SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८९ प्र०दे मिथ्यात्वश्रुत्युपपत्तिः] लघुचन्द्रिका वात्तस्याविद्यानिवर्तकत्वं न स्यात् । तस्मात् पश्चादेव विशेषणेतरतयेत्यस्य द्वावर्थों बोध्यौ । विशेणविशेष्यभावेन ब्रह्म सत्यमित्यादिरूपो द्वारीभूतो बोधः पश्चादित्येकः । सत्यादिवाक्यतात्पर्यविषयबोधे सत्यादिपदवाच्यतावच्छेदकं विशेषणमुपलक्षणं वा। द्वयोरपि सम्भावितत्वादिति प्रतिसन्धान पश्चादित्यपरः । एवं च सामानाधिकरण्यमित्यादेरयं फलितार्थः । सामानाधिकरण्यज्ञानं प्रथमोऽन्वयः । अन्वयपदं मुख्यतात्पर्यविषयधीप्रयोजकार्थकम् । पश्चाद्विशेषणेतरतयान्वयः, पश्चाद्विरोधज्ञानम् । सत्यत्वादिसंसर्गस्य मिथ्यात्वात् तद्धटितार्थस्याधिष्ठानत्वाभावात् शुद्धव्यक्तिरूपैक्यबोधकत्वस्य मुख्यसामानाधिकरण्यत्वाञ्च संसर्गघटितत्वेनोक्तवाक्यतात्पर्यमुपपद्यत इत्याकारमुक्तान्वयविरोधज्ञानमिति ध्येयम् । द्वितीयाभावसिद्धीति । द्वितीयाभावरूपद्वितीयसिध्या अद्वैतहानीत्यर्थः । क्षेपिष्ठत्वेति । अतिक्षिप्रत्वेत्यर्थः । वपात्खननादाविति । ‘स प्रजापतिरात्मनो वपामुदक्खिददि'त्यादिवाक्यार्थे वपोत्खननादावित्यर्थः । ग्रहैकत्वादाविति । दशापवित्रेण ग्रहं सम्मार्टीत्यादौ ग्रहमुद्दिश्य दशापवित्रेण सम्मार्जनस्य विधौ ग्रहत्वादिमात्रमुद्देश्यविशेषणतया विवक्षितम् । न तु ग्रहैकत्वादिकम् । यावता विशेषणेन विना नोद्देश्यं पर्यवस्यति । तावत एव विवक्षितत्वात् । उद्देश्यं हि क्रियां प्रति प्रधानं तत्पर्यवसितं सन्नेतरेण विशेषणेन नियन्तुं शक्यते । विधेयं तु गुणीभूतं श्रुतेन सर्वेण विशेषणतया नियम्यत एव । तदुक्तं वार्तिके- 'प्रधानक्रिया कारकाणि पिण्डीकरो'तीति । एवं 'यम्योमयं हविरातिमार्छत् ऐन्द्रं पञ्चशरावमोदनं निवपे'दित्यादौ निमित्तीभूतहविराादौ नोमयत्वादिकं विवक्षितमिति भावः । स्वबोधितं स्वेन बोध्यमानम् । अतात्पर्यात् मुख्यतात्पर्याभावात् । न क्षतिः न मानविरोधक्षतिः । तथा च वपोत्खननादिवाक्यवत् न मुख्यार्थमहातात्पर्यकमद्वितीयपदमिति भावः । नन्वित्यादि। ग्रहणाग्रहणवाक्याभ्यां ग्रहणस्यैकस्यैव विधिनिषेधयोः स्वीकारात् एकेनेत्युक्तम् । एकेनैव वाक्येन निषेधस्य प्राप्तिः निषेध्यस्य निषेध३चोपपद्यत एवेत्येकस्येत्युक्तम् । एकेन वाक्येनैकस्य प्राप्तिनिषेधयोः स्वीकारे तु क्रमेण तयोस्स्वीकारे विरम्य व्यापारापत्तिः । युगपत्स्वीकारे निषेधार्थ वि. धेयस्यानुवादायोगः । अनुवादस्य प्राप्तिपूर्वकत्वात् सदुभयत्र तात्पर्यासम्भवेनावृत्तिकल्पनापत्तेवाक्यभेदापत्तिः । किं चैकस्य वाक्यस्य प्राप्तिनिषेधयोस्वतन्त्रतात्पर्यास्वीकारे तयोर्वैयर्थ्यम् । न हि निषेधार्थमेव किञ्चिद्विधीयत इति कत्रापि दृष्टमिति भावः । रूपभेदेनेति । स्वतन्त्रतात्पर्यभेदस्वीकारे सत्येव विरम्य व्यापारादिकं दोषः । 'इन्द्रो वृत्राय वज्रमुदयच्छ' दित्यादौ स्वार्थं विधाय तद्वारा स्तु ३७ For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy