SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र० दे अद्वैतश्रुतेर्बाधोद्धारः] लघु चन्द्रिका २९१ तथा द्वितीयाभावस्योपलक्षणतया पश्चादुपादानं व्यर्थत्वादयुक्तमित्यर्थः । निषिद्धस्य पुनरुपलक्षणत्वेनोपादानं व्यर्थमित्यत्राशङ्कयते । निषिध्यमानस्य निषेधकेन विशेषणतयोपादानं न युक्तम् । प्रापकस्य निषेधकत्वविरोधादित्याशङ्कय रूपभेदेनाविरोधादिति समाहितं पूर्वमिति न पौनरुक्त्यम् । अभावबुद्धौ ‘नात्र रजत मिति बुद्वौ । निषिद्धस्यापि रजतस्य प्रतियोगिनः सा शुक्ति'रित्यत्रोपलक्षणतयोपादानदर्शनादिति योजना । ननु, ‘सा शुक्ति'रित्यत्र रजतस्य तत्पदार्थस्य विशेष्यत्वेन नोपलक्षणत्वम् । तत्राह-प्रसिद्धस्येति । भ्रमसिद्धस्येत्यर्थः । तथा च 'सा शुक्ति'रिति ज्ञानं भ्रमबाधकत्वेन भ्रमतद्विषयविरोधित्वान्न तद्विषयकमिति भावः । तत्पदबोध्यत्वं प्रतीतत्वादेवेत्याशयेन पूर्वप्रतीतेत्युक्तम् । उपलक्षणतया विशेष्यीभूतेदन्त्वविशिष्टोपस्थापकत्वे सति अभासमानतया । ननु, 'इयं शुक्ति' रिति ज्ञानं भ्रमविशेप्येदन्त्वविशिष्टे शुक्तित्वं विषयीकुर्वदेव बाधकम् । नान्यथा । तत्र विशेष्योपस्थापकतया रजतस्योपादानमुपयुज्यते । द्वितीयाभावस्य तु ब्रह्मज्ञाने विशेष्याभूते किञ्चिद्धर्मविशिष्टे नोपस्थापकत्वम् । तत्राभासमानत्वमात्रेण तु नोपलक्षणत्वम् । तत्राह--असङ्कीर्णज्ञानेति । व्यावृत्ताकारकज्ञानेत्यर्थः । तुल्यत्वादिति । किञ्चिद्धर्मविशिष्टानुपस्थापकत्वेऽपि शुद्धब्रह्मोपस्थापकत्वादुपलक्षणसया व्यावर्तकत्वस्यापि पूर्वमुक्तत्वाट्यावृत्ताकारकधीप्रयोजकत्वेन द्वितीयाभावस्याप्युपयोग इति भावः ॥ इति लघुचन्द्रिकायां सामान्यतो मिथ्यात्वश्रुत्युपपत्तिः ॥ कश्छन्दसामित्यादि । च्छन्दसां वेदवाक्यानां । योगं तात्पर्य । धीरोऽपि को वेदेत्यर्थः । च्छन्दसां गायत्र्यादीनां योगं स्तुतशस्त्रात्मना विनियोगं को वेदेति माधवीयमाप्यव्याख्यानस्यापि वेदतात्पर्यदुर्जेयत्वे तात्पर्यम् । अल्पश्रुतात् अल्पविद्याकात् पुरुषात् । आज्यैरित्यादि । आज्यै रित्यादौ घृतादित्यागेन स्तोत्रपरत्वं पूर्वमीमांसायाचित्राधिकरणे स्थापितम् । आकाशादित्यादौ गगनादित्यागेन परमात्मपरत्वमुत्तरमीमांसायामाकाशाधिकरणे स्थापितमित्यर्थः । सामपदं स्तोत्रपरम् । सामगानविशिष्टमन्त्रकरणकं गुणाभिधानं स्तोत्रम् । 'चित्रया यजेत पशुकामः' 'पञ्चदशान्याज्यानी' त्यादौ चित्राज्यादिपदानां गुणवाचित्वं कर्मनामत्वं वेति सं-. शये, चित्राज्यादिशब्दानाञ्चित्ररूपघृतादिषु रूढत्वेन यागनामत्वासम्भवाच्चित्रावाक्ये चित्रत्वस्त्रीत्वोभयं करणत्वेनानीषोमीयपशुयागीयद्रव्यपरिच्छेदकतया विधीयते । 'दधि मधु घृतं पयो धाना' इत्यादिप्रकृतयागेषु करणत्वासम्भवात् । एवमाज्यादिवाक्येषु सन्निधौ स्थापयेदित्यध्याहारेणाज्यादेः स्तोत्रसन्निधी For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy