________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
अद्वैतमञ्जरी।
र्थवटितवाक्यार्थीद्वारा कर्मप्राशस्त्यादितात्पर्य केभ्यः वैषम्यम् । तादृशतात्पर्यकत्वाभावरूपः स्वावृत्तिधर्मः । विधाविति । विधायकपदे । प्रयोजकव्यापारे लक्षणायां व्यवधारणकल्पनाया अङ्गीकारादिति योजना । व्यवधारणं प्रयोजकव्यापारघटितवाक्यार्थतात्पर्यम् । तृतीयचतुर्थे चिन्तितम् । 'प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामार्छत् स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत् तं निरवपत्ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निवपे'दित्यनारम्यश्रुतेष्टिरश्वस्य दातुः प्रतिग्रहीतुर्वेति संशये यद्यप्युपक्रमाधिकरणन्यायेन दातुरेव युक्ता । अनयत् प्रापयत् । देवता दानसम्प्रदानवरुणरूपां जलोदररूपेण परिणताम् । आर्छत् आप्तवान् । वरुणपाशाजलोदरात् । गृह्णाति जलोदररूपेण प्राप्नोतीत्युपक्रमस्थार्थवादार्थात् , तथापि मैत्रायणीयशाखायाम्-'अथैषोऽश्वः प्रतिगृह्यते स चानुभयतोदं प्रतिगृह्यतो निर्वभत्यस्योन्द्रयं च पशृंश्च वरुणो वारुणो वा अश्वो वरुणदेवत्यो यो वा अश्वं प्रतिगृह्राति वरुणं स प्रदिति तदश्वहविषा यष्टव्यं निर्वरुणत्वाय चतुष्कपाला भवन्ति चतुष्पादश्वः कपालैरेवैनं प्राप्नोति यावन्तोऽश्वास्तावन्तः पुरोडाशा मवन्ति सर्वत एवैनं मुञ्चन्तीति वाक्येन प्रतिग्रहोपक्रमाया एवैतदिष्टेरुक्तत्वात्तदनुरोधेन शाखान्तरीयोक्तवाक्ये अनयदित्यादिपदे उपक्रमस्थेऽपि प्रतिग्रहे लक्षणेति प्रतिग्रहीतुरेव सेष्टिरिति प्राप्ते, दातुरेवेयम् । मैत्रायणीयवाक्यानुरोधेनोक्तवाक्यस्थप्रबलोपक्रमस्थे पदे लक्षणायां मानाभावात् । मैत्रायणीयवाक्योक्तदूरस्थकर्मानुवादेनाश्वदानरूपोद्देश्यसम्बन्धिबोधकत्वानुपपत्त्योक्तकर्मभिन्नस्यैव कर्मण उक्तवाक्येन विधानसम्भवात्। नामादीनामुपस्थापकानामभावेन शाखान्तराधिकरणन्यायासंभवादेतद्वाक्यीयोपक्रमानुरोधेन मैत्रायणीयवाक्योपक्रमस्थपदे प्रयोजकव्यापारलक्षकत्वस्य वक्तुं शक्यत्वेनैतद्वाक्यस्थोपक्रम एव लक्षणेत्यत्र विनिगमकाभावाच्च । किं च मैत्रायणीयवाक्योपक्रमपर्यालोचनायां दातुरेवेष्टिस्सिद्ध्यति । तथा हि यो वा अश्वं प्रतिगृह्णाति वरुणं स प्रदिति तदश्वहविषा यष्टव्यं निर्वरुणत्वाये'त्यनेनाश्वप्रतिग्रहीतुरश्वदं प्रति वरुणरूपजलोदरदातृत्वोक्तेरश्वदातुरेव सवरुणत्वप्रतीत्या निवरुणत्वाय तस्यैव यष्टत्वं प्रतीयते । तथा च पूर्ववाक्ये प्रतिगृह्यत इत्यनादरे षष्ठी। प्रतिग्रहीतारमनादृत्य सः अश्वः अस्य दातुरिन्द्रियादीनि निर्वमति नाशयतीत्यर्थः । अत एव 'मैत्रायणीयशाखायां दात्रुपक्रमतोज्झिता । कर्माङ्गत्ववशादेव दातुरिष्टिः प्रसिध्यति ॥' इति तन्त्र सारोक्तिरयुक्ता । तस्माद्विधिस्थेऽपि प्रतिगृह्णातौ प्रतिग्रहप्रयोजके दाने लक्षणा। अर्थवादस्थत्वेऽप्युपक्रमस्थत्वेमामयदित्यादिपदस्य प्राबस्यादिति । विधापित्यादि।
For Private and Personal Use Only