________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षप्राबल्यभङ्गः] लघुचन्द्रिका। . रासकत्वाच्चानुभवः स्मृतेरुपजीव्य इत्यर्थः । तथा तादृशोपजीव्यतावान् । सजातीयेत्यादि । सजातीयस्य ज्ञानान्तरस्य । विजातीयस्य प्रवृत्त्यादेश्चाबाधितविषयकत्वेन निश्चितस्य । संवादः समानविषयकत्वम् । तयोविसंवादस्य विरुद्धार्थग्राहित्वस्याभावश्चेत्यर्थः । अक्षस्य प्रत्यक्षस्य । ज्ञानान्तरं घटार्थक्रियेतिपाठः । न्यायामृतरूपे दूष्यग्रन्थे तथैव पाठसत्त्वात्। ज्ञानानन्तरमर्थक्रियेति पाठे परीक्षणीयज्ञानोत्तरं घटार्थक्रियेत्यर्थः । तत्र विशेषदर्शनजन्यत्वोक्त्या संवाद उक्तः । स्वसमानविषयकत्वस्येव स्वविषयव्याप्यवत्त्वविषयकत्वस्यापि संवादत्वात्तद्विषयानुकूलविषयकत्वस्यैव तत्संवादत्वसम्भवादिति बोध्यम् । घटार्थक्रिया घटानयनादौप्रवृत्यादिकम् । सजातीयविजातिययोस्संवादमुक्त्वा अविसंवादमाह- प्रत्यक्ष इत्यादि । चन्द्रप्रादेशिकत्वादिप्रत्यक्षे क्लुप्तस्य दूरादिदोषस्याभावश्चेत्यर्थः । तथा च भ्रमत्वप्रयोजकदोषाभावेन मानान्तरविरुद्धग्राहित्वाभावात्तयोरपि संवाद इति भावः । नन्वागन्तुकदोषाभावेऽप्यविद्याकामकर्मरूपाणां नित्यदोषाणां सत्त्वात् कथं विसंवादाभावोक्तिः । श्रुत्यादिविसंवादस्यैव च सत्त्वात्तत्राह-एवमेव च दोषाभावेति । आगन्तुकदोषमात्राभावेत्यर्थः । प्रवृत्तीति। सजातीयसंवादविसंवादस्थलेऽपि प्रवृत्तिरूपसजातीयज्ञानफलसंवादादिसत्त्वात् प्रवृत्तिपदेनैव सजातीयविजातीययोर्ग्रहणमविसंवादप्रयोजकम् । दोषाभावादिकमपि परीक्षायामन्त व्याह-दोषाभावादिति। स्वसमानेति । स्वसमानकालीनं यत्प्रामाण्यस्य प्रामाण्यघटकं विषयनिष्ठमबाध्यत्वं, तव्यवस्थाप्यत इत्यर्थः । धूमेनेत्यादि । यथोदयनाचार्यादिमते साध्ये हेतुसमानकालीनत्वभानस्यानुमितावौत्सर्गिकत्वस्वीकाराडूमेन तत्समानकालीन एव वह्निरनुमीयते, तथा एतज्ज्ञानविषयः अबाधितोऽबाधितविषयकत्वेन ग्रहीतज्ञानप्रवृत्त्यादिविषयत्वात् तादशज्ञानाविरुद्धत्वादित्याद्यनुमानेन तादृशविषयत्वादिरूपसंवादादिहेतुसमानकालीनं) विषयस्याबाध्यत्वमनुमीयत इत्यर्थः । ननु नवीनतार्किकैस्साध्ये हेतुसमानकालीनत्वभानस्यौत्सर्गिकत्वं न स्वीक्रियते । तत्राह-तथाचेति । परीक्षयापि विषयाबाध्यत्वव्यवस्थादरे चेत्यर्थः । मात्राबाध्यत्वं मात्राबाध्यत्वमेव । प्रमाणे प्रमाविषये । व्यवस्थितमिति । तादृशसंवादादिशरीरे कालानवच्छिन्नमवाध्यत्वं न निवेशयितुं शक्यम् । तस्य दुर्ग्रहत्वेनोक्तत्वात् । तत्तद्व्यवहारकालावच्छिनस्य तस्य तत्र निवेशे च तस्यैव बाध्यत्वं वाच्यम् । न तु कालानवच्छिन्नस्य । शुक्तिरूप्यादौ व्यभिचारादिति भावः । योगक्षेमं सत्ता । मिथ्याभूतैः व्यवहारकाले बाध्यमानैः । सत्या व्यवहारकालाबाध्यविषयिका । क्रियते प्रयुज्यते । वर्णज्ञानस्यैव १. 'तादृशविषयत्वादिसंवादादिहेतुकेन तादृशहेतुसमानकालीनम् ।' इति पाठान्तरम् ।
For Private and Personal Use Only