________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
अद्वैतमञ्जरी ।
कर्त्तव्यताकाङ्क्षा । एवं च फलकरणाकाङ्क्षया यागाद्यन्वयेऽपि फलकरणोपकारकाकाङ्क्षायां सोमाद्यन्वयो भवत्विति चेत् । भवत्वेवम् । तावता हि सोमादेरितिकर्तव्यतात्वेनैवान्वयः। स चोक्तरीत्या मत्वर्थलक्षणयैवेति दिक् । तस्मात् करणीभूतयागोपकारकाकाङ्क्षया सोमादिपदं सोमायुपकार्य लक्षयित्वा तदभेदं यागे बोधयति । तथा च तृतीयार्थो न बाध्यते । यागीयकरणताया एव तया बोधनात् । यस्यास्तु विभक्तेरों भावनायां न निराकाङ्क्षः, तस्याः स्वप्रकृतिमुख्यार्थनिष्ठाधिकरणत्वादिबोधकत्वम् । यथा 'समे दर्शपूर्णमासाभ्यां यजेते'त्यादौ समदेशादिनिष्ठाधिकरणत्वादिबोधकत्वम् । ननु, सोमादिपदं सोमाद्युपकार्य लक्षयित्वा तदभेदं यागे बोधयतीति यदुक्तं तदयुक्तम् । यनिपदं हि यागकरणत्वं लक्षणया बोधयति । तदेकदेशे यागे सोमसाध्यस्यान्वये एकदेशान्वयदोषः । क्रियाविशेषणत्वेन सोमपदस्य द्वितीयान्तत्वापत्तिश्चेति चेन्न । क्रियाविशेषणस्य हि द्वितीयान्तत्वं क्रियाफलविशेषणत्वे सत्येव । 'साधु पचती'त्यादौ विक्लत्यादेः कर्मतया व्यापार प्रति विशेषणतया प्रत्ययात् तद्विशेषणस्य साध्वादिपदस्यापि द्वितीयान्तताया युक्तत्वात् । प्रकृते तु फलाकर्मकव्यापाररूपे याग एव सोमपदस्त्र विशेषणत्वाद्यागस्य च करणत्वेनैव भावनायां विशेषणत्वात् सोमादिपदस्य तृतीयान्तत्वमेव युक्तम् । तृतीयान्तत्वमेव चैकदेशान्वयस्य व्युत्पत्तिसिद्धत्वं ज्ञापयति 'साधु पचती ' त्यादौ द्वितीयान्तत्ववत् । अत एव सिद्धान्ते वाजपेयादिपदानां तृतीयान्तत्वं युक्तम् । यद्वा प्रकृते सोमादिपदस्य यजिसामानाधिकरण्यं तत् बोध्यार्थवोधकत्वम् । न तु तदर्थविशेषणतया स्वार्थबोधकत्वम् । तथा च सोमसाध्यकरणत्वस्यैव भावनायामन्वयेन सोमसाध्यस्य न तादात्म्येन यागेऽन्वयः । एवं च सोमवता यागेनेति मत्वर्थेति मलस्य वस्तुगत्या यागरूपो यः सोमसाध्यमत्वर्थः,तदर्थकत्वमेवेति न तेनापि यागे मत्वर्थान्वयस्य लाभः । परे तु, यजिना याग एव बोध्यते । न तत्करणत्वम् । सम्बन्धविधयैव तद्भानसम्भवात् । अन्यथा स्वर्गकामादिपदेऽपि स्वर्गसाध्यत्वस्य लक्ष्यत्वापत्तेः । न च सेप्टेति वाच्यम् । स्वर्गकामस्य स्वर्गविशिष्टरूपेण साध्यतया तत्सम्बन्धेनान्वयसम्भवे लक्षणाया अन्याय्यत्वात् । न च किमित्याकांक्षायाः साध्यत्वप्रकारकधीविषयकत्वादुक्तधियं विना तदनिवृत्तिरिति वाच्यम् । उक्ताकांक्षायास्साध्यत्वसंसर्गधीविषयकत्वात् । अत एव द्वादशे तन्त्ररत्नादावुक्तं, 'प्रयाजाद्यङ्गभावनाया इतिकर्तव्यतात्वेन प्रधानभावनायामन्वय' इति । न च तत्रापीतिकर्तव्यतात्वं लक्ष्यम् । वाक्यार्थस्य तत्संसर्गेणान्वय
For Private and Personal Use Only