SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदे मिथ्यात्वश्रुत्युपपत्तिः लघुचन्द्रिका २८५ पर्यवसानात् पर्यवसानस्य भाष्यादावुक्तत्वात् । उत्पत्तेः पूर्व कार्यस्य सत्त्वे का. रणव्यापारवैफल्यात् असत्त्वे तत्र कार्यासम्बन्धकालस्यावच्छेदकत्वासम्भवात् सदैव कार्यस्यासत्त्वापत्तिः । अतस्सत्त्वासत्त्वाभ्यामुत्पत्तेः पूर्वमनिर्वाच्यं कार्यम् । व्यावहारिकोत्पत्त्यादिमत्प्रतीयमानोत्पत्त्यादेर्मानसिद्धत्वेऽपि श्रुतियुक्त्यादिबाधात् । ॥ इति लघुचन्द्रिकायां मिथ्यात्वानुमितौ प्रतिकूलतर्कभङ्गः ॥ __ आप्तेति । वाक्यार्थप्रमावदुक्त्यर्थः । अयोगादिति । तथा च यद्यत्प्रमाणशब्दबोध्यं, तत्वबोधकशब्दादिसमसत्ताकमिति व्याप्तौ न बाध इति भावः । उपश्रुतीति । एतत्कर्तव्यं नवेति सन्दिहानेन श्रूयमाणमन्यस्य कर्तव्यतापरमवश्यमेतत्कर्तव्यमिति वाक्यमन्यस्माअन्येनोच्यमानमुपश्रुतिस्तस्य कर्तव्यतया सन्दिग्धस्यार्थस्य कर्तव्यतायां शब्दतया न प्रामाण्यम् । तस्य तत्परत्वाभावादाप्तोक्तत्वाभावाच । तथाप्यनुमापकतया आगमेन तथाबोधनात्तथोक्तवाक्यस्य स्वार्थ इत्यर्थः । शब्दति । स्वबोधकशब्दादीत्यर्थः । व्यभिचारात् प्रमाणशब्दबोध्यत्वं प्रत्यव्यापकत्वात् । नियमसिद्धेः उक्तव्याप्तिज्ञानस्य । अप्रयोजकत्वात् । निश्चायकस्य तर्कस्यानवतारेणानिश्चयरूपत्वात् । पराक्षखति । साक्षिभिन्नत्वेत्यर्थः । यथाश्रुतस्य घटादौ साध्याव्यापकत्वात् । न च पक्षेतरत्वतुल्यतेति वाच्यम् । उक्तोपाधिर्यदि साध्यव्यापको न स्यात् , तदा साक्षिणस्स्वबोधकयोग्यतादिसमसत्ताकत्वे तस्य बाध्यत्वं निस्साक्षिकं स्यादिति तर्केण व्यापाकतानिश्चयात् वाधोन्नीतपक्षेतरत्वतुल्यत्वादात्मगुरुत्वान्यतरत्वावच्छिन्नं साध्यव्यापकं यथाश्रुतं परोक्षत्वमेव वोपाधिः।आनत्यत्वति । विनाशित्वेत्यर्थः । गगनादेरपि विनाशित्वान्न साध्याव्यापकत्वनिश्चयः । सन्निपातेत्यादि । सन्निपातस्सम्बन्धः लक्षणं निमित्तं यस्य तादृशो विधिस्तद्विघातस्य स्वनिमित्तभूतसन्निपातविघातस्य । निमिनं कारणं नेत्यर्थः । तथा च यथा शतानीत्यादौ सन्निपातं निमिनीकृत्य प्रवर्तमानो नुम्विधिर्नान्तत्वद्वारकपटसंज्ञया शिलोपेन तद्विघातस्य न निमित्तं, तथा मिथ्यात्वमिंग्राहकप्रत्यक्षादिप्रामाण्यसन्निपातं निमित्तीकृत्य प्रवर्तमाना विश्वमिथ्यात्वश्रुति!क्तसन्निपातविघातस्य निमित्तमित्यर्थः । वैषम्यादिति । दृष्टान्ते शिसद्भावस्य निमित्तत्वात्तदविघातकत्वेऽपि दार्शन्तिके तात्त्विकप्रामाण्यस्यानिमित्तत्वातद्विघातकत्वेऽपि नोक्तन्यायबाधः । व्यावहारिकप्रामाण्यस्य निमित्तत्वेऽपि तद्विघातकत्वमुक्तश्नुतेर्नेष्यत एवेति भावः । सर्वनामस्थानसंज्ञकेति । शिसर्वनामस्थानमित्यनेन विहितोक्तसंज्ञकेत्यर्थः । विहित इति। सर्वनामस्थाने इति अनुवृत्तौ 'नपुंसकस्य झलच' इत्यनेन विहित इत्यर्थः । विहितत्वादिति । न च उपदेशकाले यत् ष्णान्तं, तस्यैव षड्संज्ञा विधीयते । अ For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy