SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ अद्वैतमञ्जरी । नाधीनविरोधिप्रतिसन्धानाधीनया लक्षणाकल्पनया शुद्धब्रह्मपरत्वेन गृह्यमाणस्याद्वितीयादिवाक्यस्याद्वितीयत्वादिविशिष्टब्रह्मण्यवान्तरतात्पर्यस्य स्वीकारः । उक्तं हि संक्षेपशारीरके-'सामानाधिकरण्यमत्र भवति प्राथम्यभागान्वयः पश्चादेव विशेषणेतरतया पश्चाद्विरोधोद्भवः । उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिलक्षणया भवत्ययमिह ज्ञेयः क्रमस्सूरिभिः॥सामानाधिकरण्यमत्र पदयो यं तदीयार्थयोस्सम्बन्धस्तु विशेषणेतरतया ताभ्यां सहास्यात्मनः । सम्बन्धोऽप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधैरेतान्यर्थपदानि बुद्धिपदवीमारोहणीयानि तु॥ पदयोस्सामानाधिकरण्यमर्थयोर्विशेषणविशेष्यभावसंपादकं तादात्म्यं च ज्ञेयम् । ततो विरोधप्रतिसन्धानात् शुद्धे लक्षणया धीरित्यर्थः । तथा च पदोपस्थाप्ययोविशिष्टयोरभेदबोधस्य द्वारत्वेनोक्तत्वात्तत्रावान्तरतात्पर्यमिति ज्ञापितम् । ननूक्तपद्यैरद्वितीयत्वादिविशिष्टे बमणि नावान्तरतात्पर्यसिद्धिः । तेषां ह्ययमर्थः । 'सत्यं ज्ञानमनन्तमेकमेवाद्वितीय' मित्यादिवाक्यस्थानां सत्यादिपदानां प्रथमतोऽत्यन्ताभिन्नार्थकत्वं निर्णीयते । एतानि स्वबोध्यार्थानामत्यन्ताभेदपराणि। समानविभक्तिकनानानामत्वात्। नीलो घट इत्यादिवत् । भिन्नयोस्तादात्म्यबोधने मुख्यसामानाधिकरण्यबाधात् अत्यन्ताभेदो ह्यखण्डैक्यरूपो मुख्यं सामानाधिकरण्यमिति संक्षेपशारीरक एव प्रपञ्चितम् । पश्चात् ब्रह्मपदार्थे उक्तवाक्यतात्पर्यविपयीभूतबोधविषये सत्याद्वितीयपदवाच्यार्थानां विशेषणत्वमुपलक्षणत्वं वेति ज्ञायते । प्रमेयविशिष्टं वाच्यविशिष्टमित्यादौ विशेषणत्वस्य — सोऽय' मित्यादौ चोपलक्षणत्वस्य वाच्यार्थेषु दृष्टत्वेनात्रापि तयोः सम्भावितत्वात् पश्चाविशेषणत्वे विरोधदर्शनेनोपलक्षणत्वस्यैव निर्णयेन लक्षणावृत्तिनिर्णय इति । तथा च विशिष्टयोरभेदे वा उपलक्षितस्वरूपे वा तात्पर्यमिति तात्पर्यसंशय एव द्वारतयोक्तः । न तु विशिष्टयोरभेदबोध इति तत्रावान्तरतात्पर्ये मानाभावस्तत्राह-तद्वारैवेति । सत्यादिवाक्येन शुद्धब्रह्मबोधे जन्यमाने ब्रह्मणि सत्यत्वाद्युपहिताभेदनिर्णयो द्वारम् । अन्यथा ब्रह्म सत्यं मिथ्या वेति संशयानिवृत्योक्तज्ञाने मिथ्याविषयकत्वरूपाप्रामाण्यसंशयेन तत्त्वमस्यादिवाक्यार्थबोधेऽपि तदुत्पादात्तस्याविद्यानिवर्तकत्वं न स्यात् । एवं ब्रह्म ज्ञानत्वोपहितं न वेति संशयानिवृत्त्या ब्रह्मस्वरूपमुखस्याप्रकाशमानत्वसंशयेन मोक्षस्यापुरुपार्थत्वसंशयेन मोक्षार्थप्रवृत्तिर्न स्यात्।एवमानन्दत्वसंशयानिवृत्यापि सा न स्यात् । एवमनन्तत्वसंशयानिवृत्त्यापि विनाशित्वादिसंशयेन सा न स्यात् । एवमद्वितीयत्वसंशयानिवृत्त्या जीवब्रह्मस्वरूपयोः संसारित्वैश्वर्यादिद्वैतविशिष्टयोरैक्यमनुपपन्नम् । विरुद्धधर्मयोगित्वप्रयुक्तभेदसंशयेन तयोरैक्यनिश्चये प्रामाण्यसंशयादिसम्भ For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy