SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० अद्वैतमञ्जरी । त्यादितात्पर्यस्वीकारात् स्वतन्त्रतात्पर्याभावेऽपि विधिन व्यर्थः । यत्र ह्येकरूपेण विधिनिषेधौ, तत्र विधिय॑थः । निषेधार्थमेव तत्र विधानाद्विधेयस्यैव निषेधाच्च । प्रकृते तु द्वितीयमात्रस्य निषेधः । न तु विधेयस्य द्वितीयाभावस्यैव । तद्विधिरपि न तन्निषेधार्थः । किं त्वखण्डवाक्यार्थसिद्ध्यर्थः । तथा च द्वितीयाभावस्य वस्खेतररूपसर्वद्वितीयनिषेधरूपत्वेन निषेध एव तात्पर्यम् । न विधौ । तदेतद्वक्ष्यति 'प्रकते तु निषेधस्यैव शास्त्रार्थत्वादिति । तदपि तात्पर्यं न मुख्यम् । तद्विषयस्यान्यशेषत्वात् । तथा च न द्वितीयाभावस्य तात्त्विकत्वम् । न वा विधेयत्वनिषेध्यत्वयोर्विरोध इति भावः । ननु, द्वितीयाभावस्य ब्रह्मरूपत्वस्वीकारपक्षे बमभिन्नत्वरूपं द्वितीयत्वं न तदनुगतम् । तत्राह-तत्रति । द्वितीयाभाव इत्यर्थः । तदनभ्युपगमे द्वितीयत्वास्थीकारे । ननु, यथा 'न हिम्पा'दिति निषेधो विहितान्यहिंसाविषयकः, तथा द्वितीयसामान्यनिषेधो द्वितीयाभावान्यद्वितीयविषयकोऽस्तु । यथा वा षोडशिग्रहणाग्रहणवाक्याभ्यां विकल्पसिद्धिः, तथा द्वितीयाभावप्राप्तितनिषेधाभ्यां सास्तु । तत्राह-यत्र वित्यादि । अतुल्यविषयकत्वे सामान्यविशेषभावाद्यापन्न विषयकत्वे । तुल्यविषयकत्वे सामान्यविशेषभावाद्यनापन्नविषयकत्वे।अगत्यति। निषेधशास्त्रस्यासंकुचवृत्तित्वे प्राप्तिशास्त्रवैयर्थ्यापत्तिरूपवक्ष्यमाणदोषेण सङ्कोचाभावरूपगतेरसम्भवेनेत्यर्थः । विकल्पेन पाक्षिकानुष्ठानेन । एकविषयकत्वं एकस्यातिरात्रस्य विधिनिषेधेोभयसम्बन्धवोधकत्वम् । ग्रहणे अनुष्ठिते तत्सहितैर रुपकारः । अननुष्ठिते तद्रहितैरप्युपकारः । परं तु तत्सहिताङ्गोपकृतेनातिरात्रेण जनिते फले भूमास्ति । अन्यथा तत्सहिते प्रवृत्त्यनुपपत्तेरिति कल्प्यत इति भावः । निषेधस्य द्वितोयाभावसाधारणद्वितीयत्वसामान्यावच्छिन्न प्रतियोगिताकाभावस्य शास्त्रार्थत्वात् अद्वितीयपदघटितशास्त्रस्यावान्तरतात्पर्यविषयत्वात्। न कस्यापीति। द्वितोयाभावोऽत्र न प्राप्यः । तस्यापि द्वितीयत्वेन तत्प्राप्तेरेव तन्निषेधरूपत्वात् । द्वितीयसामान्याभावो हि एकः स्वेतरस्येव स्वस्यापि द्वितीयस्याभाव इति तत्प्राप्तिरपि द्वितीयत्वरूपेण तद्विशिष्टबुद्धौ विरोधिनी तन्निषेध एवेति निषेधशास्त्रस्यैव तत्प्रापकशास्त्रत्वेन न तद्वैयर्थ्यशङ्केति भावः । अत एव उक्तवाक्यस्य सर्वद्वैतनिषेधमानतात्पर्यकत्वादेव । उन्मजनेति । प्राप्तीत्यर्थः । निरस्तमिति । द्वितीयाभावो ब्रह्मणि नास्तीति निषेधपर्यवसाने द्वितीयोन्मज्जनं स्यात् । द्वितीयाभावो द्वितीयं च किमपि ब्रह्मणि नास्तीति पर्यवसाने तु सुन्दोपसुन्दन्यायेन द्वयोरपि निषेधान्न तयोरेकस्याप्युन्मज्जनमिति भावः । विशेषणत्वेनेति । विशेषणत्वेन द्वितीयस्योपादानं यथा न युक्तम् । निषेधस्य पूर्वकृतस्य व्यर्थत्वापत्तेः, For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy