________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
अद्वैतमञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
दिकं सदिति प्रत्ययाच्च सर्वत्र दृश्ये सत्त्वेन प्रतीयमानत्वयोग्यतास्तीति भावः । त्रिकालाबाध्यविलक्षणत्वे सतीति । त्रिकालबाध्यत्वात्यन्ताभावे यत् सद्विद्यमानं त्रिकालाबाध्यत्वात्यन्ताभावसत्तादात्म्योभयत्वं तत्सम्बन्धीत्यर्थः । तस्यच प्रतीयमानत्वेत्यत्रान्वयः । तथा च कालाद्यनवच्छिन्नं यदवाच्यत्वं तदत्यन्ताभावस्सत्तादात्म्यं चेत्युभयवत्त्वं साध्यम् । यथाश्रुते तु त्रिकालाबाध्यत्वात्यन्ताभावसमानाधिकरणस्य सत्तादात्म्यस्य लामात्तस्य च वक्ष्यमाणत्वात् पौनरुक्त्यम् । व्याघातः शुक्तिरूप्ये उक्तो व्याघातः । प्रपञ्चे व्याहत्यभावस्य पूर्वोक्तरीत्यैव शुक्तिरूप्येऽप्यर्थात्तस्य लब्धत्वेऽपि 'अत एव न द्वितीय' इत्याद्युक्तिवैचित्र्याय नापीत्याद्युक्तम् । सत्स्वभावता सदाकारबुद्धौ विशेषणता । ननु, सा ब्रह्मण एवास्तु । तथापि प्रपञ्चस्योक्तरीत्या सद्रूपता किमिति न स्यादिति चेन्न । यतः प्रपञ्चे तस्याः स्वीकारे तार्किकादिमते घटस्सन्नित्याकारप्रत्यये शुसत्ताया विशेषणत्वादन्यैरपि तादृशप्रत्यये शुद्धसत एव तादात्म्येन विशेषणत्वं वाच्यम् । तथा च प्रपञ्चे बाध्यत्वाभाववैशिष्टयं नोक्तप्रत्ययेन सिद्ध्यति । नापि घटोsध्य इत्यादिप्रत्ययेन । तस्यावाध्यब्रह्मतादात्म्यविषयकत्वेनाप्युपपत्तावबाध्यत्वप्रपञ्चयोर्वैशिष्ट्यविषयकत्वे मानाभावात् । न च विनिगमकाभावः । शुद्धसदाकारपूर्वोक्तप्रत्ययसिद्धस्य ब्रह्मप्रपञ्चतादात्म्यस्यैवैतत्प्रत्ययविषयत्वसंभवेनोक्तवैशिष्ट्यस्य तद्विषयताकल्पने गौरवस्यैव विनिगमकत्वात् । नापि प्रत्यक्षादीनां स्वतः प्रामाण्यबलेन तत्कल्पनम् । प्रत्यक्षादीनां व्यावहारिकमेव प्रामाण्यमित्यस्य वक्ष्यमाणत्वात् । ननु, सदाकारप्रत्ययो यदा द्रव्यादौ । तदा तत्र समवायेन सत्ताजातिर्विशेषणमस्तु । यदा द्रव्यत्वादौ तदा सामानाधिकरण्यसंबन्धेन सा । तथा च कथं ब्रह्मण एव तथात्वं तत्राह --- अनुगतेति । सम्बन्धांशेऽप्यनुगताकारेत्यर्थः । उक्तमर्थान्तरं स्वीकृत्यापि तद्वारणायाह — सत्प्रतियोगि केत्यादि । भेदेति । आत्यन्तिकभेदेत्यर्थः । उभयात्मकत्वे इति । 'भ्रमविषयीभूतालीकसंसर्गविशिष्टादिरूपेण प्रपञ्चोऽलीकः रूपान्तरेण तु सत्य' इति न्यायपेटिकाकारवाचस्पत्युक्तपक्षे इत्यर्थः । अन्यतरात्मकत्वे इति । भूमविषयोऽपि संसर्गो दे शान्तरस्थत्वात् सत्य इति प्रपञ्चस्सत्य एवेति पक्षे । ज्ञानातिरिक्तरूपेणालीक एव । प्रपञ्चो विकल्पविषय इति पक्षे चेत्यर्थः । अनवकाश इति । सत्त्वाभावस्य केवलप्रपचे सत्त्वस्य तदुपहितप्रपञ्चे स्वीकारे सत्त्वोपहितप्रपञ्चस्य केवलप्रपञ्चे तादात्म्यस - त्त्वान्न तत्रैकान्तिकः । सद इति भावः । गुणादिकं गुणः क्रिया जातिः विशिष्टरूपं अवयवी अंशी । गुण्यादिना गुणिना क्रियावत्या व्यक्त्या केवलरूपेण अवयवे - न अंशेन । भिन्नाभिन्नं भेदाभेदोभयवत् । समानाधिकृतत्वात् अभेदसंसर्गकधीविष
1
For Private and Personal Use Only
**