________________
www.kobatirth.org
प्र ० दे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
१६३
,
प्रमाणस्य सविषयकत्वात् । तथा च श्रुतिप्रत्यक्षं श्रुत्यनुमित्यपेक्षया बलवदिति शब्दप्रमाणयोरेव प्रत्यक्षत्वानुमितित्वाभ्यां बलाबलमुक्तशास्त्रार्थः । तत्राह - न हि शब्द प्रत्यक्षयोरैक्यमस्तीति । ( बाधकत्वेन शास्त्रे निर्णीतं यत् शब्दसामान्यं तस्य प्रत्यक्षैक्यं न ह्यस्तीत्यर्थः । कुत्र शब्दस्य तादृशस्य न प्रत्यक्षैक्यम् । तत्राह—शब्दस्येति । वैकृतमन्त्र विशेषलिङ्गकल्प्य श्रुत्यादिरूपशब्दज्ञानस्य प्रत्यक्षान्यस्यापि प्रकृतमन्त्रादिप्रापका तिदेशादिसर्वप्रमाणबाधकत्वं शास्त्रानुसारिन्यायेनावोचाम पूर्वमित्यर्थः । ) तथा च शब्दप्रमाणस्य निरवकाशत्वक्लप्तत्वादिना सावकाशत्व कल्प्यत्वादिमतोऽनुमित्यात्मकश्रुतिज्ञानात् बलवत्त्वस्योक्ताधिकरणार्थत्वेऽपि (प्रत्यक्षत्वानुमितित्वाभ्यां बलाबलं) नोक्ताधिकरणार्थ इति भावः । शैत्यम् । अनौष्ण्यम् । स्थायित्वं अक्षणिकत्वम् । अर्थक्रिया दाहादिकार्यम् । तन्वं व्याप्यम् । अयोग्यशृङ्गसाधन इति । न च शृङ्गत्वावच्छेदेन योग्यत्वनिश्चयात् नायोग्यशृङ्गत्वेनानुमितिस्संभवतीति वाच्यम् । अस्मदादिचक्षुराद्ययोग्यस्य देवगवि शृङ्गस्य सत्त्वेनोक्तनिश्चयासम्भवात् । अश्वादौ शृङ्गसन्देहकाले अयोग्यशृङ्गानुमितिसम्भवात् ॥ ॥ इति लघुचन्द्रिकायां प्रत्यक्षस्यानुमानबाध्यत्वम् ॥
तस्मादित्यादि । 'तस्माद्धमएवे 'त्यादेरर्थवादस्य ' गुणवादस्त्विति सूत्रेण 'अदितिरि' त्यादिमन्त्रस्य च 'गुणादविप्रतिषेध ' इति सूत्रेण गौणार्थता सिद्धान्तत्वेन नोच्येतेति योजना । दृष्टविरोधेनेति । अर्थवादाधिकरणे 'वायुर्वै क्षेपिष्ठा देवते' त्यादेर्धर्मानुत्पादकत्वं स्वार्थानुवादकत्वं च दृश्यते।'स्तेनं मनोऽनृतवादिनी वागि' त्यादेस्तु स्वार्थो बाधित एव । मनस्स्तेनसदृशम् । वागनृतप्रायवादिनीत्यर्थकत्वे त्वनुवादत्वापत्तेर्विधिकल्पकत्वं वाच्यम् । स च विधिर्वाज्मनसयोरनृतादियोगादन्येनापि तत्सेव्यमित्येवंरूपश्चेत्, प्राप्तार्थत्वादनुवादस्स्यात् । 'नानृतं वदे' दित्यादिशास्त्रविरुद्धश्व स्यात् । 'अनृतेनैव स्वकार्यं साधयेत्' 'स्तेयेनैव द्रव्यमार्जयेत्' इति परिसंख्यारूपश्चेत् त्रैदोप्यापत्तिः । 'सत्यमेव वदेत्' 'प्रतिग्रहादिनैव द्रव्यमार्जयेदिति शास्त्रवि रोधश्व । अत एवानृतं वदेदेवे 'ति नियमविधिरूपोऽपि न । नापि विकल्पः । कल्प्यत्वेनास्य दुर्बलत्वात् । तस्माच्छास्त्रविरोधेन विध्यकल्पकत्वात् स्तेनमित्यादिवाक्यानामप्रामाण्यम् । एवं 'तस्माडूम एवाग्नेर्दिवा ददृशे नार्चिः अर्चिरेवा
१. शब्द प्रत्यक्षयोः शब्दसामान्यप्रत्यक्षसामान्ययोः । ऐक्ये दोषमाह - शब्दस्येति । निदोषवाक्यस्येत्यर्थः । बलवत्त्वमिति । तथा च तयोरैक्ये 'प्राबल्यमागमस्यैव जात्या तेषु त्रिषुस्मृत' मिति स्मृतिविरोधः । इति पाठान्तरम् ।
२. प्रत्यक्षज्ञानसामान्यस्यानुमितिसामान्यात् बलवत्त्वम् । इति पाठान्तरम् ।
For Private and Personal Use Only