________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भद्वैतमञ्जरी ।
करणत्वात् । मीमांसकैः कर्मब्रह्ममीमांसकैः । औपनिषदानां मतेऽपि वर्णानामाकासादिसमाननित्यत्वस्वीकारात् । अतात्विकगन्धेति । विशिष्टघटस्य केवलघटान्यत्वात्तत्र गन्धोऽतात्विकः । तस्य तदनतिरेकेऽपि स्वप्रागभावे गन्धस्य कालिकसम्बन्धमानात्तथात्वम् । व्याप्यतापत्तेरिति । न च सेप्टैव । पक्षधर्मताधीविलम्बादेवानुमितिविलम्बसम्भवादिति वाच्यम् । गगनादौ जगद्व्याप्यत्वव्यवहारस्यानुभवविरुद्धत्वात् । किं च व्याप्यविशेष्यकपरामर्शस्याप्यनुमितिहेतुत्वात् वहिव्याप्यगगनं पर्वतीयमिति ज्ञानात् पर्वते वह्नयनुमितिस्स्यात् । गगने अवृत्तित्वज्ञानस्य गगनप्रकारकधीप्रतिबन्धकत्वेन तत्काले तदनुत्पादेऽपि तद्विशेष्यकपरामर्शोत्पादे बाधकामावात् । किं च गगनादेरित्यादिपदेन तत्तजलीयरूपादेरपि धूमादिव्याप्यतापत्तिरुक्ता । केन चित् सम्बन्धेन तस्यापि साध्याभाववद्वृत्तित्वस्याभावात् । हेतुतावच्छेदकसन्वन्धेन वृत्तिनिवेशे सत्तावान् द्रव्यत्वादित्यदावव्याप्तेरिति दिक् । ननु, प्रयुक्तत्वं क्षेमसाधारणी जन्यतव । अन्यथा बिंबाभावात् प्रतिबिम्बाभाव इतिवत् बिम्बाभावात् गगनाभाव इत्यपि व्यवहियेतेत्यत आह-तस्मादिति । स्वेतरस्य यस्य यस्य सत्त्वे स्वस्य सत्त्वे अग्रिमक्षणे यत्सत्त्वं, तस्य तस्य सत्त्वेऽपि स्वस्याभावसत्त्वे उत्तरक्षणे अवश्यं तदसत्त्वम् । तादृशसत्त्वं क्षेमसाधारणकारणत्वमिति रीत्या प्रतिबिम्बामावनिष्ठस्य क्षेमसाधारणजन्यत्वस्य प्रतिबिम्बघटितत्वेनातात्विकत्वात् प्रतिबिम्बेतरभागवैयर्थ्याच्च प्रतिबिम्बमेव बिम्बपूर्वकत्वेऽपि तादात्म्येन हेतुरिति भावः । बिम्बं तत्पूर्वकत्वं वा साध्यम् । एतेन कार्यकारणभावापन्नधीविषययोस्समानसत्ताकत्वानियमेन । तन्त्रं समवापकम् । प्रयोजकं व्याप्यम् । बहिर्भूतेति । तार्किकादिरीत्योक्तम् । स्वमतेत्वबाधितविषयकत्वरूपं प्रमात्वं निर्विकल्पेऽप्यस्त्येव । सर्वबाधावधित्वात् सर्वबाधकधीविषयत्वात् । तस्य बाधे तद्धियः सर्वबाधकत्वं नोपपद्यत इति भावः । सत्यत्वादिति । तन्मतेऽपि सर्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वरूपासत्त्वविशिष्टस्य शुक्तिरूप्यादेरसत्त्वेऽपि तादृशासत्त्वस्य सत्त्वादिति भावः । ननु तथापि ज्ञानविषयत्वविशिष्टरूपेण मिथ्यात्वं ब्रह्माणि स्यादित्याशङ्कय तत् स्वीक्रियत एव । तथापि शुद्धरूपेण सत्यतेति सदृष्टान्तमाह---यथेति ॥
॥इति लघुचन्द्रिकायां प्रत्यक्षस्य उपजीव्यतामङ्गः॥ औदुम्बरी उदुम्बरवृक्षशाखाम् । ऐन्या 'कदाचन स्तरीरसि नेन्द्रसश्चसि दाशुष'इत्यादिऋचा । गार्हपत्यं नक्तमाधानसंस्कृताग्निम् । स्मृतिरूपेणेति । ज्ञायमानहेतोरनुमानत्वमते इदं । हेतुज्ञानस्यानुमानत्वमते तु स्मृतिविषयकधीरूपेणेति
For Private and Personal Use Only