियमादृष्टस्यापि तात्पर्य - संशयादिजनकस्य उक्तसाक्षात्कारत्व प्रतिबन्धकस्य च पापस्य निवर्तकतयोपयोगः । अपरोक्षत्वेना निश्चितादप्रमात्वेन गृह्यमाणाद्वा नाविद्यानिवृत्तिः । अतोऽतादृशज्ञानं तया अपेक्ष्यते । तच्च श्रवणादिनियमादृष्टजन्यं तत्त्वज्ञानस्वरूपम् । तस्यापरोक्षात्मविषयकज्ञानत्वरूपमपरोक्षत्वञ्च वाक्यादिकारणप्रयुक्तं श्रवणादिकं नापेक्षते ।
३६
२८१
"
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२
अद्वैतमञ्चरी ।
तत्पूर्वमपि तदुत्पादात् । तथा च श्रवणं साक्षात्कारत्वे न प्रयोजकम् । किं तु . तददृष्टम् । तत्राह-वन्मत इति । अयोगेनेति । 'ब्रह्मज्ञानं भवत्वि'तच्छिायाः पू.
वं 'ब्रह्मज्ञानमिष्टसाधन' मिति ज्ञानस्यावश्यमपेक्षणीयत्वात् तत्र च ब्रह्मणो ज्ञानविशेषणतया परोक्षज्ञानस्य पूर्वमेव सिद्धत्वज्ञानसम्भवेन नोक्तेच्छा सम्भवतीति भावः । सोपाधिब्रह्मज्ञानस्यापातब्रह्मज्ञानस्य च सिद्धत्वेन 'ब्रह्मणोऽन्याविषयको निश्चयो भवत्वि'ति इच्छाया एव वाच्यत्वेनापातब्रह्मज्ञानादपि तदुत्पत्तिसम्भवेन च नेयमनुपपत्तिरिति बोध्यम् । क्रत्वर्थनियमापूर्वस्येति । क्रतुं तकारकं वा उद्दिश्य विहितं यत्, तदीयनियमादृष्टस्येत्यर्थः । परमापूर्वेति । अवघातादिभिन्नाङ्गनियमादृष्टाभिप्रायेणेदम् । अवघातादेस्तृतीयाध्याये 'तेषामर्थन सम्बन्ध' इत्यधिकरणे आग्नेयाद्युत्पत्त्यपूर्वार्थत्वस्य स्थापितत्वेन परमापूर्वार्थत्वाभावात् । अन्यथा अवघातादेराज्यादिषु वारणासम्भवात् । पुरुषार्थेति । तृतीयचतुर्थे स्थितं 'सुवर्णं हिरण्यं धार्थ मुवर्ण एव भवति दुर्वर्णोऽस्य भ्रातृव्यो भवतीति वाक्ये अनारभ्याधीते शोभनवर्णहिरण्यधारणं क्रत्वर्थम , उत पुरुषार्थमिति संशये पुरुषार्थत्वे फलकल्पनागौरवात् अग्निहोत्रादिकर्मस्वङ्गम् । रात्रिसत्रादावार्थवादिकफलकल्पना युक्ता । न तु प्रकृते । धारणसंस्कृतमुवर्णस्य क्रतूपयोगसम्भवादिति प्राप्ते, नैवम् । क्रतुं प्रति हि नाहवनीयादेरिव धारणस्य विधिरस्ति । नापि जुह्वादेरिव सुवर्णस्य ऋतावव्यभिचरितसम्बन्धः । येन तस्य ऋतूपस्थापकतया क्रत्वपूर्वसाधनीभूतं तदुद्दिश्य हिरण्यधारणविधिसम्भवात् क्रत्वर्थत्वं शङ्कनीयम् । लोकेऽपिहि हिरण्यस्योपयोगसम्भवेन जुह्वादेरिव क्रत्वव्यभिचरितसम्बन्धाभावात् । तस्मादार्थवादिकं भ्रातृव्यदुवर्णत्वादिफलं पुरुषापेक्षितमुद्दिश्य हिरण्यधारणं विधीयते । 'सक्तून् जुहोती तिवद्वितीयाविभक्तिः करणतायां लाक्षणिकी । सोऽयं नियमविधिरुक्तफले साधनान्तरनिवृत्तिफलकसाधननियमस्य प्रत्यवायनिवृत्यर्थत्वात्। यथा प्रतिग्रहादेनियमविधिना साधनान्तरेण द्रव्यार्जने पुरुषस्य प्रत्यवायस्तथा साधनान्तरेग भ्रातृव्यदुवर्णतायावकोयसुवर्णतायाश्च करण इति । तथा च हिरण्यधारणादिनियमापूर्वस्य यथा परमापूर्वासाधनत्वं, तथा श्रवणादिनियमापूर्वस्येति भावः । साक्षात्कारान्येति । साक्षात्कारप्रतिबन्धकनिवर्त्यस्येत्यर्थः । तनेति । उक्तानिवृत्तिरूपफलेनेत्यर्थः । सर्वापक्षेति । सर्वकर्मणां तत्त्वसाक्षात्कारे अपेक्षा । 'विविदिषन्ति यज्ञेने त्यादिश्रुतेः 'कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तत ॥' इति स्मृतेश्च यथाश्वो रथचलनादावपेक्ष्यते । न तु लाङ्गलाकर्षणादौ । अनुपयुक्तत्वात् , तथा तत्त्वाज्ञाननिवृत्तिरूपे मोक्षे तत्त्वज्ञानैकसाध्ये कर्मणां नापेक्षेति सूत्रार्थः । ज्ञाने समाप्तिः ज्ञा
For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका ।।
२८३
नसाध्याजनकत्वे सति ज्ञानजनकत्वम् । सामान्यति । नियमविध्यभावे वैतुप्यत्वरूपसामान्यावच्छिन्नं प्रति दलनादिकं पाक्षिकतया प्राप्तम् । न तु यागीयबीहिवैतुष्यमात्रगतधर्मावच्छिन्नं प्रति । आक्षेपत्य तादृशविशेषरूपमपुरस्कृत्यैव प्रवृत्तेः । तथा च दलनादिनिवृत्तिफलकनियमपरत्वमवघातादिविधेर्नायुक्तमिति भावः । विशेषरूपेण प्रकृतयागापूर्वप्रयोजकवेतुष्योद्देश्यकाक्षातभावनाबोधकत्वेन । विशिष्येत्यादि । प्रकृतापूर्वप्रयोजकवैतुष्यविशिष्टमवघातेनैव भावयेदित्यादिबोधनादित्यर्थः । श्रवणादीति। श्रवणादिनियमापूर्वेत्यर्थः । शास्त्रस्यति । ननु, शुद्धात्मसाक्षात्कारप्रतिबन्धकनिवृत्तौ कथं साङ्ख्यश्रवणस्य प्राप्तिः । तादृशश्रवणस्य हि स्वप्रकाशत्वाकर्तृत्वादिप्रकारकज्ञानजनकत्वेन तादृशज्ञानप्रतिबन्धकनिवृत्तिरेव तेन जन्यते इति चेत् उच्यते । अकर्तृत्वादिप्रकारकज्ञानद्वारकस्यैव शुद्धात्मसाक्षात्कारस्य वेदान्तश्रवणसाध्यत्वेन द्वारोत्पत्तिप्रतिबन्धकस्य द्वार्युत्पत्तिप्रतिबन्धकत्वात् साङ्ख्यश्रवणस्यापि शुद्धात्मधीप्रतिबन्धकनिवर्तकत्वमिति भावः । जन्माद्यस्येति । जन्मादि अस्य यत इत्यर्थः । जन्मायुक्तिः जन्मादिहेतुत्वरूपब्रह्मलक्षणोक्तिः । ई क्षतरित्यादि । यतो वा इत्यादि वाक्यं न प्रधानस्य जन्मादिहेतुत्वबोधकम् । प्रधानबोधकशब्देन शून्य हि तत् । उक्तशून्यत्वे हेतुमाह-ईक्षतरिति । तदैवतेति । ईक्षतिधातुसमभिव्याहारविशेषादित्यर्थः । लोकवदिति । तु शब्दः प्रयोजनाभावादीशो न स्रष्टेति पूर्वपक्षस्य व्यवच्छेदकः । यथा लोके प्रयोजनमनुद्दिश्यापि राजादिनां लीलारूपा प्राणिनां च निश्वासादिरूपा दृश्यन्ते चेष्टाः, तथेशस्य सृष्टयादिक्रियावैषम्यमिति कस्य चिदुत्कर्ष कस्यचिदपकर्ष सृजतीति वैषम्यं दुःखं संहारं च सृजतीति नैघृण्यं निर्दयत्वरूपं चेशस्य स्यादिति चेन्न । पुण्यापुण्ये अपेक्ष्य तथा करणादित्यर्थः । तेजोऽत इति । अतो वायोरेव तेजो जायते । हि यस्मात 'वायोरग्नि रिति श्रुतिस्तथाहेत्यर्थः । विपर्ययेणेति । अतः सृष्टिक्रमाद्विपर्ययेण विपरीतो लयस्य क्रमः। दृश्यते हि लोके मृदादिकं सृष्ट्वा घटादिकं सृज्यते। घटादिकं मृदिलीनं कृत्वा मृदादिकं तत्कारणे लीनं क्रियत इत्यर्थः । विरोधशङ्केति। सत्यस्य ब्रह्मणः लक्षणं सत्यमेव वाच्यं, जन्मादिहेतुत्वं न सत्यमिति लक्षणानुपपत्तिरित्यादिपूर्वपक्ष इत्यर्थः । युक्तमिति । लक्षणादेमिथ्यात्वेन तत्रानुपपत्त्युक्तेरनौचित्यादिति भावः । तदभिध्यानादेवेति । स ईश एवाकाशादिभावापन्नो वाय्वादिकं जनयति। 'बहु स्यामिति सर्वकार्यभावाभिध्यानात् । 'तत्तेज ऐक्षते' ति तेजआदिभावं प्राप्तस्येक्षितृत्वमुक्त्वा 'तदपो सृजते' ति सृष्टुत्वोक्तिलिङ्गात् । ब्रह्मण एवेति । तथा च 'तत्तेन ऐक्षत तदपोऽसृजते' त्यादिश्रुतौ तत्पदस्य प्रक्रान्तब्रह्मपरत्वेन तेजस्तादा
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
अद्वैतमञ्जरी ।
म्यापन्नं ब्रह्मक्षतापोऽसृजत इत्यर्थः । एवं 'आकाशाद्वायु'रित्यादिश्रुतौ तस्माद्वा एतस्मादात्मन इत्यनुषज्यते। तेनाकाशादिभावापन्नात् ब्रह्मणो वायुरित्याद्यर्थ इति भावः । उपासनेत्युपलक्षणम् । कर्मानुष्ठानकाले इत्यपि बोध्यम् । अभ्युपगमेनेति। उक्त हि 'तदनन्यत्वमारम्भणशब्दादिभ्य'इत्यधिकरणभाष्ये-अभ्युपगम्य चेमं भोक्तृभोग्यलक्षणं व्यावहारिकं विभागं स्याल्लोकव'दिति परिहार उक्तः । न त्वयं विभागः परमार्थतोऽस्ती ति । संक्षेपशारीरकेप्युक्तम्-, 'आरम्भसंहतिविकारविवर्तवादानाश्रित्य वादिजनता खलु वावदीति । आरम्भसंहतिमते परिढत्य वादौ द्वावत्र सङ्ग्रहपदं नयते मुनीन्द्रः ॥ तत्रापि पूर्वमुपगम्य विकारवादं भोक्त्रादिसूत्रमवतार्य विरोधनुत्त्यै । प्रावर्तत व्यवहृतेः परिरक्षणाय कर्मादिगोचरविधेरुपयोगहेतोः ॥ विवर्तवादस्य हि पूर्वभूमिः वेदान्तवादे परिणामवादः ॥ इत्यादि । विधाबुपयोगेति । 'विधिषु श्चाद्धोऽधिकारीति न्यायेन विवर्तवादालम्बने प्रपञ्चमिथ्यात्वे निश्चिते विहिते प्रवृत्त्यसम्भवात् । परिणामवादस्यैव विहितप्रवृत्त्युपयोग इति भावः । 'भोक्तापत्ते रिति । भोग्यानां भोक्तृतादात्म्यापत्तिः । भोक्त्रभिन्नब्रह्माभिन्नत्वात् । एवं भोक्तुरपि भो. ग्याभेदापत्तिः । तथा च भोक्तृभोग्यविभागो न स्यादिति चेत्, तदा साप्यापत्तिः व्याख्यातेति । पूर्वसूत्रस्थस्य व्याख्याता इत्यस्य विभक्तिवचनयोर्विपरिणामेनानुषङ्गः । विरुद्धतया ख्यातेति तदर्थः । यतो लोके समुद्राभिन्नयोरपि तरङ्गफेनयोर्यथा नाभेदस्तथा ब्रह्माभिन्नयोरपि भोक्तृभोग्ययोरित्यर्थः । तदनन्यत्वमिति । तस्य ब्रह्मणोऽनन्यत्वं द्वितीयशून्यत्वम् । 'वाचारम्भणं विकारो नामधे. य'मित्यादिश्रुतिभ्यः । मायाविन इत्यादि । यथा मायाविना सृज्यमाने नगरे दृश्यमानानां पुरुषाणामुत्कर्षापकर्षादिकं तद्वैषम्यादिकं नापादयति । तथेशसृष्टानामित्यर्थः । स्वप्रतिबिम्बेत्यनेनेशजीवयोंबिम्बत्वप्रतिबिम्बत्वाभ्यां कल्पितत्वसूचनेन सुतरामविरोध इति सूचितम् । अविद्योपहितेति । अविद्यायां बिम्बीभूत इत्यर्थः । अन्तःकरणोपहितेति । अन्तःकरणतत्संस्कारान्यतरोपहिताज्ञानप्रतिबिम्बितेत्यर्थः । पक्षेऽपीति । दृष्टिसृष्टिपले जीवस्याविद्यामात्रोपाधिकत्वेनानादित्वात्तस्यैव जगदुपादानत्वादीशोऽपि भ्रमयितृत्वादिविशिष्ट एव तदुपादानक इति भावः । मरणायेति । महाभयोत्पादनद्वारेति शेषः । भ्रमाजनकत्वादिति वस्तुतो भ्रमजनकत्वेऽपि न दोषः । पूर्वपूर्वकल्पसिद्धस्य जीवभ्रमस्योत्तरोत्तरकल्पे श्रुत्यानुवादेनाद्वैतप्रतिपादनसम्भवादिति ध्येयम् । स्पुरणात् ईशं प्रति स्पुरणात् । भ्रान्तखेति । भ्रान्तत्वव्यवहारेत्यर्थः । तथा च भ्रान्तत्वव्यवहारस्य मिथ्याविषयकत्वेनागृह्यमाणभ्रमत्वविषयकत्वान्नेशो भ्रान्तत्वेन जीवैर्व्यवयित इति भावः ।
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे मिथ्यात्वश्रुत्युपपत्तिः लघुचन्द्रिका
२८५
पर्यवसानात् पर्यवसानस्य भाष्यादावुक्तत्वात् । उत्पत्तेः पूर्व कार्यस्य सत्त्वे का. रणव्यापारवैफल्यात् असत्त्वे तत्र कार्यासम्बन्धकालस्यावच्छेदकत्वासम्भवात् सदैव कार्यस्यासत्त्वापत्तिः । अतस्सत्त्वासत्त्वाभ्यामुत्पत्तेः पूर्वमनिर्वाच्यं कार्यम् । व्यावहारिकोत्पत्त्यादिमत्प्रतीयमानोत्पत्त्यादेर्मानसिद्धत्वेऽपि श्रुतियुक्त्यादिबाधात् ।
॥ इति लघुचन्द्रिकायां मिथ्यात्वानुमितौ प्रतिकूलतर्कभङ्गः ॥ __ आप्तेति । वाक्यार्थप्रमावदुक्त्यर्थः । अयोगादिति । तथा च यद्यत्प्रमाणशब्दबोध्यं, तत्वबोधकशब्दादिसमसत्ताकमिति व्याप्तौ न बाध इति भावः । उपश्रुतीति । एतत्कर्तव्यं नवेति सन्दिहानेन श्रूयमाणमन्यस्य कर्तव्यतापरमवश्यमेतत्कर्तव्यमिति वाक्यमन्यस्माअन्येनोच्यमानमुपश्रुतिस्तस्य कर्तव्यतया सन्दिग्धस्यार्थस्य कर्तव्यतायां शब्दतया न प्रामाण्यम् । तस्य तत्परत्वाभावादाप्तोक्तत्वाभावाच । तथाप्यनुमापकतया आगमेन तथाबोधनात्तथोक्तवाक्यस्य स्वार्थ इत्यर्थः । शब्दति । स्वबोधकशब्दादीत्यर्थः । व्यभिचारात् प्रमाणशब्दबोध्यत्वं प्रत्यव्यापकत्वात् । नियमसिद्धेः उक्तव्याप्तिज्ञानस्य । अप्रयोजकत्वात् । निश्चायकस्य तर्कस्यानवतारेणानिश्चयरूपत्वात् । पराक्षखति । साक्षिभिन्नत्वेत्यर्थः । यथाश्रुतस्य घटादौ साध्याव्यापकत्वात् । न च पक्षेतरत्वतुल्यतेति वाच्यम् । उक्तोपाधिर्यदि साध्यव्यापको न स्यात् , तदा साक्षिणस्स्वबोधकयोग्यतादिसमसत्ताकत्वे तस्य बाध्यत्वं निस्साक्षिकं स्यादिति तर्केण व्यापाकतानिश्चयात् वाधोन्नीतपक्षेतरत्वतुल्यत्वादात्मगुरुत्वान्यतरत्वावच्छिन्नं साध्यव्यापकं यथाश्रुतं परोक्षत्वमेव वोपाधिः।आनत्यत्वति । विनाशित्वेत्यर्थः । गगनादेरपि विनाशित्वान्न साध्याव्यापकत्वनिश्चयः । सन्निपातेत्यादि । सन्निपातस्सम्बन्धः लक्षणं निमित्तं यस्य तादृशो विधिस्तद्विघातस्य स्वनिमित्तभूतसन्निपातविघातस्य । निमिनं कारणं नेत्यर्थः । तथा च यथा शतानीत्यादौ सन्निपातं निमिनीकृत्य प्रवर्तमानो नुम्विधिर्नान्तत्वद्वारकपटसंज्ञया शिलोपेन तद्विघातस्य न निमित्तं, तथा मिथ्यात्वमिंग्राहकप्रत्यक्षादिप्रामाण्यसन्निपातं निमित्तीकृत्य प्रवर्तमाना विश्वमिथ्यात्वश्रुति!क्तसन्निपातविघातस्य निमित्तमित्यर्थः । वैषम्यादिति । दृष्टान्ते शिसद्भावस्य निमित्तत्वात्तदविघातकत्वेऽपि दार्शन्तिके तात्त्विकप्रामाण्यस्यानिमित्तत्वातद्विघातकत्वेऽपि नोक्तन्यायबाधः । व्यावहारिकप्रामाण्यस्य निमित्तत्वेऽपि तद्विघातकत्वमुक्तश्नुतेर्नेष्यत एवेति भावः । सर्वनामस्थानसंज्ञकेति । शिसर्वनामस्थानमित्यनेन विहितोक्तसंज्ञकेत्यर्थः । विहित इति। सर्वनामस्थाने इति अनुवृत्तौ 'नपुंसकस्य झलच' इत्यनेन विहित इत्यर्थः । विहितत्वादिति । न च उपदेशकाले यत् ष्णान्तं, तस्यैव षड्संज्ञा विधीयते । अ
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
अद्वैतमञ्जरी ।
न्यथा येन विधिस्तदन्तस्थेत्यन्तग्रहणसिद्धौ अन्तग्रणं व्यर्थं स्यात् । तथा च शतानीत्यादौ सा न युक्तेति वाच्यम् । सङ्घयेत्यस्यानुवृत्तौ मानाभावेन विपुष इत्यादावपि षट्संज्ञा स्यात् । अन्ते ग्रहीते तु स्त्रीलिङ्गनिर्देशान्यथानुपपत्त्या सङ्ख्यानुवृत्तिः । तथा च तत्रैवार्थापत्तेरुपक्षयात् स्वाभावनान्तत्वानाक्षेपात् 'सन्निपातेत्या'दिन्यायेनैवास्वभावनान्तत्यागसम्भवन स्वभावनान्तत्वाक्षेपवैयच्चि । लुमतेति । लुवर्णवता लुकलुलुबित्येतेषामन्यतमेनेत्यर्थः । अङ्गस्येति । 'यस्मात् प्रत्ययविधिस्तदादीत्यनेन विहिताङ्गसंज्ञकस्येत्यर्थः प्रकृतेरिति यावत् । लुप्ते विहितलोपयोग्ये । तेन लोपात् पूर्वमपि नाङ्गकार्यम् । लुप्तेऽपीति ! अग्निचिदित्यादौ लुप्तेऽपि किबादौ तुगादिकार्यमित्यर्थः । यद्यपि 'स्थानिवदादेशे' त्यादिनैव लुप्तप्रत्ययस्य निमित्तता । प्रत्ययलोप इत्यादिकं तु प्रत्ययमात्रनिमित्तकमेव कार्य प्रत्ययलोप इति नियमार्थम् । तेन बोभवीतीत्यादौ लुप्तप्रत्ययानिमित्तकं यङो ङित्वेऽपि नात्मनेपदमित्यादिवैयाकरणैरुक्तं, तथापि नियमबोधकवाक्येन नियम्यप्रापकस्थानीत्यायेवोक्तम् । एवं स्थिते येन रूपेण यद्यस्योपजीव्यं, तेन रूपेण तत्तेन न विहन्यतेत्यस्योक्तन्यायस्वरूपत्वे स्थिते । अमिथ्याभूतत्वेन सत्यविषयकत्वेन । अर्थक्रियासामर्थ्येति । प्रवृत्त्यादिकार्यसामर्थेत्यर्थः । तात्त्विकत्वं तात्त्विकप्रामाण्यम् । न बाध्यत इति । विचारकाले प्रपञ्चम्य बाधेऽपि तत्पूर्वकालाबाध्यविषयकत्वरूपं व्यावहारिकप्रामाण्यं न बाध्यत इत्यर्थः । टीका भामती। उत्पादकं उपजीव्यम्। वस्तुतस्तु, तात्त्विकत्वेन प्रत्यक्षादेरुपजीव्यत्वेऽपि प्रकृते तन्न्यायस्य नावतारः । सामान्यविषयकोक्तन्यायस्य विशेषविषयकेनाद्वैतश्रुतितात्पर्यान्यथानुपपत्त्यादिना 'तदनन्यत्वमारम्भणशब्दादिभ्य' इति न्यायेन 'प्रावल्यमागमस्यैव जात्या तेषु त्रिषु स्मृत' मिति स्मृत्या च बाधसम्भवात् । अत एव महाभाष्ये-नदी ब्राह्मणी' इत्यादौ तन्यायानवतारात्तन्यायस्य प्रत्याख्यानमाशङ्कय तन्न्याय आवश्यकः । दोषेषु तु प्रतिविधातव्यमित्युक्तम् । यत्र यत्र बाधकं तदन्यस्थले तस्यावतार इत्यर्थः । तथा च 'एहस्वात्सम्बुद्धे'रिति सूत्रे गुणादित्य कृत्वा एहस्वादिति करणं ज्ञापयति । यदेतदन्यविषय एवोक्तन्यायावतारः । यदि हि 'नदी ब्राह्मणी'त्यादौ सन्निपात. न्यायेन सम्बुद्धिलोपबाधः, तदा गुणात् सम्बुद्धेरित्येव सूत्रं क्रियतेत्यादिकमिवोतान्यथानुपपत्त्यादिकमपि बाधकमिति ध्येयम् । उपजीव्याग्नीत्यादि । उपजीव्ये ये अग्निविद्ये तद्वत्पुरुषाधिकारिकत्वेनेत्यर्थः । 'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादिविधिषु चतुर्णामपि वर्णानामधिकारः अशूद्राणां वेति संशये, विशेपाश्रवणाच्चतुर्णामिति प्राप्ते, 'आहवनीये जुहोती'त्यादिविधिना आहवनीयाद्यग्री
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
www.kobatirth.org
प्र०दे मिथ्यात्व श्रुत्युपपत्तिः ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
翻
नां सामथ्यैकल्पित विधिना अनुष्ठेयार्थज्ञानस्य च ऋत्वङ्गत्वात् शूद्रस्य चाहवनीयाद्यर्थज्ञानोपायाधानाध्ययनाभावात् क्रयादिना हवनीयादेः दृष्ट्यादिनार्थज्ञानस्य च तत्र कल्प्यत्वे गौरवात् 'वसन्ते ब्राह्मणोऽग्रीनादधीते' त्यादिविहिताधानादिसिद्धाहवनीयादिमत्तया क्लृप्तानां त्रैवर्णिकानामेवाधिकार इति षष्ठप्रथमे स्थितम् । वियत्वस्य निषेधबोधकत्वस्य । तात्त्विक सर्वमिथ्यात्वेति । तात्त्विकं यत् स्वसमानाधिकरणात्यन्ताभावस्वरूपं, तत्प्रतियोगित्वेत्यर्थः । ननु, प्रपञ्चस्स्वरूपेण निषिद्धस्तुच्छस्स्यात् । पारमार्थिकत्वेन निषिद्धश्चेत् ब्रह्मापि तथास्तु । निर्धर्मकत्वात् । अथ ब्रह्म तेन रूपेण मिथ्या । शुद्धस्वरूपेणैव सत्, तहिं प्रपञ्चोऽपि तथास्तु । तवाह - यथा चेति । स्वरूपतः आविद्यकत्वादिरूपेण । ब्रह्मणो ब्रह्मण एव । स्वरूपेण शुद्धरूपेण । अवस्तात् प्रथममिथ्यात्वविचारे । सत्त्वेन ज्ञेयत्वात् तुच्छवैलक्षण्यम् । पारमार्थिकत्वशून्यस्यापि प्रपञ्चस्य शुद्धरूपेण न सत्त्वम् । तस्य शुद्धरूपत्वाभावात् । भावेऽपि श्रुत्यनुमानाभ्यां तस्यैव मिथ्यात्वम् । न ब्रह्मणः । मानाभावात् साक्षित्वाचेत्याद्युक्तम् । विशेणयोरैक्यापातेनेति । वाच्यविशिष्टं प्रमेयविशिष्टमित्यादाविव 'सोऽयमित्यादौ तत्तेदन्तयोविंशेषणत्वे विशेष्यान्वयेिनान्वयनियमेनान्योन्यमभेदान्वयापातेनेत्यर्थः । सर्वत्र विशेषणयोरभेदबाधस्थले । अभेदपरेति । अभेदपरत्वयोग्येत्यर्थः । विशिष्टोपस्थापकसामनविभक्तिकपदद्वययुक्केति यावत् । लक्षितविशेष्यैक्येति । लक्षितशुद्धविशेष्यव्यक्तिमात्रेत्यर्थः । विशिष्टबोधकपदस्य विशिष्ट प्रतियोगिकान्वयबोधकत्वमावश्यकम् । मुख्यवृत्तिज्ञानसहकृतस्य तस्य तादृशान्वयबोधोपधायकत्वस्य क्लृप्तत्वात् । अन्यथा 'लोहितोष्णीषा ऋ त्विजः प्रचरन्ती' त्यादौ लौहित्यादेर्विशेषणता न स्यादुपलक्षणताया उपाधिताया वा वक्तुं शक्यत्वात् । अतो मुख्यां वृत्तिं त्यक्त्वैव वा विशेषणत्वं वाच्यम् । तत्रापि तात्पर्याविषयस्योपाधित्वेऽपि मानाभावादुपलक्षणत्वमेवावशिष्यते । तथा च शुद्धव्यक्तिमात्रधीपरत्वमिति भावः । एकता अत्यन्ताभेदः । विपरीतेति । जीवत्वेशत्वरूपविरुद्धविशेषणघटितेत्यर्थः । तथा चात्यन्ताभेदपरत्वान्यथानुपपत्त्या शुद्धलक्षणेति भावः । संस्थानविशेषस्य उत्तृणत्वादेः । स्वतो व्यावृत्तेति । घट इति ज्ञाने अन्याविशेषितरूपेण भासमानघटत्वादित्यर्थः । उपलक्ष्यत्वेति । उपस्थाप्यत्वेत्यर्थः । अनर्थेति । सद्वितीयत्वज्ञानेत्यर्थः । द्वितीयाभावद्वारकेति । द्वितीयाभाववत्त्वेन ब्रह्मोपस्थितिद्वारकलक्षणाज्ञानाधीनेत्यर्थः । अवान्तरतात्पर्येति । मन्त्रार्थवादादेर्देवताविग्रहादिबोधद्वारा स्तुत्यादिपरमतात्पर्यकस्य देवताविग्रहादाववान्तरतांत्पर्यस्य विवरणकारादिमत इवाद्वितीयत्वादिरूपेण ब्रह्मज्ञा
A
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२८७
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
अद्वैतमञ्जरी ।
नाधीनविरोधिप्रतिसन्धानाधीनया लक्षणाकल्पनया शुद्धब्रह्मपरत्वेन गृह्यमाणस्याद्वितीयादिवाक्यस्याद्वितीयत्वादिविशिष्टब्रह्मण्यवान्तरतात्पर्यस्य स्वीकारः । उक्तं हि संक्षेपशारीरके-'सामानाधिकरण्यमत्र भवति प्राथम्यभागान्वयः पश्चादेव विशेषणेतरतया पश्चाद्विरोधोद्भवः । उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिलक्षणया भवत्ययमिह ज्ञेयः क्रमस्सूरिभिः॥सामानाधिकरण्यमत्र पदयो यं तदीयार्थयोस्सम्बन्धस्तु विशेषणेतरतया ताभ्यां सहास्यात्मनः । सम्बन्धोऽप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधैरेतान्यर्थपदानि बुद्धिपदवीमारोहणीयानि तु॥ पदयोस्सामानाधिकरण्यमर्थयोर्विशेषणविशेष्यभावसंपादकं तादात्म्यं च ज्ञेयम् । ततो विरोधप्रतिसन्धानात् शुद्धे लक्षणया धीरित्यर्थः । तथा च पदोपस्थाप्ययोविशिष्टयोरभेदबोधस्य द्वारत्वेनोक्तत्वात्तत्रावान्तरतात्पर्यमिति ज्ञापितम् । ननूक्तपद्यैरद्वितीयत्वादिविशिष्टे बमणि नावान्तरतात्पर्यसिद्धिः । तेषां ह्ययमर्थः । 'सत्यं ज्ञानमनन्तमेकमेवाद्वितीय' मित्यादिवाक्यस्थानां सत्यादिपदानां प्रथमतोऽत्यन्ताभिन्नार्थकत्वं निर्णीयते । एतानि स्वबोध्यार्थानामत्यन्ताभेदपराणि। समानविभक्तिकनानानामत्वात्। नीलो घट इत्यादिवत् । भिन्नयोस्तादात्म्यबोधने मुख्यसामानाधिकरण्यबाधात् अत्यन्ताभेदो ह्यखण्डैक्यरूपो मुख्यं सामानाधिकरण्यमिति संक्षेपशारीरक एव प्रपञ्चितम् । पश्चात् ब्रह्मपदार्थे उक्तवाक्यतात्पर्यविपयीभूतबोधविषये सत्याद्वितीयपदवाच्यार्थानां विशेषणत्वमुपलक्षणत्वं वेति ज्ञायते । प्रमेयविशिष्टं वाच्यविशिष्टमित्यादौ विशेषणत्वस्य — सोऽय' मित्यादौ चोपलक्षणत्वस्य वाच्यार्थेषु दृष्टत्वेनात्रापि तयोः सम्भावितत्वात् पश्चाविशेषणत्वे विरोधदर्शनेनोपलक्षणत्वस्यैव निर्णयेन लक्षणावृत्तिनिर्णय इति । तथा च विशिष्टयोरभेदे वा उपलक्षितस्वरूपे वा तात्पर्यमिति तात्पर्यसंशय एव द्वारतयोक्तः । न तु विशिष्टयोरभेदबोध इति तत्रावान्तरतात्पर्ये मानाभावस्तत्राह-तद्वारैवेति । सत्यादिवाक्येन शुद्धब्रह्मबोधे जन्यमाने ब्रह्मणि सत्यत्वाद्युपहिताभेदनिर्णयो द्वारम् । अन्यथा ब्रह्म सत्यं मिथ्या वेति संशयानिवृत्योक्तज्ञाने मिथ्याविषयकत्वरूपाप्रामाण्यसंशयेन तत्त्वमस्यादिवाक्यार्थबोधेऽपि तदुत्पादात्तस्याविद्यानिवर्तकत्वं न स्यात् । एवं ब्रह्म ज्ञानत्वोपहितं न वेति संशयानिवृत्त्या ब्रह्मस्वरूपमुखस्याप्रकाशमानत्वसंशयेन मोक्षस्यापुरुपार्थत्वसंशयेन मोक्षार्थप्रवृत्तिर्न स्यात्।एवमानन्दत्वसंशयानिवृत्यापि सा न स्यात् । एवमनन्तत्वसंशयानिवृत्त्यापि विनाशित्वादिसंशयेन सा न स्यात् । एवमद्वितीयत्वसंशयानिवृत्त्या जीवब्रह्मस्वरूपयोः संसारित्वैश्वर्यादिद्वैतविशिष्टयोरैक्यमनुपपन्नम् । विरुद्धधर्मयोगित्वप्रयुक्तभेदसंशयेन तयोरैक्यनिश्चये प्रामाण्यसंशयादिसम्भ
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८९
प्र०दे मिथ्यात्वश्रुत्युपपत्तिः] लघुचन्द्रिका वात्तस्याविद्यानिवर्तकत्वं न स्यात् । तस्मात् पश्चादेव विशेषणेतरतयेत्यस्य द्वावर्थों बोध्यौ । विशेणविशेष्यभावेन ब्रह्म सत्यमित्यादिरूपो द्वारीभूतो बोधः पश्चादित्येकः । सत्यादिवाक्यतात्पर्यविषयबोधे सत्यादिपदवाच्यतावच्छेदकं विशेषणमुपलक्षणं वा। द्वयोरपि सम्भावितत्वादिति प्रतिसन्धान पश्चादित्यपरः । एवं च सामानाधिकरण्यमित्यादेरयं फलितार्थः । सामानाधिकरण्यज्ञानं प्रथमोऽन्वयः । अन्वयपदं मुख्यतात्पर्यविषयधीप्रयोजकार्थकम् । पश्चाद्विशेषणेतरतयान्वयः, पश्चाद्विरोधज्ञानम् । सत्यत्वादिसंसर्गस्य मिथ्यात्वात् तद्धटितार्थस्याधिष्ठानत्वाभावात् शुद्धव्यक्तिरूपैक्यबोधकत्वस्य मुख्यसामानाधिकरण्यत्वाञ्च संसर्गघटितत्वेनोक्तवाक्यतात्पर्यमुपपद्यत इत्याकारमुक्तान्वयविरोधज्ञानमिति ध्येयम् । द्वितीयाभावसिद्धीति । द्वितीयाभावरूपद्वितीयसिध्या अद्वैतहानीत्यर्थः । क्षेपिष्ठत्वेति । अतिक्षिप्रत्वेत्यर्थः । वपात्खननादाविति । ‘स प्रजापतिरात्मनो वपामुदक्खिददि'त्यादिवाक्यार्थे वपोत्खननादावित्यर्थः । ग्रहैकत्वादाविति । दशापवित्रेण ग्रहं सम्मार्टीत्यादौ ग्रहमुद्दिश्य दशापवित्रेण सम्मार्जनस्य विधौ ग्रहत्वादिमात्रमुद्देश्यविशेषणतया विवक्षितम् । न तु ग्रहैकत्वादिकम् । यावता विशेषणेन विना नोद्देश्यं पर्यवस्यति । तावत एव विवक्षितत्वात् । उद्देश्यं हि क्रियां प्रति प्रधानं तत्पर्यवसितं सन्नेतरेण विशेषणेन नियन्तुं शक्यते । विधेयं तु गुणीभूतं श्रुतेन सर्वेण विशेषणतया नियम्यत एव । तदुक्तं वार्तिके- 'प्रधानक्रिया कारकाणि पिण्डीकरो'तीति । एवं 'यम्योमयं हविरातिमार्छत् ऐन्द्रं पञ्चशरावमोदनं निवपे'दित्यादौ निमित्तीभूतहविराादौ नोमयत्वादिकं विवक्षितमिति भावः । स्वबोधितं स्वेन बोध्यमानम् । अतात्पर्यात् मुख्यतात्पर्याभावात् । न क्षतिः न मानविरोधक्षतिः । तथा च वपोत्खननादिवाक्यवत् न मुख्यार्थमहातात्पर्यकमद्वितीयपदमिति भावः । नन्वित्यादि। ग्रहणाग्रहणवाक्याभ्यां ग्रहणस्यैकस्यैव विधिनिषेधयोः स्वीकारात् एकेनेत्युक्तम् । एकेनैव वाक्येन निषेधस्य प्राप्तिः निषेध्यस्य निषेध३चोपपद्यत एवेत्येकस्येत्युक्तम् । एकेन वाक्येनैकस्य प्राप्तिनिषेधयोः स्वीकारे तु क्रमेण तयोस्स्वीकारे विरम्य व्यापारापत्तिः । युगपत्स्वीकारे निषेधार्थ वि. धेयस्यानुवादायोगः । अनुवादस्य प्राप्तिपूर्वकत्वात् सदुभयत्र तात्पर्यासम्भवेनावृत्तिकल्पनापत्तेवाक्यभेदापत्तिः । किं चैकस्य वाक्यस्य प्राप्तिनिषेधयोस्वतन्त्रतात्पर्यास्वीकारे तयोर्वैयर्थ्यम् । न हि निषेधार्थमेव किञ्चिद्विधीयत इति कत्रापि दृष्टमिति भावः । रूपभेदेनेति । स्वतन्त्रतात्पर्यभेदस्वीकारे सत्येव विरम्य व्यापारादिकं दोषः । 'इन्द्रो वृत्राय वज्रमुदयच्छ' दित्यादौ स्वार्थं विधाय तद्वारा स्तु
३७
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
अद्वैतमञ्जरी ।
त्यादितात्पर्यस्वीकारात् स्वतन्त्रतात्पर्याभावेऽपि विधिन व्यर्थः । यत्र ह्येकरूपेण विधिनिषेधौ, तत्र विधिय॑थः । निषेधार्थमेव तत्र विधानाद्विधेयस्यैव निषेधाच्च । प्रकृते तु द्वितीयमात्रस्य निषेधः । न तु विधेयस्य द्वितीयाभावस्यैव । तद्विधिरपि न तन्निषेधार्थः । किं त्वखण्डवाक्यार्थसिद्ध्यर्थः । तथा च द्वितीयाभावस्य वस्खेतररूपसर्वद्वितीयनिषेधरूपत्वेन निषेध एव तात्पर्यम् । न विधौ । तदेतद्वक्ष्यति 'प्रकते तु निषेधस्यैव शास्त्रार्थत्वादिति । तदपि तात्पर्यं न मुख्यम् । तद्विषयस्यान्यशेषत्वात् । तथा च न द्वितीयाभावस्य तात्त्विकत्वम् । न वा विधेयत्वनिषेध्यत्वयोर्विरोध इति भावः । ननु, द्वितीयाभावस्य ब्रह्मरूपत्वस्वीकारपक्षे बमभिन्नत्वरूपं द्वितीयत्वं न तदनुगतम् । तत्राह-तत्रति । द्वितीयाभाव इत्यर्थः । तदनभ्युपगमे द्वितीयत्वास्थीकारे । ननु, यथा 'न हिम्पा'दिति निषेधो विहितान्यहिंसाविषयकः, तथा द्वितीयसामान्यनिषेधो द्वितीयाभावान्यद्वितीयविषयकोऽस्तु । यथा वा षोडशिग्रहणाग्रहणवाक्याभ्यां विकल्पसिद्धिः, तथा द्वितीयाभावप्राप्तितनिषेधाभ्यां सास्तु । तत्राह-यत्र वित्यादि । अतुल्यविषयकत्वे सामान्यविशेषभावाद्यापन्न विषयकत्वे । तुल्यविषयकत्वे सामान्यविशेषभावाद्यनापन्नविषयकत्वे।अगत्यति। निषेधशास्त्रस्यासंकुचवृत्तित्वे प्राप्तिशास्त्रवैयर्थ्यापत्तिरूपवक्ष्यमाणदोषेण सङ्कोचाभावरूपगतेरसम्भवेनेत्यर्थः । विकल्पेन पाक्षिकानुष्ठानेन । एकविषयकत्वं एकस्यातिरात्रस्य विधिनिषेधेोभयसम्बन्धवोधकत्वम् । ग्रहणे अनुष्ठिते तत्सहितैर रुपकारः । अननुष्ठिते तद्रहितैरप्युपकारः । परं तु तत्सहिताङ्गोपकृतेनातिरात्रेण जनिते फले भूमास्ति । अन्यथा तत्सहिते प्रवृत्त्यनुपपत्तेरिति कल्प्यत इति भावः । निषेधस्य द्वितोयाभावसाधारणद्वितीयत्वसामान्यावच्छिन्न प्रतियोगिताकाभावस्य शास्त्रार्थत्वात् अद्वितीयपदघटितशास्त्रस्यावान्तरतात्पर्यविषयत्वात्। न कस्यापीति। द्वितोयाभावोऽत्र न प्राप्यः । तस्यापि द्वितीयत्वेन तत्प्राप्तेरेव तन्निषेधरूपत्वात् । द्वितीयसामान्याभावो हि एकः स्वेतरस्येव स्वस्यापि द्वितीयस्याभाव इति तत्प्राप्तिरपि द्वितीयत्वरूपेण तद्विशिष्टबुद्धौ विरोधिनी तन्निषेध एवेति निषेधशास्त्रस्यैव तत्प्रापकशास्त्रत्वेन न तद्वैयर्थ्यशङ्केति भावः । अत एव उक्तवाक्यस्य सर्वद्वैतनिषेधमानतात्पर्यकत्वादेव । उन्मजनेति । प्राप्तीत्यर्थः । निरस्तमिति । द्वितीयाभावो ब्रह्मणि नास्तीति निषेधपर्यवसाने द्वितीयोन्मज्जनं स्यात् । द्वितीयाभावो द्वितीयं च किमपि ब्रह्मणि नास्तीति पर्यवसाने तु सुन्दोपसुन्दन्यायेन द्वयोरपि निषेधान्न तयोरेकस्याप्युन्मज्जनमिति भावः । विशेषणत्वेनेति । विशेषणत्वेन द्वितीयस्योपादानं यथा न युक्तम् । निषेधस्य पूर्वकृतस्य व्यर्थत्वापत्तेः,
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे अद्वैतश्रुतेर्बाधोद्धारः]
लघु चन्द्रिका
२९१
तथा द्वितीयाभावस्योपलक्षणतया पश्चादुपादानं व्यर्थत्वादयुक्तमित्यर्थः । निषिद्धस्य पुनरुपलक्षणत्वेनोपादानं व्यर्थमित्यत्राशङ्कयते । निषिध्यमानस्य निषेधकेन विशेषणतयोपादानं न युक्तम् । प्रापकस्य निषेधकत्वविरोधादित्याशङ्कय रूपभेदेनाविरोधादिति समाहितं पूर्वमिति न पौनरुक्त्यम् । अभावबुद्धौ ‘नात्र रजत मिति बुद्वौ । निषिद्धस्यापि रजतस्य प्रतियोगिनः सा शुक्ति'रित्यत्रोपलक्षणतयोपादानदर्शनादिति योजना । ननु, ‘सा शुक्ति'रित्यत्र रजतस्य तत्पदार्थस्य विशेष्यत्वेन नोपलक्षणत्वम् । तत्राह-प्रसिद्धस्येति । भ्रमसिद्धस्येत्यर्थः । तथा च 'सा शुक्ति'रिति ज्ञानं भ्रमबाधकत्वेन भ्रमतद्विषयविरोधित्वान्न तद्विषयकमिति भावः । तत्पदबोध्यत्वं प्रतीतत्वादेवेत्याशयेन पूर्वप्रतीतेत्युक्तम् । उपलक्षणतया विशेष्यीभूतेदन्त्वविशिष्टोपस्थापकत्वे सति अभासमानतया । ननु, 'इयं शुक्ति' रिति ज्ञानं भ्रमविशेप्येदन्त्वविशिष्टे शुक्तित्वं विषयीकुर्वदेव बाधकम् । नान्यथा । तत्र विशेष्योपस्थापकतया रजतस्योपादानमुपयुज्यते । द्वितीयाभावस्य तु ब्रह्मज्ञाने विशेष्याभूते किञ्चिद्धर्मविशिष्टे नोपस्थापकत्वम् । तत्राभासमानत्वमात्रेण तु नोपलक्षणत्वम् । तत्राह--असङ्कीर्णज्ञानेति । व्यावृत्ताकारकज्ञानेत्यर्थः । तुल्यत्वादिति । किञ्चिद्धर्मविशिष्टानुपस्थापकत्वेऽपि शुद्धब्रह्मोपस्थापकत्वादुपलक्षणसया व्यावर्तकत्वस्यापि पूर्वमुक्तत्वाट्यावृत्ताकारकधीप्रयोजकत्वेन द्वितीयाभावस्याप्युपयोग इति भावः ॥
इति लघुचन्द्रिकायां सामान्यतो मिथ्यात्वश्रुत्युपपत्तिः ॥
कश्छन्दसामित्यादि । च्छन्दसां वेदवाक्यानां । योगं तात्पर्य । धीरोऽपि को वेदेत्यर्थः । च्छन्दसां गायत्र्यादीनां योगं स्तुतशस्त्रात्मना विनियोगं को वेदेति माधवीयमाप्यव्याख्यानस्यापि वेदतात्पर्यदुर्जेयत्वे तात्पर्यम् । अल्पश्रुतात् अल्पविद्याकात् पुरुषात् । आज्यैरित्यादि । आज्यै रित्यादौ घृतादित्यागेन स्तोत्रपरत्वं पूर्वमीमांसायाचित्राधिकरणे स्थापितम् । आकाशादित्यादौ गगनादित्यागेन परमात्मपरत्वमुत्तरमीमांसायामाकाशाधिकरणे स्थापितमित्यर्थः । सामपदं स्तोत्रपरम् । सामगानविशिष्टमन्त्रकरणकं गुणाभिधानं स्तोत्रम् । 'चित्रया यजेत पशुकामः' 'पञ्चदशान्याज्यानी' त्यादौ चित्राज्यादिपदानां गुणवाचित्वं कर्मनामत्वं वेति सं-. शये, चित्राज्यादिशब्दानाञ्चित्ररूपघृतादिषु रूढत्वेन यागनामत्वासम्भवाच्चित्रावाक्ये चित्रत्वस्त्रीत्वोभयं करणत्वेनानीषोमीयपशुयागीयद्रव्यपरिच्छेदकतया विधीयते । 'दधि मधु घृतं पयो धाना' इत्यादिप्रकृतयागेषु करणत्वासम्भवात् । एवमाज्यादिवाक्येषु सन्निधौ स्थापयेदित्यध्याहारेणाज्यादेः स्तोत्रसन्निधी
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
अद्वतमञ्जरी ।
स्थापनं प्रकृतस्तोतं प्रत्यदृष्टद्वारा करणत्वेन विधीयत इति प्राप्ते, अग्नीषोमीये अग्नीषोमीयमित्यादिप्राकरणिकवाक्यविहितपुंस्त्वावरुद्धद्रव्यकत्वेन स्त्रीत्वस्य विंधानासम्भवात् पशुकामपदवैयर्थ्याच्च चित्रापदं न गुणविधायकम् । किं तु प्र. कृतयागानामेव पशुफलसम्बन्धविधिपरे वाक्ये तेषां नामधेयम् । इष्टयेत्यस्याध्याहारात् स्त्रीलिंगोपपत्तेः यागस्य चित्रत्वं दध्यादिनानाद्रव्यकयागसमुदायान्तर्गतत्वम् । एवं पञ्चदशानीत्यस्य 'स्तोमे डविधि'रित्यनेन स्तुतिसंख्यायां डप्रत्ययानुशासनात् पञ्चदशाज्यपदयोरसमस्तत्वेन मिथोऽनन्वयात् विशिष्टविध्यसम्भवादाज्यनामकस्तोत्रे संख्यामात्रं विधीयते । स्तोत्रञ्चाज्यैस्तुवते इति वाक्यै विहितमिति प्रथमचतुर्थे स्थितम् । 'अस्य लोकस्य का गति'रिति प्रश्नोत्तरे 'आकाश इति होवाचेति वाक्ये आकाश इति पदस्य भूताकाशे रूढत्वात् प्राथमिकत्वाच्च तद. नुरोधेन 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते'इत्यादिकञ्चरमोक्तं वाय्वादिभूतकारणत्वपरम् । तथा च भूताकाशमुद्गीथे संपाद्योपास्यमिति प्राप्ते, आकाशपदं ब्रह्मपरम् । ततोऽपि प्रथमं अस्य लोकस्य कागतिरित्यनेन सर्वलोककारणस्य पृष्टत्वात् प्रश्नानुसारेण सर्वपदस्यासंकोचादिति प्रथमप्रथमे शारीरके स्थितम् । तथा चोक्तं 'मानान्तराविरुद्धस्य शास्त्रार्थत्वमुक्तमिति । अत्रोत । शाबरभाष्यस्थवाक्ये इति शेषः । यद्यपि ज्ञातसम्बन्धस्य एकदेशदर्शनादेकदेशान्तरे असन्निकृष्टार्थे बुद्धिरनुमानमित्यनुमानलक्षणभाष्यव्याख्यानावसरे वार्तिके असन्निकृष्टवाचेत्याधुक्तम् । न तु शास्त्रलक्षणभाष्यव्याख्यानावसरे, तथापि तुल्यन्यायत्वात्तत्रापि तत् सम्बध्यते । असन्निकृष्टत्यनेन हि प्रमाकरणत्वं विवक्षितम् । प्रमायां शाब्दत्वं शब्दप्रमाणलक्षणेऽनुमितित्वमनुमानलक्षणे प्रविष्टमिति परं विशेषः इत्याशयेन शास्त्रलक्षणेऽपि तदुक्तमित्युक्तम् । ताद्रूप्येणेत्यादि। येन रूपेण वाक्यबोध्यता तेन रूपेण पूर्वप्रमितत्वं तद्विपरीतरूपेण प्रमितत्वञ्च जिहासितमभावविशेषणतया शब्दप्रमाणलक्षणे प्रविष्टमित्यर्थः । तथा च मानान्तरेणाप्रमितमबाधितं यत्तद्विषयवाक्यत्वं शास्त्रत्वमिति पर्यवसितम् । वस्तुतस्त्वभिहितान्वयवादस्य भाष्यवार्तिककारादिसम्मतत्वेनासन्निकृष्टेऽर्थे ज्ञानमिति भाप्ये ज्ञानपदं ज्ञानहेतुपरम् । सप्तम्यन्तयोर्न सामानाधिकरण्यम् । किं तु वैयधिकरण्यम् । तथा चासन्निकृष्टे वाक्यार्थे ज्ञापकं यत् शब्दज्ञानजन्यमर्थज्ञानं तच्छब्दप्रमाणमित्यर्थः । प्रत्ययान्तपदार्थज्ञानं शब्दजन्यं वाक्यार्थज्ञाने कारणमित्यभिहितान्वयवादस्य द्वितीयपरिच्छेदे स्पष्टं मूले विवेचयिष्यमाणत्वात् । एतेन शब्दज्ञानं प्रमाणं बोध्यम् । न त्वज्ञानं शब्दज्ञानजन्यं शब्दप्रमाणमिति काशिका
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद अद्वैत श्रुतेर्बाधोद्धारः]
लघुचन्द्रिका ।
२९३
कारोक्तं व्याख्यानं परास्तम् । शब्दज्ञानं वाक्यार्थधीननकमित्यन्विताभिधानवादस्य तद्भूताधिकरणीयभाष्ये दूषितत्वेन तत्परतया भाप्यव्याख्यानस्यानौचित्यात् । ननु, द्वैतप्रत्यक्षादिनैरपेक्ष्येणाद्वैतवाक्यं द्वैतमिथ्यात्वबोधकं कुतो न भवतीति।तत्राह-अन्य एवेत्यादि । एकदेशमात्रपर्यालोचनेनार्थनिर्णये अतिप्रसङ्ग इति भावः । अङ्गेति । एकदेशेत्यर्थः । अन्यत्रेति । स्मृतिपादीयवार्तिक इत्यर्थः । उक्तमित्यनुषज्यते । अन्त्यपक्षेति । आद्यपक्षे प्रसञ्जकं प्रत्यक्षादिमानं श्रत्यादिना बलवता बाध्यत इत्यस्य पूर्वमेवोक्तत्वात् अन्त्यपक्षेत्याधुक्तम् । तत्रैव निषेधाधिकरण एव । प्रसिद्धिः प्रमा । निषेधप्रमामात्रोच्छेदेति । यत्रातिरात्रादिव्यक्तौ ग्रहणादिनिषेधः तत्र तत्प्रमाया असम्भवात् भ्रमरूपा तत्र तत्प्रसक्तिर्वाच्या। तथा च संशयरूपा सास्तीति तद्बाधेऽपि न प्रमाणबाध इति भावः । नान्तरिक्ष इत्यादि । अर्थवादाधिकरणे अन्त्ययोर्यथोक्तमिति सूत्रे 'नान्तरिक्ष' इत्यादिवाक्यं 'हिरण्यं निधाय चेतव्य'मित्यनेन विहितस्य हिरण्यस्य स्तुतिपरम् । स्तुत्युपपादकस्तु निषेधबोध इत्युक्तम् । तत्र यथा प्रसक्तस्य निषेधः, तथा प्रकृत इति भावः । न स्वप्रतियोगिकेति । स्वविषयेषु घटपटतद्भेदेषु ज्ञानान्तरेषु च स्वभेदमनवगाहमानेत्यर्थः । भिन्नव्यक्तिखेति । उत्तरवृत्तित्वेत्यर्थः । तेनानुव्यवसायसिद्धत्वादिपक्षयोः व्यक्तिभेदस्य पराभ्युपगतत्वेऽपि न क्षतिः । स्वस्याः स्वकीयायाः प्रतियोगिधीपूर्वकालीनायाः प्रतियोगिधीसमानकालीनायाश्च । स्वजन्यत्वानुपपत्तेः प्रतियोगिधीजन्यत्वानुपपत्तेः । तथा चेति । चरमधिया वभेदस्य कुत्राप्यग्रहणे चेत्यर्थः । सर्वाभेद इति । चरमधीर्ययोर्भेदं गृह्णाति, ताभ्यां तद्भेदेन च सह तस्या अभेदमद्वैतश्रुतिर्बोधयतीति सा धीः तादृशभेदविषयकत्वेन बोडुमशक्या नाद्वैतश्रुतिबाधकतया बुध्यते । एवञ्च पूर्वपूर्ववीरपीति श्रुतिस्सर्वाद्वैते पर्यवस्यतीति भावः । न ह्यभेद इत्यादि । ययोर्भेदश्चरमधीविषयः. ताभ्यां तद्भेदेन च तस्या अभेदे ज्ञाते बाध्यबाधकधियोस्तद्विषययोश्चाभेदे ज्ञाते बाध्यबाधकभावज्ञानं न सम्भवति । स्वस्य भेदज्ञानस्य स्वबाधकतया ज्ञानापत्तेरित्यर्थः । बाधकस्य स्वविषयेण सह भेदाज्ञाने भेदविशेषविषयकत्वेन तद्धटितप्रमात्वेन च तस्य ज्ञातुमशक्यतया बाध्यबाधकधियोरेकविषयकत्वग्रहेण च बाध्यवाधकभावज्ञानासम्भव इति भावः । ननु, कथमद्वैतज्ञानेन द्वैतं बाध्यते । द्वैतस्य स्खविषयैक्येन गृहीततया बाध्यत्वेन गृहीतुमशक्यत्वात् अद्वैतस्यापि स्वैक्येन गृहीततया तद्विषयकत्वेन तद्धटितप्रमात्वेन च वस्य गृहीतुमशक्यत्वादिति चेन्न । अद्वैतज्ञानस्योत्पत्तिक्षणे भेदानुपमर्दकल्पने तस्य द्वैतस्य च तथा. गृहीतुं
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२९४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
शक्यत्वात् तादृशज्ञानस्य च पूर्वज्ञानस्य चरमभेदज्ञानादिबाधकत्वसम्भवेनानुपपत्त्यभावात् । तादृशज्ञानोत्तरं तु बाधकत्वज्ञानं नास्त्येव । सर्वद्वैतोपमदत् । भेदज्ञानं तु पूर्वं जातमपि न सर्वभेदविषयकमिति न तेनाद्वैतज्ञानस्योत्पत्तिप्रतिबन्ध इति भावः । सुदूरेत्यादि । चरमभेदधीभिन्नेषु सर्वेषु विषयरूपदेशेषु भेदावगाहनरूपं धावनं कृतवत्यपि सुषुप्तिलोपाद्यापत्तिरूपश्रान्त्या चरमभेदधीरूपदेशे भेदावगाहनरूपं घावनं कर्तुमशक्ता बाधबुद्धेर्भेदज्ञानस्य परम्परा श्रेणी निवृत्तौ तस्या अद्वयश्रुतिबाधकत्वायोग्यत्वप्राप्तौ पाणिग्राहविरुद्ध विषयकत्वरूपबाधकतावच्छेदक युक्तैरद्वयाम्नायैवध्यत इत्यर्थः । इतरप्रतियोगिकभेदेति । स्वविषयात् ज्ञानान्तराव त्यर्थः । इतरप्रतियोगी इतरात्मकप्रतियोगी । सप्रतियोगिकत्वेन भेदस्फुरणस्यैवाभेदज्ञानविरोधित्वात्तदेव प्रकृते वाच्यम् । तच्च न सम्भवति । प्रतियोग्यनुपस्थितिकालीनस्य साक्षिनिष्ठ भेदस्याहतत्वेन तत्स्फुरणस्य प्रतियोगिधीसापेक्षत्वात् अभावमात्रस्यानुपलब्धिमानगम्यत्वे तु न भेदे साक्षिवेद्यत्वशङ्कापीति भावः । अन्यथा साक्षिणः इतरनैरपेक्ष्येण स्वनिष्ठ भेदग्राहकत्वे । अन्तःकरणाद्यभेदभ्रमः अन्तःकरणादेर्भेदाविषयकोऽहमिति भ्रमः । न स्यात् । इतरसापेक्षतयोक्तभेदग्राहकत्वे तु विपरीतसंस्काररूपदोषाभावस्थोक्तभेदस्फुरणापेक्षणीयत्वात्तदभावान्न तादृशस्फुरणम् । न च मम मन इति भेदस्फुरणं सर्वदास्त्येवेति वाच्यम् । तस्य तादात्म्यविषयत्वेऽपि भेदाविषयकत्वात् । शरीरत्वेनैव मनस्त्वेनापि तादात्म्याध्यासस्य स्वीकारात् । मम मन इत्यस्य सम्भवेऽपि ममाहमित्यस्यासम्भवात्तदापादनसम्भवाच्च । एतेन मनआत्मनोर्भेदज्ञानस्य सत्वेऽपि विपरीतभावनारूपदोषात्तयोरभेदभ्रमसम्भव इति तदभावापादनमयुक्तमित्यपास्तम् । ज्ञानादिनेत्यादिना स्वविषयग्रहः । भेदं ऐक्याज्ञानात् स्वविषयाच्च स्वस्य भेदम् । सर्वतो भिनेति । बुद्धित्वात् बुद्ध्यन्तरवदिति शेषः । अनुमानाविषये अनुत्रेयभेदाप्रतियोगिनि । वाक्यमपीत्यपिनाऽनुमानसमुच्चयः । त्वादत्यादि । सर्वस्मिन् पक्षीकृते हेतोरभावः । तस्मिन् तस्याभावेन हेतौ स्वरूपासिद्धेः । अद्वैतमते साध्यहेत्वोरभेदेन साध्याविशेषः । तयोः पक्षस्य चैक्यात् बाधस्वरूपासिद्धिव्याप्यत्वासिद्ध्यादिकञ्च । एवं दृष्टान्तस्यापि पक्षत्वादृष्टान्तासिद्धिश्च । सर्वस्य भेदप्रतियोगित्वानुयोगित्वे विशिष्य तत्तद्रूपेण निवेश्ये । अन्यथा केनचिद्रूपेण ते आदाय सिद्धसाधनार्थान्तरयोरापत्तेः । तथा च तत्तद्रूपेण ज्ञाने आवश्यके सर्वश्यापत्तिः । एवं च हेत्वाद्यभावे सार्वइये च अद्वैतवादिभिरास्थिते आपादिते सति सर्वं पक्षयता पक्षयितुं पूर्वं प्रवर्त्तमानेन त्वया किञ्चित् कानिचित् त्यक्तव्यानि पक्षात् बहिष्कार्याणि । तदा च सैव त्यक्ता तत्तत्स्वरूपैवाद्वयश्रुतेः
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मदे अद्वैतश्रुतेोद्धारः]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२९९
सर्वाद्वैत बोधनरूपगमनाय चरमोपायरूपा द्वाः त्वया दत्तैव । तुशब्दादनुमानप्रयोगव्यवच्छेदः । तथा चानुमानप्रयोगे त्वया कृतेऽपि श्रुतिप्रवृत्तिर्न निरोद्धुं शक्यत इति भावः । ननु, उक्तप्रत्यक्षं यद्यद्वैतज्ञानात् स्वविषयाच्च भिन्नं न स्यात्, तदा भेदविषयकं न स्यात् । ययोर्भेदो विषयः, तयोरैक्यविषयकत्वात् भेदप्रतियोग्यनुयोगिनोः स्वविषयीभूतयोः स्वभिन्नत्वाभावे तयोर्भेदानुपपत्तेः । न हि स्वात्यन्ताभिन्नमुभयं मिथो भिन्नमिति सम्भवति । विरोधादिति युक्तेरुक्तप्रत्यक्षस्य स्वविष - यादद्वैतज्ञानाच्च भेदं विना भेदविषयकत्वमनुपपन्नमित्यनुपपत्तिधीकरणिकार्थपत्तिर्भेदग्राहिकास्तु । तथा च कथमद्वैतश्रत्यवकाशः । तत्राह - नाप्यर्थेति । स्वाविषयत्वं विवृणोति । ययोरित्यादि । ययोरद्वैतज्ञानाद्युक्तप्रत्यक्षयोर्भेदं विना यत्रोक्तप्रत्यक्षस्य घटपटभेदविषयकत्वे अनुपपत्तिर्गृहीता, तत्रोक्तप्रत्यक्षस्य तादृशविषयकत्वे निमि तदुपपत्तय इति यावत् । तयोरद्वैतज्ञानाद्युक्तप्रत्यक्षयोर्भेदग्रहेऽपि अनुपपत्तौ अर्थापत्तिप्रमायामनुपपत्त्यन्तरस्याद्वैतज्ञानादितो भेदं विना किञ्चिदनुपपन्नमित्यस्याग्रहात् । तथा चोक्तार्थापत्तावद्वैतज्ञानादिभेदाग्रहान्नार्थापत्तिसर्वभेदविषयेति भावः । सर्वत्रोतापत्त्यादौ । ग्रहे त्विति । सुषुप्तिोपाद्याप - तेरिति शेषः । चरमधीः चरमार्थापत्तिः । अद्वैतज्ञानादिभेदं विना यस्यां किञ्चिदनुपपन्नमिति न गृहीतं, सार्थापत्तिरिति यावत् । आद्येत्यादि । आद्यधीः ' घटो न पट ' इति धीः । तद्वेद्यभेदीया तस्या धियस्तादृशभेदविषयकत्वमद्वैतज्ञानादितः तस्यां भेदं विनानुपपन्नमित्या कारानुपपन्नता । अनुपपत्तिधीरद्वयश्रुतिं न बाधते । स्वज्ञानापेक्षणात् स्वस्मिन् तादृशानुपपत्तिज्ञाने अद्वैतज्ञानादिभेदज्ञानमपेक्ष्यैव तस्यास्तद्वाधकत्वसम्भवात् । स्वस्मिन् उक्तभेदाज्ञाने तत्रैव श्रुतेरवकाशेन सर्वाद्वैतपर्यवसानात् । अथ तस्यामपि तादशभेदं विनोक्तभेदविषयकत्वमनुपपन्नमिति ज्ञानात्तादृशभेदग्रहः तथाप्यन्ते धाराविश्रान्तौ तान्न बाधत इत्यर्थः । उपपादकमिति । यद्विनानुपपन्नत्वं अन्यत्र ज्ञायते, तदित्यर्थः । इतरस्मात् अद्वैतज्ञानादितः । नेह नानेत्यादि । 'नेह नाने ' तिवाक्यरूपस्य ब्रह्मणि भेदमात्र निषेधस्यानुपपत्तिरित्यर्थः । अभेदस्याखण्डब्रह्मस्वरूपत्वेन वक्ष्यमाणत्वात् भेदाभावातिरिक्तत्वात् भेदनिषेधानुपपत्तिगम्यत्वमिति भावः । अर्थापत्तिभ्रमेति । अर्थापत्तिरूपभ्रमेत्यर्थः । येन येनेत्यादि । यद्यद्रूपावच्छिन्नं विनानुपपन्नत्वं गृहीतमित्यर्थः । सोऽपि अर्थापत्तिगत भेदोऽपि । भिन्नत्वं भेदविषयकत्वम् । सर्वभिन्नत्वं सर्वस्मात् भिन्नत्वम् | अद्वैतवादिनं अद्वैते सन्दिहानम् । तथा चाद्वैते विप्रतिपत्तिकाले स्वातिरिक्त सर्वत्वनिर्णयासम्भव इति भावः ।
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
अद्वतमञ्चरी ।
स्वतेति । तथा च भेदग्राहकं यद्यज्ज्ञानं, तत्र तत्र तत्तदन्यसर्वभिन्नत्वमर्थापत्तिविषयो वाच्यः । एवञ्चोक्तज्ञानस्य प्रत्यक्षार्थापत्त्याद्यनन्तत्वेनानुगतरूपं विना पक्षतया साध्यघटकतया च न तन्निर्देशसम्भवः । न च भेदग्राहकत्वेन तेषामनुगम इति वाच्यम् । भेदग्राहकभिन्नभेदस्य साध्यत्वे भेदग्राहकाणां मिथो भेदस्यार्थापत्त्यविषयतया तेष्वेवाद्वैतश्रुत्यवकाशादिति भावः । नानात्वात्। तत्तद्धर्मावच्छिनप्रतियोगिताकभेदत्वरूपत्वात् । विश्रान्ताविति । तत्तदनन्तधर्मावच्छिन्नप्रतियोगिताकभेदानां दुर्जेयत्वात् क्वचित् कस्य चित् भेदज्ञानासम्भव इत्यपि बोध्यम् । तथाहीति । प्रपञ्चस्येति शेषः । सर्वाभेदे उक्तार्थापत्तिविषये सति । स्वाभेदः स्वाभेदापत्तिः । कथमित्यादि । चरमज्ञाने आदौ लब्धपदा पश्चात् सर्वाद्वैतविषयेति कथमित्यर्थः । द्रागेव युगपदेव । प्रामाण्यमित्यादि । यत्र प्रत्यक्षादिना भेदो न गृहीतः, तत्र श्रुतेरबाधितविषयकत्वम् । प्रत्यक्षादिविषये तु सर्वत्र श्रुतेः प्रवृत्त्या प्रत्यक्षादिकं न बाधितविषयकं सम्भवति । अतः श्रुतिः प्रत्यक्षादिवाधिका । एवं श्रौतमद्वयज्ञानं सर्वद्वैतोच्छेदकत्वेन बाधकत्वाभिमतत्रत्यक्षादिस्वरूपोच्छेदकम् । अतः प्रत्यक्षादिकं न तद्बाधकम् । बाध्यज्ञानोत्पत्त्युत्तरकाले हि बाधकमनुच्छिन्नस्वरूपं वाच्यम् । सर्वकल्पनामूलोच्छेदकत्वादपि श्रौतज्ञानमवाध्यम् । तदुक्तं खण्डने-'प्रवृत्तेनाप्यनौचित्यमूलं येन न लूयते । तत्रानौचित्यसाम्राज्यं वैपरीत्यात्तु नात्र तत् ॥' इति । अत्राद्वैतज्ञाने इ. त्यादिरीत्या श्रुतेः बाध्यत्वशङ्कानिरासेन प्रामाण्यं व्यवस्थापयतामस्मदीयज्ञानानामेव क्रमेणोत्पत्तिः । श्रुत्या तु युगपदेव सर्वाद्वैतं बोध्यते । न तु प्रत्यक्षाद्यगृहीतभेदके चरमज्ञाने वा प्रथमतः पश्चादन्यत्राद्वैतं बोध्यत इति भावः । न स्यादिति । प्रत्यक्षादिरूपेणायोग्यताज्ञानेन प्रतिबन्धादिति शेषः । अत्यन्तासति विपरीततया निश्चिते कलहादिस्थल इति शेषः । अबाधादिति । कलहादिस्थले वाक्यार्थज्ञानस्यानाप्तवाक्यनन्यत्वादिना भ्रमत्वेऽपि श्रौतज्ञानस्योक्तरीत्या प्रमात्वे ज्ञानरूपबाधासम्भवादित्यर्थः । स्वतःप्रामाण्यनिश्चलां स्वतस्सिद्धप्रमात्वेनाप्रामाण्यज्ञानानास्कन्दिताम् । विपरीतज्ञानरूपायोग्यताज्ञानप्रतिवध्यता परोक्षापरोक्षसाधारणरूपेण न सम्भवति । प्रत्यक्षस्येच्छाविषयस्याप्रतिबध्यत्वेन तव्यावृत्तत्वरूपेणैव तस्याः वाच्यत्वात् । अत एवोक्तं मणिकारेण-'प्रत्यक्षादावुत्पन्ने ज्ञाने अप्रामाण्यमासज्यते बाधेन। अनुमिती तु उत्पत्तिरेव प्रतिबध्यत' इति । तथा च परोक्षस्यानुमितित्वेनैव प्रतिबध्यत्वम् । विपरीतधीसत्त्वे उद्बोधकसत्त्वे मानाभावेन तदभावादेव स्मृत्यनुत्पादात् अनुगतोद्बोधके मानाभावात् । मावे वा कलहादिस्थले शाब्दज्ञानस्य विपरीत
For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे अद्वैत श्रुतेर्बाधोद्धारः] लघुचन्द्रिका
२९७
निश्चयाप्रतिवध्यत्वात् शाब्दधीव्यावृत्तेन जातिविशेषेणैव प्रतिबध्यत्वम् । एवं योग्यताज्ञानस्य शाव्दधीहेतुत्वेऽपि न मानम् । इतरकारणकलापे सति तद्विलम्वेन तदविलम्बादिति भावः । श्रुत्यैवेत्येवकारार्थो विवक्षितः । स च ज्ञानमिथ्यात्वस्य विषयमिथ्यात्वसाधकत्वव्यवच्छेदः । श्रुतेर्बोधकत्वं तु नात्र विवक्षितम् । तेन एतेनेत्यनेन न पौनरुक्त्यम् । मिथ्यात्वादिति । विषयमिथ्यात्वमिति शेषः । विचारे इति । प्रकृतविचारे चेति शेषः । दर्शितत्वादिति । न चाद्वैतज्ञानवता द्वैतवादिनं प्रति श्रुतिप्राबल्योपन्यासे तदीयव्यवहारव्याघात इति वाच्यम् । अद्वैतज्ञानेन प्रपञ्चस्य बाधितत्वेऽपि भुज्यमानकर्मणा प्रतिबन्धेन भोगशेषानुकूलप्रतिभासानिवृत्त्या व्यवहारसम्भवात् । तदुक्तं खण्डने-नानात्वमवलम्ब्यापि वदत्यद्वैतवादिनि । असिद्धभेदात् व्याघातः पतेदापादकात् कुत' इति । असिद्धभेदात् आसेद्धो बाधितः आपाद्यादितो भेदो यत्र तस्मात् । आपादकात् यदि त्वं अद्वैतज्ञानवान् , तदा व्यवहारवान् न स्यादित्यस्मात् । बाध्यबाधकयोः आपस्सर्वमिति ज्ञानप्टथिव्यादयो नाप इति ज्ञानयोः । उपपत्तेरिति । जले सवस्येति शेषः । बाधकाभेदः बाधके बाध्याभेदः । बाध्यबाधकैक्येति । सर्वाद्वैतेत्यर्थः । निर्वाध सदिति । बाधकत्वाभिमतमद्वैतज्ञानं तद्भिन्नत्वेन निश्चितं अ. तस्तेन भेदज्ञानं बाध्यतया न निश्चेतुं शक्यत इति भावः । हेत्वभावादिति । अद्वैतज्ञानं साक्षिणा तद्भिन्नत्वेन न गृह्यते । स्वस्मिन् स्वाभेदविषयके च शाब्दबोधे विपरीतधीन विरोधिनीत्युक्तमिति भावः । पूर्वोक्तेति । भेदज्ञानस्य स्वस्मादपि भेदसिध्यापत्त्या बाधकत्वाभावापत्तिः । स्वातिरिक्तसर्वभेदविषयकत्वे वाच्ये अद्वैतवादिनं प्रत्यसिद्धिरित्यादीत्यर्थः । 'आपो वे' त्यादिनारायणीयोपनिषद्वाक्यस्य स्तुतिपरत्वेनाभेदपरत्वाभावात् भेदप्रत्यक्षादुर्बलत्वं सर्वं न सर्वमित्यादिवाक्यस्यानाप्तोक्तत्वेन घटो न घट इत्यादिवदपार्थकत्वेन च तथात्वमित्यपि बोध्यम् । ननु, 'इदं वाग्रे नैव किञ्चन आसी'दिति श्रुतिः 'विमतं असत् ज्ञेयत्वा'दित्यनुमानञ्च खबाधकम्य सत्यादिवाक्यस्यासत्त्वं गृहीत्वा सर्वासत्त्वं बोधयेत्तत्राह-सर्वासत्त्वमिति । प्रत्यक्षादिगृह्यमाणस्यालीकत्वं वक्तुमशक्यम् । अतो मिथ्यात्वरूपमसत्वं वाच्यम् । तच्चेष्टम् । वस्तुतस्तूक्तवाक्यं व्याकृतप्रपञ्चनिषेधमग्रकाले बोधयतीति भावः । श्रुत्या 'एकमेवाद्वितीय'मित्यादिश्रुत्या । मिथ्यात्वमिति । अद्वितीय. पदस्य सद्वितीयत्वेन ज्ञाते ब्रह्मणि द्वितीयशून्याभेदबोधनादिति शेषः । ब्रह्माभिन्नत्वमिति । अद्वितीयपदस्य द्वितीयत्वरूपविशेषणनिषेधपरत्वेनेति शेषः । ब्रह्मद्वितीयत्वस्य ब्रह्मभेदव्यापकतया द्वितीयत्वनिषेधात् भेदनिषेधस्यार्थिकतया
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
अद्वैतमञ्जरी ।
पुरुषार्थवासाद्यमे । सदूषणरुषार्थत्वादीत्ययः । इदमित्यादि
लामः । एकादिपदस्य तु भेदशून्यरूपकेवलवाचकत्वेन सङ्कोचकाभावात् सर्वभेदशून्यबोधकत्वमिति भावः । गौरोऽहमित्यादि । तथा च श्रुतीनां पूर्वापरविरोध इति भावः । अप्रामाण्यं स्यादिति । सर्वस्य सर्वाभिन्नब्रह्माभेदेन सर्वाभिन्नत्वादिति शेषः । द्वितीयपक्षेऽपि 'नेह नाना' 'अतीन्द्रियमविषयम्' इत्यादिश्रुतिभिः मिथ्यात्वेन बोधिते प्रपञ्चे 'सर्वं खल्विदं ब्रह्मेति श्रुत्या ब्रह्माभेदबोधानुपपत्तिः बोध्या। उपादानोपादेययोस्सामानाधिकरण्ये पराभ्युपगतं दृष्टान्तमाह-मृद्घट इति । सत्यानृतयोस्सामानाधिकरण्ये पराभ्युगतं दृष्टान्तः-इदमित्यादि । तत्तदसाधारणति । दुःखादिमात्रवृत्त्यपुरुषार्थत्वादीत्यथः । तत्र तत्र मोक्षानन्दादौ । तत्तदभेदे दुःखाद्यभेदे । सदूपेण सदभिन्नत्वेन । तत्तदसाधारणेति । दुःखत्वापुरुषार्थत्वादीत्यर्थः । असत्त्वात् निषेधयोग्यत्वात् । काले कालोपलक्षितमुक्तात्मादौ । भेदाभेदादीति । भेदो दृष्टान्तत्वेनोक्तः । अत एव द्वितीयमात्रस्य सद्रूपे ब्रह्मणि कल्पितत्वादेव । तत्तद्धर्माणां भेदानां द्रव्यगुणादिरूपमेद्यानां च । स. वशून्याया इति । भेदभेद्यसामान्याभावत्वव्यावृत्ताकारेणोपलक्षिताया इत्यर्थः । न पारिभाषिक इति । यादृशभेदस्य ज्ञानं यद्विषयप्रमयोच्छेद्यं, तादृशभेदविरोधी अभेदः स एव । भेदमात्रस्य ज्ञानञ्चाखण्डोक्तव्यक्तिप्रमयोच्छेद्यम् । उक्तव्यक्तेः सर्वाधिष्ठानत्वादुक्तव्यावृत्ताकारोपलक्षितत्वाच्च । अतः सैव व्यक्तिः सर्वभेदविरोध्यभेद इति भावः । सर्व ब्रह्माभिन्नमिति मते इति । द्रव्यगुणादिकं द्रव्यत्वगुणत्वाद्यवच्छिन्ना या ब्रह्मभेदाभावानुयोगिता तद्वद्भवति । श्रुत्यापि तादृशभेदाभावो बोध्यत इति मते इत्यर्थः । मतान्तरमाह-मिथ्येत्यादि । एकमेवेत्यादिश्रुत्या मिथ्यात्वेन बोधितेत्यर्थः । सद्रूपेणैव द्रव्यादेब्रह्मभेदाभावानुयोगित्वम् । न तु द्रव्यत्वादिना । तेन रूपेण ब्रह्मभेदानुयोगित्वस्य सत्त्वेन विरोधात् । अत एव ब्रह्मभेदस्य पारमार्थिकत्वेनैवाभावः तत्र स्वीक्रियते । न तु ब्रह्मभेदत्वेन । येन रूपेण प्रतियोगी यत्र वर्तते, तेन रूपेणाभावस्य तत्रानभ्युपगमात् 'सर्वं खल्विदं ब्रह्मे' ति श्रुत्याप्युक्तानुयोगित्वमेव बोध्यते । तदेतन्मतमभ्युपेत्यवादः । उक्तं हि द्वितीयमिथ्यात्वलक्षणे आचार्यैरेव ---नात्र रजतमिति बाधेन 'नेह नाने त्यादिश्रुत्या च खरूपेणैव निषेधः । न तु पारमार्थिकत्वेनेति । न प्रत्यक्षेत्यादि । आद्यमते 'नेदं रजत'मित्यादिप्रत्यक्षादिविरोधो न । द्वितीयमते 'सर्वं खल्विदमित्यादिश्रुतिविरोधप्रयुक्तः पू
पिरश्रुतिविरोधो नेत्यर्थः । सलिलशब्दस्य सलिलवाचकशब्दस्य । तेन तत्सादृश्येत्यत्र तच्छब्दस्याप्रक्रान्तसलिलबोधकत्वम् । स्वच्छखेति । सलिलवत् स्वच्छइति बृहदारण्यकभाष्ये व्याख्यानात् स्वच्छवोधकं सलिलपदम् । तस्य नपुंसक
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद अद्वैतश्रुतेर्बाधोद्धारः]
लघुचन्द्रिका ।
२९९
त्वेऽपि स्वच्छवोधकत्वे वाच्यलिङ्गत्वात् पुंस्त्वम् । सलिलमिवाचरतीत्याचारार्थक्विप्प्रत्ययान्तात् पचाद्यच्प्रत्ययसम्भवात् ‘सर्वप्रातिपदिकेभ्यः क्विप्' इत्याचारार्थे क्विप्प्रत्ययानुशासनात् । सलिलवदाचारश्च सर्वमलासंसर्गित्वम् । यत्तु 'आपो वा इदमासन् सलिलमेवे' त्यादिश्रुतेः सृष्टिपूर्वकाले अद्वितीयो द्रष्टा परमात्मा सलिले भवतीत्यर्थ इति, तन्न । उक्तवाक्यस्य त्वंपदार्थबोधकप्रकरणस्थत्वेनोक्तार्थस्यानन्वयात् । न च द्वैताद्वैतयोभिन्नसत्ताकत्वेनाविरोधित्वेऽपि द्वितीयाभावोपलक्षितब्रह्मज्ञानस्य द्वितीयविशिष्टब्रह्मविषयकत्वासम्भव इति वाच्यम् । पारमार्थिकत्वेन यो द्वैताभावः,तदुपलक्षितब्रह्मज्ञानस्य तत्सम्भवात् द्वैतमूलोच्छेदकस्यैव द्वैतविशिष्टब्रह्मविषयकत्वासम्भवाच्च । सदभेदेनेत्यादि । सदभेदविशिष्ट प्रपञ्च आसीदित्यर्थं प्रतिपाद्येत्यर्थः । तनिषेथे व्याघातः सत्त्वस्य प्रपञ्चे प्रतीतस्य व्याघातः । ननु, सदभिन्नस्य सत्त्वमेवाद्वितीयत्वं न विरुद्धम् । सदात्मनोभयोः सम्भवात्। तत्राह-नहीत्यादि । सद्रूपमात्रस्य न सत्त्वमुच्यते । किं तु सदभिन्नप्रपञ्चस्य । तथा च तनिषेधे नासत्त्वरूपमिथ्यात्वस्य तत्र लाभादासोदित्यनेन सत्त्वलाभाद्विरोध इति भावः । घ. टादिकं स्वोत्पत्तिपूर्वं मृदेवासीदित्यादौ यथा घटाद्यभेदोपलक्षितमृदेवासीदित्यर्थः । तथा प्रकृतेऽपीदमभेदोपलक्षितसदेवाग्र आसीदित्यर्थ इत्याशयेनाह-सव्यतिरेकेणेति । सदन्यरूपेणेत्यर्थः । सदन्यदिति शेषः । निषेधार्थत्वात् सदेवेत्येवकारार्थत्वात् अद्वितीयादिपदार्थत्वाच्च । एवं च प्रपञ्चे सत्यसम्बन्धो न बुद्ध्यतइति नोक्तविरोधो विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदार्थकत्वेन सदन्यसामान्येऽग्रकालासत्त्वबोधकत्वमिति भावः । असत्त्वोक्तौ अग्रकालासत्त्वोक्तौ अद्वितीयादिपदैः सदन्यसामान्यस्य निषेधोक्तौ च । सदात्मना सदैक्येन। ब्रह्माभिन्नस्यति । ब्रह्मैक्यापन्नस्येत्यर्थः । ब्रह्मैक्यरूपेणेति यावत् । विभीयादिति । नन्वयकालासत्त्वस्याग्रकालीनाभावप्रतियोगित्वस्य वा सदन्यसामान्ये बोधनेऽपि न मिथ्यात्वसिद्धिः । व्याहतप्रपञ्चस्य स्वकाले स्वसमानाधिकरणाभावप्रतियोगित्वासिद्धेरिति चेन्न । उक्तासत्त्वप्रतियोगित्वयोः न प्रकृते धीः । किं त्विदमभिन्नं अग्रे यदासीत् तत् सदेव । एकमेवाद्वितीयमित्येवमुद्देश्यविधेयभावस्य विवक्षितत्वात् अग्रे विद्यमानमनूद्याखण्डसद्वितीयविधानात् अग्रकालविद्यमानत्वोपलक्षिते वस्तुनि अख'ण्डसद्वितीयस्यैव धीः । तथा चावान्तरतात्पर्येण द्वितीयसामान्यस्य मिथ्यात्वधीः । एवं चाग्रादिपदानि न व्यर्थानि । शून्यवादिनो हि सृष्टिपूर्वकाले सद्वस्तु नाङ्गीकुर्वन्ति । तदङ्गीकुर्वन्तोऽपि तार्किकादयो नाद्वितीयमङ्गीकुर्वन्ति । तत्र सदित्यनेनाद्यानां निरासः । अद्वितीयादिपदैस्तु द्वितीया
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वतमञ्जरी ।
नामिति सार्थक्यात्। नन्वतात्त्विकाद्वैतमद्वैतवाक्यस्य तात्त्विकं द्वैतं द्वैतवाक्यस्यार्थोऽम्तु । द्वैतवाक्यमध्यस्थस्याद्वैतवाक्यस्य उपांशुयाजवाक्यमध्यस्थविष्ण्वादिवाक्यस्येव स्तुत्यादिपरतया नेतुं शक्यस्वात् । तत्राह-अद्वैतवाक्यस्येति । आविद्यकेति । 'फलवत्सन्निधावफलं तदङ्ग' मिति न्यायेन द्वैतवाक्यानामद्वैतवाक्यशेषत्वात् निषेधापेक्षितप्राप्तिप्रयोजकत्वादिनोपयोग इति भावः । पदानाम् अद्वितीयादिपदानाम् । प्रकृतेति । एकमेवाद्वितीयमितीत्यर्थः । वाक्या?ति । अद्वितीयत्वाद्युपलक्षिताखण्डब्रह्मेत्यर्थः । प्रथमादिरूपस्याद्वितीयादिपदार्थस्य न केवलमखण्डवाक्याथविरोधित्वात् निरासः। किं त्वसम्भवादपीत्याह-तत्रेत्यादि । द्वितीयत्वादिति । तयोः प्रथमत्वादिना नाद्वितीयपदबोध्यता । किं तु द्वितीयान्यत्वादिना । सा च न सम्भवति । द्वितीयत्वादिति भावः । भेदत्रयेति । भेदभेद्यमात्रस्य द्वितीयत्वादद्वितीयपदेन दृश्यमात्रनिषेधसम्भव इति भावः । अपेक्ष्येति । विजातीयद्वितीयत्वावच्छिन्नप्रतियोगिताकनिषेधोऽथ इति भावः । सङ्कोचो द्वितीयपदस्य विजातीयद्वितीयपरत्वम् । एकावधारणद्वैतप्रतिषेधैरिति । एकपदेन एवकारेण अद्वितीयपदेन चेत्यथः । अत्राद्वितीयपदेन विजातीयद्वितीयनिषेधादर्थात्तादृशद्वितीयभेदो निषिध्यते । अथवा 'आत्मा वा इदमेक एवाग्र आसीत् नान्यत्किञ्चन मिष'दिति वाक्ये मिषदिति पदं आसीदित्यर्थकमित्यैतरेयभाष्ये व्याख्यानात् तदेकवाक्यतया प्रकृते द्वितीयपदस्यान्यार्थकत्वात् लक्षणायाश्चावश्यकत्वे द्वित्वसङ्खयापूरकत्वत्यागनात्मान्यविजातीयत्वेन लक्षणाया एव युक्तत्वात् तादृशत्वेनैकरूपेण निषेधे भेदस्य निषेधस्य च निषेधस्सिध्यति । विशेषणस्य भेदस्यापि विशेष्यीभूतभेद्यस्येव निषेधे बाधकाभावात् । एवमेकपदस्य केवलार्थकतया कैवल्यस्य च स्वान्यसर्वशन्यत्वरूपत्वेऽपि प्रकृते सङ्कोचेन जीवेश्वरादिरूपं यदात्मान्यत् सनातीयं तच्छून्यत्वरूपत्वेन तद्वोधकत्वात् भेदनिषेधबोधकत्वम् । एवकारस्यान्यतादात्म्यव्यवच्छेदकत्वेऽपि प्रकृते सङ्कोचेनात्मान्यस्यात्मविजातीयस्य पृथिव्यादेस्तादात्म्यव्यवच्छेदबोधकत्वम् । तथा च शाब्द एव भेदनिषेधः । एवं च भेदत्रयस्य पदत्रयेण निषेधोक्तिः प्र. कृतश्रुतेः ब्रह्मभिन्नसर्वमिथ्यात्वे पर्यवसानोक्तिश्च न व्याहता । यदि तु भेदानामेव शाब्दो निषेधः, भेद्यानां त्वार्थ इत्युच्यते, तदा द्वितीयसामान्याभावे श्रुतेरवान्तरतात्पर्यसङ्गतावपि भेदमात्रनिषेधपरतया सङ्कोचे मानाभावः । विजातीयादिभेद्यानामपि द्वितीयादिशब्दैर्बोधेन सम्भवादिति ध्येयम् । ननु, पृथिव्यादिकं न ब्रह्मसजातीयम् । ब्रह्मणो द्रव्यत्वास्वीकारपक्षे तत्त्वासम्भवात्तत्राह-अथवेति । चैतन्यभेद इति । स्वभिन्नत्वे सति चिदात्मकत्वं साजात्यं जीवादौ वर्तते ।
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे अद्वैतश्रुतेर्बाधोद्धारः] लघुचन्द्रिका ।
तेन तन्निष्ठभेदः सजातीयभेदः । स च ब्रह्मण्यपि प्रसक्तः। ब्रह्मणः सर्वानुगतत्वात् । अतः तम्य निषेध इति भावः । स्वगत इति। ज्ञानानन्दादिवरूपे बलवर्गस्यारोपितत्वात्तद्गतो भेदः स्वगतभेदः। यदि चेन्यनेनास्वारस्यं सूचित, तदुच्यते-व्यावर्तकपदान्तरयुक्तस्य यद्धर्मविशिष्टवाचकपदस्य सन्निहितं द्वितीयपदं तद्धर्मविशिष्टद्वितीयमभिधत्ते । तथा चास्य गोद्वितीय इत्यादौ व्यावर्तकेनास्येति पदेन युक्तस्य गोपदस्य सन्निहितेन द्वितीयपदेन गोरूपद्वितीयबोधनेऽपि प्रकृते व्यावर्तकपदान्तराभावान्न सजातीयद्वितीयबोधकत्वम् । अत एव 'द्वितीयगामी न हि शब्द एष न' इत्यादौ द्वितीयसामान्यबोधकत्वम् । सजातीयव्यक्त्यन्तराभावादपि न सजातीयद्वितीयपरत्वम् । यद्धर्मविशिष्टविषयकबोधे तात्पर्यं तद्धर्मेणैव हि साजात्यं वाच्यम् । न च प्रकृते किञ्चिद्धर्मविशिष्टबोधपरत्वम् । अखण्ड वीपरत्वात्' इति । अथवेत्यादि । जीवेशादेरिव प्रपञ्चस्यापि विकल्पितचिदात्मकत्वमादाय सजातीयत्वसम्भवः । चि. स्वरूपत्वं तु न जीवादेः । उपहितादिरूपेण मिथ्यात्वात् । एवं ज्ञानानन्दादेरपि सजातीयत्वम् । कल्पितभेदचिदात्मकत्वयोः सत्त्वात् । तथा च सजांतीयानेष्ठभेदोपहितरूपेण ज्ञानानन्दादेडानां च निषेधसम्भवात् रूपान्तरेण स व्यर्थः । किं च सनातीयब्रह्मान्यत्वादिरूपेण पदत्रयस्य लक्षणैव वाच्या। द्वितीयगामो' त्यादौ स्वान्यत्वेन लघुरूपेणापि प्रयोगस्याभाक्तस्य सत्त्वेनोक्तगुरुरूपेण शक्त्यसम्भवात् । तथा च द्वितीयपदस्य स्वान्यसामान्यबोधकत्वस्य मुख्यवृत्त्यैव सम्भवादद्वितीयपदस्यैव द्वितीयसामान्यनिषेधपरत्वसम्भवेन पदान्तरं तस्य तत्परत्वग्राहकमिति युक्तम् । न चाद्वितीयपदस्यैव पदान्तरतत्परत्वग्राहकत्वं कि न स्यादिति वाच्यम् । तथा सत्यक्षरत्रयात्मकद्वितीयपदनञ्पदयोः स्वार्थपरत्वाभावकल्पनस्यान्याय्यस्यापत्तेः । न चैकावधारणपदयोरद्वितीयपदात् प्राथम्यमेव स्वार्थपरत्वे नियामकमुपक्रमन्यायादिति वाच्यम् । द्वितीयपदनपदयोरेकादिपदयोरेकैकापेक्षया भूयस्त्वेन तयोरेव स्वार्थ परत्वस्यौचित्यात् 'विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्व'मिति न्यायस्योपक्रमन्यायापवादकत्वात् अद्वयानन्दविज्ञानयन एवाहमस्मीत्यादिश्रुत्यन्तरे अद्वयपदस्यैव मुख्यत्वाच्चेति भावः । अन्यप्रधानेत्यादि । 'प्रजामेका रक्षत्यूर्जमेका' इत्यादावन्यार्थः । 'एकपुरुषो धनुष्मा नित्यादौ प्रधानार्थ एकहल्मध्येऽनादेशादेरित्यादावसहायार्थः । एको द्वावित्यादौ सङ्ख्यार्थः । एकेऽल्पप्राणा इत्यादौ प्रथमार्थः । अल्पप्राणा लघुप्रयत्नोच्चारणीयवर्णाः । तेनैकदिक् इत्यादौ समानार्थः। 'एतावेकधना'पित्यादौ साधारणार्थोऽपी'ति पदमञ्जरी। ष्णान्तेत्याद्यष्टानामित्यत्र 'अष्टन आ विभक्ता वित्यनेनात्वे कृते नान्तत्वाभावात् षट्संज्ञा न स्यात् । ततश्च षट्चतुयश्चेत्यनेन
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
अद्वैतमञ्जरी ।
नुमपि न स्यादित्याशङ्कय पट्मंज्ञायामुपदेशवचनं शताद्यष्टनाद्यर्थमिति समाधाय अथवा पकारनकारान्ता सङ्ख्या षट्संज्ञकेत्यर्थ इति समाधानान्तरमुक्त्वा तार्ह एकास्ता इत्यादौ 'षड्भ्यो लुगि'ति लुक् स्यादित्याशङ्कय एकशब्दोऽयं नानार्थ इत्याद्युक्त्वा योऽन्यार्थे वतते तस्यैवायं प्रयोग इति समाहितम् । प्राधान्य चेति । यद्यपि प्राथम्यादिकमपि तदर्थ इति परणाशङ्कितं, तथापि सर्वकार्यमूलकारणत्वबोधकपदेभ्योऽपि तल्लाभादविद्यादृष्टादिसहायापेक्षत्वेनासहायत्वासम्भवात् अद्वितीयत्वविरोधिनः सङ्ख्यादेरभावात् एकवचनेनैव प्राप्तिसम्भवाच्च सर्वलीलाविनहाणां नानाविधतत्तत्कार्यकारित्वेन कार्यतस्साम्याभावात् सर्वशरीरावच्छिन्नेशव्यक्तेरेकत्वेनैव गुणतस्साम्याभावात् तद्भिन्नत्वे सति तद्गुणजातीयगुणवत्त्वस्यैव गुणतरसाम्यत्वात् अ. सहायत्वं कैवल्यम् । तच्च एकहल्मध्ये इत्यादौ सङ्कोचमानवलात् स्वरेतरायुक्तत्वादिरूपम् । प्रकृते सङ्कोचकाभावात् स्वान्यसामान्यशून्यत्वमेवेति तदर्थकमेकपदमस्मदिष्टम् । प्राथम्यं तु प्राधान्यमेव । यत्तु तेनैकदिगिति सूत्रे सुदाम्ना पर्वतेन सहकासमाना दिगस्या इति सौदामिनीत्युक्त्या समानार्थकत्वकल्पनं तत्र युक्तमेकजातीयत्वेन समाने गौणप्रयोगसम्भवात् एकधनावित्यादावपि एकजातीययथेष्टविनियोगार्हत्वेन गौणः । तथा च सुदाम्नः सदृशदिक्सौदामिनी मुदामाख्यपर्वतयुक्तदिक्सदृशदिग्युक्तेति यावत् । चैत्रमैत्रौ सदृशधनौ चैत्रो मैत्रीययथेष्टविनियोगार्हधने यथेष्टविनियोक्तति यावत् । अत एवामरः प्रथमाद्यर्थं नोक्तवात् । इत्यतश्चान्यत्वं प्राधान्यं चेति द्वयमेवाचार्यरुक्तम् । तदुभयमप्यद्वितीयपदविरुद्धत्वेन यद्यपि सङ्ख्यातुल्यं, तथापि एकवचनात् सा प्राप्ता । तत्तु स्रष्टत्वादिना प्राप्तमपि. न शब्दादित्यतः सा नोक्ता । एनमन्यानीति । नेह नानेत्यादीनि प्रपञ्चे ब्रह्मणः पृथग्भावनिषेधकानि । अथवा 'महान्तं विभु'मित्यादिनोक्तानां धर्मादीनां ब्रह्मणि नानात्वेन निषेधकानि विभुत्वादिधर्मादिकं ब्रह्माणि नानासन्नास्तीत्यर्थः । पूर्वोतेति । अद्वैतब्रह्मणः प्रकरणितया तदनुसारेण नानाभूतस्य किञ्चनेति पदोपस्थापितस्य दृश्यमात्रस्य निषेधौचित्यात् । अन्यथा विभुत्वादिधर्मादीनां निषेधे किञ्चनेत्यस्य सङ्कोचापत्तेः । ब्रह्मपार्थक्यस्य प्रपञ्चे निषेधस्तु न युक्तः । नानापदेन पार्थक्योक्तौ किञ्चन पार्थक्यं ब्रह्मणि नास्तीत्येव निषेधस्स्यात् । प्रपञ्चस्याधिकरणत्वबोधकपदाभावात् । न चास्त्युक्तनिषेध एवोक्तवाक्यार्थ इति वाच्यम् । कठवल्यां तादृशवाक्यपूर्व यदेवेह तदमुत्रेत्यनेन तस्य सिद्धत्वात् । अथ चदेवेत्युक्तप्रपञ्चमानं नेह नानेत्यत्रेहशब्देनोच्यते । तथा च तत्र ब्रह्मणः पार्थक्यं निषिध्यते । य इह नानावेत्यत्रेहशब्देन ब्रह्मण उक्तत्वादिति चेन्न । इहशब्द
For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे ज्ञाननिवत्यत्वान्यथानुपपत्तिः लबचन्द्रिका ।।
स्य हि पूर्वोक्तहशब्दसमानार्थकत्वे प्रपञ्चमात्रं वदेदतोऽमुत्रेत्यप्युच्यते । य इहे. त्यत्र विद्यमानेन इहशब्देन तु ब्रह्मणो न पार्थक्ये प्रतियोगित्वेनोपस्थितिः । तथा च प्रतियोगिविशेषानुपादानात् पार्थक्यसामान्यस्यैव निषेधादस्मदिष्टसिद्धिः । किञ्चनेति पदवैयर्थं च । ननु, गुणगुणिभावावयवावयविभावादिप्रयुक्तं यद्यत् ब्र. ह्मणः प्रपञ्च पार्थक्यं, तत् किमपि प्रपञ्च नास्तीत्यर्थलाभार्थकत्वेन तत्सार्थकमिति चेन्न । नानाशब्दस्य स्वार्थिकनाञ्प्रत्ययान्तनशब्दत्वेन निपातत्वात् तदर्थे पार्थक्ये किञ्चनेति शब्दार्थस्याभेदान्वयाभावात् । विस्तरस्तु बृहच्चन्द्रिकायां द्रष्टव्यः ॥
इति लघुचन्द्रिकायां सर्वाद्वैतश्रुतेः प्रत्यक्षादिविरोधोद्धारः॥ तरति अत्यन्तमुच्छिनत्ति । शोकं भीतिहेतुं द्वैतमिति यावत् । भिद्यते नाश्यते । हृदयग्रन्थिः अहङ्कारः । छिद्यन्ते कारणोच्छेदादुच्छिद्यन्ते । श्रुतिबोधितेति । 'धातुसम्बन्धे प्रत्यया' इत्यनुशासनाज्ज्ञाननिवर्त्यत्वं श्रुतिबोधितम् । जन्यजनकभावसम्बन्धस्यैव निवृत्तिज्ञानयोर्बोधात् । अथवा यत आत्मविदतस्तरतीतिश्रुत्यर्थ इति भावः । बन्धमिथ्यात्वे दृश्यमात्रमिथ्यात्वे । अधिष्ठानप्रमात्वमिति। ननु,मिथ्यानिष्ठप्रतियोगितासम्बन्धेन नाशं प्रति स्वसमानविषयकाज्ञानतत्प्रयुक्तान्यतरत्वसम्बन्धेन प्रमात्वेग हेतुतेति भावः । ननु, दृश्यनिष्ठप्रतियोगितासम्बन्धेन नाशं प्रति प्रमात्वेन हेतुत्वमस्तु । यन्निष्ठेत्यादिवक्ष्यमाणनियममूलीभूतहेतुत्वानां मयापि स्वीकारान्न घटादिप्रमया पटाद्यज्ञाननाशः । तथा चाकाशादेरज्ञानानुपादानकत्वेऽपि व्यावहारिकदृश्यनाशे मूलाज्ञाननिवृत्तेर्हेनुन्वकल्पनादाकाशादेरात्मज्ञाननितय॑त्वस्य श्रौतस्योपपत्तिः । शुक्त्यादिप्रमाया अपि शुक्त्याद्यज्ञाननिवृत्तौ शुक्तिरूप्यादिनिवृत्ति प्रति विशिष्यहतुत्वेन क्लुप्तायां हेतुत्वम् । न तु शुक्तिरूप्यादेरज्ञानप्रयुक्तत्वात् ज्ञाननाश्यत्वम् । येन तत्र क्लुप्तसामान्यहतुत्वेनैवाकाशादिनाशसिद्धिः । शुक्तिरूप्यादेर्माध्वादिमते तुच्छत्वेनाज्ञानाप्रयुक्तत्वात् । एवं चाकाशादेरज्ञानप्रयुक्तत्वासिध्या मिथ्यात्वासिद्धिरत आह--एतादृशनियमानभ्युपगम इति । नियमान्तराकल्पनेनेति । शुक्तिरूप्यादिनिवृत्तौ शुक्त्यज्ञानादिनाशस्य विशिष्य हेतुत्वकल्पनमूलकनियमाकल्पनेनेत्यर्थः । आत्मप्रमानिवर्त्यत्वे आत्मप्रमाजन्येनात्माज्ञाननाशेन निवर्त्यत्वे । तदज्ञानकल्पितत्वं तदज्ञानप्रयुक्तत्वम् । सामान्यतो मिथ्याभूतप्रतियोगिकनाशे प्रमात्वेनोक्तहेतुत्वेऽपि प्रमाविशेषस्य मिथ्याविशेषनिवर्तकत्वाय यन्निष्ठेत्यायुक्तनियममूलहेतुत्वविशेषस्येव प्रयोजननाशस्य स्वविशिष्टे प्रयोज्यनाशे हेतुत्वस्यापि क्लप्तत्वात् आत्माज्ञाननाशात् प्रपञ्चनाशनिहाय प्रपञ्चस्योक्तप्रयुक्तत्वं कल्प्यते । जीवेशभेदाद्यनादेरप्यज्ञानप्रयु
For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तत्वान्नाशोत्पत्तिः । प्रयोजकनाशं विनाप्यदृष्टविशेषादिना कार्यस्य नाशात् स्वविषयत्वप्रवेशः । निमित्तनाशोपादाननाशोभयसाधारण्येनैव हेतुत्वलाभायोपादानत्वादिकं विहाय प्रयोजकत्वनिवेशः । तच्च निमित्तोपादानसाधारणः अखण्डमविशेषः स्वप्रतियोगिप्रयुक्तप्रतियोगिकत्वसम्बन्धेन नाशविशिष्टनाशं प्रति उक्तप्रयुक्तत्वसम्बन्धेन नाशो हेतुः । प्रतियोगितासम्बन्धेन कार्यत्वमिति भावः । तत्रावच्छंदकं कल्प्यत इति । अवच्छेदकत्वेन क्लुप्तं तत्र कल्प्यत इत्यर्थः । आकाशत्वादिति । अनन्तकार्यकारणत्वमूलकानन्तनियमापत्तरिति शेषः । तुच्छे इति । शुक्तिरूप्यादौ चेति शेषः । अतिप्रसक्तरिति । तुच्छस्यानिवय॑त्वाच्छुक्तिरूप्यादेमूलाज्ञाननाशानाश्यत्वादुक्तरुपं मूलाज्ञाननाशनाश्यत्वातिप्रसक्तमिति भावः । निवर्त्यताप्रयोजकं प्रमाणमात्रनिवर्त्यतावच्छेदकम् । अन्यथेति । सत्यत्वस्वीकारेणाज्ञानप्रयुक्तत्वमस्वीकृत्य मूलाज्ञाननाशं प्रति तत्कालीन दृश्यत्व. रूपेण व्यावहारिकदृश्यत्वेन नाश्यतास्वीकार इत्यर्थः । नियमान्तरेति । उक्त. नास्यताकल्पनमूलकनियमेत्यर्थः । येन रूपेण निवर्तकत्वमिति । येन प्रमात्वेन धर्मेण येन च स्वसमानविषयकाज्ञानतत्प्रयुक्तान्यतरत्वसम्बन्धेन निवर्तकत्वं मिथ्यामात्रनिवर्तकत्वं येन प्रयोजकीभूताज्ञाननाशद्वारेण रूप्यादिनिवर्तकत्वं चेत्यर्थः। येन रूपेण निवर्त्यवमिति । येन मिथ्यात्वेन प्रमासामान्यनिवर्त्यत्वं येनाज्ञानप्रयुक्तत्वेनाज्ञाननाशनाश्यत्वं चेत्यर्थः तद्रूपं विनेति । उक्तसम्बन्धं विना तेन सम्बन्धेन निवर्तकत्वमनुपपन्नम् । उक्तद्वारं विना तद्वारेण निवर्तकत्वमनुपपन्नं मिथ्यात्वं विना प्रमासामान्यनिवर्त्यत्वमज्ञानप्रयुक्तत्वं विना तेन रूपेणोक्तनाश्यत्वञ्चानुपपन्नमित्यर्थः । अधिष्ठानप्रमात्वमवेति । उक्तान्यतरसम्बन्धेन प्रमात्वेन प्रयोजकीभूताज्ञाननाशद्वारा वा निवर्तकत्वं न प्रपञ्चेऽस्ति । येन तत्रोक्तसम्बन्धो मिथ्यात्वं वा कल्प्यमिति भावः । दोषदर्शकत्वेनेति । रम्यत्वसंस्कारस्यारम्यत्वरूपदोषसंस्कार एव नाशकः । विरोधिसंस्कारत्वात् । तद्वारोक्तदोषनिश्चयोऽपि तथेति भावः । एवास्तीति । अस्त्येवेत्यर्थः । तथा च मिथ्यात्वं विनेति यदुक्तं तदसिद्धमिति भावः । हेत्वन्तरेण दृश्यत्वादिना । अज्ञाननाशकेति । तदुपादानाज्ञाननाशकेत्यर्थः । तेन रूपेणेति । तद्रूपव्याप्येत्यर्थः । यद्यपि विहितक्रियात्वेनेति परेणोक्तं, तथापि प्रतियोगित्वादिनापि निवर्तकत्वशङ्कासम्भवात्तामपि निरस्यति-ततेत्यादि । रूपत्वादिति । आकाशादेरधिकवृत्तित्वादिना नाज्ञानप्रागभावत्वमित्यपि बोध्यम् । ननु, दृष्टिसृष्टिपले आकाशादेः मनःपरिणाम
१. 'प्रयोजकीभूतदण्डादे शेऽपि घटाद्यनाशात्स्वविशिष्टत्वस्य नाश्यतावच्छेदके प्रवेशः' इति
निमित्यर्थः । त्यत्वमज्ञानमयुक्तावा तद्वारेण निवता विना तेन सम्मान
पाठान्तरम् ।
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः] लघुचन्द्रिका । त्वात्तादात्म्येन पृथिव्याद्यसम्बन्धित्वेनानधिकवृत्तित्वात् ज्ञानप्रागभावत्वमस्तु । भावस्यापि तस्य स्वध्वंसरूपज्ञानप्रागभावत्वे बाधकाभावात्तत्राह-ज्ञानस्येति । अ सिद्धेरिति । ज्ञानस्य स्वनिवर्तकत्वासम्भवोऽपि बोध्यः । जनकत्वाभावादिति । मनआदेर्जनकत्वेऽप्यसंस्कारत्वात् । न हि जनकमानं फलनाश्यमिति शेषः । दो पदर्शनस्य बहुविधदुःखप्रयोजकत्वादिदर्शनस्य । आकरेषु समन्वयसूत्रभाष्यादि. पु । अज्ञानमातहेतुकत्वेनाज्ञानात्मकमात्रपरिणामकत्वेन । निवतकेति । निवृ. त्तिजनके त्यर्थः । असम्भावनादिरूपदोषाभावस्यात्मनिश्चयनिष्ठायां बन्धनिवर्तनशतो व्याप्यतामात्रम् । प्रतिबन्धकस्य कारणनिष्ठशक्तिनाशकत्वात् । न तु जनकत्वम् । अदृष्टमपि न निवृत्तौ कारणम् । सुखदुःखतजनकेप्वेव तस्य तत्त्वात्। उक्तं च द्रव्यवईमानादौ--'तथा कालस्य हेतुत्वेऽपि ज्ञानमपि काल इति तदन्यमात्रवृत्तिरूपविशिष्टस्यैव कारणस्य प्रकृते व्यवच्छेदान्न दोषः । साधाररणकारणं हि निवृत्तौ प्रतियोग्यपी'ति । तन्न व्यवच्छिद्यते । न हि प्रकृते कालादिकं विधेयम् । न वानुष्ठातुं योग्यम् । येन विशिष्टतया ज्ञानं कृतिसाध्यमिति भावः । इत्यादीत्यादिना 'व्यवहरन्नास्ते माययैव मायया ह्यन्यदिव' 'तम आसीत्' 'मायाम्यमिदं द्वैत' 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्व भूतगुणैर्युक्तं नैवं मां द्रष्टुमर्हसि ॥' इत्यादिश्रुतिस्मृतो बोध्याः । दर्शयतीति: यद्यन्यदपेक्षेत, तदा विद्यासत्त्वेऽपि तद्विलम्बेन कार्य विलम्बेत । विद्यास कार्याविलम्ब तु तदन्यहेतुत्वमप्रामाणिकमिति भावः । तस्मादिति । शुनिल प्यादेाननिवर्त्यत्वं वदता त्वयापि शुक्त्यादिप्रमात्वेन तन्निवर्तकता वाच्छा : गौरवात् । किं तु उक्तरीत्या प्रयोजकाज्ञाननाशद्वारा प्रमामात्रस्य । तथा चात्माज्ञाने प्रपञ्चप्रयोजकत्वस्य श्रुत्यादितो लाघवाच्च सिद्धेरात्मज्ञाने प्रपञ्चनिवर्तक त्वम् । लोकपिद्धत्वादुक्तदोषाच्च न विधेयम् । शुक्तिरूप्यादेर्ज्ञाननिवर्त्य त्वं तु शुक्त्यादिप्रमया तदज्ञानतत्प्रयुक्तं नष्टमित्यनुभवात् दोषादिनिमित्तसत्त्वे ऽपि तन्नाशस्योत्पत्त्या निमित्तनाशनाश्यत्वेनान्यथासिद्धयसम्भवात् इति भावः । उपपत्तरिति । किञ्चिद्विषयकत्वे नियामकाभावेन बाधकामावात् । श्रुत्यादितश्च सर्वविषयकत्वमिति भावः । अन्येषां औपनिषदादीनां तागीश्वरज्ञाने ध्वंसकारणे ईश्वरज्ञाने ईक्षणस्य व्याक्रियमाणकार्य प्रत्येव हेतुत्वेन सूक्ष्मावस्थारूपं नाशं प्रति अहेतुत्वमिति भावः । ननु, सोपादानकार्ये तदुपादानज्ञानादिमत्त्वेनैव कार्यमानं प्रति ज्ञानत्वादिनेशज्ञानादेः हेतुत्वसम्भवात्ताकिकेत्याद्ययुक्तमिति चेन्न । ज्ञानादिमत्त्वेन ज्ञानादिमतो हेतुतां गृण्हदेव हि प्रमा
३९
For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३०६
www.kobatirth.org
भद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
णं ज्ञानादेरपि हेतुतां गृह्णाति । विशिष्टे प्रवृत्तस्य मानस्य विशेषणे प्रवृत्तेरौत्स• गिंकत्वात् । तथा च यादृशमुपादानादिकं विशेषणं तादृशस्यैव कारणत्वं प्रामाणिकम् । न त्वतादृशस्य । ननूक्तरूपेण सेतुदर्शनस्येवाध्ययनादिनियमादृष्टादिविशिष्टरूपेणात्मज्ञानस्यापि विधेयत्वमास्ताम् | अन्यथा अनधीतवेदान्तादिजन्यात्मज्ञानमपि बन्धं नाशयेत् । तत्राह -- यथा च शुक्त्यादीति । निवृत्तिरूपेति । निवृत्तिप्रयोज्येत्यर्थः । वाक्यार्थे असम्भावितत्वज्ञानेन प्रपञ्चसत्यत्वदेहात्मत्वसंस्काररूपविपरीत मावनया च दोषेण बाधितविषयकत्वरूपाप्रमात्वं ज्ञाप्यते । तादृशत्वात्तत्राज्ञाननिवर्तकत्वं प्रमात्वेन ज्ञायमानस्यैव शुक्त्यादिज्ञानस्य तथात्वस्य दृष्टत्वात् । तथा चाध्ययनश्रवणादिनियमादृष्टादेरुक्तप्रमात्वाज्ञाननिवृत्तौ तादृशाज्ञानशून्यप्रमाप्रतिबन्धकपापनिवृत्तौ वा हेतुत्वम् । असम्भावनादिनिवृत्तौ श्रवणादेर्हेतुत्वं प्रमात्वेन निश्श्रीयमानज्ञानत्वेनाज्ञान निवर्तकत्वञ्च क्लृप्तम् । अतो न विधेयम् । न चोक्तनियमविशिष्टरूपेण ज्ञानं विधेयमिति वाच्यम् । ज्ञानोद्देशेनोक्तनियमस्यैव विहितत्वेन तद्विशिष्टज्ञानस्य विधौ मानाभावादिति भावः । ननु, लोके शुक्त्यादिज्ञानस्य पा पनाशनिरपेक्षतयैवाज्ञानकार्यनिवर्तकत्वं दृष्टमतस्तादृशज्ञाननिवर्त्यत्वस्य मिथ्यात्व - व्यापकतया तदभावात् प्रपञ्चे मिथ्यात्वाभावस्तत्राह — आत्मज्ञानस्येति । साध्यत्वं पापनाशद्वारकं जन्यत्वम् । वैधर्म्यमात्रेति । अधिष्ठानप्रमात्वेन निवर्तकत्वं शुक्त्यादेरात्मनश्च ज्ञाने तुल्यम् । शुक्त्यादिज्ञाने काचादिदोष आत्मज्ञाने पापविशेषः प्रतिबन्धकः । तयोर्वैधर्म्यमात्रमप्रयोजकम् । अन्यथा काचादीनां मिथो वैधर्म्यमपि दूषणं स्यादत उक्तव्याप्तिरसिद्धेति भावः । ननु, ज्ञानमज्ञानस्यैव निवर्तकमित्यत्र ज्ञानं वृत्तिः, तत्प्रतिविम्बितचिद्वा । नाद्यः । तस्या अज्ञप्तित्वात् । नान्त्यः । मुक्त्यानन्दस्य ज्ञप्त्यभावापत्त्या तस्या अपि ज्ञप्तित्वाभावात् । सुखादौ तदभावाच्चेत्यत्राह - अज्ञानस्य चेति । अनावृतचित एव ज्ञप्तित्वेऽप्यनावृतत्वप्रयोजकवृत्तावपि ज्ञानपदप्रयोगात् तमादायोक्तनियम इति भावः । ननु लोके अधिष्ठानतत्त्वे साक्षात्कृते कर्मादिना न भ्रमनिवृत्तिप्रतिबन्धः । तथा च जीवन्मुक्तावनुवृत्तं जगत् सत्यम् । तत्राह - जीवदिति । प्रतिविम्बादिभ्रम इव जीवन्मुक्तीये देहादिभ्रमेऽप्यनुभवबलादनुवृत्तिरस्वीक्रियते । अन्यथा हि दशादिवर्षावच्छिन्नभोगजनककर्मणः पश्चादिवर्षावच्छिन्नभोगजनकत्वादिकल्पने अनन्तहेतुत्वादिकल्पनापत्तेः । किञ्च तस्य तावदेव चिर' मित्यादिश्रुत्यापि तथासिद्धम् । तथा च भुज्यमानकर्मणः देहादिनिवृत्तौ न प्रतिबन्धकत्वम् । ज्ञानस्य नाज्ञानकार्यनाशकत्वम् । किं तु दृश्यविरोधित्वमात्रमिति पक्षे तु भुज्यमानकर्माभावकालीनात्मज्ञानस्यानात्मविरोधित्वमात्र कल्पनात् नोक्तप्रति
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे दृष्टिसृष्टिवादः]
लघुचन्द्रिका 'बन्धकत्वं कल्प्यत इति भावः । भाश्रयविषयेत्यादि । ज्ञानेन सत्यस्य निवृत्नि
चेत्, कीदृशस्य ज्ञाननाश्यत्वनियमः, किं ज्ञानस्याश्रयेण, अथ विषयेण, भाहोस्वित् , उभयेन सम्बन्धस्य । नाद्यः । आत्मज्ञानेनाहमित्याकारेण धर्माद्यनाशात्। न द्वितीयः । नीलपीतावयविनो नीलत्वेन ज्ञानात् पीतिमाद्यनिवृत्तेः । न तृतीयः । देहज्ञानेन देहात्मतादात्म्यनिवृत्तेः । मिथ्याभूतस्यैव ज्ञाननिवर्त्यत्वपक्षे तु ज्ञानात्त
सामानाश्रयविषयकाज्ञानस्यैव निवृत्तिः । तथा चाज्ञानप्रयुक्तस्यैव निवृत्तिरित्यादिविवरण उक्तम् ॥ ॥ इति लघुचन्द्रिकायां ज्ञाननिवर्त्यत्वान्यथानुपपत्त्या विश्वमिथ्यात्वसिद्धिः॥
दृष्ट्यभिन्नत्व इति । दृष्टिभिन्नत्वे मानाभावात् दृष्ट्यभिन्नत्वं वाच्यम् । तथा चानन्तरोक्तदोषः । न च तद्वारणान्यथानुपपत्तिरेव दृष्टिभेदे मानमिति वाच्यम् । एकसामग्रीजन्यत्वस्याभेदव्याप्यतया सामग्रीभेदस्यावश्यकत्वादिति भावः । तदहिर्भावति । तच्छून्यत्वेत्यर्थः । दोषेत्यादि । ( दोषत्वं तावदन्यतमत्वं भ्रमत्वावच्छिन्नं प्रति जनकतावच्छेदिका या अविद्यात्वजातिः, तद्वत्वं वा । तथा च भ्रमत्वजातिमद्विषयत्वं दोषप्रयुक्तत्वम् । दोषप्रयुक्तत्वे भ्रमत्वज़ातिमद्विषयत्वे सति ज्ञातैकसत्त्वं लक्षणम् ) । परमते असत्यस्य भ्रमाङ्गीकारेण सिद्धसाधनाडूमप्रागभाववदवैयर्थ्याच्च विशेष्यदलम् । स्वज्ञानव्याप्यत्वं तदर्थः । व्याप्यत्वव्यापकत्वे कालिकेन ग्राह्ये । अज्ञानशून्यचिद्रूपं ज्ञानमपेक्ष्य लाघवादाह-अज्ञातसत्त्वाभावस्येति । स्वीयाज्ञानाभावेन व्याप्यत्वस्येत्यर्थः । निबन्धनस्येत्यन्तमनुषज्यते । तस्य च पूर्वत्रेवात्रापि दोषप्रयुक्तवृत्तेरित्यर्थः । पुरुषान्तरवेद्ये च नाज्ञानम् । मानाभावात् । यत्र हि यं पुरुषं प्रति प्रकाशप्रसक्तिः, तत्र तस्याज्ञानं युक्तम् । तथा च तत्तत्पुरुषीयाज्ञानाभावव्याप्यत्वं तत्तत्पुरुषं प्रति दृष्टिसृष्टिरिति बोध्यम् । परोक्षविषयसङ्ग्रहायासत्त्वापादकमज्ञानं लक्षणद्वयेऽपि निवेश्यम् । प्रतिपन्नेत्यादि । स्वप्रतिपत्तिविशेष्यदृष्टिनन्यवृत्तिज्ञातकसत्त्वस्येत्यर्थः । अधिष्ठानसामान्यांशदृष्टेरारोप्यमाने हेतुत्वेनोक्तदृष्टिजन्यत्वं जन्यमात्रस्याक्षतम् । द्रष्ट्रन्तरेत्यादि । दृष्टिसृष्टिपक्षे पुरुषान्तरीयसुखादिकं न ज्ञायते । किं तु पुरुषान्तरीयत्वेन स्वस्मिन्नेव कल्प्यत इति भावः । सृष्टिविषये सृज्यमान एव या दृष्टिस्सानाद्यन्यत्र । न त्वनादौ स्वीक्रियते । तत्र मिथ्यात्वसिद्धिस्तु दृश्यत्वादिनैव । न तु दृष्टिसृष्टयेति भावः । विषयाबाधेति । ननु, स्वप्नाविशेषे बाधाभा
(१) 'दोषत्वं तावदन्यतमत्वम् । भ्रमत्वजातिमद्धीविषयत्वं वा दोषप्रयुक्तत्वम् । भ्रमत्वावच्छिनं प्रति जनकतावच्छेदिका या अविद्यात्वजातिः तद्वत्त्वं वा दोषत्वम् । तथा च दोषप्रयुक्तत्वे सति शा. सैकसत्त्वं लक्षणम् ।' इति पाठान्तरम् ।
For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
अद्वतमञ्जरी ।
वोऽप्यनुपपन्न इति चेत्, न । दोषप्रयुक्तत्वाज्ञानेनाबाधोपपत्तेः । सत्यस्य वस्तुनः इदमवच्छिन्नचितः । मन्दाधिकारीति । अधिकारिभेदकल्पिता हि प्रक्रियाभेदाः शास्त्राचार्यैरनूदिता इति भावः । यद्यपी'दं रजत'मित्यादौ इदमादिरूपाधिष्ठानाकारा वृत्तिः पूर्व सम्भवति । पूर्वजाताया अपि तस्या रूप्यकालानुवृत्तिसम्भवात् , तथापीदं रूप्यमित्याकारा विशिष्टविषयिकैव वृत्तिः । लाघवात् । अधिष्ठानज्ञानहेतुत्वपक्षे तु वृत्तिद्वयस्वीकारात् न दोष इति भावः । चैतन्यं न वस्त्विति । उपार्मिथ्यात्वेऽपि तदवच्छेदेन अधिष्ठानताश्रयस्य शुद्धचैतन्यस्य सत्यत्वमिति भावः । स्थित्यविरोधादिति । सृष्टदृष्टिपक्षेऽपि भाविनि ज्ञानविषयत्वस्येवाज्ञानविषयत्वस्य स्वीकारादिति भावः । सत्ताकाल इति । दृष्टिसृष्टपक्ष इत्यादिः । भाव्यवच्छेदेनाज्ञानमनुभवबलात् कार्यान्यथानुपपत्तेश्च कल्प्यत इति भावः । भित्रविषयत्वेऽपीत्यादि । पूर्वज्ञाने रुप्यमिदमात्मकम् । द्वितीयज्ञाने तु स्वप्रतियोगेकन्वसम्बन्धेनाभावगतम् । यथाज्ञानं सृष्टिस्वीकारात् । अतो भिन्नविषयकत्वेऽपि स्व दक्तरू प्ययोरुक्तरूप्यत्वरूपानादिधर्मेण सारूप्यमिति भावः । यद्वा सारूयाद्विरोधेिधीविषयत्वेन समानत्वात् यथा सृष्टदृष्टिपक्षे तद्विशिष्टबुद्धौ तदभावधीविरोधिनी, तथा दृष्टिसृष्टिपक्षे रूप्यान्तराभावधीः । विरोधितावच्छेदकशक्तिविशेषस्य तस्यामपि स्वीकतुं शक्यत्वात् । तथा च रूप्यबादेः प्रतिदृष्टि देऽपि न क्षतिः । व्यावहारिकेणेति । अभावेनेति शेषः । तृतीयार्थः प्रकारित्वम् । तथा च व्यावहारिकामावधीावहारिकद्वैतवत्त्वधीबाधिका यथेत्यर्थः । उक्तत्वादिति । वस्तुत ईशस्येव जीवेशभेदादेरपि स्थूलमनःपरिणामत्वमेव । सुषुप्त्यन्यकाल एव तस्य दृष्टेः । अज्ञानसत्त्वेन च नै सुषुप्तिप्रलययोर्मुक्तिरिति ध्येयम् । संस्कारादोरिति । अज्ञायमानकार्यस्य दृष्टिसृष्टिपक्षे अनङ्गीकारात्तादृशसंस्कारादेरभाव इति भावः । कारणात्मना कारणगतसूक्ष्मावस्थारूपेण । तस्य च रूपस्य न दृष्टिगृष्टिः । असम्भवात् । न हि प्रलये सुषुप्तौ वा संस्काररूपसूक्ष्मावस्था जीवेन ज्ञातुं शक्यते । न च सर्वकार्याणां ज्ञातैकसत्त्वनियमाभङ्गाय सूक्ष्मावस्थैव न स्वीक्रियतामिति वाच्यम् । आतत्त्वसाक्षात्कारं दृश्यानामुच्छेदाभावेन कस्याश्चिदवस्थाया अवश्यवाच्यत्वात् । न च मिथ्यात्वव्यापकस्य दृष्टिसृष्टिमत्त्वस्याभावेन मिथ्यात्वाभावापत्तिरिति वाच्यम् । अनादिषु व्यभिचारेण दृष्टिसृष्टिमत्त्वस्य मिथ्यात्वाव्यापकत्वात् । अत एव धर्माधर्मयोरपि विहितनिषिद्धक्रियासूक्ष्मावस्थारूपत्वेन दृष्टि. सृष्ट्यभावेऽपि न क्षतिः । अथवा कारणात्मना कारणीभूतसाक्ष्यात्मविषयसूक्ष्मावस्थारूपेण । तथा च सुषुप्तिप्रलययोस्सूक्ष्मावस्थाविषयकनिर्विकल्पकाविद्यावृत्तिवी
For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे दृष्टिसृष्टिवादः]
लघुचन्द्रिका.
३०९
कारात् तदवच्छिन्नसासिविषयत्वं सूक्ष्मावस्थायां स्वीक्रियते । अज्ञानाद्याकाराया अविद्यावृत्तेस्सृष्टदृष्टिपक्षेऽपि स्वीकारात्तस्या एव सूक्ष्मावस्थाविषयकत्वान्नाधिककल्पनागौरवम् । वस्तुतः तथाकल्पने जागरादौ तद्विषयकाविद्यावृत्त्यन्तरकल्पने गौरवात् सूक्ष्मावस्थोत्पत्तिक्षण एव तद्विषयिका सैवोत्पद्यत इति कल्प्यते । अन्यथानुपपत्तेः तस्या एव वृत्तेस्सूक्ष्मा वस्थातदाश्रयसम्बन्धादिकमपि विषयः । सांसर्गिकविषयतायाः तस्यामभावेन न तया विशिष्टव्यवहारापत्तिः । सूक्ष्मावस्थातदाश्रयवैशिष्ट्यसिद्धिस्त्वनुमानादिनेति दिक् । सदातनत्वेति । अनाद्यनन्तत्वे. त्यर्थः । स्वस्वरूपेति । स्वच्छेषु सुखादिषु चित्प्रतिबिम्बसम्भवात् वृत्तिर्न स्वीक्रियते । तत्स्वीकारेऽपि परस्परविषयकवृत्तिद्वयस्वीकारान्नानवस्था । यदि तु तत्तदृश्यावच्छिन्नचिदेव तत्तदृश्यसत्तेति न सदातनत्वापत्तिरिति विभाव्यते, त. दाप्यविद्यावृत्त्यस्वीकारे चाक्षुषादिविषयत्वविशिष्टस्यैव घटादेरुत्पत्तिर्वाच्या । अन्यथा घटं पश्यामीत्यनुभवानुपपत्तेः । अत एव स्वप्ने तथा स्वीक्रियत इति भावः । सृष्टित्वापत्तिरिति । दृष्टिसृष्टेमिथ्यात्वे घटादौ तदभावसिद्धिरिति भावः । ज्ञानस्थेत्यादि । यथा ज्ञानस्य ज्ञेयत्वेऽपि तद्विषयस्य नाज्ञेयत्वं, तथा दृष्टिसृष्टेस्वसमसत्ताकदृष्टिसिद्धावपि तद्विषयघटादेरपि स्वसमसत्ताकदृष्टिरव्याहतेति भावः । अन्यभ्रमसिद्धस्यान्यदीयाज्ञानावस्थोपादानकस्य । विचित्रशक्तिकत्वेति । विचि. त्रकार्योपादानविचित्राज्ञानावस्थावत्त्वेत्यर्थः । जगदिति । 'ध्रुवो राजा विशामय' मिति शेषः । अनित्यतावादिभिरिति । अनित्यतैव एथिव्यादेः । न तु दृष्टिसृष्टिरितिवादिभिरित्यर्थः । अन्यथानयने नित्यरूपमुख्यार्थभिन्नार्थकत्ववचने । सन्तानाविच्छेदेति । सृष्टिदृष्टिपक्षे यावत् पृथिव्यादिकं तिष्ठति, तावत्कालं एथिव्यादेरवस्था स्वीक्रियते । स्थूलावस्थादृष्ट्यभावकालेऽपि सूक्ष्मावस्थादृष्टिसम्भवात् । ननु, ध्रवेत्यादे राजस्थैर्यशासने विनियोगः। पृथिव्यादि यथा स्थिरं, तथा त्वं राजा स्थिर इति चार्थ इति माधवीयभाष्योक्तिविरोध इति चेन्न । सन्तानाविच्छेदस्यैव स्थैर्यत्वात् । अगतेरिति । राजत्वाश्रयस्य देहस्य मरणपर्यन्तं न स्थैर्यम् । बाल्ययौवनादौ वृद्धिहासाभ्यां परिणामित्वेनास्थैर्यात् । अतस्स्थू. लसूक्ष्मभावापन्नदेहप्रवाहाविच्छेद एव स्थैर्य मिति भावः । काल इति । नाडीसत्त्वमित्यत्रान्वेति । 'यदा सुषुप्तो भवति । न कस्य च न वेद । हिता नाम नाड्योद्वासप्ततिस्सहस्राणि ताभिः प्रत्यवसृत्य पुरीतति शेते । यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिनीमानन्दस्य गत्वा शयीत । एवमेवैष एतच्छेते' इति वाक्ये यदा सुषुप्तः शेते, तदा एष एवमेतच्छेते । एतदिति । पूर्ववाक्योक्तब्रह्मा
For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
धारकार्थकं शयनक्रियाविशेषणम् । कीदृशं शयनम् । तत्राह-यथेत्यादि । श्यीतेत्यन्तम् । गला शयीतेति । शयित्वा गच्छेदित्यर्थः । मुखं व्यादाय स्वपितीत्यादिवत् । अन्यथा शयनोत्तरमेवानन्दप्राप्तेर्यथाश्रुतासङ्गतेः । तथा च यथा कुमारादिः शयित्वानन्दातिशयं गच्छति । एवं विज्ञानमयस्य शयित्वानन्दातिशयरूपब्रह्मप्राप्ति-रूपं शयनमित्यस्मिन्नर्थे दृष्टान्तदाष्टान्तिकवाक्ययोः पर्यवसानम्।आनन्दातिशयप्राप्तिरूप. शयनात् पूर्व शयनं विवेचयन्ती श्रुतिराकांक्षितं क्रममाह-हिता नामेत्यादि । एवं च पुरीतदाधारिका सुषुप्तिरिति प्रलापो वाक्यार्थाज्ञानादेव। पुरीतत्प्राप्त्युत्तरं मनआधुपाधिलयेन मनआधुपाधिकृतभेदाभावरूपब्रह्मप्राप्तरेव सुषुप्तित्वस्य श्रुतिसिद्धत्वात् । अत एव 'तदभावो नाडीषु तच्छुतेरात्मनि चेति सूत्रे नाडीपुरीतद्बह्मणां सु. षुप्तौ क्रमसमुच्चयः सिद्धान्तितः । वाक्यान्तरेति । 'न तु तद्वितीयमम्ति ततोऽन्यद्विभक्त' मित्यादिवाक्येत्यर्थः । सर्वलोकसृष्टिः सर्वलोककमिकैका सृष्टिः । अनन्तरवाक्यति । गार्य प्रति ब्रह्म ज्ञापयन् अजातशत्रुर्गार्यस्य ब्रह्मप्रश्नेऽप्यसामर्थ्यात् स्वयमेव प्रश्नपूर्वकं ब्रह्मोक्तवान् । 'यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः कैष तदाभूत् कुत एतदागा' दिति प्रश्नः । यत्रैष एतत्सुप्तोऽभूत् य एष विज्ञानमयः पुरुषः तदेषां प्राणानां विज्ञानेन विज्ञानमादाय एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते' इति प्रत्युत्तरम् । तत्र क्वेत्यनेन देशस्थैव प्रश्नः । अन्यथाकाशरूपदेशोत्तरासङ्गतेः । तथा च यत्रेति कालस्यैव निर्देश इति भावः । ननु, यत्रेति क्वेत्यस्य विशेषणम् । तत्राह-कालानिर्देश इति । ननु, तथाप्याकाशशब्दितं ब्रह्मैव एतस्मादात्मन इत्यत्रोक्तमिति चेन्न । एवमेवैष एतच्छेते इत्यत्राव्यवहितपूर्ववाक्ये जीवस्यैव प्राधान्येनोक्तत्वेनैतत्पदबोध्यत्वौचित्यात् 'पुरत्रये क्रीइति यम्तुजीवस्ततस्तु जातं सकलं विचित्र'मित्यादिश्रुत्यन्तराञ्च । अत एव तस्माद्वा एतस्मादात्मन आकाश इत्यादिश्रुतावात्मपदं सार्थकम् । ब्रह्मात्मकजीवकारणत्वपरत्वात् । अत एव श्रुत्यन्तरे ब्रह्मकारणत्वं जीवकारणत्वरूपं बोध्यम् । अत एव 'असतोऽधिमनोऽसृजत मनः प्रजापतिमसृजत । तच्चेदं मनस्येव प्रतिष्ठितं यदिदं किच्चे' त्यादिश्रुत्या जगतो मनःपरिणामत्वमुक्तम् । एतत्सर्वं मन एवेति श्रुतिव्याख्याने वार्तिकेऽप्युक्तम् । 'शुक्लं कृष्णमणु स्थूलमिति धीः कर्मणो वशात् । द्वैताधि. कारमापन्ना वैश्वरूप्यं न गच्छति। धीविपर्ययरूपेयं यतश्शुद्धादिरूपिणी । मन एवेत्यतः प्राज्ञास्सर्वं रूपं प्रचक्षते' इति-यतो धीर्मनःपरिणामः, अतस्द्वद्विषयोऽपि।सुषुप्तौ मनोऽभावे दृश्यदर्शनयोरभावात् सुप्तोत्थितस्य मनोऽन्वये कार्यान्वयाच्चेत्यर्थः । गौडपादीयभाष्यतदानन्दगिरिवासिष्ठसंक्षेपशारीरकादौ चायमर्थः प्रपञ्चितः । स्थूलाधिका
For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे एकनीववादः
लघुचन्द्रिका ।
३११
रिणमिति । उक्तं हि संक्षेपशारीरके- 'तत्त्वावेदकमानदृष्टिरधमा तत्त्वक्षतिमध्य. मा तत्त्वप्रच्युतिविभ्रमक्षतिकरी तत्रान्त्यष्टिर्मता । जीवैकत्वमुमुक्षुभेदगतितो व्यामिश्रदृष्टिद्विधा भिन्ना तत्र च पूर्वपूर्वविलयादूर्वार्ध्वदृष्टिर्भवे' दिति । प्रत्यक्षादिमानानां तत्त्वावेदकत्वदृष्टिराद्या । तेषां व्यावहारिकमानत्वदृष्टिः द्वितीया । तत्त्वप्रच्युतेः व्यावहारिकमानत्वस्य शुक्तिरूप्यादिबुद्धाविव प्रत्यक्षादिमानेषु विभ्रमत्वहष्ट्या क्षतिकरी जन्यदृश्यमात्रे प्रातिभासिकत्वदृष्टिपर्यवसिता तृतीया । सापि जीवैकत्वे मुमुक्षुभेदे च गमनात् द्विविधा । व्यावहारिकमानत्वाभावभ्रमत्वविषयकत्वेन व्यामिश्रा दृष्टिः । पूर्वपूर्वेति । मुमुक्षुभेददृष्टेः पश्चादुक्तत्वेऽप्याथिकं जीवैकत्वदृष्टितः पूर्वत्वं बोध्यम् । उपपत्यन्तरमिति । अज्ञायमानतादशायां घटादावनन्तसंयोगादिकं इन्द्रियक्रियासंयोगादिकं तस्य प्रत्यक्षहेतुत्वादिकं प्रातीतिकव्यावहारिकयोमिथो व्यावृत्तरूपेणान्यत्र हेतुत्वादिकं न कल्प्यते । ज्ञानहेतुस्वस्थले विषयस्यैव हेतुत्वं जन्यज्ञानाकल्पनश्चेति लाघवम् । घटं पश्यामीत्यादिप्रत्यये च घटादौ चाक्षुषाद्यभेदो विषयो घटादावेव चाक्षुषत्वादिधर्मस्वीकारादित्यादिरूपमिति शेषः । द्वैतजातं जातद्वैतम् ॥
॥ इति लघुचन्द्रिकायां दृष्टि सृष्टयुपपादनम् ॥ निर्जीवं जीवावच्छेदकमनःसुखाद्यनवच्छेदकम् । समष्ट्यभिमानिनः तत्तन्मनोऽव. च्छिन्नानां तत्तदेहाभिमानानामाश्रयस्य । लयकाले तमेव तन्मनोऽवच्छिन्नमेव । कल्पकत्वेन मनस्तत्परिणाममात्रद्रष्टुत्वेन । कल्पितत्वादीत्यादिना एकजीवेन सर्वप्रमात्रादिकं कल्पितमित्यादिग्रहणम् । तथा च जीवभेदज्ञानात् एकबोधनार्थ अप, रस्य प्रवृत्तिः एकजीवकल्पितं सर्वमिति निश्चयेऽपि मनोऽवच्छिन्नानां भिन्नत्वात् युज्यते । न ह्येकमनोऽवच्छिन्नेनापरमनोऽवच्छिन्नं कल्पितम् । न चैकस्य मो. क्षार्थप्रवृत्तिं जानतो ऽपरस्य तदर्थं प्रवृत्तिर्न स्यादिति वाच्यम् । परप्रवृत्त्या मोक्षावश्यंभावानिश्चयात् मुमुक्षुवत्प्रतारकाणामपि दृष्टत्वात् विवेकिनां मोक्षार्थ प्रवृ. तेरेव रोचमानत्वात् सांसारिकप्रवृत्तेः दुःखबहुत्वनिश्चयादिति भावः । तथानुभवेति। नानाशरीरेषु जीवस्य प्रत्यक्त्वेनानुभवेत्यर्थः । असिद्धिरिति । तदनुभवस्याप्यपलापसम्भवात् इति शेषः । वैषम्यादिति । पल्लवाज्ञानस्य तत्तन्मनोवच्छिन्नत्वेन तत्तन्मनःपरिणामज्ञानेन निवृत्तिः । मूलाज्ञानस्य त्वनवच्छिन्नत्वेन किञ्चि. न्मनःपरिणामज्ञानेन निवृत्त्या सर्वदृश्यनिवृत्तौ मनोऽन्तरमेव दुर्लभम्। दूरतस्तत्र संसारापत्तिः । प्रारब्धकर्मसत्त्वे तु मनोऽन्तरे संसार इष्टः । तत्त्वज्ञानावच्छेदकमनसि चेति भावः । ननु, सर्वाभिमानिनो हिरण्यगर्भस्य जीवस्य स्वीकारे तस्य करुपान्ते मुक्त्या
For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
अद्वैतमञ्जरी ।
सर्वमुक्त्यापत्तिरिति चेन्न । ‘ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पद'मित्यनेन सगुणब्रह्माहमित्युपासकानामपुनरावृत्त्या ब्रह्मलोकस्थितानां कैवल्यप्राप्तिबोध्यते । न तु कल्पान्ते अवश्यं सेति बोध्यते । यदा कुत्र चिन्मनसि तत्त्वदर्शनं, तदा तेषामपि कल्पान्ते प्रारब्धभोगसमाप्त्या कैवल्यप्राप्तिरित्यत्रैव तात्पर्यादिति भावः । एकवचनेति । इदमुपलक्षणम् । ‘एको देवस्सर्वभुतेषु गूढ' इति श्रुतावेक इति पदस्यापि तत्र साक्षी चेता' इत्यादिवाक्यशेषात् देवपदं पुरत्रयक्रीडकपरम् । अज्ञानावृतवस्तुरू रूपकत्वेन गूढ इति भावः । इ. त्यादिश्रुतीत्यादिपदात् 'पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते, स एष इह प्रविष्ट' इत्यादिश्रुतयो 'देही कर्मानुगोऽऽवशः शरीराणि विहाय जीर्णान्यन्यानि ग्रह्णाति नर' इत्यादिस्मृतयश्च ग्राह्याः । अनेकत्वेति । जीवानेकत्वेत्यर्थः । अनेकखानुवादेनेति । वस्तुतो अविद्यान्तरे वर्तमानत्वमविद्याप्रयुक्तदुःखाद्यभिमानित्वम् । अत एव पण्डितम्मन्यमाना इति शेषः । तथा च अविद्यान्तरे वर्तमानत्वं रमणीयचरणत्वं सति लीनोपाधिकत्वं चेति त्रयं मनोऽवच्छिन्नस्यैव । 'सति सम्पद्य न विदुस्सति सम्पत्स्यामह' इति वेत्तृत्वाभावस्तु स्मर्तृ. त्वाभावरूपः । अन्यथा सम्पयेत्यस्य स्थाने संपद्यमाना इत्युच्येत । तथा च मनोऽवच्छि. न्नताकाल एव साक्षिणस्तदुक्तः । एवं सुनिश्चितार्थत्वं मनोऽवच्छिन्नस्यैव। परमुक्तिरपि शुद्धाभेदविवक्षया तस्यैव । अन्यथा हेतुफलोवैयधिकरण्यापत्तेः । गौडपादीये अनादिमाययेत्यादिवाक्ये 'स्वर्गकाम' इति यजेतेत्येकवचनरयोपादेयकवयपरत्वेऽपि स्व
काम इति सुबेकवचनमविवक्षितम् । उद्देश्यविशेषणरय ग्रहैकत्वाधिकरणादौ तथोक्तत्वात् । अत एव पुरत्वस्याविवक्षया स्त्रिया अपि पतिसाहित्येनाधिकारः षष्ठे उक्त इति भावः । अतत्परत्वादिति । एकत्वश्रुत्या दकं तु तत्परम् । तस्याप्राप्तत्वाल्लाघवाच्चेति भावः । समष्ट्यभिमानिनः तत्तन्मनोऽवच्छिन्नतत्तदभिमानवतः अविद्योपहितस्येत्यर्थः । सर्वाभिमानिन इति । स्वकल्पितसर्वात्मकत्वसर्वज्ञत्वादिविशिष्टेश्वराभेदोपासनाधीनसर्वाभिमानयुक्तस्ये त्यर्थः । उपपद्यत इति । तादृशाभिमान. युक्तप्रमात्रैव तथोक्तमिति भावः । ननु, भेदस्यापि तादृशज्ञानविषयत्वसम्भावनया भेदवादिनोऽपि तत्त्वमस्यादिवाक्यवक्तृत्वसम्भवाद्विशिष्य तत्त्वज्ञत्वेनैव गुरुः कल्प्यः। तत्राह-अन्यथा तवापीति । तथा च भेदिमते स्वसिद्धान्तश्रवणाद्यथा नाद्वैते तत्सम्भावना, तथैवाद्वैतमतेऽपि भेदे न तत्सम्भावना । यथा च तव भेदानिर्णयेऽपि भेदनिर्णयवानयमिति कल्पना, तथा ममाद्वैतनिर्णयवानिति कल्पना । अन्यथा तत्त्वनिर्णयात् पूर्वं तत्र मोक्षसाधनत्वज्ञानासम्भवादिच्छापि न स्यात् । यथा
For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे अज्ञानवादः
लघु चन्द्रिका ।
तवेदानी भेदधीसत्त्वेऽपि विचारजन्यं शास्त्रीयज्ञानमेव मोक्षहेतुः, तथा' ममाऽपि तादृशमद्वैतज्ञानमेव तथेति भावः । भावितत्त्वज्ञानकल्पकचेतनमिति । सर्वमोक्षकारणतत्त्वज्ञानयुक्तो भावीति शिप्यशास्त्रादिकल्पकचेतनः, तमित्यर्थः । प्रवचने अध्यापने । समयबन्धति । नियमबन्धेत्यर्थः । तादृशतादृशाक्षेपपर्यनुयोगघटितकथाया एव तत्त्वनिर्णयहेतुत्वादिति भावः । प्रमेति । निश्चयेत्यर्थः । अन्त्येति । आद्यपक्षेऽपि न दोषः । 'चैत्रो ब्रह्मेति वाक्यजन्यनिर्विकल्पकनिश्चयस्य मोक्षाजनकत्वेन विजातीयस्यैव मोक्षजनकत्वेन तादृशानिश्चयेन शास्त्रप्रणयनसम्भवात् । मोक्षजनकज्ञानमूलकत्वं तु न शास्त्रस्यापेक्ष्यत इति ध्येयम् । केन चित् मनआदिना क्रोडीकृतं विशिष्टं प्रमातृरूपम् । एकत्वेनेति । न च तत्तन्मनउपहिते अमुक इत्यनिश्चय इति वाच्यम् । अविद्योपहितस्यैव मनउपहि: तत्वेन सर्वमनउपहितानां कल्पकत्वनिश्चयत्। सम्प्रदायेति । अनादितत्त्वज्ञानप्रवाहेत्यर्थः । अपूर्वजातीयेति । पूर्वानुपलब्धचैत्रत्वादिजातीयेत्यर्थः । ननु, वि. हितक्रियातजनकादृष्टतत्फलानामनादित्वेन नापूर्वजातीयमुत्पद्यत इति चेत् ,तथापि न क्षतिः । चैत्रत्वादिनातेः दृष्टकारणप्रयोज्यत्वात् । न हि चैत्रशरीरमुद्दिश्य किञ्चिद्विहितम् । किं च यत् सुखस्य दुःखस्य वा जनकं विजातीय,तदेवादृष्टजन्यम् । अतादृशं तु दृष्टकारणैकनन्यं साद्येव । किं च तत्त्वाज्ञानमप्यनाद्येव । अधीतवाक्याधीनतत्प्रवाहानादित्वसम्भवात् । असम्भावनादिशून्यजातीयं ज्ञानं तु साद्येव । तादृशज्ञानत्वस्य कार्यतानवच्छेदकत्वात् । न च विजातीयत्वेन तत्त्वज्ञानस्य मोक्षहेतुत्वाद्विजातीयत्वस्यावश्यं कार्यतावच्छेदकत्वेन तदाश्रयस्यानादित्वापत्तिरिति वाच्यम् । एकजीववाद तव्यक्तित्वस्यैव जातिस्थानीयत्वात् । सर्वजातीनामाश्रयानादित्वस्यानुभवविरोधात् । न हि विजातीयघटादिकं सर्वदास्तीत्यत्र मानमस्ति ॥
॥ इति लघुचन्द्रिकायां एकजीववादोपपादनम् ॥ स्थादिति । तथा चेति शेषः । तदवच्छेदकमिति । ताकिंकादिमते अना. द्यत्यन्ताभावस्य यथा तत्तत्कालादिरवच्छेदक इति शेषः । न सत्यमिति । निमि. त्तनाशादिनैवासत्यस्य नाश इति तु न युक्तम् । दृश्यमात्रे ज्ञाननाश्यत्वस्य अत्यनुभवादिसिद्धत्वेन उपादानाज्ञाननाशस्यावश्यकत्वात् । अपरिणामित्वादिति । परिच्छिन्नत्वस्य मिथ्यात्वव्याप्यत्वादिति शेषः । स्वरूपसदुपाधिमत्तद्विषयकेति । उपाध्यविषयकत्वे सत्युपहितविषयकेत्यर्थः । कारणत्वेन विषयत्वेन । यथा चैतदिति । शक्तेरज्ञानान्यत्वेऽपि न तस्यामतिव्याप्तिः । निवर्त्यशक्तिमत्त्वस्यैव लक्ष. णत्वसम्भवादित्याद्युपपादनमिति भावः । अविद्यात्मकत्वादिति । स्वरूपमेव सम्ब
For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
अद्वैतमञ्जरी ।
न्ध इति भावः । प्रतिभासकल्पकेत्यादि । स्वविषयकजन्यधीकालत्वव्याप्यस्वद्रष्ट्रकत्वमित्यर्थः । अविद्याविषयकाविद्यावृत्तेः प्रलयादावस्वीकारात् । नाविद्यायां तदिति भावः । सादिकल्पकेति । अविद्योपहितचिद्रूपोऽविद्याकल्पकोऽनादिः । शुक्तिरूप्यादेस्त्वधिष्ठानज्ञानवान् कल्पकः सादिः । अथवा सादिकल्पनाविषयत्वमित्यर्थः । अविद्यायास्तु कल्पना स्वोपहितचिदेव । न वृत्तिरिति भावः । प्रलयादावप्यविद्याविषयिका वृत्तिरन्यदैव वेति मतेऽप्याह-विद्यति । विद्याया अनिवृत्तिस्सम्बन्धः तदप्रयुक्ता निवृत्तिः नाज्ञानस्य । किं तु तत्कार्यस्य जीवेशभेदादिनिवृत्तिरपि तत्प्रयुक्तेति भावः । तस्या अपि तदप्रयुक्तत्वे आह-मागभावेति। प्रकृते अज्ञाने । बाधकेति । विनाशिभावस्य सादित्वनियमो भावत्वे उपादानत्वादिमत्त्वमभावत्वे बाधकम् । वस्तुतो भावत्वं सद्रूपत्वम् । अभावत्वमसद्रूपत्वम् । आद्ये बाध्यत्वादि बाधकम् । द्वितीये जनकत्वादि । अत एवाभावविलक्षणत्वं तुच्छव्यावृत्तमिति वक्ष्यते । अभावत्वधर्माश्रयविलक्षणत्वं तुच्छेऽप्यस्ति । अत एव सद्विलक्षणयोरज्ञानभ्रमयोरित्यादि वक्ष्यते । यत्तु तृतीयप्रकारे सिद्धे विरोधासिद्धिः तस्यां सत्यां स इत्यन्योन्याश्रय इति, तन्न । तृतीयप्रकारस्य बाधकसत्त्वाधीनत्वेन विरोधासियनपेक्षत्वात् । अन्यथा कर्मादौ द्रव्यगुणाद्यपेक्षया तृतीयप्रकारो न स्यात् । अनादेरिति । अनादित्वे सत्यसद्विलक्षणत्वं हेतुः । प्रागभाववारणाय विशेष्यम् । अभावमात्रं तु तुच्छत्वान्नासद्विलक्षणम् । अभावस्यातुच्छत्वेऽपि तुच्छवारणायैव तत् । साक्षिणि अविद्योपहितचिति । वृ. त्युपहितस्य साक्षित्वमतेऽप्याह-किं चेति । धारावाहिकति । सर्वदोत्पद्यमानेत्यर्थः । अविद्याविषयिणी वृत्तिरेकैवेति स्वीकारे संस्कारानुपपत्तिः । संस्कारोत्पत्तिपूर्वमेकैव वृत्तिरिति स्वीकारे संस्कारोत्पत्तिकाले अनाद्यविद्यादेरसत्त्वापत्तिः । यावत्कालमेकवृत्तिस्वीकारे दोषाभावः, तावत्कालमेकैव सा । तन्नाशे कारणविशेषकल्पनान्नोत्तरवर्तिमात्रेण तदापत्तिः । अन्यथानन्तवृत्तिकल्पने गौरवादिति तु युक्तम् । यत्तु प्रतीतिसत्त्वे सुखादेनाशासम्भवः । तन्नाशकस्यैव तनाशकत्वावृत्त्युपहितचितस्सुखादिसाक्षित्वे तु सुखादिधीः व्यावहारिकप्रमा न स्यात् । दोषजन्यत्वादिति, तन्न । सुखादिनिमित्तनाशादेरपि सुखादिनाशकत्वसम्भवात् आगन्तुकदोषाजन्यत्वेनाविद्यादोषजन्यस्यापि सुखादिज्ञानस्य प्रमात्वसम्भवा. च । ब्रह्मणः परिणामित्ववादिनं प्रत्यप्याह-अचेतनत्वेनेति । निवानिवः याज्ञाने । तस्यापीति । अभावविलक्षणस्याप्यज्ञानस्याभावोपादानत्वसम्मवस्यो क्तत्वेनेत्यादिः । आत्मनीति । शुद्धात्मा नोपादानमिति पक्षे शुद्धात्मनीत्यर्थः
For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे अज्ञानवादः
लघुचन्द्रिका ।
त्यत । अज्ञात्वादिना र
ख बाधकाले
अन्वयिकारणत्वं कार्यात्मककारणत्वम् । ज्ञानप्रागभावस्य भ्रमनिवृत्तिखरूपयोग्यप्रमाप्रागभावस्य । निरस्तत्वादिति । प्रागभावे मानाभावः । भावे वा मनोनिष्ठे परोक्षप्रमाप्रागभावे शुक्तिरूप्याद्युपादानत्वासम्भवः । यत्र विषये कदापि प्रत्यक्षप्रमा न जाता, तत्र तत्प्रागभावस्यालीकत्वेन तदसम्भवः । यत्र प्रत्यक्षप्रमास्ति, तत्रापि न प्रागभावस्य भ्रमोपादानत्वेन सिद्धिः । तस्य सप्रतियोगिक त्वकल्पने गौरवात् । ननु, शुक्लो घटः' 'मृद्धट' इत्यादिशुक्लत्वमृत्त्वादिना रूपप्रकृत्यादितादात्म्यं प्रतीयत एव । तत्राह–केनेति । यथा शुक्लत्वादिना रूपाद्यनुवेधः, तथा जडत्वादिना अज्ञानानुवेधोऽस्त्येव । अज्ञानत्वेनाननुवेधस्तु, भ्रमस्य भ्रमत्वेनाज्ञानात्। अत एव बाधकाले 'नेदं रूप्यं, रूप्यमिति यत् ज्ञानं तदज्ञान'मिति प्रतीयत इति भावः । योग्यतेति। कारणतावछेदकीभूताज्ञानत्वजातीयर्थः । अवच्छेदकरूपेति । व्याप्येत्यर्थः । अवस्थाविशेषास्वीकारपक्षेऽप्याहव्युत्पादितमिति । प्रमाविरहविशिष्टमज्ञानं न भातीत्यादिव्यवहारनियामकमित्याद्युक्तम् । नव्यमते उक्तज्ञानादेरपि ज्ञानत्वादिनैव स्वपूर्वत्वसम्बन्धेन निवतकत्वादाह-साक्षादिति । समानविषयत्वप्रत्यासक्त्येत्यर्थः । ज्ञानस्य खप्रागभावं प्रति प्रतियोगित्वेनैव नाशकत्वमिति नातिव्याप्तिः ॥
॥ इति लघुचन्द्रिकायां अविद्यालक्षणम् ॥ उपपत्तेरिति । 'पूर्वसिद्धतमस' इत्यादिन्यायादज्ञानाश्रयकोटौ चिदन्यनिवेशे गौरवाच्चेति भावः । विषयात् विषयकत्वेनास्मदभिमतात् । तेन सत्यमित्यग्रिमस्य न विरोधः । इच्छेत्यादि । 'इच्छामि न द्वेष्मी' ति ज्ञानयोर्यथा भिन्नो विषयः प्रतीयते, तथा प्रकृते नेत्यर्थः । नन्ववच्छेदकत्वं नानतिरिक्तवृत्तित्वादिकम् । 'प्र. मेयघटो नास्ती'त्यादेरपि प्रमात्वापत्तेः । किं त्वखण्डधर्मविशेषः । स च सामान्यधर्मस्य किञ्चिद्विशेषाभावप्रतियोगितां प्रत्यप्यास्ताम् । तत्राह--अमावज्ञानेति । धर्मस्यैवेति । अन्यथा घटो नास्तीत्यादौ पटत्वाद्यवच्छिन्नप्रतियोगित्वभानापत्तेरिति भावः । ननु, प्रतियोगिनि प्रकारीभूतं तव्यापकं वा अवच्छेदकतया भाति । अत एव 'कम्बुग्रीवादिमानास्ती' त्यादौ घटत्वादिकमवच्छेदकतया भातीति तत्र प्रमात्वमेव । पूर्वस्यावच्छेदकत्वासम्भवे सत्येवोत्तरस्य तथा खीकारानाति प्रसङ्गः । तत्राह–अन्यथेति । सामान्यावच्छिन्नप्रतियोगिताकत्वेन विशेषाभावस्यापि माने इत्यर्थः । अभावधीमात्रे तथा सम्भवादिति शेषः । अयं प्रा तियोगिन्यप्रकारस्यावच्छेदकत्वासम्भवरूपः । न च प्रतियोगिन्यपि सामान्यधर्मः प्रकार इति वाच्यम् । तथा सति सामान्यधर्माश्रयाणां सर्वेषामेव प्रतियोगितया
For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
अद्वैतमञ्जरी । भानापत्त्या विशेषाभावभानोतिविरोधात् । प्रतीतिः प्रमा । संशयोपपत्तेरिति । न च रूपत्वावच्छिन्नप्रतियोगिताकत्वेन विशेषाभावस्य धीरपि सामान्यसंशयवि. रोधिनीति वाच्यम् । 'घटत्वेन पटो नास्त्यत्रे'ति ज्ञानस्य घटवदिदमिति विरो. धित्वापत्तेः । अभावांशे प्रतियोगिनः येन रूपेण प्रकारता, तदवच्छिन्नप्रतियो. गिताकत्वधीत्वेनैव तद्रूपविशिष्टवत्ताधीविरोधित्वस्य त्वयापि वाच्यत्वात् संशयनिवर्तकत्वमुक्तवाक्यस्य व्युत्पादयन् तदृष्टान्तेन 'न जानामी'ति ज्ञानस्यापि ज्ञानसामान्यामावविषयकत्वावश्यकत्वेन विरोधमाह-अथाभावेत्यादिना व्याहन्यन इत्यन्तेन । अवच्छेदकत्वं प्रतियोगितावच्छेदकत्वम् । तेन प्रतियोगित्वस्याप्यनुपस्थितस्य संसर्गतया भानं लभ्यते । अन्येति । अवच्छेदकस्य ग्रहे तु प्रतियोग्यंशे प्रकारतया भासिका सामग्न्येव सामग्रीत्वेन क्लुप्तेति भावः । ज्ञानविशेषविरोधिनीति । ज्ञानादिमति ज्ञानाद्यभाववत्त्वज्ञानानुदयात् तार्किकादिमते स्वरूपसत् ज्ञानादिकं स्वाभाववत्त्वधीविरोधि स्वीक्रियते । तस्य साक्षिभास्यत्वमते स्वविषयत्वमते च विद्यमानं स्वाश्रये प्रकारतया ज्ञायत एवेत्युभयथापि ज्ञानादिसत्त्वे तत्सामान्याभावधीः विरुध्यत इति भावः । ननु, रूपाद्यभाववत्त्वबुद्धे रूपादितत्त्वधीप्रतिबध्यत्वेऽपि न जानामीति बुद्धेर्न ज्ञानादिमत्त्वधीप्रतिबध्यत्वम् । न च तथापि 'न जानामीति'बुद्धेर्धमत्वं स्यादिति वाच्यम् । इष्टत्वात् । तत्राह-तथा चेति। 'न जानामी'तिबुद्धेरिति शेषः । वैलक्षण्ये 'जानामी' ति ज्ञानाप्रतिबध्यत्वे। लाघवादिति । घटादौ ज्ञानवत्त्वधीप्रतिबध्यत्वं घटादौ ज्ञानाभावबुद्धेस्त्वयापि वाच्यम् । तथा च समानविशेष्यतावच्छेदकत्वप्रत्यासक्त्यैव ज्ञानतदभाववत्त्वबुद्ध्योमिथः प्रतिबध्यप्रतिबन्धकत्वं कल्प्यताम् । एवं च 'न जानामी'ति बुद्धावगत्या भावरूपाज्ञानं विषयः कल्प्यताम् । तथा च तस्यां भ्रमत्वदोषजन्यत्वयोः कल्पनाप्रयुक्तं गौरवं न भविष्यति । न च 'घटो न जानाति न जानामी'ति ज्ञानयोविषयवैरूप्यं दोष इति वाच्यम् । 'इदमसुरं बलिरसुर' इति ज्ञानयोरिव तस्य अदोषत्वात् । असुरमित्यस्य हि सुरशून्यमर्थः । असुर इत्यस्य तु सुरविरोधीति भावः । ननु, प्रतियोग्यशे प्रकार एव प्रतियोगितावच्छेदकतया भातीति नियमस्त्वयापि न वाच्यः । पारमार्थिकत्वेन प्रपञ्चामावघटितस्य प्रपञ्चे मिथ्यात्वस्य त्वयोक्तत्वात् । तथा चोक्तवुद्धौ ज्ञानविशेषत्वं प्रतियोगिन्यप्रकारोऽपि ज्ञानसामान्यनिष्ठे प्रतियोगित्वे अवच्छेदकतया भासतामिति चेन्न । विशेषरूपेण सामान्याभावासिद्धेः । 'घटत्वेन पटो नास्तीति ज्ञानस्य हि घटत्वावच्छिन्नपटनिष्ठप्रतियोगिताकाभाव एव विषयः । विषयान्तरस्यासम्भवात् । तद्व्यक्तित्वेन घटो ना.
For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्र० दे अज्ञानवादः
लघुचन्द्रिका ।
स्तीत्यस्य तु तव्यक्तिमात्रस्याभावो विषयस्सम्भवतीति न तबलात् तादृशाभावसिद्धिः। अत एव घटत्वेन तद्धटो नास्तीति ज्ञानेऽपि तद्धटत्वावच्छिन्नाभाव एव विषय इति भावः । विषयाज्ञानं विषयविशेषितमज्ञानम् । ज्ञानविशेषेति । विषयविशेषितज्ञानविशेषेत्यर्थः । ज्ञातेऽपीति । विषय इति शेषः । विषयज्ञानं विना विषयविशिष्टज्ञानस्य ज्ञानासम्भवादिति भावः । द्वयसापेक्षेति । अज्ञानं भावरूपं स्वाश्रयविषयकमित्युक्त्वा अज्ञानं न स्वविषयाश्रितम् । अस्य पुरुषम्यात्र विषये अज्ञानमिति विषयाश्रयभेदानुभवादित्याशंक्य अस्य पुरुषस्येति नाज्ञानाश्रयभानम् । किं तु अस्यात्र यत् ज्ञानं, तद्विरोधित्वेनाज्ञानभानमित्याशयेनोक्तम् । अज्ञा. नमिति । द्वयसापेक्षेत्यादि । आश्रयविषयरूपद्वयसापेक्षं यत् ज्ञानं, तत्पर्युदासेनाज्ञानमित्यभिधानादित्यर्थः । तवापीति । प्रमाणवृत्त्यभावकाले 'न जानामी'ति धीः वाच्या । अन्यथा अविद्यावृत्तिकालेऽपि सा न स्यात् । तथा च व्याघातः । उक्तधियः प्रमाणवृत्तिसामान्यविरोधित्वेनाज्ञानविषयकत्वेन तदुत्पत्ते. रुक्तविगेधित्वप्रकारकप्रमाणवृत्तिसापेक्षत्वात् । न युक्तविरोधित्वमपि साक्षिमात्रभास्यम् । येनोक्तवृत्तिनैरपेक्ष्येण साक्षिमात्रेण तद्भानमुच्येत । किं तु विषयविशेषिताज्ञानमात्रं साक्षिभास्यम् । न च उक्तविरोधित्वस्मृत्यादिनैव 'न जानामी' ति धीसम्भवान्न व्याघात इति वाच्यम् । क्वचित्तत्सम्भवेऽपि सर्वत्र तदमावेन प्रमाणवृत्तिसापेक्षतावश्यकत्वात् । यदि च ज्ञानविरोधित्वं साक्षिमात्रवेद्यमज्ञाने स्वीक्रियते, तदा तत्प्रमाणावेद्यत्वेन व्यावहारिकं न स्यात् । अज्ञानवरूपवत् तदिदमुक्तम् । अन्यथा अज्ञानस्य ज्ञानविरोधित्वमप्रामाणिकं स्यादिति भा. वः । वस्तुतोऽत्रास्याज्ञानमिति प्रत्यये पुरुषविशेषनिरूपितं विषयविशेषाश्रितमज्ञा. नत्वरूपाखण्डधर्मविशिष्टं विषयः । तत्तत्पुरुषनिरूपितत्वं च तत्तत्पुरुषीयज्ञाननिवर्यतानियामकं विषयनिष्ठकार्योपादानत्वेन च अज्ञानस्य विषयाश्रितत्वम् । तथा च अस्य यत् ज्ञानं तद्विरोधित्वस्योल्लेखे मानाभावः । विवरणोक्तिस्तु अज्ञाने नष्टे ज्ञानविरोधितया तदनुभवाभिप्राया न विरुध्यते । न च 'घटं न जानामी' ति वाक्ये नो विरोध्यर्थकतया ज्ञानविरोधित्वेनाज्ञानप्रत्ययादज्ञानकाले उक्तवाक्यजन्यज्ञाने व्याघात इति वाच्यम् । नपूर्वकजानातेरज्ञानत्वजातिमति लक्षणया तादृशज्ञानस्य तद्विषयकत्वात् । अधर्मादिपदानां पापत्वादिजातिविशिष्टे लक्षणया तज्जन्यज्ञानस्य तद्विषयकत्ववत् । तस्मान्नास्मन्मते व्याघात इति ध्येयम् । तद्वयावर्त्तकेति । अज्ञानविशेषणेत्यर्थः । तत्साधकेनेति । प्रमाविरोधित्वसविषयकत्वविशिष्टाज्ञानस्यानावृतसाक्षिसम्बन्धवत्त्वं साक्षिणोऽज्ञाननाशकत्वे अनुपपन्नमिति भावः । अ
For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
अद्वतमञ्जरी ।
ज्ञानग्रहे अज्ञानं विषयीकर्तुम् । वेद्यवाभावादिति । सविषयकत्वविशिष्टस्य सर्वस्यानावृतसाक्षिसम्बन्धवत्तया क्लप्तत्वेन ज्ञानादिविशेषणत्वेनाभावस्य साक्षिवेद्यत्वेऽपि तदविशेषणत्वरूपेण तदभावादित्यर्थः । ननु, ज्ञाने विशेषणतया तद्विषयस्यैव विशेष्यतया तदभावोऽपि साक्षिवेद्योऽस्तु । तत्राह--यद्यपीति। अनुपलब्धत्वादिति । घटादौ ज्ञानाभावस्यानुपलब्धिरूपप्रमाणेनैव धीः। न हि ज्ञानाभावस्याहमर्थभिन्नेऽपि साक्षिवेद्यता सम्भवति । यादृशस्य हि तार्किकादिमते मानसं प्रत्यक्ष, तादृशस्यैव त्वया सा वाच्या । अन्यथा अनुभवविरोधात् । तथा च ज्ञानाभावस्यानुपलब्धत्वेन क्लप्तत्वादात्मन्यपि तस्य तथात्वमिति भावः । ननु साक्षिणा ज्ञानं गृह्यत इति क्लप्तम् । तेनैव ज्ञानाधिकरणे तदभावोऽपि गृह्यताम् । तथा च नोक्तदोषः । तत्राह-उत्पन्नमिति । विद्यमानमित्यर्थः । अभावोऽपीति । साक्षात् साक्षिवेद्य इति अनुषज्यते । तथा च ज्ञानतदभावयोरेकसत्त्वे अपरासत्त्वादविद्यमाने चानावृतसाक्षितादात्म्यस्याभावान्न तयोयुगपत्साक्षिवेद्यतेति भावः । अनुत्पन्नम् अविद्यमानम् । विषयस्येव ज्ञानस्याप्यविद्यमानस्याज्ञानविशेषणतया भानम् । प्रमिजोमीत्यादौ प्रमाविशेषणतया प्रमात्वादेरिव न जानामीत्यादावज्ञानविशेणतया प्र. माविरोधस्यापि भानसम्भवात् । अविद्यमानत्वं च प्रमायामिव प्रमात्वघटकाज्ञातत्वे. ऽपि सममिति भावः । 'अहं प्रमावा निति भ्रमकाले अहं 'प्रमाभाववा'निति बुद्धे. रनुत्पादात तस्यां प्रमोपलब्ध्यभावस्य हेतुत्वेन क्लप्ततया अनुपलब्धिप्रमाणवेद्यस्य प्रमाभावस्य साक्षिवेद्यत्वे मानाभावः । न च प्रतियोगिज्ञानं विना नानुपलब्ध्याभावज्ञानम् । तदपेक्षणे च व्याघात उक्त इत्यगत्या प्रमाभावस्य साक्षियाह्यतेति वाच्यम् । तावतापि व्याघातानुद्धारात् । वृत्त्यवच्छिन्नस्यैव साक्षित्वेन तस्यापि तज्जन्यत्वेन प्रतियोगिज्ञानापेक्षत्वात् । न हि 'न जानामी'ति प्रत्यक्षकाले प्रमारूपप्रतियोगिस्मृतिनियमः । तथा सति त्वन्मतेऽनन्तस्मृतिव्यक्तिकल्पने गौरवादित्यपि बोध्यम् । अज्ञानज्ञानं अज्ञानाकाराविद्यावृत्त्यवच्छिन्नचिद्रूपम् । अविद्यो. पहितचिद्रूपस्यैव साक्षित्वे तु नायं दोषः । जन्यविशिष्टबुद्धावेव विशेषणधीहेतुत्वात् । सिद्धत्वादिति । 'दण्डो रक्तो न वेति संशयोत्तरं 'विशेष्ये विशेषणं तत्रापि च विशेषणान्तर मिति.रीत्या जायमाने 'रक्तदण्डवानि ति ज्ञाने विशिष्टवैशिष्ट्यविषयताया अपि वक्तुं शक्यत्वात् विशेष्यान्वायना यदन्वितं तस्यैव धीः तद्विशिष्टवैशिष्ट्यधीरित्यस्यापि वक्तुं शक्यत्वाच्चेति भावः । उक्तहेतुत्वं स्वीकृत्याप्याहइह चेनि । विशेषणवावच्छेदकप्रकारकनिश्चयासम्भवस्थले चेत्यर्थः । सामग्रीतुल्पत्वेनेति । यावन्ति कारणानि विशिष्टस्य वैशिष्ठयबुद्धौ क्लुप्तानि तावतां
For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे अज्ञानवादः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३१९:
विशेष्ये विशेषणमित्यादिरीत्या ज्ञानोपधायकत्वसंभवेनेत्यर्थः । न्यायेनेति । सर्वेषां विशेषणतावच्छेदकानामिति शेषः । अथवा । इह चेति । विशेषणतावच्छेदकांश धर्मान्तरं यत्र धर्मितावच्छेदकतया न भाति, तत्र स्थले चेत्यर्थः । विशिष्टस्य वैशिष्ट्यं विशेष्ये विशेषणं तत्रापि च विशेषणान्तरमित्येतयोरिति शेषः । घटवदित्यादिबुद्धेरुक्तद्वैविध्ये सत्यपि तस्यां विशेषणतावच्छेदकप्रकारकनिश्वयों न हेतुः । किं तु 'रक्तदण्डवदि' त्यादिविशिष्टवैशिष्टयबुद्धौ ' दण्डो रक्तो न वे 'त्यादि - संशये तदनुत्पत्तेः । तथा च ज्ञानविरोधित्वसविषयकत्वविशिष्टाज्ञानवैशिष्ट्यबुद्धावपि सहेतुः । न हि ज्ञानविरोधित्वसविषयकत्वयोरेकमपरत्र धर्मितावच्छेदकतया भातीति नियमः । न वा धर्मान्तरं तथेत्यपि नियमः । मानाभावादिति भावः । विशेष्ये इत्यादि । अज्ञानस्वरूपे उक्तविशेषणयोरेकत्र द्वयमिति रीत्या विशेषणत्वं तत्र ज्ञानादेर्विशेषणत्वमित्यर्थः । विशिष्टेति । विरोधित्वादिविशिष्टेत्यर्थः । एवं च विशिष्टवैशिष्ट्येत्यपि सार्थकम् । अन्यथा न्यायेन ज्ञानसम्भवादित्येवोच्येत । ननु ससम्बन्धिकस्य प्रत्यक्षं विशिष्टस्य वैशिष्ट्यमिति रीत्यैव । अन्यथा रक्तदण्डो नास्तीत्यभावप्रत्यक्षेऽप्युक्तरीतिनियमो न स्यात् । उक्तं च ‘प्रतियोगिविशेषिताभावभानं तु विशिष्टवैशिष्ट्यबोधमर्यादां नातिशेत' इति तत्राह - अन्यथेति । अज्ञानप्रत्यक्षस्योत्तरीतिनियमे इत्यर्थः । विषयस्य विशेष्यविशेषणयोः । स्वातन्त्र्येण विशिष्टस्य वैशिष्ट्यमिति रीत्या । ग्रहे रजतेज्ञानवानितिग्रहे । भ्रमावच्छेदकतया भ्रमांशे विशेषणतया । तद्ब्रहणं विशेष्यविशेषणयोग्रहणम् । तथा चेति । ससम्बन्धिकस्य प्रत्यक्षे उत्तरीत्यनियमे चेत्यर्थः । प्रागित्यादि । अज्ञानप्रत्यक्षोत्पत्तेः पूर्वमज्ञाने विशेषणतयावच्छेदकज्ञानादिग्रहनियम इत्यर्थः । न च इदंरजतयोविंशेषणतया मानेऽपि तद्विशेषणतयोरवच्छेद्यावच्छेदकभावाभानेन तादृशं भ्रमज्ञत्वं समूहालम्बनज्ञानज्ञत्वसाधारणमिति वाच्यम् । विशिष्टस्य वैशिष्ट्यमिति रीतावपि तदभानस्य तुल्यत्वात् । अथ रजतेदंज्ञानवा' निति ज्ञाने रजतमिदं विशिष्ट ज्ञाने विशेषणम् । न त्विदंमात्रे । तथा च ज्ञानस्येदंविषयताविशिष्टत्वेन विशेष्यत्वाद्विशेष्यतावच्छेद के दंविषयतावच्छिन्नविषयतासम्बन्धेन रजतस्य ज्ञाने विशेषणत्वमिति मन्यसे, तर्हि रजतस्येदमंशे विशेषणत्वं विनापि तत् बोध्यम् । ननु, ईश्वरस्य भ्रमग्रहणे तथा स्वीकारेऽपि ' न जानामी' ति प्रत्यक्षे न तथा स्वीकर्त्तुं शक्यते । आकारविशेषविरोधात्तत्राह -- ग्रहणसामग्रीतुल्यत्वमिति । ग्रहणस्य सामग्रीसमग्रता तत्तद्विषयावगाहित्वरूपा तुल्या । यथा विशिष्टस्य वैशिष्ट्यमित्यत्र तथा विशेष्ये विशेषणं तत्रापि च विशेषणान्तरमित्यत्र ।
1
-
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३२०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
-
प्रकृतेऽपि यथा रजतेदं जानामीति प्रत्यक्षे, तथा न जानामीत्यत्र समाना तथा च विषयताभेदेऽप्याकारस्य तुल्यत्वान्नाकारविरोध इति भावः । यथाश्रुतं तु सामग्रोपदमसङ्गतम् । ईशप्रत्यक्षे कारणकूटरूपसामग्यप्रसिद्धेः । अत्र विशेष्ये विशेषणमित्यादिरीत्या न जानामीति प्रत्यक्षस्य ज्ञानाभावप्रकारकत्वासम्भवः । अभावप्रत्यक्षे विशिष्टस्य वैशिष्ट्यमिति विषयतायास्सर्वसम्मतत्वादिति ध्येयम् । रजतेदं जानामीत्याकारस्य प्रत्यक्षस्येशे स्वीकारेऽपि न तत्र भ्रान्तताव्यवहारस्यापत्तिः । उक्तव्यवहारे विशेषादर्शनकालीनस्यैव बाधितविषयकज्ञानवत्त्वस्य विषयत्वात् । अन्यथा तार्किकादिमते दर्पणे मुखं नास्तीति विशेषदर्शनवतो दर्पणे मुखदर्शिनोऽपि भ्रान्तत्वेन व्यवहार्यता स्यात् । परं तु ईशप्रत्यक्षस्य तादृशाकारत्वे मानाभावात्ताकिकैस्तत् न स्वीक्रियते इति ज्ञापनाय तार्किकाणामित्युक्तम् । न्यायशूराणामिति तदर्थः । विशेषतस्तदभावेति । ज्ञानत्वावच्छिन्नतया ज्ञानविशेषीयतया च भासमाना प्रतियोगिता यस्य तादृशाभावेत्यर्थः । विशेषतः तद्व्यक्तित्वेन । प्रतियो गितावच्छेदकेति । तत्सद्व्यक्तित्वरूपेत्यादिः । प्रतियोगीति । प्रागभावप्रतियोगीत्यर्थः । तदेवेति । अभावज्ञाने कारणमित्यनुषज्यते । तत्प्रागभावेति । प्रमाप्रागभावेत्यर्थः । घटवतीति । सामान्यधर्मस्यैव प्रतियोगितावच्छेदकतया भाने प्रतियोग्यंशेऽपि प्रकारत्वस्यावश्यकत्वादित्यादिः । अवच्छेदेऽपीत्यपिकारेण इदं सूचितम् – गगनादाववर्तमानव्याप्तेः प्रमेयत्वं नावच्छेदकम् । अतिप्रसक्तत्वात् वृत्तिमत्त्वावच्छेदेन व्याप्तिधीसम्भवेन व्यर्थविशेषणत्वस्याप्यसम्भवात् । वृत्तिमत्प्रमेयत्वावच्छिन्नत्वस्य व्याप्तौ सत्त्वे तग्रहणस्यादोषत्वात् । असत्त्वे तद्रहणस्य भ्रमत्वादिति । कादाचित्काभावत्वमिति । कालत्वाव्यापकाभाववत्त्वमित्यर्थः । अखण्डोपाधिरूपं वा । न तु प्रागभावप्रतियोग्यभावत्वमिति शेषः । प्रागभावादिघटितः कार्यप्रागभाववत्कालत्वरूपेण कार्यप्राक्कालस्वेन घटितः । आत्माश्रयादिति । प्रतियोगिजनकत्वेन प्रागभावः कल्प्यते । उक्तजनकत्वं च प्रागभावकल्पनात् पूर्वं ज्ञातुमशक्यम् । प्रागभावघटितत्वात् । अतः प्रागभावज्ञप्तिः स्वाधीनेति ज्ञप्तावात्माश्रयः । अन्यथा प्रतियोगिमत्यत्यन्ताभावास्वीकारे । न स्यादिति । प्रागभावस्यैव नीरूप इति धीविषयत्वे रूपवत्यपि भा - विरूपप्रागभावमादाय सा स्यादिति शेषः । यद्यपि सामान्याभावोऽप्युक्तधीविवयस्सम्भवति । तथापि विशेषाभावकूटोक्तिः अथेत्यादिग्रन्थावतारायेति बोध्यम् । सावन्मात्रेति । उक्तप्रतियोगिताकत्वतीमात्रेत्यर्थः । ननु विशेषाभावप्रतियोगितापि सामान्यरूपण वाच्या । अन्यथा इदानीं कपाले घटो नास्तीति प्रतीतौ तद्घटाभावस्य
For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे अज्ञानवादः
लघुचन्द्रिका ।
३२१
घटत्वावच्छिन्न प्रतियोगिताकत्वेन भानं न स्यात् । न च तत्र सामान्याभाव एव भाति । तस्य कालानवच्छिन्नतयैव सर्वत्र भानात् । तत्राह-कादाचित्केति । कालावच्छिन्नतया भासमानेत्यर्थः । सामान्येति । सामान्यावच्छिन्नप्रतियोगिताकेन्यर्थः । सामान्याभावानभ्युपगमे विशेषाभावकूटे उक्तप्रतियोगिताकत्वमुक्तधीविषयः । सामान्याभावस्वीकारेऽपि कदाचित् संसृष्टव्यक्तित्वावच्छिन्नप्रतियोगिताको विशेषाभाव एव तथा । अथवा कादाचित्काभावस्य कदाचिदेव विद्यमानस्वरूपकाभावस्य । ध्वंसत्वेन प्रागभावत्वेन वा अभिमतस्यायोगादित्यन्तं तत्र हेतुः । तत्रापि हेतुरभावादित्यन्तम् । चकारोऽप्यर्थकः । तथा च विशेषात्यन्ताभावस्येव कादाचित्काभावम्यापि प्रतियोगिता न सामान्यावच्छिन्नेत्यर्थः । विशेषेति। विशेषाभावेत्यर्थः। दशायामिति । विशेषाभावकूटनिश्चये ऽपीति शेषः । प्रत्येकं सम्बन्धा इति । प्रत्येकावृत्तेम्समुदायवृत्तित्वासम्भवात् समवायवत् बहुप्वेकस्य सम्बन्धत्वासम्भवाच्च नानापर्याप्तिसम्बन्धा वाच्या इत्यर्थः । समवायस्य प्रत्येकानुयोगिकत्वेन नानात्वम् । पर्याप्तेस्तु तदभावेनैकत्वमित्याशयेन त्वये सामान्याभावं खण्डयिष्यति । अवच्छे. देन विशिष्टत्वेन ! विशेषणीया इति । अन्यथा एथिव्यां सर्वं नीलरूपमिति वत् एथिव्यां रूपं नास्तीत्यपि स्यादिति शेषः । इदन्त्वादिनाभावस्य प्रत्यक्षं वारयितुमाह-अभावत्वप्रकारकेति । ज्ञाने प्रत्यक्षे । हेतुत्वादिति । अन्यथा नेत्याकारकप्रत्यक्षापत्तेरिति शेषः । साध्यत्वात् क्षेमसाधारणसाध्यत्वात् । सामयिकेति। समयविशेषावच्छिन्नेत्यर्थः । ननु, पाकजानां रूपरसादीनां मिथो भेदः कारणभेदं विनानुपपन्नः प्रागभावं कारणत्वेन कल्पयति । पाकादिकारणानामभेदात् । तत्राह -पाकजेति । न तु प्रागभावेति । तयोः क्लप्तत्वादित्यादिः । यद्यपि रूपाद्यलन्ताभावस्य रूपादौ कारणत्वं सम्भवति, तथापि रूपव्यक्तीनामेकेन तेजस्संयो. मादिना जातानां मिथो भेदाय तत्तत्ध्वंसहेतुत्वमुक्तम् । भेदं भेदसिद्धिम् । भेदेति । भेदसिद्धीत्यर्थः । वैलक्षण्यति । प्रतियोग्यधिकरणानधिकरणवृत्तित्वेत्यर्थः । त्रय मिति । तत्तदधिकरणसम्बन्धसमुदायत्वेन सम्बन्धानामेकत्वम् । रोचत इति । यद्यपि समवायः प्रत्यधिकरणं विशिष्टप्रमानियामकत्वेन प्रत्यधिकरणव्यक्तिभिन्नः, तथापि पर्याप्तिः प्रत्येकाधिकरणव्यक्तौ विशिष्टबुद्ध्यनियामकत्वेन न प्रत्यधिकरणं भिन्ना । तथा च प्रत्येकानतिरिक्त समुदायानुयोगिकपर्याप्तेः प्रत्येकानुयोगिकत्वेऽपि समुदितत्वावच्छिन्नाया एकस्या एव तस्याः स्वीकारात् सामान्यावच्छिन्नप्रतियोगिताकत्वस्य सर्वविशेषाभावेप्वकैव पर्याप्तिः । सामान्याभावस्य तु तत्तदधिकरणेषु विशेषणताः तदतिरिक्ताः कल्प्याः । स्वरूपसम्बन्धस्य निरस्तत्वा
४१
For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
अद्वैतमञ्जरी।
दित्यन्त्यः पक्ष एव रोचत इति भावः । यत्तूक्तप्रतियोगितानिरूपकत्वमव्यासज्यवृ. त्तिस्वभावतत्तदभावस्वरूपत्वात् न व्यासज्यवृत्तिकं सम्भवतीत्यनुमानमणिदीधितावुक्तम् । तन्न युक्तम् । बौद्धाधिकारटीकायां विषयतायाः ज्ञानस्वरूपत्वं निषिध्य एवं प्रतियोगित्वानुयोगित्वादिकमप्यतिरिक्तम्। न प्रतियोग्यादिस्वरूपमित्यस्य महता प्रबन्धेन स्थापितत्वात्। अनुयोगिताविशेषरूपस्योक्तनिरूपकत्वस्याभाववरूपत्वाभावात्। यदपि एथिव्यां यावन्ति नीलरूपाणीति वत् पृथिव्यां रूपं नास्तीति वाक्यमपि योग्य स्यादिति, तदपि न । यावन्नीलत्वावच्छिन्नाधेयताया पृथिव्यनिरूपितत्वेन नीलत्वावच्छिन्नाधेयताया एव पृथिवीनिरूपितत्वेन यावन्नीलेषु बोधात् पृथिव्यां न रूपमित्यत्रापि रूपत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नाधेयताया एव बोधस्य व्युत्पत्तिसिद्धत्वात् । सिद्धत्वादिति । तथा च सामान्यरूपेणाभावे समयविशेषावच्छिन्नवृत्तिकेन विवादो निरस्तः । स्वसमभिव्याहतपदार्थतावच्छेदकरूपेणात्यन्ताभावबोधकत्वस्य व्युत्पत्तिसिद्धत्वात् । अन्यथा निर्घटं सघटमित्याद्यापत्तेः । एवं च सामान्यरूपेण विशेषस्य प्रागभावादिरिह कपाले घटो नास्तीत्यादौ समवायावच्छिन्नतया भातीति परोक्तमपास्तमिति भावः । ग्रहे निरूपकत्वग्रहे । अनभ्युपगमादिति । उक्तप्रतियोगिताकत्वान्यव्यासज्यवृत्तिधर्मप्रत्यक्षत्वेन श. क्तिविशेषवत्त्वेन वा कार्यता । अन्यथा अनन्तसामान्याभावकल्पने महागौरवं म्यादिति भावः । संसर्गस्संयोगादिः । तद्धटत्वेति । तद्व्यक्तित्वेत्यर्थः । तत्परिचायकमाह-पूर्वापरकालीनेति । साधारणस्येति । विशेषणस्य न्यूनाधिकवृत्ते वच्छेदकत्वम् । संसर्गस्य तु तादृशस्यापि तदिति वैलक्षण्यात्तदवच्छेदकत्वयोर्भेद इति भावः । तादात्म्येति । तादात्म्यं भेदस्य प्रतियोगितायां नावच्छेदकम् । तत्तव्यक्तित्वं न ध्वंसप्रागभावयोः । मानाभावादिति भावः । सा. मानाधिकरण्येति । यत्र यत्रावच्छेदकभेदः, तत्र तत्राभावभेद इत्युक्तावभावे व्यभिचाराद्यत्रयत्रैकावच्छेदकभिन्नापरावच्छेदकत्वं, तत्र तत्रैकाभावभिन्नापराभावत्वमिति वाच्यम् । तथा च साध्यहेत्वोः असामानाधिकरण्यम् । युगपदित्यादि । युगपदुत्पन्नानामेकः प्रागभावः । युगपद्विनष्टानां चैको नाशः । मूलाग्रावच्छिन्नयोस्तु नाशयोः प्रागभावयोर्वा नैक्यम् । भिन्नावच्छेदेन प्रत्ययादित्यर्थः । अभावांशे प्रतीतेरनुगताकारत्वायेदम् । तदनपेक्षायां तु तत्तदधिकरणेष्वेवाभावत्वं पूर्वोक्तं युक्तम् । उपपद्यते चेदिति । रूपत्वावच्छिन्नप्रतियोगिताकत्वस्यावच्छेदकत्वं वाय्वादाववश्यं कल्प्यम् । तथा च किमपराद्धं वाय्वादिमात्रवृत्त्यभावेन । सम्बन्धादिकल्पनमपि तुल्यमिति भावः । सि
For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NOTICE
It is proposed to publish a monthly Magazine from 15th October 1892 in Devanagari called Advaita-Manjari' on the model of 'Kavyamala.' The Magazine is to embody almost all the old and rare standard works in Sanskrit on the Advaita philosophy. In the earlier numbers will be printed portions Seriatim of the famous works Advaitasiddhi & Gaudabrahmanandiya. After these will follow other works like the Brahmavidyabharanam, Nyayarakshamani, Siddhantalesasangraha, & Kalpataru, with Parimala. Each No. will consist of 120 pages Royal Octavo. The services of three Pundits of extensive erudition and established reputation have been engaged for ensuring accuracy in our publications.
All intending subscribers are requested to register their names before the said date and to remit in advance their subscription for the first half-year. The address should be full and legible.
RATES OF SUBSCRIPTION.
Rs. AS. PS. Rs. As. Ps. Per annum ... (in advance) 9 8 0 Postage. 0 12 0 Half-yearly ... do. 5 0 0 Do. 0 6 0 Single copy ... ... ... 1 0 0 Do. 0 1 0
S V. SAMBASIVA IYER. 26th September 1892.
Managing Proprietor. “SREE VIDYA PRESS" KUMBH AKONUM
MADRAS.
For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only