________________
www.kobatirth.org
प्र०दे मिथ्यात्व श्रुत्युपपत्तिः ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
翻
नां सामथ्यैकल्पित विधिना अनुष्ठेयार्थज्ञानस्य च ऋत्वङ्गत्वात् शूद्रस्य चाहवनीयाद्यर्थज्ञानोपायाधानाध्ययनाभावात् क्रयादिना हवनीयादेः दृष्ट्यादिनार्थज्ञानस्य च तत्र कल्प्यत्वे गौरवात् 'वसन्ते ब्राह्मणोऽग्रीनादधीते' त्यादिविहिताधानादिसिद्धाहवनीयादिमत्तया क्लृप्तानां त्रैवर्णिकानामेवाधिकार इति षष्ठप्रथमे स्थितम् । वियत्वस्य निषेधबोधकत्वस्य । तात्त्विक सर्वमिथ्यात्वेति । तात्त्विकं यत् स्वसमानाधिकरणात्यन्ताभावस्वरूपं, तत्प्रतियोगित्वेत्यर्थः । ननु, प्रपञ्चस्स्वरूपेण निषिद्धस्तुच्छस्स्यात् । पारमार्थिकत्वेन निषिद्धश्चेत् ब्रह्मापि तथास्तु । निर्धर्मकत्वात् । अथ ब्रह्म तेन रूपेण मिथ्या । शुद्धस्वरूपेणैव सत्, तहिं प्रपञ्चोऽपि तथास्तु । तवाह - यथा चेति । स्वरूपतः आविद्यकत्वादिरूपेण । ब्रह्मणो ब्रह्मण एव । स्वरूपेण शुद्धरूपेण । अवस्तात् प्रथममिथ्यात्वविचारे । सत्त्वेन ज्ञेयत्वात् तुच्छवैलक्षण्यम् । पारमार्थिकत्वशून्यस्यापि प्रपञ्चस्य शुद्धरूपेण न सत्त्वम् । तस्य शुद्धरूपत्वाभावात् । भावेऽपि श्रुत्यनुमानाभ्यां तस्यैव मिथ्यात्वम् । न ब्रह्मणः । मानाभावात् साक्षित्वाचेत्याद्युक्तम् । विशेणयोरैक्यापातेनेति । वाच्यविशिष्टं प्रमेयविशिष्टमित्यादाविव 'सोऽयमित्यादौ तत्तेदन्तयोविंशेषणत्वे विशेष्यान्वयेिनान्वयनियमेनान्योन्यमभेदान्वयापातेनेत्यर्थः । सर्वत्र विशेषणयोरभेदबाधस्थले । अभेदपरेति । अभेदपरत्वयोग्येत्यर्थः । विशिष्टोपस्थापकसामनविभक्तिकपदद्वययुक्केति यावत् । लक्षितविशेष्यैक्येति । लक्षितशुद्धविशेष्यव्यक्तिमात्रेत्यर्थः । विशिष्टबोधकपदस्य विशिष्ट प्रतियोगिकान्वयबोधकत्वमावश्यकम् । मुख्यवृत्तिज्ञानसहकृतस्य तस्य तादृशान्वयबोधोपधायकत्वस्य क्लृप्तत्वात् । अन्यथा 'लोहितोष्णीषा ऋ त्विजः प्रचरन्ती' त्यादौ लौहित्यादेर्विशेषणता न स्यादुपलक्षणताया उपाधिताया वा वक्तुं शक्यत्वात् । अतो मुख्यां वृत्तिं त्यक्त्वैव वा विशेषणत्वं वाच्यम् । तत्रापि तात्पर्याविषयस्योपाधित्वेऽपि मानाभावादुपलक्षणत्वमेवावशिष्यते । तथा च शुद्धव्यक्तिमात्रधीपरत्वमिति भावः । एकता अत्यन्ताभेदः । विपरीतेति । जीवत्वेशत्वरूपविरुद्धविशेषणघटितेत्यर्थः । तथा चात्यन्ताभेदपरत्वान्यथानुपपत्त्या शुद्धलक्षणेति भावः । संस्थानविशेषस्य उत्तृणत्वादेः । स्वतो व्यावृत्तेति । घट इति ज्ञाने अन्याविशेषितरूपेण भासमानघटत्वादित्यर्थः । उपलक्ष्यत्वेति । उपस्थाप्यत्वेत्यर्थः । अनर्थेति । सद्वितीयत्वज्ञानेत्यर्थः । द्वितीयाभावद्वारकेति । द्वितीयाभाववत्त्वेन ब्रह्मोपस्थितिद्वारकलक्षणाज्ञानाधीनेत्यर्थः । अवान्तरतात्पर्येति । मन्त्रार्थवादादेर्देवताविग्रहादिबोधद्वारा स्तुत्यादिपरमतात्पर्यकस्य देवताविग्रहादाववान्तरतांत्पर्यस्य विवरणकारादिमत इवाद्वितीयत्वादिरूपेण ब्रह्मज्ञा
A
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२८७