________________
Shri Mahavir Jain Aradhana Kendra
१८०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
-
तरस्योत्पत्तिरेव न सम्भवति । यदि चोत्तरप्रमाणं पूर्वप्रमाणसापेक्षं, तदा तद्बाधकत्वासम्भवात् उपक्रमन्यायेन पूर्वप्रमाणानुसारितया तेन बाध्यमेव स्यात् । तदनपेक्षं तु तद्बाधित्वैवोत्पद्यते । तस्मात् निरपेक्षोत्तर प्रमाणत्वमेव पूर्वप्रमाणबाधकत्वे प्रयोजकमिति भावः । प्रतिहर्तृमात्रापच्छेदे उद्गातुरनपच्छेदवति प्रयोगे प्रतिहर्तुमात्रापच्छेदे । युगपदिति । विरुद्वयोर्योगपद्ये विकल्पस्य वक्ष्यमाणत्वेन सर्वस्वदानावकाश इति भावः । अन्यथा सावाकाशत्वाभा - वेऽपि बाध्यत्वे । अत एव किञ्चिदवकाशमदत्वा शास्त्रस्य वाधितुमशक्यत्वादेव । विप्रतिषेधात् युगपदुत्पन्नयोरपच्छेदयोस्सम बलत्वेनान्यतरस्यापेक्षणीयत्वनिषेधासम्भवात् । द्वयोरप्यपेक्षणीयत्वादिति यावत् । विकल्प इति । तथा च पाक्षिकानुष्ठानादेव शास्त्रस्य सावकाशत्वमिति भावः । नन्वपच्छेदयोः क्रमिकतास्थले प्रयोगान्तरे सावकाशत्वमिव प्रत्यक्षस्यापि व्यावहारिकप्रामाण्ये सावकाशत्वमस्त्येव । तत्राह — किं चेति । जघन्यः प्रतिहर्त्रपच्छेदात् पश्चादपच्छिन्नः । पुनर्यज्ञे अदक्षिणप्रयोगोत्तरानुष्ठीयमानप्रयोगे । यथेतरस्मिन् प्रतिहर्तृमात्रापच्छेदवति प्रयोगे यथा सर्वस्वं दीयते । इत्यधिकरण इत्यस्येत्युक्तमित्यग्रे योजना । 'यद्युद्गाता अपच्छिन्द्याददक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्यात् यत् पूर्वस्मिन् दास्यन् स्यादिति श्रुतौ तत्रेत्यन्तभागः उद्गात्रपच्छेदनिमित्तमित्यादिना द्वितीयप्रयोगे इत्यन्तेन व्याख्यातः । दास्यन् उद्गात्रपच्छेदरूपनिमित्तज्ञानात्पूर्वं दातुमिच्छन् । पूर्वप्रयोगस्थ सर्वस्वेति पाठः । निमित्तकान्तं सर्वस्वान्वितम् | पूर्वप्रयोगस्येति पाठे सर्वस्वदानविशिष्टपूर्वप्रयोगस्येत्यर्थः । पाठद्वयेऽपि पूर्वप्रयोगाङ्गसर्वस्वदानाबाधेनेत्यर्थः । नित्या 'तस्य द्वादशशत ' मिति श्रुत्या निमित्ता पुरस्कारेण विहिता । रूपेति । तस्यास्सर्वस्वदानेन नैमित्तिकेन बाधादिति शेषः । अपच्छेदस्य अपच्छेदनिमित्तकस्य पूर्वप्रयोगाङ्गसर्वस्वदानस्य । निक्षेपः निक्षेपमात्रम् । पूर्वप्रयोगकाले अनुष्ठानत्राध इति यावत् । तथा च पूर्वप्रयोग एव सर्वस्वदानं सावकाशम् । तत्कालाधिकरणकत्वबाधेऽपि तदङ्गत्वस्यावाधादिति भावः । नेदं परोक्तं युक्तम् । न हि पूर्वप्रयोगाङ्गीभूता सर्वस्वदक्षिणा द्वितीयप्रयोगकाले विधीयते । अपूर्वविधित्वादृष्टार्थत्वादिप्रसङ्गात् । किं तु द्वितीयप्रयोगस्यैव ज्योतिष्टोमत्वेन द्वादशशतं प्राप्नोति 'यद्येतावता नानमेयुरपि सर्वस्वेने 'ति श्रुत्या द्वादशशतेनानत्यभावे सर्वस्वदानं च प्राप्नोतीति सर्वस्वदानं द्वितीयप्रयोगाङ्गतया नियम्यते । 'प्रयोगान्तरे निक्षेप' इति टुष्टीकावाक्यस्य तु प्रयोगान्तरकाले अनुष्ठानमित्यर्थो विरुद्धः । प्रयोगान्तराङ्गतया विधानमित्यर्थस्तु, न्यायानुकूलः ।
For Private and Personal Use Only