________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद अद्वैत श्रुतेर्बाधोद्धारः]
लघुचन्द्रिका ।
२९३
कारोक्तं व्याख्यानं परास्तम् । शब्दज्ञानं वाक्यार्थधीननकमित्यन्विताभिधानवादस्य तद्भूताधिकरणीयभाष्ये दूषितत्वेन तत्परतया भाप्यव्याख्यानस्यानौचित्यात् । ननु, द्वैतप्रत्यक्षादिनैरपेक्ष्येणाद्वैतवाक्यं द्वैतमिथ्यात्वबोधकं कुतो न भवतीति।तत्राह-अन्य एवेत्यादि । एकदेशमात्रपर्यालोचनेनार्थनिर्णये अतिप्रसङ्ग इति भावः । अङ्गेति । एकदेशेत्यर्थः । अन्यत्रेति । स्मृतिपादीयवार्तिक इत्यर्थः । उक्तमित्यनुषज्यते । अन्त्यपक्षेति । आद्यपक्षे प्रसञ्जकं प्रत्यक्षादिमानं श्रत्यादिना बलवता बाध्यत इत्यस्य पूर्वमेवोक्तत्वात् अन्त्यपक्षेत्याधुक्तम् । तत्रैव निषेधाधिकरण एव । प्रसिद्धिः प्रमा । निषेधप्रमामात्रोच्छेदेति । यत्रातिरात्रादिव्यक्तौ ग्रहणादिनिषेधः तत्र तत्प्रमाया असम्भवात् भ्रमरूपा तत्र तत्प्रसक्तिर्वाच्या। तथा च संशयरूपा सास्तीति तद्बाधेऽपि न प्रमाणबाध इति भावः । नान्तरिक्ष इत्यादि । अर्थवादाधिकरणे अन्त्ययोर्यथोक्तमिति सूत्रे 'नान्तरिक्ष' इत्यादिवाक्यं 'हिरण्यं निधाय चेतव्य'मित्यनेन विहितस्य हिरण्यस्य स्तुतिपरम् । स्तुत्युपपादकस्तु निषेधबोध इत्युक्तम् । तत्र यथा प्रसक्तस्य निषेधः, तथा प्रकृत इति भावः । न स्वप्रतियोगिकेति । स्वविषयेषु घटपटतद्भेदेषु ज्ञानान्तरेषु च स्वभेदमनवगाहमानेत्यर्थः । भिन्नव्यक्तिखेति । उत्तरवृत्तित्वेत्यर्थः । तेनानुव्यवसायसिद्धत्वादिपक्षयोः व्यक्तिभेदस्य पराभ्युपगतत्वेऽपि न क्षतिः । स्वस्याः स्वकीयायाः प्रतियोगिधीपूर्वकालीनायाः प्रतियोगिधीसमानकालीनायाश्च । स्वजन्यत्वानुपपत्तेः प्रतियोगिधीजन्यत्वानुपपत्तेः । तथा चेति । चरमधिया वभेदस्य कुत्राप्यग्रहणे चेत्यर्थः । सर्वाभेद इति । चरमधीर्ययोर्भेदं गृह्णाति, ताभ्यां तद्भेदेन च सह तस्या अभेदमद्वैतश्रुतिर्बोधयतीति सा धीः तादृशभेदविषयकत्वेन बोडुमशक्या नाद्वैतश्रुतिबाधकतया बुध्यते । एवञ्च पूर्वपूर्ववीरपीति श्रुतिस्सर्वाद्वैते पर्यवस्यतीति भावः । न ह्यभेद इत्यादि । ययोर्भेदश्चरमधीविषयः. ताभ्यां तद्भेदेन च तस्या अभेदे ज्ञाते बाध्यबाधकधियोस्तद्विषययोश्चाभेदे ज्ञाते बाध्यबाधकभावज्ञानं न सम्भवति । स्वस्य भेदज्ञानस्य स्वबाधकतया ज्ञानापत्तेरित्यर्थः । बाधकस्य स्वविषयेण सह भेदाज्ञाने भेदविशेषविषयकत्वेन तद्धटितप्रमात्वेन च तस्य ज्ञातुमशक्यतया बाध्यबाधकधियोरेकविषयकत्वग्रहेण च बाध्यवाधकभावज्ञानासम्भव इति भावः । ननु, कथमद्वैतज्ञानेन द्वैतं बाध्यते । द्वैतस्य स्खविषयैक्येन गृहीततया बाध्यत्वेन गृहीतुमशक्यत्वात् अद्वैतस्यापि स्वैक्येन गृहीततया तद्विषयकत्वेन तद्धटितप्रमात्वेन च वस्य गृहीतुमशक्यत्वादिति चेन्न । अद्वैतज्ञानस्योत्पत्तिक्षणे भेदानुपमर्दकल्पने तस्य द्वैतस्य च तथा. गृहीतुं
For Private and Personal Use Only