________________
Shri Mahavir Jain Aradhana Kendra
प्र ० दे प्रत्यक्षप्राबल्यभङ्गः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
१५७
asनुमानागमे । तद्वाधः तादृशोपजीव्यबाध्यत्वम् । पक्षग्राहिणा परिच्छिन्नतया घटग्राहिणा । नरेति । मृतनरेत्यर्थः । ग्राहकेण ग्राहकागमसजातीयागमेन । असमवायीति । असमवायिकारणेत्यर्थः । 'मनो विभु । ज्ञानासमवायिकारणसंयोगाधारत्वात् । आत्मवदित्यनुमाने मनसि आत्मसंयोगग्राहकेण बाध्यत्वम् । विभुनोरात्ममनसोरसंयोगासम्भवेन मनसि विभुत्वबाधनिश्चयात् । किमु वक्तव्यमिति । बाधक्रियाविशेषणत्वात् नपुंसकत्वम् । तद्राहिश्रोत्रसाक्ष्याatra | शब्दग्राहि श्रोत्रशब्दजन्यज्ञानप्रामाण्यग्राहिसाक्ष्यादीत्यर्थः । तदपेक्षणादिति । यद्यप्यतीन्द्रियपक्षसाध्यहेतुकानुमानस्य प्रत्यक्षापेक्षणे मानाभावः । पूर्वपूर्वानुमानपरम्परयैव तत्संभवात् । शाब्दबोधस्य क्वचिदपेक्षणेऽपि तस्य शब्दानुमानादिनैव सम्भवेन शब्द प्रत्यक्षानपेक्षणात् । किं च साक्षिणो भ्रमप्रमासाधारणत्वेन तजातीयत्वेन कथं प्राबल्यम् । अपि च साक्षिजातीयत्वं चक्षुरादिजन्यज्ञानस्य न प्रत्यक्षत्वजातिः । अस्मन्मते तस्यालीकत्वात् । नापि अनावृतचित्तादात्म्यापननिष्ठविषयताकत्वम् । तस्यैकस्य साक्षिचाक्षुषादिज्ञानयोरभावेन साक्षिजातीयत्वरूपत्वाभावात् । साक्षिणि हि विषयता विषयतादात्म्यरूपा । चाक्षुषादिज्ञाने त्वाकाराख्या । किं च नोपजीव्यजातीयत्वेन प्राबल्यस्वीकारे मानमस्ति । अशौचागमस्थोक्तजातीयत्वमनादृत्यैव प्राबल्यसम्भवात् । आगमत्वजात्यैव हि प्राबल्यस्योतत्वादित्यादिदूषणानि सन्ति । तथापि स्फुटत्वात्तान्युपेक्ष्य वाचस्पत्याद्युक्तं समाधानमाह - उपजीव्याविरोधादिति । यत् स्वरूपं व्यवहारकालाबाध्य विषयकत्वं ज्ञानस्य, तादृशाबाध्यत्वं विषयस्य उपजीव्यते प्रयोजकत्वेनापक्ष्यते । तात्विकत्वाकारः त्रिकालाबाध्यत्वम् । कारणत्वे प्रयोजकत्वे । अप्रवेशात् अवच्छेदकत्वाभावात् । व्यवहारकालाबाध्यविषयकत्वरूपेण मिथ्यात्वविशिष्टतया यदज्ञातं तद्विषयकत्वपर्यवसितेन प्रमात्वेन निश्चीयमानो यश्शब्दनिश्वयः तत्त्वादिरूपेण शाब्दबोधादिहेतुत्वम् । तादृशरूपे च प्रयोजके तात्विकत्वं न निविशते । नन्वेवं प्रातीतिकविषयकज्ञानात्तादृशप्रमात्वेन निश्रीयमानात् कार्योत्पादस्वीकारेण व्यावहारिकशब्दज्ञानत्वादिना हेतुत्वाप्रसक्तावपि प्रातीतिकदण्डादितो घटाद्यनुत्पत्तेः व्यावहारिकदण्डत्वादिना हेतुत्वे वाच्ये महागौरवात् तत्परिहाराय प्रपञ्चस्य व्यावहारिकप्रातीतिकरूपद्विविधत्वस्य त्यागेनैकविधत्वमेव उचितमिति चेन्न। दण्डादेर्दण्डत्वादिना हेतुत्वे स्वीकृतेऽपि न प्रातीतिकदण्डादितो घटादिकार्यस्योत्पत्त्यापत्तिः । व्यावहारिकत्वविशिष्टतत्तत्कारणकलापाधिकरणक्षणोत्तरक्षणत्वस्यैव तत्तत्कार्योत्पत्तिव्याप्यत्वस्वीकारादिति दिक् । तदुक्तमिति । खण्डन
I
For Private and Personal Use Only