________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
रुह' इत्यादौ कोशवाक्ये व्याख्यानवाक्ये च महीरुहादिपदस्य तदर्थपरत्वेन भूरिप्रयोगदर्शनात् ॥ ॥ इति लघुचन्द्रिकायां पक्षतावच्छेदकनिरुक्तिः ॥
ननु किमिदं मिथ्यात्वमित्यादि । मिथ्यात्वं मिथ्याशब्दार्थः । साध्यते तादात्म्यसम्बन्धेन पक्षविशेषणतया निर्दिश्यते । अथ वा मिथ्यात्वं मिथ्याशब्दार्थतावच्छेदकं साध्यते साध्यविशेषणतया निर्दिश्यते । मिथ्याशब्दार्थतावच्छेद कविशिष्टत्वरूपेण मिथ्याशब्दार्थत्वरूपेण मिथ्याशब्दार्थः तादात्म्येन साध्य : तत्र विशेषणतयोच्यमानं किमिति वाक्यार्थः । असत्त्वेत्यादि । असत्त्वसमानाधिकरणस्य सत्त्वस्यात्यन्ताभाव इत्यर्थः । सत्त्वात्यन्ताभावासत्वात्यन्ताभावरूपम् । सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावोभयत्वावच्छिन्नम् । सतीति । सतिसप्तम्याः सामानाधिकरण्यार्थकत्वात् । सत्त्वात्यन्ताभावसमानाधिकरणः असत्त्वात्यन्ताभावोऽर्थः । नाद्य इति । माध्वमते इति शेषः । साधनादिति । माध्वमते अलीकस्यैवात्यन्ताभावस्वीकारेणोक्तविशिष्टप्रतियोगिकाभावप्रसिद्धावपि मतान्तरे तदप्रसिद्धिरित्यपि बोध्यम् । सत्त्वासत्त्वयोरिति । परस्पराभावरूपत्वेनेति शेषः । एकाभावे एकस्याभावे सति । निर्धर्मकेत्यादि । यथा केवलबह्मणो बाध्यत्वाभावरूपसत्त्वादिकं न धर्मः । 'केवलो निर्गुण' इत्यादिश्रुतेः । ब्रह्मनिष्ठसत्त्वस्याबाध्यत्वेनाद्वैतश्रुतिविरोधाच्च । अथ च तस्य बाध्यत्वादिधर्मोऽपि नास्ति । श्रुतिप्रमितत्वात् साक्षित्वादिना बाध्यत्वासम्भवाच्च । तेन तत् सदूपम् । तथा प्रकृतानुमानात् प्रपञ्चस्योक्तसत्त्वाभावसिद्धावपि न बाध्यत्वम् । स्वतः प्रमाणप्रत्यक्षादिप्रमाविषयत्वात् । तेन सोऽपि सद्रूप इति सद्रूपत्वविरोधिमिथ्यात्वासिद्ध्यार्थान्तरमिति भावः । अतश्शब्दार्थस्य विवरणम् । पूर्ववदित्यादि व्याहतिः प्रपञ्चे उक्तव्याघातः । साहीत्यादि । सत्त्वस्याभावोऽसत्त्वं असत्त्वाभावस्सत्त्वमिति वा, सत्वाभावव्यापकमसत्त्वं, असत्त्वाभावव्यापकं सत्त्वमिति वा, सत्त्वाभावव्याप्यमसत्त्वम्, असत्वाभावव्याप्यं सत्वमिति वा, व्याघाते हेतुरित्यर्थः । तदनङ्गीकारात् प्रकृते निवेशनीययोस्सत्त्वासत्त्वयोः परस्परविरहत्वास्वीकारात् । प्रतीयमानत्वरूपं प्रतीयमानत्वयोग्यत्वम् । तच्च सत्तादात्म्यवत्त्वमेव । ननु, सत्त्वेन प्रतीयमानत्वन्न दृश्यमात्रेऽस्ति । घटो गुरुरित्यादिप्रमामात्रसिद्ध गुरुत्वादी सत्त्वेन प्रत्यये मानाभावात् । तथा च तद्योग्यत्वमपि नास्ति । अतस्सत्त्वस्य विशेषणमुक्तम् । कचिदप्युपाधाविति । किञ्चिद्धर्मिनिष्ठं यत् सत्त्वं तेन प्रतीयमानत्वेत्यन्वयः । तथा च गुरुत्वादेरपि घटाद्यवच्छिन्नचित्यारोपात्तद्गतस्य सत्त्वस्य तत्रारोपात् पृथिव्यादिनिष्ठगुरुत्वा- १. 'सत्वेन प्रतीयमानत्वाभावात् ' इति पाठान्तरम् ।
For Private and Personal Use Only