________________
www.kobatirth.org
प्र ० दे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
१७१
त्तिविधौ यागस्याज्ञातज्ञाप्यत्वरूपे विधेयत्वानुवाद्यत्वे फलोद्देशेन यागस्य यागोद्देशेन गुणस्य च विनियोगविधौ यागस्य शेषत्वशेषित्वरूपे गुणत्वप्रधानत्वे तादृशप्रयोगविधौ प्रकृतविधिप्रयुक्त कृतिसाध्यताधी विशेष्यत्वतादृशकृत्यु द्देश्यताधीविशेष्यत्वरूपे उपादेयत्वोद्देश्यत्वे स्याताम् । ते च मिथो विरुद्धे । परस्पराभावव्याप्यत्वात् । तथा चैकदा ज्ञातुमशक्ये । तस्माद्यागे गुणस्य करणत्वेनान्वयस्य वैयधिकरण्येनान्वयस्यासम्भवादभेदान्वयरूपस्य सामानाधिकरण्येनान्वयस्य च गुणयागभेदप्रत्ययविरुद्धत्वाद्वाजपेयादिपदे मत्वर्थे वाजपेयसम्बन्धिनि लक्षणा वाच्या । तस्याश्चान्याय्यत्वाद्वाजमन्नं सुरारूपं पेयमस्मिन्निति व्युत्पत्त्या यौगिकत्वमेव युक्तम् 1 वाजपेये सुराग्रहविधानात् । तथा च वाजपेयादिपदं यागनामैत्र । 'सोमेन यजतेत्यादौ सोमादिपदस्य लताविशेषादावत्यन्तप्रसिद्धत्वेन यागनामत्वासम्भवात् अगत्या सोमसम्बन्धिलक्षणया यागे अभेदान्वयः । वरं ह्यत्यन्ताप्रसिद्धार्थकत्वकल्पनातो लक्षणाकल्पनमिति प्रथमचतुर्थे चिन्तितम् । तदिदमुक्तम् । वैयधिकरण्येनेत्यादि । मत्वर्थेति । ननु, भावनायां यागस्य यत् करणत्वं बुद्धं, तत् फलनिरूपितम् । सोमादेस्तु करणत्वं भावनायां तस्यां बुद्ध्यमानं यागनिरूपितम् । तथा च यागेन करणेनावरुद्धापि सा सोमेन करणेनाप्यन्वयमर्हत्येव । नैराकांक्ष्याभावादिति चेन्न । करणत्वत्वरूपेणैव सोमादेः करणत्वं बोध्यम् । न तु यागनिरूपितकरणत्वत्वरूपेण । तृतीयायास्तदबोधक - त्वात् । लक्षणया च न तस्यास्तद्बोधकत्वम् । प्रधानीभूतविभक्तौ लक्षणाया अन्याय्यत्वेन प्रातिपदिक एव मत्वर्थलक्षणाया युक्तत्वात् । तथा च करणत्वमात्ररूपेण सोमस्यान्वये वाच्ये नैराकांक्ष्यं दुर्वारम् । तेन रूपेण यागस्य प्रथममन्वितत्वात् । ननु, भावनापेक्षमाणा हि साधनं किं फलस्य मे साधनानुग्रहः को वेत्यनुस्यूतमपेक्षते इति तर्कचरणे वार्तिके उक्तम् । तस्यायमर्थः । भावना स्वीयमंशत्रयमपेक्षमाणा इत्यनुस्यूतमेवं फलघटितरूपमपेक्षते । फलस्य फलघटितरूपेणापेक्षणीयत्वं स्पष्टत्वानुक्त्वा करणेतिकर्तव्यतयोस्तदाह-साधनं किमित्यादि । मे भावनायाः फलस्य साधनं करणं किमिति करणाकांक्षा किंनिष्टकरणतानिरूपकफलिका भावनेति यावत् । भावनास्वरूपे न करणापेक्षा । तथा सति यागकरणकत्वबुद्ध्या तन्निवृत्तिर्न स्यात् । न हि यत्नविशेषरूपस्याङ्गकलापरूपस्य वा, तस्य यागकरणत्वम् । किं तु यागजनकत्वम् । तथा च प्रथमं भावनायां फलान्वयात् मत्फले किं करणमित्येवं पर्यववसिता स्वर्गत्वादिविशेषमविषयीकुर्वती किंकरणकफलिका भावनेत्येव करणाकाङ्क्षा पाष्टिकान्वये । एवं स्वर्गकरणत्वेन यागादिमानात् साधनानुग्रहः करणोपकारकं मे फलस्येत्यनुषज्यते । तथा च किमुपकृतकरणफलवती भावनेति इति
For Private and Personal Use Only
-