________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षस्यानुमानबाध्यत्वम्] लघुचन्द्रिका !
तदर्थः । औदुम्बरीसर्ववेष्टनस्मृतिः तादृशश्रुतिमूलिका । बाधकाभावे सति शिष्टगृहीतम्मृतित्वात् । या बाधकामावे सति यदर्थकशिष्टगृहीतस्मृतिः, सा तदर्थकश्रुतिमूलिका । यथा प्रत्यक्षश्रुतिमूलकस्मृतिरित्यनुमानरीतिः । नेन्द्रे. त्यादि । 'कदाचने'त्यादिमन्त्रगतेन्द्रादिपदानामिन्द्रादिप्रकाशनसामर्थ्यरूपेणेत्यर्थः । शेषत्वश्रुतीति । उक्तसामर्थ्यम् उक्तमन्त्रे इन्द्रशेषत्वबोधिकया श्रुत्या युक्तम् । उक्तसामर्थ्यत्वात् । यत् यन्निष्ठयदर्थप्रकाशनसामर्थ्य, तत् तन्निष्ठस्य तदर्थशेषत्वस्य बोधिकया श्रुत्या युक्तम् । प्रत्यक्षश्रुतिविनियुक्तमन्त्रादिसामर्थ्यवदिति बोध्यम् । चोदनालिङ्गत्यादि । विधिवाक्यसादृश्येत्यर्थः । सोमारौद्रचरुयागः श्रुतिबोधितबहिरङ्गकः । तादृशपौर्णमासविधिसदृशविधिकत्वात् । यत् श्रुतिबोधितयदङ्गकयदीयविधिसदृशविधिकं, तत् श्रुतिबोधिततदङ्गकम् । यथा 'यद्राह्मणानि पञ्चहवींषि तब्राह्मणानीतराणी'ति प्रत्यक्षवचनातिदिष्टश्रुतिबोधिताङ्गकम् । सादृश्यं तु निपत्यादिपदद्विदेवतत्वादिकम् । अनुमानेन च वाध्येतेति । प्रथमतृतीये चिन्तितम् । ज्योतिष्टोमे सदोनामकमण्टपे औदुम्बरी निखन्य स्थाप्यते । तस्याः 'सर्वा औदुम्बरी वेष्टयितव्येति स्मृत्या सर्ववेष्टनं विहितम् । 'औदुंबरी स्टष्ट्वोद्गाये दिति श्रुत्या च स्पर्शनं विहितम् । तदेवं प्रत्यक्ष श्रुतिस्मृत्योर्विरोधे स्मृतिः प्रमाणमेव । शिष्टगृही तस्मृतित्वात् । व्रीहियवादिश्रुत्योरिव तत्कल्प्यश्रुतिप्रत्यक्षश्रुत्योरपि प्रामाण्यसम्भवाच्चेति प्राप्ते, न प्रमाणम् । स्पर्शश्रुतिप्राप्तेनावेष्टितत्वेन 'वेष्टनीया न वेति जिज्ञासानुत्पत्त्या वेष्टनस्मृत्या श्रुतेरेवाननुमानात् अनुमिताया अपि श्रुतेस्सापेक्षत्वकल्प्यत्वादिना प्रत्यक्षश्रुत्यपेक्षया दौर्बल्याचेति भाष्ये सिद्धान्तितम् । सा प्रमाणमेव । 'वेष्टनीया न वे ति जिज्ञासाविरहेऽपि 'स्मृतेर्मूलं श्रुतिः लोभादिकं वेति जिज्ञासासम्भवात् । शिष्टगृहीतस्मृतीभादिमूलकत्वे मन्वादिस्मृतेरपि तदापत्तेः । श्रुतिमूलकत्वम्य तत्रानुमानसम्भवात् । परं तु यावत्तन्मूल श्रुतिन यस्य प्रत्यक्षा, तेन तावत्तदर्थो नानुष्ठेयः । अर्थवादादिकमन्यपरवाक्यं दृष्ट्वापि हि स्मृतिः प्रणेतुं शक्यते । सा च प्रत्यक्षश्रुत्यनुमेययोर्विरोधे न प्रमाणम् । वस्तुतस्तु, तन्मूलश्रुतिर्येन न दृष्टा, तेनापि तदर्थोऽनुष्ठेय एव । तस्यामर्थवादादिमूलकत्वशङ्कायां मन्वादिस्मृतावपि तदापत्तेः । तस्मात् शाक्यादीनां वेदोक्ताहिंसादिधर्मवक्तृत्वेन शिष्टत्वात् तदीयस्मृतिर्मानमिति प्राप्ते, वेदप्रामाण्यावीकारेण तेषामशिष्टत्वात् न सा प्रमाणमित्येवाधिकरणं रचनीयमिति वार्तिकम् । 'सोमारौद्र चलं निवपेत् कृष्णानां व्रीहीणाम् इति विहितेष्टौ 'शरमयं बहि'रितिश्रुताः शराश्चोदकप्राप्तं बहिर्न बाधन्ते । 'शरमयी भूमि'रित्यत्रेव बहुशरसंयोगमात्रस्य
For Private and Personal Use Only