________________
Shri Mahavir Jain Aradhana Kendra
२९४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
शक्यत्वात् तादृशज्ञानस्य च पूर्वज्ञानस्य चरमभेदज्ञानादिबाधकत्वसम्भवेनानुपपत्त्यभावात् । तादृशज्ञानोत्तरं तु बाधकत्वज्ञानं नास्त्येव । सर्वद्वैतोपमदत् । भेदज्ञानं तु पूर्वं जातमपि न सर्वभेदविषयकमिति न तेनाद्वैतज्ञानस्योत्पत्तिप्रतिबन्ध इति भावः । सुदूरेत्यादि । चरमभेदधीभिन्नेषु सर्वेषु विषयरूपदेशेषु भेदावगाहनरूपं धावनं कृतवत्यपि सुषुप्तिलोपाद्यापत्तिरूपश्रान्त्या चरमभेदधीरूपदेशे भेदावगाहनरूपं घावनं कर्तुमशक्ता बाधबुद्धेर्भेदज्ञानस्य परम्परा श्रेणी निवृत्तौ तस्या अद्वयश्रुतिबाधकत्वायोग्यत्वप्राप्तौ पाणिग्राहविरुद्ध विषयकत्वरूपबाधकतावच्छेदक युक्तैरद्वयाम्नायैवध्यत इत्यर्थः । इतरप्रतियोगिकभेदेति । स्वविषयात् ज्ञानान्तराव त्यर्थः । इतरप्रतियोगी इतरात्मकप्रतियोगी । सप्रतियोगिकत्वेन भेदस्फुरणस्यैवाभेदज्ञानविरोधित्वात्तदेव प्रकृते वाच्यम् । तच्च न सम्भवति । प्रतियोग्यनुपस्थितिकालीनस्य साक्षिनिष्ठ भेदस्याहतत्वेन तत्स्फुरणस्य प्रतियोगिधीसापेक्षत्वात् अभावमात्रस्यानुपलब्धिमानगम्यत्वे तु न भेदे साक्षिवेद्यत्वशङ्कापीति भावः । अन्यथा साक्षिणः इतरनैरपेक्ष्येण स्वनिष्ठ भेदग्राहकत्वे । अन्तःकरणाद्यभेदभ्रमः अन्तःकरणादेर्भेदाविषयकोऽहमिति भ्रमः । न स्यात् । इतरसापेक्षतयोक्तभेदग्राहकत्वे तु विपरीतसंस्काररूपदोषाभावस्थोक्तभेदस्फुरणापेक्षणीयत्वात्तदभावान्न तादृशस्फुरणम् । न च मम मन इति भेदस्फुरणं सर्वदास्त्येवेति वाच्यम् । तस्य तादात्म्यविषयत्वेऽपि भेदाविषयकत्वात् । शरीरत्वेनैव मनस्त्वेनापि तादात्म्याध्यासस्य स्वीकारात् । मम मन इत्यस्य सम्भवेऽपि ममाहमित्यस्यासम्भवात्तदापादनसम्भवाच्च । एतेन मनआत्मनोर्भेदज्ञानस्य सत्वेऽपि विपरीतभावनारूपदोषात्तयोरभेदभ्रमसम्भव इति तदभावापादनमयुक्तमित्यपास्तम् । ज्ञानादिनेत्यादिना स्वविषयग्रहः । भेदं ऐक्याज्ञानात् स्वविषयाच्च स्वस्य भेदम् । सर्वतो भिनेति । बुद्धित्वात् बुद्ध्यन्तरवदिति शेषः । अनुमानाविषये अनुत्रेयभेदाप्रतियोगिनि । वाक्यमपीत्यपिनाऽनुमानसमुच्चयः । त्वादत्यादि । सर्वस्मिन् पक्षीकृते हेतोरभावः । तस्मिन् तस्याभावेन हेतौ स्वरूपासिद्धेः । अद्वैतमते साध्यहेत्वोरभेदेन साध्याविशेषः । तयोः पक्षस्य चैक्यात् बाधस्वरूपासिद्धिव्याप्यत्वासिद्ध्यादिकञ्च । एवं दृष्टान्तस्यापि पक्षत्वादृष्टान्तासिद्धिश्च । सर्वस्य भेदप्रतियोगित्वानुयोगित्वे विशिष्य तत्तद्रूपेण निवेश्ये । अन्यथा केनचिद्रूपेण ते आदाय सिद्धसाधनार्थान्तरयोरापत्तेः । तथा च तत्तद्रूपेण ज्ञाने आवश्यके सर्वश्यापत्तिः । एवं च हेत्वाद्यभावे सार्वइये च अद्वैतवादिभिरास्थिते आपादिते सति सर्वं पक्षयता पक्षयितुं पूर्वं प्रवर्त्तमानेन त्वया किञ्चित् कानिचित् त्यक्तव्यानि पक्षात् बहिष्कार्याणि । तदा च सैव त्यक्ता तत्तत्स्वरूपैवाद्वयश्रुतेः
For Private and Personal Use Only