________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपच्छेदन्यायवैषम्यभङ्गः]
लघुचन्द्रिका।
.
१७९
मुख्यतात्पर्यविषयो वाक्यार्थो नान्यशेष इत्यर्थः । नन्वेवं “न चानन्यपरं वाक्यमुपचरितार्थ युक्तम् । उक्तं हि-'न विधौ परः शब्दार्थ इति" इति भामतीवाक्ये विधौ विधायकशब्दे परो लक्ष्यः शब्दार्थो न भवतीति कल्पतरुकारव्याख्या न युक्तेति चेन्न । भावानवबोधात् । उपचरितार्थत्वं हि तात्पर्यविषयब्रह्मात्मामेदान्यार्थबोधकत्वम् । तच्च कर्मविध्यपेक्षितकर्तृस्तुतिबोधकतया, उक्ताभेदोपासनाविधायकतया वा। तत्रोक्ताभेदसिध्यननुकूलो लक्ष्योऽर्थो महावाक्ये न सम्भवति । तस्योक्ताभेदपरत्वादित्याशयेन लक्ष्यो नार्थ इत्यनेन तात्पर्यविषयसिध्यननुकूललक्ष्यो नार्थ इत्युक्तम् । विधायकवाक्ये अन्यशेषो नार्थ इत्युक्तौ तु उपासनापरत्वखण्डनं न स्यात् । अतस्तथा नोक्तम् । लक्ष्यमात्रनिषेधे तु प्रतिगृह्णातौ दाने 'उच्चैर्ऋचा क्रियते' इत्यादौ ऋगादिपदे ऋग्वेदादौ च लक्षणायाः स्वीकारेणासङ्गतिः । अतस्तदपि नोक्तमिति ध्येयम् ॥
॥ इति लघुचन्द्रिकायां प्रत्यक्षस्यागमवाध्यत्वम् ॥ पौवापर्ये परस्परनिरपेक्षयोरपच्छेदनिमित्तकविरुद्धप्रायश्चितकर्तव्यताग्राहकप्रमाणयोः पूर्वापरीभूतत्वेनोत्पत्तौ । पूर्वदौर्बल्यं पूर्वोत्पन्नप्रमाणस्य दौर्बल्यं पश्चादुत्पन्नप्रमाणेन बाध्यते । प्रकृतिवादेति । श्येनयागादिरूपविकृतिप्रकरणपठितं 'शरमयं बर्हि'रित्यादिवाक्यं ज्योतिष्टोमादिप्रकृतिगताङ्गकलापातिदेशरूपात 'प्रकृतिवत् कुर्या'दिति वाक्यात् पश्चात् प्रवर्तते । तत्रापितवहिरादिकार्यमुद्दिश्य शरादिविधाययकत्वात् । तेन यथा पूर्व प्रवृत्तं तद्वाक्यं कुशादिप्रापकत्वांशे बाध्यते, तथेत्यर्थः । उद्गात्रपच्छेदेत्यादि । 'अध्वर्यु विनिष्क्रामन्तं प्रस्तोता सन्तनुयात्तं प्रतिहर्ता तमुद्गाता तं ब्रह्मा तं यजमान' इत्यवादिकच्छं धृत्वा प्रस्तोत्रादीनां गमनं बहिष्पवमानस्तोत्रार्थ ज्योतिष्टोमे उक्तम् । सन्तनुयात् कच्छं धृत्वा अनुगच्छेत् । तत्र विच्छेदे प्रायश्चित्तमुक्तम् । 'यदि प्रस्तोता अपच्छिन्द्यात् ब्रह्मणे वरं दद्यात् यदि प्रतिहर्ता सर्ववेदसं दद्याद्याद्गाता अदक्षिणं यज्ञमिष्टा तेन पुनर्यनेत तत्र तद्दद्याद्यत्पूर्वस्मिन् दास्यन् स्यात्' इति । सर्ववेदसं सर्वस्वम् । दद्यादिति । दक्षिणारूपेणेति शेषः । अदक्षिणयागेनेति । तादृशयागकर्तव्यताज्ञानेनेत्यर्थः । अदक्षिणयागोत्तरं पुनः प्रयोगस्य नैमित्तिकत्वेऽपि पुनः प्रयोगस्य सर्वस्वदक्षिणया स्फुटविरोधाभावात् अदाक्षिण्यमात्रमुक्तम् । तावता च विरुद्धयोः समुच्चयासम्भवादेकेनापरस्यावश्यं बाध इति सूचितम् । ननु, विरुद्धयोरदाक्षिण्यसर्वस्वदक्षिणयोर्विकल्पोऽस्तु । पूर्वेणैव चोपक्रमन्यायेन परस्य बाधोऽस्तु । तत्राह-परेणेति । पश्चादुत्पन्नेनेत्यर्थः । एतावता पूर्वप्रमाणबाधकताप्रयोजकं पूर्वप्रमाणनिरपेक्षत्वं सूचितम् । तेन च विकल्पस्योपक्रपन्यायस्य चामावस्सूचितः । यदि हि विरोधिपूर्वप्रमाणं न बाध्यते, तदो
For Private and Personal Use Only