________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका ।
नागृहीतग्राहित्वरूपं प्रामाण्यं सर्वमन्त्रेषु सम्भवति । तथाप्यभिहितान्वयवादे विभक्त्यन्तपदार्थशाब्दबोधस्यैव पदज्ञानकरणकत्वेन क्रियाकारकान्वयशाब्दबोधस्योक्तशाब्दधीकरणकत्वेन मन्त्ररूपार्थज्ञानस्य करणत्वान्मन्त्रस्यापि प्रमाणत्वम् । 'अनेन मन्त्रेण इममर्थं प्रकाशयेदिति क्रियाकारकान्वयबोधे मन्त्रेणेति विभक्त्यन्तपदार्थरूपमन्त्रकरणत्वशाब्दबोधस्य करणत्वात् । 'अदितिरि'त्यादिबाधितार्थकादिमन्त्राणां तु गौणार्थकत्वादिकल्पनया दृष्टविरोधादिकं परिहर्तव्यमिति । तत्सिदीत्यादि । तसिद्धिः । तदुद्देश्यभूता सिद्धिः यजमानाद्युद्देश्या कार्यसिद्धिरिति यावत् । जाति ननम् । सारूप्यं चक्षुर्ग्राह्यतेजस्वित्वादिरूपं सादृश्यम् । प्रशंसा प्राशस्त्यम् । भूमा बाहुल्यम् । लिङ्गसमवायः अल्पत्वसम्बन्धः । गुणाश्रया इति सूत्रशेषः । गुणवटका इति तदर्थः । तथा च 'यजमानः प्रस्तर' इत्यादौ यजमानादिपदं यजमानापेक्षणीयसिद्धिहेतुत्वादिरूपगुणयोगात् प्रस्तरादिबोधनद्वारा 'प्रस्तरमुत्तरं बर्हिषस्सादयती' त्यादिविध्येकवाक्यतया प्रस्तरादिस्तुतिपरम् । यस्मात् प्रस्तर उक्तहेतुः, तस्मात् प्रशस्त इति । न तु यजमानादिपदं प्रस्तरादिनाम । सोमादिपदवत् अर्थान्तरे अत्यन्तप्रसिद्धत्वात् । नापि प्रस्तरकार्ये सूग्धारणादौ यजमानविधिः । उक्तविध्येकवाक्यताभङ्गापत्तेः । 'अग्नि ब्राह्मण' इत्यादावग्निजननस्थानजातत्वगुणात् ब्राह्मणादिधीद्वारा ब्राह्मणादिस्तुतिपरमग्न्यादिपदम् । सृष्टिकाले ब्रह्मणो मुखात् अग्निब्राह्यणयोजननस्य श्रुत्युक्तत्वात् । एव'मादित्यो यूप' इत्यादौ सारूप्यं गुणः । यद्यपि तत्सिद्धिहेतुत्वादिकमपि सारूप्यं , तथापि सारूप्यपदेन चक्षुाद्यं तेजस्वित्वादिसादृश्यं विवक्षितमिति साम्प्रदायिकाः । तत्रेदं चिन्त्यम् । तसिद्धिसूत्रे तत्सिद्ध्यादीनां षण्णामन्यतममेव गौणशब्देन बोध्यत इति नियमो विवक्षितः । अन्यथा षण्णां कथनवैयर्थ्यात् । तथा चार्थवादाधिकरणे 'रूपादि' त्यनेन 'स्तेनं मन' इत्यादौ प्रच्छन्नकारित्वरूपसारूप्यरूपगुणनिर्देश एव वाच्यः । अन्यथा तस्य तत्सियादिरूपत्वासम्भवेन षडाधिक्यापत्तेः । तथा च तस्य चक्षुह्यत्वाभावेन सारूप्यत्वानुपपत्तिः । तस्मात् सारूप्यं सादृश्यम् । तच्च मीमांसकमते अतिरिक्तपदार्थः । न तु तत्सिद्धिहेतुत्वादिरूप इति ततो भेदः । सादृश्यस्य तत्तदसाधारणरूपत्वेऽप्यादित्यादिभेदविशिष्टस्य तेजस्वित्वादेरेव सादृश्यसारूप्यादिपदार्थत्वात् न तस्योक्तहेतुत्वादिरूपतत्सिध्यादिरूपता । तत्सिध्यादेर्यजमानादिभेदाविशेषितत्वादिति ध्येयम् । 'अपशवो वा अन्ये गोऽश्वेभ्यः पशवो गो अश्वा' इत्यादावजादीनां तत्र विहितत्वेन न प्रतिषेधः , पर्युदासो वा । नापि 'अयज्ञीया वै माषा' इत्यादाविव
For Private and Personal Use Only