SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्र ० दे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir १७३ संभवादित्याहुः | मानान्तरेति । जिज्ञासाया ज्ञानस्येव कृत्यसाध्यत्वेन कृतिसाध्यत्वव्याप्यविधिसम्बन्धस्याभावग्राहकमानेत्यर्थः । विध्यन्वयाय अध्याहृतकर्त्तव्येतिपदलभ्य प्रवर्तनारूपविध्यन्वयाय । जिज्ञासाकरणकभावनायां प्रवर्तनान्वये जिज्ञासायामपि तस्यावश्यकत्वेनोक्तभानविरोधाद्विचारलक्षणेति भावः । वाक्यस्य अद्वैतवाक्यस्थपदस्य । इष्टत्वेन त्वदिष्टत्वेन । 'अद्वैतवाक्यं त्वनन्यशेषत्वान्मुख्यार्थमेवे ' त्युक्तवाचस्पतिवाक्येनेति शेषः । तात्पर्येत्यादि । स्वकीयमुख्य तात्पर्यविषयवाक्यार्थबोधकत्वमित्यर्थः । प्राशस्त्यधीद्वारी भूतोऽर्थवादबोध्यवाक्यार्थस्तु न मुख्यतात्पर्यस्य विषयः । किं तु अवान्तरतात्पर्यस्य । मुख्यतात्पर्यविषयोऽपि प्राशस्त्यं न वाक्यार्थः । अन्यार्थेत्यादि । स्वकीयमुख्यतात्पर्याविषयवाक्यार्थबोधकत्वमित्यर्थः । वाचस्पतिमते तु लक्षणद्वयेऽपि मुख्यपदं न देयम् । द्वारीभूतवाक्यार्थस्य तात्पर्याविषयत्वात् । विशेषणे यागादिनिष्ठे सोमादिसम्बन्धे तात्पर्याभावादिति सोमादिविशिष्टयागादिविशिष्टभावनायां विध्यन्वयस्थले विशेषणीभूतसामादेर्यगादिनिष्ठवैशिष्ट्ये श्रूयमाणविधेर्न तात्पर्यम् । यदि हि तत्र तात्पर्यं तदा सोमेन यागं कुर्यादिति यागो - द्देश्यकसोमकरणकभावनाविधौ तात्पर्यपर्यवसानं वाच्यम् । एकक्रियायामन्वयमप्राप्तानां कारकाणां मिथोऽन्वयज्ञानाभावनियमात् । विधेयक्रियाविशेषणत्वाभावे प्रवर्तनारूपविधिसम्बन्धस्य सोमे ज्ञातुमशक्यत्वेन सोमानुष्ठानापर्यवसायिनो यागसोमसम्बन्धमात्र तात्पर्यस्य व्यर्थत्वात् । तथा च ' यागेनेष्टं कुर्यात् सोमेन यागं कुर्यात् ' इति विशिष्टभावनाद्वय रूपवाक्यार्थभेदाद्वाक्य भेदस्स्यात् । धात्वाख्यातपदा - वृत्तिप्रसङ्गात् । न हि यज्यादिपदस्य सकृत्प्रतिसन्धानेन द्विस्तदर्थप्रत्ययस्सम्भवति । सकृदुच्चरितरशब्दस्सकृदेव स्वार्थं बोधयतीति व्युत्पत्तेः । विरुद्धत्रिकद्वयापत्त्यादिदोषश्च । तस्माद्विशिष्टविधेस्सोमादिविशिष्टरूप सोमादिपदामुख्यार्थविषयकत्वेऽपि नामुख्यार्थकत्वम् । यत्परश्शब्दस्सशब्दार्थ इतिन्यायेनामुख्यार्थपरस्यैवामुख्यार्थत्वादि ति भावः । ननु, विशेषणे तात्पर्याभावे विशिष्टविधेर्विशेषणविशेष्य सम्बन्धविषयकत्ववैयर्थ्येनोक्तसम्बन्धज्ञापकपदवैयर्थ्यं स्यादिति चेन्न । विशिष्टविधिविषयीभूतो योमानान्तराप्राप्ताबाधितोक्तसम्बन्धः, तत्प्रमान्यथानुपपत्त्या विशेष्योद्देश्यक विशेषणसाधनकभावनाविधेः कल्प्यत्वात् । न हि कारकयोस्सोमयागयोरेकक्रियायां साधनसाध्यभावज्ञानं विना मिथस्तत् सम्भवति । न वा साध्यसाधनविशेषितक्रियानुष्ठानपर्यवसायिविधिं विना साधनविशिष्टसाध्यनिप्पत्तिः । न वा तां विनैवोक्तप्रमा । ननु, विशिष्टस्य विशेष्यविशेषणसम्बन्धेभ्योऽतिरिक्तत्वेन विशिष्टविधेरुक्तसम्बन्धविषयकत्वस्यैवासिद्धत्वात् कथं तदन्यथानुपपत्त्योक्तकल्पनमिति चेन्न । विशिष्टस्य केवलविशेष्यात् भि For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy