________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
मृश'तीति वचनविहिताभिमर्शने चतुर्होत्रेत्यादिना मन्त्रमात्रविधानात् सहदेव सर्वहविरभिमर्शनसम्भवात् । अमावास्यायामुपांशुयागस्याङ्गत्वपक्षे तु नेदमप्युदाहरणं युक्तम् । द्विविधमन्त्राणामप्यविरोधात् । अतोऽन्यदुदाहरणं मृग्यमिति । किं च वैषम्यादित्यनेनेदमपि सूचितम् । भूयोनुग्रहायाल्पस्य मुख्यस्य बाध इति सिद्धान्तो न सर्वसम्मतः । 'विप्रतिषिद्धे'त्याद्युक्ताधिकरणाव्यवहितोत्तरं हि । 'मुख्यं वा पूर्वचोदनाल्लोकवदि' त्यधिकरणे मुख्यामुख्ययोर्द्वयोर्धर्माणामनुष्ठाने विरोधे मुख्यस्यैव धर्मा अनुष्ठेयाः । अमुख्यस्य हि भूयस्त्वं मुख्यस्य बलवत्त्वापवादकम् । तदभावे तु मुख्यस्यैव प्राबल्यमित्युक्तम् । प्राचां मीमांसकैकदेशीनां मते तु विप्रतिषिद्धेत्यादिना भूयोनुग्रहाय मुख्याल्पबाध इति पूर्वपक्षयित्वा मुख्यं वेत्यादिना मुख्यस्यैकत्वेऽपि भूयसाम्मुख्यानां तेनोपमर्दः । लोके तथा दर्शनात् । इति सिद्धान्तितमिति वार्तिकादावुक्तम् । ननु, 'विप्रतिषिद्धे' त्याद्यधिकरणे बहूनां धर्माबाधायाल्पस्य बलवतोऽपि धर्मबाध इत्युक्तम् । तथा च प्रत्यक्षादीनां बहूनां प्रामाण्यरूपस्य धर्मस्याबाधायानिश्चितप्रामाण्यकत्वेनानिश्चितप्रामाण्यकप्रत्यक्षाद्यपेक्षया बलवत्या एकस्याः श्रुतेः प्रामाण्यरूपस्य धर्मस्य बाधो युक्त इति कथं वैषम्यं तत्राह-देहेति । आमासति । द्वन्द्वात् - रतया प्रत्यक्षादेः सर्वस्य प्रत्येकं विशेष्यम् । आभासत्वं चानिश्चितप्रामाण्यकत्वम् । अनुमानं च 'आत्मा देहैक्यवान् । प्रत्यक्षण तथा प्रतीयमानत्वात् ।' इत्यादिरूपं बोध्यम् । तथापित्त्यादिकमादिपदेन ग्राह्यम् । अत्रापि द्वैतसत्यत्वप्रत्यक्षाद्यद्वैतश्रुत्योविरोधेऽपि । प्राबल्यादिति । तथा च बाध्यबाधकमानयोर्द्वयोरपि प्रामाण्येऽनिश्चिते निश्चिते वा तादृशन्यायावतारः । न त्वेकस्य । तस्मिन्निश्चिते अन्यस्य चानिश्चिते 'शतमप्यन्धानां न पश्यतीति न्यायेन भूयस्त्वस्यानुपयोगात् । अन्यथा देहात्मैक्यप्रत्यक्षादेर्बलवत्त्वापत्तेरिति मावः । ननु, तथाऽपि प्रत्यक्षादीनां कर्मोपासनाश्रुतीनां च प्रमाणत्वेन व्यवहारविरोधः । अतत्त्वविदामेव तद्व्यवहारवत् तत्त्वविदामपि तद्व्यवहारस्स्यात्तत्राह-विद्येति । वि. द्या तत्त्वज्ञानम् । तत्रैव तात्विकं प्रामाण्यम् । प्रत्यक्षादौ व्यावहारिकप्रामाण्याश्रये आविद्यकविषयकत्वेनाविद्यारूपे तद्व्यवहारस्त्वतत्त्वविदां दोषादेव । तत्त्वविदां तु दोषाभावान्न तत्र स इति भावः ॥
॥ इति लघुचन्द्रिकायां प्रत्यक्षस्य जात्या प्राबल्यमङ्गः ॥
जात्या मुख्यत्वादिनोपजीव्यत्वान्यरूपेण । प्राबल्यं मिथ्यात्वबोधकानुमानागमापेक्षया बलवत्त्वं । तद्विरुद्धग्रहणे तादृशोपजीव्यविरुद्धग्राह
For Private and Personal Use Only