________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
बर्हिषि प्रतीतेरिति प्राप्ते, उक्तसंयोगविधानस्यादृष्टार्थत्वापत्तेः दृष्टं स्तरणरूपं बर्हिःकार्यमुद्दिश्य शरा विधीयन्ते । मयश्रुतिस्तु अतिदेशप्राप्तलवनादिसंस्कारविशिष्टतया शरविकारस्यानुवादः । न च कुशकार्यस्येव कुशानामप्यतिदेशेनैकेन प्राप्तिः । पदार्थविशिष्टस्यैवोपकारस्यातिदेशात् । तथा च कुशकार्यप्रापकत्वेनातिदेशस्योपजीव्यत्वात्तत्प्राप्तकुशबाधासम्भवेन कुशाभावकाले शरस्यानुष्ठानमास्तामिति वाच्यम् । शरविधिपर्यालोचनेन कुशरूपपदार्थांशे अतिदेशस्य सङ्कोचात् । अन्यथा शरविधिवैयर्थ्यात् । (कुशाभावकाले शराणां विधौ तु मानाभावः । 'यदि सोमं न विन्देदि'त्यादिवत् ज्ञापकामावात् । शरविधेः प्रत्यक्षत्वेनोपजीव्येनापि कुशातिदेशेन तादृशोपमर्दासम्भवात् कुशाभावकालविषयकत्वे शरशास्त्रस्य नित्यवत् श्रवणविरोधापत्तेश्च । ) तस्मात् कुशानां शरैर्बाध इति दशमचतुर्थे स्थितम्। तदेतस्मिन्नधिकरणद्वये प्रत्यक्षविषयश्रुतेरनुमानबाधकत्वमुक्तम् । त्वन्मते सत्त्वप्रत्यक्षस्य मिथ्यात्वानुमानेन बाधे उक्तश्रुतित्रयप्रत्यक्षस्योक्तस्मृतिहेतुकेनानुमानेन बाधः स्यादित्यर्थः । तद्बाध्यबाधकभावस्य उक्तश्रुतिविषयकप्रत्यक्षोक्तस्मृतिहेतुकानुमानयोर्बाध्यबाधकमावस्य । शास्त्रार्थत्वेति । उक्तानुमानस्योक्तश्रुत्यैव बाध्यता शास्त्रार्थः । तयोविरुद्धविषयकत्वात् । न तु तत्प्रत्यक्षेण । तयोस्तदभावादित्यर्थः ! तथाचोक्तप्रत्यक्षानुमानयोविरुद्धविषयकत्वे बाध्यबाधकत्वं शास्त्रार्थस्स्यात् । अतोऽविरुद्धविषयकत्वानोक्तापत्तियुक्तेति भावः । ननु, तस्याशास्त्रार्थत्वेऽपि त्वया प्रत्यक्षस्यानुमानवाध्यताया उक्तत्वेन तादृशप्रत्यक्ष तव मते तादृशानुमानबाध्यं स्यात् । तत्राह-अस्माभिरिति । विरुद्धविषयकप्रत्यक्षस्यैवास्माभिस्तर्कानुमानबाध्यताया उक्तत्वेन नोक्तापत्तियुक्तेति भावः । ननु, उक्तश्रुतित्रयस्य प्रत्यक्षावेषयत्वेनैव बाधकत्वं शास्त्रार्थः । तच्चोक्तरूपस्य बलवत् प्रत्यक्षघटितत्वादेव । तत्राह-प्रत्यक्षविषयति । विरोधाभावादिति । तथा च नोक्तरूपेण बलवत्त्वं श्रुतेः । वैकृतमन्त्रलिङ्गादिकल्प्यश्रुतेरप्यतिदेशरूपानुमानापेक्षया बलवत्त्वात् । किं तु निरवकाशत्वक्लप्तत्वादिना । तथा च तद्रूपस्यैव बाधकत्वे प्रयोजकत्वम् । न प्रत्यक्षविषयश्रुतित्वस्येति न प्रत्यक्षस्य बलवत्त्वं तत्रोपयुज्यत इति भावः । ननु, प्रमाणमेवानुमानात् बलवत् । प्रमाणं च श्रुतिज्ञानं प्रत्यक्षरुपम् । न श्रुतिः । तत्रापि श्रुतिज्ञानमात्रं नानुमानात् बलवत् । श्रुत्यनुमितेः श्रुत्यनुमित्यपेक्षया बलवत्त्वालम्भवात् । किंतु श्रुतिप्रत्यक्षम् । विरुद्धविषयकत्वमपि तस्यास्त्येव । शाब्दधीद्वारा शब्द१. 'कुशाभावत्यारभ्य नित्यवत् श्रवणविरोधादि'त्यन्तम् अधिकः पाठः।
For Private and Personal Use Only