________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
अद्वैतमञ्जरी ।
न्यथा येन विधिस्तदन्तस्थेत्यन्तग्रहणसिद्धौ अन्तग्रणं व्यर्थं स्यात् । तथा च शतानीत्यादौ सा न युक्तेति वाच्यम् । सङ्घयेत्यस्यानुवृत्तौ मानाभावेन विपुष इत्यादावपि षट्संज्ञा स्यात् । अन्ते ग्रहीते तु स्त्रीलिङ्गनिर्देशान्यथानुपपत्त्या सङ्ख्यानुवृत्तिः । तथा च तत्रैवार्थापत्तेरुपक्षयात् स्वाभावनान्तत्वानाक्षेपात् 'सन्निपातेत्या'दिन्यायेनैवास्वभावनान्तत्यागसम्भवन स्वभावनान्तत्वाक्षेपवैयच्चि । लुमतेति । लुवर्णवता लुकलुलुबित्येतेषामन्यतमेनेत्यर्थः । अङ्गस्येति । 'यस्मात् प्रत्ययविधिस्तदादीत्यनेन विहिताङ्गसंज्ञकस्येत्यर्थः प्रकृतेरिति यावत् । लुप्ते विहितलोपयोग्ये । तेन लोपात् पूर्वमपि नाङ्गकार्यम् । लुप्तेऽपीति ! अग्निचिदित्यादौ लुप्तेऽपि किबादौ तुगादिकार्यमित्यर्थः । यद्यपि 'स्थानिवदादेशे' त्यादिनैव लुप्तप्रत्ययस्य निमित्तता । प्रत्ययलोप इत्यादिकं तु प्रत्ययमात्रनिमित्तकमेव कार्य प्रत्ययलोप इति नियमार्थम् । तेन बोभवीतीत्यादौ लुप्तप्रत्ययानिमित्तकं यङो ङित्वेऽपि नात्मनेपदमित्यादिवैयाकरणैरुक्तं, तथापि नियमबोधकवाक्येन नियम्यप्रापकस्थानीत्यायेवोक्तम् । एवं स्थिते येन रूपेण यद्यस्योपजीव्यं, तेन रूपेण तत्तेन न विहन्यतेत्यस्योक्तन्यायस्वरूपत्वे स्थिते । अमिथ्याभूतत्वेन सत्यविषयकत्वेन । अर्थक्रियासामर्थ्येति । प्रवृत्त्यादिकार्यसामर्थेत्यर्थः । तात्त्विकत्वं तात्त्विकप्रामाण्यम् । न बाध्यत इति । विचारकाले प्रपञ्चम्य बाधेऽपि तत्पूर्वकालाबाध्यविषयकत्वरूपं व्यावहारिकप्रामाण्यं न बाध्यत इत्यर्थः । टीका भामती। उत्पादकं उपजीव्यम्। वस्तुतस्तु, तात्त्विकत्वेन प्रत्यक्षादेरुपजीव्यत्वेऽपि प्रकृते तन्न्यायस्य नावतारः । सामान्यविषयकोक्तन्यायस्य विशेषविषयकेनाद्वैतश्रुतितात्पर्यान्यथानुपपत्त्यादिना 'तदनन्यत्वमारम्भणशब्दादिभ्य' इति न्यायेन 'प्रावल्यमागमस्यैव जात्या तेषु त्रिषु स्मृत' मिति स्मृत्या च बाधसम्भवात् । अत एव महाभाष्ये-नदी ब्राह्मणी' इत्यादौ तन्यायानवतारात्तन्यायस्य प्रत्याख्यानमाशङ्कय तन्न्याय आवश्यकः । दोषेषु तु प्रतिविधातव्यमित्युक्तम् । यत्र यत्र बाधकं तदन्यस्थले तस्यावतार इत्यर्थः । तथा च 'एहस्वात्सम्बुद्धे'रिति सूत्रे गुणादित्य कृत्वा एहस्वादिति करणं ज्ञापयति । यदेतदन्यविषय एवोक्तन्यायावतारः । यदि हि 'नदी ब्राह्मणी'त्यादौ सन्निपात. न्यायेन सम्बुद्धिलोपबाधः, तदा गुणात् सम्बुद्धेरित्येव सूत्रं क्रियतेत्यादिकमिवोतान्यथानुपपत्त्यादिकमपि बाधकमिति ध्येयम् । उपजीव्याग्नीत्यादि । उपजीव्ये ये अग्निविद्ये तद्वत्पुरुषाधिकारिकत्वेनेत्यर्थः । 'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादिविधिषु चतुर्णामपि वर्णानामधिकारः अशूद्राणां वेति संशये, विशेपाश्रवणाच्चतुर्णामिति प्राप्ते, 'आहवनीये जुहोती'त्यादिविधिना आहवनीयाद्यग्री
For Private and Personal Use Only