________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
अद्वतमञ्जरी ।
स्थापनं प्रकृतस्तोतं प्रत्यदृष्टद्वारा करणत्वेन विधीयत इति प्राप्ते, अग्नीषोमीये अग्नीषोमीयमित्यादिप्राकरणिकवाक्यविहितपुंस्त्वावरुद्धद्रव्यकत्वेन स्त्रीत्वस्य विंधानासम्भवात् पशुकामपदवैयर्थ्याच्च चित्रापदं न गुणविधायकम् । किं तु प्र. कृतयागानामेव पशुफलसम्बन्धविधिपरे वाक्ये तेषां नामधेयम् । इष्टयेत्यस्याध्याहारात् स्त्रीलिंगोपपत्तेः यागस्य चित्रत्वं दध्यादिनानाद्रव्यकयागसमुदायान्तर्गतत्वम् । एवं पञ्चदशानीत्यस्य 'स्तोमे डविधि'रित्यनेन स्तुतिसंख्यायां डप्रत्ययानुशासनात् पञ्चदशाज्यपदयोरसमस्तत्वेन मिथोऽनन्वयात् विशिष्टविध्यसम्भवादाज्यनामकस्तोत्रे संख्यामात्रं विधीयते । स्तोत्रञ्चाज्यैस्तुवते इति वाक्यै विहितमिति प्रथमचतुर्थे स्थितम् । 'अस्य लोकस्य का गति'रिति प्रश्नोत्तरे 'आकाश इति होवाचेति वाक्ये आकाश इति पदस्य भूताकाशे रूढत्वात् प्राथमिकत्वाच्च तद. नुरोधेन 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते'इत्यादिकञ्चरमोक्तं वाय्वादिभूतकारणत्वपरम् । तथा च भूताकाशमुद्गीथे संपाद्योपास्यमिति प्राप्ते, आकाशपदं ब्रह्मपरम् । ततोऽपि प्रथमं अस्य लोकस्य कागतिरित्यनेन सर्वलोककारणस्य पृष्टत्वात् प्रश्नानुसारेण सर्वपदस्यासंकोचादिति प्रथमप्रथमे शारीरके स्थितम् । तथा चोक्तं 'मानान्तराविरुद्धस्य शास्त्रार्थत्वमुक्तमिति । अत्रोत । शाबरभाष्यस्थवाक्ये इति शेषः । यद्यपि ज्ञातसम्बन्धस्य एकदेशदर्शनादेकदेशान्तरे असन्निकृष्टार्थे बुद्धिरनुमानमित्यनुमानलक्षणभाष्यव्याख्यानावसरे वार्तिके असन्निकृष्टवाचेत्याधुक्तम् । न तु शास्त्रलक्षणभाष्यव्याख्यानावसरे, तथापि तुल्यन्यायत्वात्तत्रापि तत् सम्बध्यते । असन्निकृष्टत्यनेन हि प्रमाकरणत्वं विवक्षितम् । प्रमायां शाब्दत्वं शब्दप्रमाणलक्षणेऽनुमितित्वमनुमानलक्षणे प्रविष्टमिति परं विशेषः इत्याशयेन शास्त्रलक्षणेऽपि तदुक्तमित्युक्तम् । ताद्रूप्येणेत्यादि। येन रूपेण वाक्यबोध्यता तेन रूपेण पूर्वप्रमितत्वं तद्विपरीतरूपेण प्रमितत्वञ्च जिहासितमभावविशेषणतया शब्दप्रमाणलक्षणे प्रविष्टमित्यर्थः । तथा च मानान्तरेणाप्रमितमबाधितं यत्तद्विषयवाक्यत्वं शास्त्रत्वमिति पर्यवसितम् । वस्तुतस्त्वभिहितान्वयवादस्य भाष्यवार्तिककारादिसम्मतत्वेनासन्निकृष्टेऽर्थे ज्ञानमिति भाप्ये ज्ञानपदं ज्ञानहेतुपरम् । सप्तम्यन्तयोर्न सामानाधिकरण्यम् । किं तु वैयधिकरण्यम् । तथा चासन्निकृष्टे वाक्यार्थे ज्ञापकं यत् शब्दज्ञानजन्यमर्थज्ञानं तच्छब्दप्रमाणमित्यर्थः । प्रत्ययान्तपदार्थज्ञानं शब्दजन्यं वाक्यार्थज्ञाने कारणमित्यभिहितान्वयवादस्य द्वितीयपरिच्छेदे स्पष्टं मूले विवेचयिष्यमाणत्वात् । एतेन शब्दज्ञानं प्रमाणं बोध्यम् । न त्वज्ञानं शब्दज्ञानजन्यं शब्दप्रमाणमिति काशिका
For Private and Personal Use Only