________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
अद्वैतमञ्जरी।
कारैरिति शेषः । पूर्वसम्बन्धनियमे कार्यप्राक्कालघटितो योऽनन्यथासिद्धकार्यव्यापकतावच्छेदकधर्मरूपो नियमः, तद्रूपे हेतुत्वे आवयोः प्रपञ्चसत्यत्वमिथ्यात्ववादिनोस्तुल्ये स्वीकृते तादृशहेतुत्वात् बहिर्भूतयोरघटकयोस्सत्त्वासत्त्वयोः कथा वृधा न युक्तेत्यर्थः । तज्ज्ञानत्वेनैवेति । ननु, प्रतियोगिज्ञानस्य विशेषणतावच्छेदकप्रकारकनिश्चयविधयैव हेतुता । तादृशनिश्चयस्य चाप्रमात्वेन गृह्यमाणस्याभावबुध्यनुपधायकत्वात् प्रमात्वेन निश्चीयमानस्यैव सा वाच्या। तथा च कथं प्रमात्वाघटितरूपेणैव सेति चेन्न । प्रतियोग्यंशे प्रमात्वेन हेतुताया व्यवच्छेद एव प्रकृतग्रन्थस्य तात्पर्यात् । तथा च प्रतियोगितावच्छेदकांशे प्रमात्वेन निश्चीयमानस्योपजीव्यत्वेऽपि न प्रतियोग्यंशे प्रमात्वस्य उपजीव्यता । प्रतियोग्यंशे भ्रमस्यापि तथात्वसम्भवात् । न चैवं लाघवादित्यसङ्गतम् । प्रमात्वापेक्षया प्रमात्वेन निश्चीयमानत्वस्यैव गुरुत्वादिति वाच्यम् । प्रतियोग्यंशे प्रमात्वेन हेतुतावादिनापि हि प्रतियोगितावच्छेदकांशे प्रमात्वेन निश्चीयमानत्वं कारणतावच्छेदके निवेश्यमेव । अन्यथा तदंशे प्रमात्वसंशये सत्यपि प्रतियोगिज्ञानादभावबुद्ध्यापत्तेः । तथा च तन्निवेशेनैवोपपत्तौ प्रतियोग्यंशे प्रमात्वं न निवेश्यते । लाघवादिति भावः । तद्विरुद्धविषयकम् अनुपजीव्यप्रतियोगिवैशिष्ट्यांशे रजतभ्रमस्य विरुद्धविषयकम् । ज्ञानम् अभावज्ञानम् । प्रकृते मिथ्यात्वानुमानादौ । पृथिवी मिथ्या । दृश्यत्वादित्यनुमाने पृथिवीत्वप्रकारकज्ञानत्वादिना एथिव्यादिप्रत्यक्षस्य हेतुता । न तु पृथिव्याद्यशे प्रमात्वेनेत्यर्थः । एवं घटविभुत्वानुमानेऽपि नोपजीव्यांशे प्रत्यक्षस्य विरुद्धत्वम् । घटस्य परिच्छिन्नत्वांश एव प्रत्यक्षस्य विरुद्धत्वात् । किं तूपजीव्यत्वाश्रयविरोधमात्रम् । तथा चोपजीव्यजातीयविरोधवत्तस्यापि दोषत्वेन तान्त्रिकाणामुक्तिरिति ध्येयम् । अत्र प्रतियोग्यंशे त्रिकालाबाध्यत्वं व्यवहारकालाबाध्यत्वं च यथा नाभावज्ञानस्योपजीव्यं, तथा पक्षायंशे त्रिकालाबाध्यत्वं नोक्तानुमानस्योपजीव्यम् । अतस्तस्य तेन नाधेऽपि न क्षतिः । तस्य व्यवहारकालाबाध्यत्वं तु तेन न बाध्यते । न चोपजीव्यते । मिथ्यात्वेनाज्ञातविषयकत्वरूपस्य पृथिवीत्वादिरूपपक्षतावच्छेदकाद्यंशे प्रमात्वस्य निश्चयः परं तादृशानुमानोपजीव्यः । न च तावता क्षतिः । यत्प्रामाण्यं यस्य प्रामाण्यम् । स्वरूपसिद्ध्यर्थं खनिश्चयार्थम् । अपवादेति । स्वाभाववत्त्वज्ञानेत्यर्थः । उपजीवति अपेक्षते । यथेति । स्मृतेः स्वजनकानुभवसमानविषयकत्वनियमेन स्मृतावप्रामाण्यस्य प्रमानुभवजन्यस्मृतित्वेनानुमानात् प्रमात्वव्याप्यतादृशस्मृतित्ववत्तानिश्चयस्य स्मृतावप्रमात्वधीनि.
For Private and Personal Use Only