________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
अद्वैतमञ्जरी ।
भवेदिति । त्वदुक्तनिरवकाशन्यायेन सम्भाव्यत इत्यर्थः । तदसम्भवे त्विति । अद्वैतश्रुतेर्व्यावहारिकप्रामाण्यासम्भवेत्वित्यर्थः । व्यावहारिकप्रामाण्यं व्यावहारिकसत्वाश्रयविषयकत्वम् । उक्तसत्त्वं च बाध्यत्वे सति व्यवहारकालाबाध्यत्वम् । सत्यन्तानुक्तौ तात्विकप्रमाणस्यापि व्यावहारिकप्रामाण्यापत्तेः । उक्तसत्त्वं च नाद्वैतत्वोपलक्षितब्रह्मणः सम्भवति । तस्य साक्षिरूपत्वेन चिदानन्दरूपत्वेन च बाध्यत्वासम्भवात् । तथा च तद्बोधकवाक्ये व्यावहारिकप्रामाण्यासम्भवः । न च साक्षिणो ब्रह्माभिन्नत्वेनाद्याप्यसिध्या ब्रह्मणो बाध्यत्वे बाधकाभाव इति वाच्यम् । साक्षिण ईश्वरत्वपक्षे शुद्धचिद्रूपत्वपक्षे च ब्रह्माभिन्नत्वस्य सिद्धत्वात् । 'सलिल एको द्रष्टे' त्यादिवाक्यैरद्वितीयत्वोपलक्षितजीवस्वरूपप्रमापकत्वेन जीवस्वरूपसाक्षिणो बाध्यत्वासम्भवेन च तेषां तात्विकप्रामाण्यस्यावश्यकत्वेन व्यावहारिकप्रामाण्यासम्भवादिति भावः। श्रुतेस्तात्विकत्वमिति । द्वैताभावत्वविशिष्टरूपव्यावहारिकविषयकबोधस्यावान्तरतात्पर्यस्वीकारेऽपि द्वैताभावोपलक्षितब्रह्मणि महातात्पयोत्तादृशतात्विकविषयकत्वेन तात्विकप्रामाण्यमिति भावः । पर्यवस्यतीति । उक्तरीत्या सावकाशत्वन्यायस्यानवतारेऽपि 'यजमानः प्रस्तर'इत्यादिश्रुतिः प्रत्यक्षेणेव प्रत्यक्षादिकमपि श्रुत्या दुर्बलत्वादेव बाध्यते । दुर्बलत्वं चक्तिश्रुतरतत्परत्वात् । प्रत्यक्षादेस्तु तत्परत्वादियुक्त श्रुतिविरुद्धत्वादिति भावः । पञ्चदशरात्र इति । पञ्चदशयागरूपे सत्रे । अग्निष्टुन्नामके प्रथमेऽहनि प्रथमयागे । एकाहात्मकस्याग्नेयस्यानिष्टुद्यागस्य । धर्मभूता अङ्गभूता । आग्नेयी सुब्रह्मण्या नामातिदेशेन प्राप्ता प्रसक्ता । तस्या अल्पविषयत्वादल्पं एकमनिष्टुन्मानं विषयः अङ्गि यस्यास्तादशत्वात्। बहुविषयया बहवश्चतुर्दश यागाः विषया अङ्गिनो यस्यास्तया ऐन्या यथा बाधः । ऐन्द्रीप्रापकं प्रमाणमाह-चोदकेनेति । अतिदेशेनेत्यर्थः । चोदकशब्दस्य चोदनालिङ्गकातिदेशे मुख्यस्यापि प्रकृते अतिदेशमात्रमर्थः । प्रथमान्येषु चतुर्दश यागेषु हि प्रथमयागत्रये 'ज्योतिर्गौरायु'रितिनामकत्वेनैकाहकाण्डोक्ततन्नामकयागत्रयान्नामातिदेशेन च ऐन्द्री प्राप्यते! अन्येषु तु एकादशसु द्वादशाहादैन्द्री चोदनालिङ्गकातिदेशेन प्राप्यते । अत्र चतुर्दशाहस्सु प्राप्तया चतुर्दशाहस्सु आग्नेय्या बाध इत्येवं चतुर्दशाहःपदस्यावृत्त्या बोधः । तथा च चतुर्दशाहस्सु बाधस्य तेषु बाध्यप्राप्तिसापेक्षत्वेनार्थात्तेष्वाग्नेयीप्राप्तिरुक्ता। तथा चैकादशाध्याये आतिथ्येप्ट्यन्ते उपसत्काले च सुब्रह्मण्यापाठे कर्तव्ये सर्वसुत्यार्थे तन्त्रतायाः स्थापितत्वात् । अग्निप्टुद्यागस्येतरचतुर्दशापेक्षया मुख्यत्वेनोपक्रमाधिकरणन्यायेन बलवत्त्वात्तदीयसुब्रह्मव्याया आग्नेय्या एव पञ्चदशयागार्थ प्रसक्ताया ऐन्या सुब्रह्मण्यया बाध इति सिद्धा
For Private and Personal Use Only