________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका ।।
२८३
नसाध्याजनकत्वे सति ज्ञानजनकत्वम् । सामान्यति । नियमविध्यभावे वैतुप्यत्वरूपसामान्यावच्छिन्नं प्रति दलनादिकं पाक्षिकतया प्राप्तम् । न तु यागीयबीहिवैतुष्यमात्रगतधर्मावच्छिन्नं प्रति । आक्षेपत्य तादृशविशेषरूपमपुरस्कृत्यैव प्रवृत्तेः । तथा च दलनादिनिवृत्तिफलकनियमपरत्वमवघातादिविधेर्नायुक्तमिति भावः । विशेषरूपेण प्रकृतयागापूर्वप्रयोजकवेतुष्योद्देश्यकाक्षातभावनाबोधकत्वेन । विशिष्येत्यादि । प्रकृतापूर्वप्रयोजकवैतुष्यविशिष्टमवघातेनैव भावयेदित्यादिबोधनादित्यर्थः । श्रवणादीति। श्रवणादिनियमापूर्वेत्यर्थः । शास्त्रस्यति । ननु, शुद्धात्मसाक्षात्कारप्रतिबन्धकनिवृत्तौ कथं साङ्ख्यश्रवणस्य प्राप्तिः । तादृशश्रवणस्य हि स्वप्रकाशत्वाकर्तृत्वादिप्रकारकज्ञानजनकत्वेन तादृशज्ञानप्रतिबन्धकनिवृत्तिरेव तेन जन्यते इति चेत् उच्यते । अकर्तृत्वादिप्रकारकज्ञानद्वारकस्यैव शुद्धात्मसाक्षात्कारस्य वेदान्तश्रवणसाध्यत्वेन द्वारोत्पत्तिप्रतिबन्धकस्य द्वार्युत्पत्तिप्रतिबन्धकत्वात् साङ्ख्यश्रवणस्यापि शुद्धात्मधीप्रतिबन्धकनिवर्तकत्वमिति भावः । जन्माद्यस्येति । जन्मादि अस्य यत इत्यर्थः । जन्मायुक्तिः जन्मादिहेतुत्वरूपब्रह्मलक्षणोक्तिः । ई क्षतरित्यादि । यतो वा इत्यादि वाक्यं न प्रधानस्य जन्मादिहेतुत्वबोधकम् । प्रधानबोधकशब्देन शून्य हि तत् । उक्तशून्यत्वे हेतुमाह-ईक्षतरिति । तदैवतेति । ईक्षतिधातुसमभिव्याहारविशेषादित्यर्थः । लोकवदिति । तु शब्दः प्रयोजनाभावादीशो न स्रष्टेति पूर्वपक्षस्य व्यवच्छेदकः । यथा लोके प्रयोजनमनुद्दिश्यापि राजादिनां लीलारूपा प्राणिनां च निश्वासादिरूपा दृश्यन्ते चेष्टाः, तथेशस्य सृष्टयादिक्रियावैषम्यमिति कस्य चिदुत्कर्ष कस्यचिदपकर्ष सृजतीति वैषम्यं दुःखं संहारं च सृजतीति नैघृण्यं निर्दयत्वरूपं चेशस्य स्यादिति चेन्न । पुण्यापुण्ये अपेक्ष्य तथा करणादित्यर्थः । तेजोऽत इति । अतो वायोरेव तेजो जायते । हि यस्मात 'वायोरग्नि रिति श्रुतिस्तथाहेत्यर्थः । विपर्ययेणेति । अतः सृष्टिक्रमाद्विपर्ययेण विपरीतो लयस्य क्रमः। दृश्यते हि लोके मृदादिकं सृष्ट्वा घटादिकं सृज्यते। घटादिकं मृदिलीनं कृत्वा मृदादिकं तत्कारणे लीनं क्रियत इत्यर्थः । विरोधशङ्केति। सत्यस्य ब्रह्मणः लक्षणं सत्यमेव वाच्यं, जन्मादिहेतुत्वं न सत्यमिति लक्षणानुपपत्तिरित्यादिपूर्वपक्ष इत्यर्थः । युक्तमिति । लक्षणादेमिथ्यात्वेन तत्रानुपपत्त्युक्तेरनौचित्यादिति भावः । तदभिध्यानादेवेति । स ईश एवाकाशादिभावापन्नो वाय्वादिकं जनयति। 'बहु स्यामिति सर्वकार्यभावाभिध्यानात् । 'तत्तेज ऐक्षते' ति तेजआदिभावं प्राप्तस्येक्षितृत्वमुक्त्वा 'तदपो सृजते' ति सृष्टुत्वोक्तिलिङ्गात् । ब्रह्मण एवेति । तथा च 'तत्तेन ऐक्षत तदपोऽसृजते' त्यादिश्रुतौ तत्पदस्य प्रक्रान्तब्रह्मपरत्वेन तेजस्तादा
For Private and Personal Use Only