SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र०दे प्रत्यक्षप्राबल्यभङ्गः ] www.kobatirth.org लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir १५५ - न्तो भाष्यकारेणोक्तो यथेत्यर्थः । बहुविषयकत्वस्य बाधकतामयोजकत्वं प्रकटयति — वहुबाधस्यान्याय्यत्वादिति । बहुनामङ्गभूतसुब्रह्मण्याया बाघस्यायुतत्वादित्यर्थः । सुब्रह्मण्यानाम 'इन्द्र आयाही 'त्यादिनिगदविशेषः । प्रतीतार्थेति । यथाश्रुतार्थेत्यर्थः । दृष्टान्ते ऐन्या आग्नेयीबाधस्थले | बहुविषयाबाधः बहुविषयेषु यागरूपेषु अङ्गावाधो न्यायसिद्धः । विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् स्वधर्मत्व'मिति सिद्धान्तसूत्रेण विरुद्धधर्माणां मेलनप्रसक्तौ बहूनां धर्माबाधस्योक्तत्वात् । अत्र प्रकृते । बहुभिरिति । विषयाबाध इत्यनुषज्यते । तृतीयार्थो ज्ञाप्यता । तथा च प्रकृते बहुप्रमाणज्ञाप्यस्य विषयस्य द्वैतसत्यत्वरूपस्याबाध इत्यर्थः । वैषम्यादिति । अनेनेदं सूचितम् । भाप्योक्तस्यो - तोदाहरणस्य वार्तिके दूषणादिदं दृष्टान्तमात्रं त्वयोक्तम् । न तुक्तन्यायस्यो - दाहरणम् । तदपि विषममिति । उक्तं हि वार्तिके – 'सुब्रह्मण्याया देवताप्रका - शनार्थत्वादिन्द्रप्रकाशनेनाभिप्रकाशनरूपोपकारालाभेन नात्र प्रसङ्गस्य प्रस क्तिः । अन्यत उपकारलाभे तत्साधनाननुष्ठानं हि प्रसङ्गः । तथा च सुत्याकालीनस्येवातिथ्येष्ट्यन्तकालीनादेरपि सुब्रह्मण्यापाठस्य न प्रसङ्गः 1 अत एव न तन्त्रता । एकादशे तदुक्तिस्तु एकदेवताकनानायागीयसुब्रह्मण्याविषया बोध्या । तस्मादुक्तोदाहरणस्याभावादुदाहरणान्तरमुच्यते । काम्येष्टिकाण्डे ' अग्नये दाले पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं ' दधिमधुघृतमापोधानास्तत्संसृष्टं प्राजापत्यं पशुकाम' इति वा क्ये आग्नेयपुरोडाशधानायागयोर।मेयविकास्त्वादमावास्यापौर्णमास्युभयधर्मकत्वेन न तत्र विरोधः । इतरेषु तु पञ्चसु सह क्रियमाणेषु आज्यभागयोर्वार्त्रघ्नीवृधन्वतीमन्त्राणां हविरभिमर्शने चतुर्होतृपञ्चहोतृमन्त्रयोश्चानुष्ठाने विरोधः । ऐन्द्रो हि ऐन्द्रानस्य विकारः । दधियागो दधियागस्य । तत्र च वृधन्वतीपञ्चहोतृमन्त्राणाममावास्याधर्माणां प्राप्तिः । मधुघृतोदकानां तूपांशुयागविकारत्वेन वार्त्र - नीचतुर्होतृमन्त्राणां पौर्णमासीधर्माणां प्राप्तिः । ' वानी पौर्णमास्यामनूच्येते - 'धन्वती अमावास्यायां ' 'चतुर्होत्रा पौर्णमासीमभिमृशेत् पञ्चहोत्रामावास्यामिति वचनाम्यां तेषां तद्धर्मत्वावगमात् । तत्रैन्द्रदनोर्मुख्यत्वेन तदीयधर्माबाधायामावास्याधर्मा एवानुष्ठेयाः । न ह्याज्याभागहविरभिमर्शनयोरेकेन मन्त्रेण उभयार्थे क रणे सिद्धे अन्यमन्त्रानुरोधेन पुनः करणं युक्तम् । गुणानुरोधेन प्रधानावृत्ते - रन्याय्यत्वादिति प्राप्ते, बहूनां धर्मबाधस्यायुक्तत्वादल्पसङ्ख्याकानां भूयो धर्मानुष्ठानेन न प्रसङ्गित्वमिति पौर्णमासीधर्मा एवानुष्ठेयाः । 'आसन्नानि हवींष्यभि For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy