________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
अद्वैतमञ्जरी ।
म्यापन्नं ब्रह्मक्षतापोऽसृजत इत्यर्थः । एवं 'आकाशाद्वायु'रित्यादिश्रुतौ तस्माद्वा एतस्मादात्मन इत्यनुषज्यते। तेनाकाशादिभावापन्नात् ब्रह्मणो वायुरित्याद्यर्थ इति भावः । उपासनेत्युपलक्षणम् । कर्मानुष्ठानकाले इत्यपि बोध्यम् । अभ्युपगमेनेति। उक्त हि 'तदनन्यत्वमारम्भणशब्दादिभ्य'इत्यधिकरणभाष्ये-अभ्युपगम्य चेमं भोक्तृभोग्यलक्षणं व्यावहारिकं विभागं स्याल्लोकव'दिति परिहार उक्तः । न त्वयं विभागः परमार्थतोऽस्ती ति । संक्षेपशारीरकेप्युक्तम्-, 'आरम्भसंहतिविकारविवर्तवादानाश्रित्य वादिजनता खलु वावदीति । आरम्भसंहतिमते परिढत्य वादौ द्वावत्र सङ्ग्रहपदं नयते मुनीन्द्रः ॥ तत्रापि पूर्वमुपगम्य विकारवादं भोक्त्रादिसूत्रमवतार्य विरोधनुत्त्यै । प्रावर्तत व्यवहृतेः परिरक्षणाय कर्मादिगोचरविधेरुपयोगहेतोः ॥ विवर्तवादस्य हि पूर्वभूमिः वेदान्तवादे परिणामवादः ॥ इत्यादि । विधाबुपयोगेति । 'विधिषु श्चाद्धोऽधिकारीति न्यायेन विवर्तवादालम्बने प्रपञ्चमिथ्यात्वे निश्चिते विहिते प्रवृत्त्यसम्भवात् । परिणामवादस्यैव विहितप्रवृत्त्युपयोग इति भावः । 'भोक्तापत्ते रिति । भोग्यानां भोक्तृतादात्म्यापत्तिः । भोक्त्रभिन्नब्रह्माभिन्नत्वात् । एवं भोक्तुरपि भो. ग्याभेदापत्तिः । तथा च भोक्तृभोग्यविभागो न स्यादिति चेत्, तदा साप्यापत्तिः व्याख्यातेति । पूर्वसूत्रस्थस्य व्याख्याता इत्यस्य विभक्तिवचनयोर्विपरिणामेनानुषङ्गः । विरुद्धतया ख्यातेति तदर्थः । यतो लोके समुद्राभिन्नयोरपि तरङ्गफेनयोर्यथा नाभेदस्तथा ब्रह्माभिन्नयोरपि भोक्तृभोग्ययोरित्यर्थः । तदनन्यत्वमिति । तस्य ब्रह्मणोऽनन्यत्वं द्वितीयशून्यत्वम् । 'वाचारम्भणं विकारो नामधे. य'मित्यादिश्रुतिभ्यः । मायाविन इत्यादि । यथा मायाविना सृज्यमाने नगरे दृश्यमानानां पुरुषाणामुत्कर्षापकर्षादिकं तद्वैषम्यादिकं नापादयति । तथेशसृष्टानामित्यर्थः । स्वप्रतिबिम्बेत्यनेनेशजीवयोंबिम्बत्वप्रतिबिम्बत्वाभ्यां कल्पितत्वसूचनेन सुतरामविरोध इति सूचितम् । अविद्योपहितेति । अविद्यायां बिम्बीभूत इत्यर्थः । अन्तःकरणोपहितेति । अन्तःकरणतत्संस्कारान्यतरोपहिताज्ञानप्रतिबिम्बितेत्यर्थः । पक्षेऽपीति । दृष्टिसृष्टिपले जीवस्याविद्यामात्रोपाधिकत्वेनानादित्वात्तस्यैव जगदुपादानत्वादीशोऽपि भ्रमयितृत्वादिविशिष्ट एव तदुपादानक इति भावः । मरणायेति । महाभयोत्पादनद्वारेति शेषः । भ्रमाजनकत्वादिति वस्तुतो भ्रमजनकत्वेऽपि न दोषः । पूर्वपूर्वकल्पसिद्धस्य जीवभ्रमस्योत्तरोत्तरकल्पे श्रुत्यानुवादेनाद्वैतप्रतिपादनसम्भवादिति ध्येयम् । स्पुरणात् ईशं प्रति स्पुरणात् । भ्रान्तखेति । भ्रान्तत्वव्यवहारेत्यर्थः । तथा च भ्रान्तत्वव्यवहारस्य मिथ्याविषयकत्वेनागृह्यमाणभ्रमत्वविषयकत्वान्नेशो भ्रान्तत्वेन जीवैर्व्यवयित इति भावः ।
For Private and Personal Use Only