________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
प्रतिनिधितया प्राप्तस्य निषेधः । 'पुरस्तात् प्रतीचीनमश्वस्योपदधाति पश्चात् प्राचीनमृषभस्येति सन्निहितविध्येकवाक्यताभङ्गापत्तेः । किं तु उक्तविध्यपेक्षितगवाश्वादिस्तुतिपरत्वम् । पशुपदस्य प्रशस्तपशुपरत्वात् । 'सृष्टीरुपदधाती'त्यत्र इष्टकोद्देशेनोपधानं विधीयते इति भाष्यम् । वार्तिकं तु उपधानमात्रस्य विधेयत्वे चित्रिणीरुपदधाति वत्रिणीरुपदधाती'त्यनेकवाक्यानां वैयर्थ्यापत्तिः । एकेनैव तद्विधिसंभवात् । अत इष्टकोद्देशेन मन्त्रविशिष्टोपधानभावना विधीयते । सृष्टिपदं हि सृष्ट्यर्थकपदघटितमन्त्रकरणकोपधानकर्मेष्टकाबोधकम् । 'तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतो'रिति सूत्रविहितमतुबन्तत्वात् । यासामिष्टकानामुपधानकरणीभूतो मन्त्रः सृष्ट्यादिपदार्थसम्बन्धी, तादृशेष्टकासु मतुबन्तस्य लोपश्चेति सूत्रार्थः । उक्तपदार्थस्य सम्बन्धस्तु तदर्थकपदवत्त्वम् । नन्वेकपदार्थयोरुद्देश्यविधेयभावेन क्रियायामन्वयधीः 'वषट्कर्तुः प्रथमभक्ष' इत्यादाविव व्युत्पत्तिविरुद्धेति चेन्न । उक्तसूत्रेणेष्टकारूपकर्मकारकस्य मन्त्रकरणकोपधानरूपकरणान्वितस्य तन्हितवाच्यत्वोक्तिसामर्थ्यादेव तादृशान्वयधियोऽपि प्रकते व्युत्पत्तिसिद्धत्वकल्पनात् । न हि क्रि. यासम्बन्धमप्राप्तयोः कारकयोरन्वयः शब्देन बोध्यते । 'क्रियागर्भत्वात् सम्बन्धस्येति बार्तिकाद्युक्तेः । अत एव 'आग्नेयोऽष्टाकपाल'इत्यादौ तद्धितेनैकेनोक्तयोरप्यग्न्यादिदेवताष्टाकपालादिद्रव्यरूपकारकयोः प्रथमतःक्रियायामन्वितयोरेव मिथोऽन्वयः । तस्मादेकतद्वितोपस्थितयोरप्युपधानेष्टकयोः कर्मत्वकरणत्वरूपाभ्यामाख्यातार्थभावनान्वयो युक्त एव । धातुस्तु, तद्धितोक्तोपधानस्यानुवादः । यदि तु तहन्मन्त्रकरणकेष्टकैव तद्वितवाच्या । करणत्वस्योपधानद्वारकत्वमुपदधातिसमभिव्याहारलभ्यमिति ज्ञापनाय उपधान इति सौत्रं पदमित्यालोच्यते, तदातूक्तानुपपत्तिस्त्येिव । मन्वरूपकरणविशिष्टोपधानस्य तद्धितार्थत्वाभावेन तद्धितार्थेष्टकोदेशेन विधेयत्वसप्भवात् । अत्र यद्यपि 'इष्टकाभिरग्निञ्चिनुत' इति वाक्यबोधितेष्टकानिष्ठचयनाङ्गत्वान्यथानुपपत्यैवोपधानं प्राप्तुं शक्यम् । तथापीष्टकोद्देशेन तद्विधेः फलमुपधानस्य चयनसमानकर्तृकत्वसिद्धिः प्रतीष्टकमेकैकोपधानसिद्धिश्च । इप्टकासंस्कारद्वारा उपधानस्य चयनाङ्गत्वसिद्ध्यागप्रधानयोरेककर्तृकत्वस्य प्रयोगविधिलभ्यत्वात् प्रतिप्रधानं गुणावृत्तिन्यायाच्च । यद्यपि चेष्टकाप्रकाशकत्वेन मन्त्राणामुप धेयेष्टकाङ्गत्वं प्राप्तुं शक्यम् । तथापि तद्विधेः फलमुपधाने तेषां नियमः, उपधानेतरग्रहणादिपरिसंख्या वा मध्यमचितिसम्बन्धश्च । 'यां वै कां चन ब्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमचितावुपदध्यादिति श्रुत्या प्रत्यक्षश्रुतिविहितमन्त्रकाणामिष्टकानाम्मध्यमचिति सम्बन्धविधानात् । ब्राह्मणशब्दो हि विधायकवेदवाची ।
For Private and Personal Use Only