________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तस्मादाकारद्वयानुभवात् भ्रमविषयत्वहेतुना मिथ्यात्वानुमितेस्सत्तादात्म्यमिदमादि. तादात्म्यं च यदि मिथ्या न स्यात्तदा भ्रमविषयो न स्यात् । विषयविशिष्टभ्रमस्य मिथ्यात्वप्रत्ययादिति तर्कादिदमादितादात्म्यमिव सत्तादात्म्यमपि मिथ्या। तदिदं सर्व शारीरकसंक्षेपशारीरकपञ्चपादिकादिमूलकम् । उक्तं हि शारीरके-'अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्माश्चाध्यस्याहमिदं ममेदमिति व्यवहार' इति । अन्योन्यस्मिन् परस्परावच्छेदेन । उक्तं च संक्षेपशारीरके'इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवस्त्विदम् । रजतभ्रमेऽस्य च परिस्फुरणान्न यदि स्फुरेन खलु शुक्तिरिव ॥ इतरेतराध्यसनमेव ततश्चितिचेत्ययोरपि भवेदुचितम् । रजतभ्रमादिषु तथावगमात् न हि कल्पना गुरुतरा घटते ॥ अनुभूतियुक्त्यनुमितित्रितयादितरेतराध्यसनमेव ततः । चितिचेत्यवस्तुयुगलस्य न चेत्रितयस्य बाधनमिहापतति॥' इति । अस्येदमर्थस्य । न यदीत्यादि यदीदमर्थो न कल्पितः तदा भूभे न स्फुरेत् । शुक्तिरिव शुक्तित्वविशिष्टमिवेत्यर्थः । इतरेतराध्य सनं परस्परावच्छेदेनाध्यासः । गुरुतरेति । रजतादिभूमे यथा दृष्टं तद्विपरीताव्यावहारिकभूमस्थले एकस्यैवाध्यास उत्पत्तिश्चेति कल्पनानुपस्थितविषयकत्वेन गुर्षी । आवश्यकानामनन्तसत्तादात्म्यानां विषयत्वरूपाणामनध्यस्तत्वे सत्यत्वापतेरद्वैतभुतिसङ्कोचापत्तेश्च । तेषामध्यस्तत्वेऽपि न जन्यत्वमिति स्वीकारे कपालादिनिष्ठविषयत्वावच्छिन्नानां घटादिनिष्ठविषयत्वानां पूर्वोक्तरीत्या कपालादिनाप्यवच्छिन्नत्वात्तादृशनित्यसाधारणेन कपालाद्यवच्छिन्नत्वरूपेण संयोगादीनां कपालादिकार्यता न सम्भवतीत्यतो जन्यत्वविशेषितेनोक्तरूपेण सा वाच्या । तथा चैतादृशगुरुतरकल्पनामूलकत्वेनैकस्यैवाध्यासोत्पादादिकल्पना गुरुतरेत्यर्थः । अनुभूतिराकारद्वयानुभूतिः आद्यपद्यस्याद्यार्धे उक्ता । अनुमितिः भूमविषयत्वहेतुका मिथ्यात्वानुमितिस्तृतीयचरणे । युक्तिस्तर्कश्चतुर्थचरणे । पञ्चपादिकायामप्युक्तम्-'यद्यनात्मन एवाध्यासस्तदा आत्मा न भ्रमे भासेत । तस्मादात्मानात्मनाईयोरप्यहमनुभवे अध्यास' इति । ननु, विप्रतिपत्तौ मिथ्यात्वविशेषस्यैव साध्यतयोक्तत्वान्यायप्रयोगेऽपि तस्यैव तदुचितम् । न तु मिथ्यात्वसामान्यस्येति चेन्न । विप्रतिपत्तावपि मिथ्यात्वस्य सामान्यरूपेणैव साध्यतायां तात्पर्यात् । तच्च सामान्यरूपं वक्ष्यमाणपञ्चविधमिथ्यात्वसाधारणं मिथ्याशब्दार्थत्वरूपं मिथ्याशब्दप्रवृत्तिनिमित्तत्वम् । न तु पञ्चविधमिथ्यात्वानामन्यतमत्वम् । न्यायप्रयोगे आधुनिकलक्षणया शब्दप्रयोगस्यासाम्प्रदायिकत्वात् । मिथ्याशब्दार्थत्वरूपेण मिथ्याशब्देन मिथ्यात्वस्य बोधने निरूढलक्षणैव नाधुनिकलक्षणा । 'वृक्षो मही
For Private and Personal Use Only