________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
गर्नक्तं ददृशे न धूमस्तस्माद्दिवाग्निरादित्यं गतो रात्रावादित्यस्त'मित्यादेदृष्टविरोधादप्रामाण्यमिति 'शास्त्रदृष्टविरोधादि'ति सूत्रेणाशंक्यान्येषामप्यर्थवादानामन्यैः प्रकारैरप्रामाण्यमाशंक्य 'गुणवादस्त्वि'ति सूत्रेण बाधितार्थकानामुक्तार्थवादानां गौणार्थकत्वं प्रतिज्ञाय 'रूपात् प्रायादि'त्यादिसूत्रैरुपपाद्यगौणार्थधीद्वारा विध्यपेक्षितस्तुतिनिन्दाबोधकत्वमुक्त्वा सर्वार्थवादानां करणेतिकर्तव्यताविशिष्टभावनागतप्राशस्त्याप्राशस्त्यधीपरत्वमिति सिद्धान्तितम् । तत्र 'हिरण्यं हस्ते भवत्यथ गृह्णातीति विधेश्शेषभूते 'स्तेनं मनोऽनृतवादिनी वागि'त्यत्र स्तेनशब्दः प्रच्छन्नकारित्वरूपाद्रूपात् गौणः । अनृतशब्दस्तु अनृतवाक्यबाहुल्यरूपात् प्रायात् गौणः । वाङ्मनसयोनिन्दया हिरण्यस्य विधेयस्य स्तुतिधीः । 'तम्मालूम एवे'त्यादौ तु 'दूरभूयस्त्वादिति सूत्रोक्तदूरभूयस्त्वादृशिौणः । अत्र 'रूपात् प्रायात् ' 'दूरभूयस्त्वादिति सूत्रस्थपञ्चम्या ल्यबन्तसमानार्थकत्वात् । रूपप्रायदरभूयस्त्वरूपान् गुणानादाय गुणवादोऽनृतादिशब्द इत्यर्थो बोध्यः । दूरभूयस्त्वं च भूयस्त्वेन दूरस्थैर्दृश्यमानत्वम् । दिवा हि दूरस्थैः भूयस्त्वेन धूम एव दृश्यते । नाग्निः । तथा च 'सूर्यो ज्योतिर्योतिरग्निस्स्वाहेति सायं जुहोति' 'अग्निोतिर्योतिस्सूर्यस्स्वाहेति प्रातर्जुहोती'ति मिश्रलिङ्गकमन्त्रविध्योश्शेषभूतं तस्मादित्यादिकम् । उभयोर्दैवतयोर्मेलनादुभयदेवताको होमः प्रशस्त इत्यर्थः । वस्तुतस्तु, केवललिङ्गकमिअलिङ्गकमन्त्रविध्योर्मध्ये पठितमप्युक्तवाक्यद्वयं 'अग्निज्योतिज्योतिरग्निस्स्वाहेति सायंजुहोति' 'सूर्यों ज्योतिर्योतिस्सूर्यस्स्वाहेति प्रातर्जुहोती'ति केवललिङ्गकमन्त्रविधेः शेषः । 'उभाभ्यां सायं हूयते उभाभ्यां प्रातर्न देवताभ्यस्समं दधाती' त्यस्यार्थवादस्य मिश्रलिङ्गकमन्त्रविधिशेषस्य सत्त्वात् । तथा च यस्माद्दिवाग्निरादित्यं गतस्तस्मादिवादित्यस्यैव ज्योतिष्ट्वात्तन्मात्रलिङ्गकमन्त्रः प्रशस्त इत्यर्थः । एवमर्चिरेवेत्यादावपि बोध्यम् । मन्त्रस्यति । प्रथमद्वितीये चिन्तितम्। 'अदितिौरदितिरन्तरिक्षमि' त्यादिमन्ता अप्रमाणम् । अर्थवाधादिना दृष्टविरोधादिसम्भवात् । न चार्थवादस्येव बाधितार्थकत्वेऽपि गौणार्थधीद्वारा प्राशस्त्याप्राशस्त्यधीपरत्वं तेषामास्तामिति वाच्यम् । मन्त्रा हि न विधिसन्निहिता एव । किं तु ब्राह्मणभागस्थविधिशेषभूतास्संहिताभागस्था अपि। तथा च दूरस्थानां तेषां न पदैकवाक्यतया प्राशस्त्यादिबोधकत्वमिति प्राप्ते, ब्राह्मणवाक्यस्येव मन्त्रस्य विशिष्टवाक्यार्थधीजनकत्वस्याविशेषात्तादशधियश्चानुष्ठेयसम्बन्धिप्रकाशनरूपत्वेन तादृशदृष्टोपकारद्वारा अनुष्ठेयप्रधानाङ्गत्वसम्भवात्तादृशदृष्टोपकारासम्भवे अदृष्टद्वारापि तदङ्गत्वसम्भवात्तस्य प्रामाण्यमेव । यद्यपि हि मन्त्रवाक्यार्थस्य मानान्तरेणापि सिया
For Private and Personal Use Only