________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षप्राबल्यभङ्गः] लघुचन्द्रिका !
१५३
पेक्षया अखण्डैक्यसामानाधिकरण्यस्य मुख्यत्वेन तत्रैव श्रुतेरुपक्रमादिना द्वैतसामान्याभावे अवान्तरतात्पर्यद्वारा तदुपलक्षितब्रह्मरूपे महातात्पर्यग्रहेण दौर्बल्यस्यामा वेन सावकाशत्वादेव बाध्यत्वं वाच्यम् । तच्च न सम्भवति । प्रत्यक्षविषयद्वैते सङ्कोचावधौ द्वितीयपदस्य मुख्यवृत्तेः प्रसक्ततया तादृशवृत्त्या प्रत्यक्षाविषयद्वितीयत्वविशिष्टबोधकत्वाभावादितिभावः । स्वरसतः प्रमाणविषयत्वे. नानुभूयमानो योऽर्थः, तदन्यार्थमादायापि सावकाशत्वस्वीकारे प्रत्यक्षस्यापि स्वरसतो विषयत्वेन त्वदभ्युपगतो यः पारमार्थिकसत्त्वरूपोऽर्थः, तदन्यव्यावहारिकसत्त्वमादाय सावकाशत्वमस्तीति नोक्तन्यायावतार इत्याशयेनाह-प्रत्यक्षस्येति। व्यावहारिकेति । व्यावहारिकसत्त्वाश्रयेत्यर्थः । द्वैतनिषेधेत्यादेरन्योर्थः । द्वैतनिषेधेति । देहत्वादिरूपेण देहादिनिषेधेत्यर्थः । अद्वैतश्रुतेः । देहेन्द्रियबुद्धिर्नास्ति न लिप्यते लोकदुःखेन बाह्य' इत्यादिश्रुतेः निरवकाशत्वात् देहस्सन्नित्यादिप्रत्यक्षविषयस्यैव मिथ्यात्वबोधकत्वेन विषयान्तराभावात् । न च प्रत्यक्षाविषयपिशाचादिदेहादेरेव श्रुत्या मिथ्यात्वधीरिति वाच्यम् । तादृशदेहादेरपि तदभिमानिपुरुषं प्रति प्रत्यक्षत्वात् । न चात्रापि देहादिकं सर्वदा नास्ति । तस्मादनित्यमित्यत्र तात्पर्यमिति वाच्यम् । 'एवं विदित्वा परमात्मरूपं' इत्युत्तरवाक्येन 'न भूमिरापो · मम वन्हिरस्ति' । इत्यादिपूर्ववाक्यार्थस्य सर्वविशेषणशून्यात्मनो ज्ञेयत्वेनानुवादात् । सर्वदेत्यध्याहारे मानाभावात् । प्राप्तदेशकालयोरेव निषेधस्य स्वारस्यसिद्धत्वात् । प्रत्यक्षस्यापि प्रत्यक्षस्यैव । अथ अपरोऽर्थः निरवकाशत्वात् प्रत्यक्षेण घटादीनामिव शब्दानुमानादिना गुरुत्वपिशाचादीनामपि सत्त्वग्रहणेन द्वितीयस्य सर्वस्यैव मानान्तरैस्सत्यत्वसिद्ध्या 'नेहनाने'त्यादिश्रुतेमिथ्यात्वबोधकत्वासम्भवेन निर्विषयकत्वात् । न चोक्तश्रुतेः प्रपञ्चविनाशित्वे तात्पर्यमिति वाच्यम् । उपक्रमादिना द्वैतनिषेधे तात्पर्यग्रहात् । तादृशार्थत्यागे उपक्रमादिप्रमाणस्यापि बाधापत्तेः । प्रत्यक्षादेरेव व्यावहारिकसत्त्वविषयकत्वेन सावकाशत्वस्य वक्तुं युक्तत्वात् । तदिदमुक्तम्-प्रत्यक्षस्यापीति । प्रत्यक्षादेरेवेत्यर्थः । ननूक्तरीत्या श्रुतेः सावकाशत्वखण्डने प्रत्यक्षादेरपि सावकाशत्वाभावात् परस्परविरुद्धयोरप्यप्रामाण्यं स्यात्। तथा च तव श्रुतिरपि कथं प्रमाणम् । किं च प्रत्यक्षस्य व्यावहारिकसत्त्वविषयकत्वोक्तिर्न युक्ता । तथा सति प्रत्यक्षस्य व्यावहारिकप्रामाण्यं स्यात् । तच्चायुक्तम् । श्रुतेर्वा प्रत्यक्षादेर्वा व्यावहारिकं प्रामाण्यमित्यस्याविनिगम्यत्वात्तत्राह-विरुद्धेति । वयोरिति । सत्वप्रत्यक्षाद्वैतश्रुत्योरिति शेषः । अत्यन्ताप्रामाण्यस्य व्यावहारिकसाधारणप्रामाण्यसामान्याभावस्य ।
२०
For Private and Personal Use Only