________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमपरिच्छेदः]
लघुचन्द्रिका ।
टभूतलादिनिष्ठयोवृत्तिज्ञानीयविशेषणताविशेष्यतयोर्भासमानवैशिष्टयीयभासमानप्रतियोगित्वानुयोगित्वस्वरूपत्वादवच्छेदकावच्छेद्यमावापन्नचिच्चेत्यतादात्म्यरूपयोर्विशे - प्यताविशेषणतयोश्चिदूपज्ञान एव स्वीकारेण वृत्तौ स्वीकर्तुमशक्यत्वात् । ननु, तथापि रजतादेरुपनयसन्निकर्षेण प्रत्यक्षे विषयीभवतो विशेषणत्वमेव । न तु विषयत्वं उपनीतं विशेषणतयैव मातीति नियमादिति चेन्न । उपनयस्य सिद्धान्ते प्रत्यक्षविषयत्वानियामकत्वादुक्तनियमस्याभावात् परमते तद्भावेऽप्यलौकिकविशेषणतायामेव तस्य नियामकत्वात् । लौकिक्याञ्च विशेषणतायामिव विशेप्यतायामपि दोषाणामेव बाधविशेषाभावादिसहकतानां नियामकत्वात् । ननु, रजतस्याध्यासे स्वीकृते तत्तादात्म्यस्यापि अध्यास आवश्यकः । स एव कुतः । रजतत्वादिधर्मस्यैव संसर्ग आरोप्यते । तावतैव प्रतीतिबाधयोरुपपत्तेः । किमिति: रजततत्तादात्म्ययोरध्यास उच्यते इति चेन्न । रजतस्योत्पत्तिं विना. रजतत्वमत्र साक्षात्करोमीति प्रत्ययानिर्वाहात् । देशान्तरस्थरजते मनोवच्छिन्नचित्तादात्म्यामा-. वेन तद्गतरजतत्वादावपि तदभावात् । न च रजतत्वादेरेवोत्पत्तिरस्तु । न तु तद्वत इति वाच्यम् । अनेकधर्माणामुत्पत्तिकल्पनामपेक्ष्यैकस्य धर्मिण एवोत्पत्तिकल्पनाया लघुत्वात् । अखण्डरजतत्वादेरुत्पत्तौ तस्य पूर्वमननुभूतत्वेन पूर्वानुभूतरजतत्वादिप्रकार- : कप्रवृत्त्यादिकार्यस्य भ्रमस्थलेऽनुपपत्तेः । तस्मादिदमादितादात्म्यस्य रजताद्यवच्छेदेनावश्यमुत्पत्तिः प्रातीतिकभ्रमस्थले वाच्या । तथा च तद्वदेव व्यावहारिकघटा दिभ्रमस्थलेऽपि ‘सन्तं घटं जानामि ' 'घटं संतं जानामी' त्याकारद्वयानुभवात् । तादृशभ्रमस्य विषयविशिष्टस्य बाधकप्रत्ययेन श्रुत्यनुमानादिना च. मिथ्यात्वनत्ययाञ्च सदवच्छेदेन घटादिकं तत्तादात्म्यं घटत्वादिसंसर्गश्च घटाद्यवच्छेदेन ; सत्तादात्म्यं सत्त्वादिधर्मसंसर्गश्च जायते । केवलस्य सतो असम्बद्धत्वेऽपि तादात्म्य- . प्रतियोगित्वोपहितरूपेण तस्य तत्सम्बन्धत्वेनावच्छदकत्वम् । न चैकस्यैवानादेस्सत्तादात्म्यस्याविद्यायामिव घटादावपि सम्भवात् घटाद्यवच्छेदेनानन्तसत्तादात्म्यानामुत्पत्तौ न मानमिति वाच्यम् । सत्तादात्म्यं हि चिदूपज्ञानस्य विषयतारूपतादात्म्यम् । तथा च कपालादिनिष्ठविषयतारूपसत्तादात्म्येनावच्छिन्नस्य घटादिनिष्ठविषयतारूपस्य सत्तादात्म्यस्य तन्त्वादिनिष्ठविषयतारूपसत्तादात्म्यावच्छिन्नेनपटादिनिष्ठविषयतारूपेण सत्तादात्म्येमाभेदासम्मवादवच्छेदकभेदेन सत्तादात्म्यानां भेदस्यावश्यकत्वेनानन्त्यं प्रामाणिकम् । न हि तार्किकादिभिरपि तत्तद्विषयतावच्छिन्नविषयतानामैक्यमुच्यते । तेषाञ्च संयोगादिवदेवोक्तरीत्या जन्यत्वमपि ।
For Private and Personal Use Only