SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे दृश्यत्वनिरुक्तिः ] लघुचन्द्रिका । नुच्छेति । अस्तित्वप्रकारकधीविषयत्वसमानाधिकरणत्वेन हेतोर्विशेषणेनेति शेषः । विषयाभिव्यक्तं विषयावच्छेदेन भग्नावरणं, विषयगतवृत्तिप्रतिबिम्बितं वा । वृत्त्यभिव्यक्तं मनोवच्छेदेन भग्नावरणं वृत्तिप्रतिविम्बितं वा । चैतन्यमानं विषयाभिव्यक्तत्वाद्यविशेषितचित् । तथा च विषयाभिव्यक्तादिचित्साधारणेन चित्त्वेनैव संवित्पदबोच्यतेति भावः । सर्वोऽपीति । घटादावपरोक्षत्वरूपो व्यवहारो घटाद्यभिव्यक्तचित्सापेक्षः । नित्यांतीन्द्रिये अस्तित्वादिव्यवहारो नित्यातीन्द्रियविषयकवृत्त्यभिव्यक्तचित्सापेक्षः । सुखादावपरोक्षत्वादि व्यवहारः सुखाद्यभिव्यक्तत्वाविशेषितसुखाद्यवच्छिन्नचैतन्यापेक्ष इति त्रिविधचित्साधारणरूपनिवेशफलं बोध्यम् । घटादेरसत्त्वापादकाज्ञानाविषयत्वप्रयोजकविशिष्टचिद्रूपं स्फुरणं शुद्धचिद्रूपसंविदपेक्षम् । शुद्धचिजन्यमनोवृत्त्योक्ताज्ञाननिवृत्तेविशिष्टचितरशुद्धचिति कल्पितत्वेन शुद्धचिदाश्रितत्वाच्च । वदनादीति । आदिपदादिच्छाप्रवृत्त्यादिसङ्ग्रहः । ननु, घटादेरिव ब्रह्मणोऽपि इच्छादावसत्त्वापादकाज्ञानशून्यचितो हेतुत्वात्तादशचितश्च ब्रह्मातिरिक्तत्वात् ब्रह्मणि व्यभिचारस्तत्राह-तत्रेत्यादि । स्फुरणरूपे असत्त्वापादकाज्ञानाविषयत्वप्रयोजकविशिष्टचिद्रूपे। नित्यसिद्धे अनादौ पूर्णानन्दांशे।उक्ताज्ञाननिवृत्तेस्तदाकारवृत्त्यधीनत्वेन तदंश एव स्फुरणं सादि । न तु चिदंशे। वृत्ति विनापि 'चिदस्ती'ति सर्वदा व्यवहारादिति भावः । स्वातिरिक्तसंविदिति । उक्तस्फुरणस्य शुद्धचिदपेक्षत्वेऽपि सा न ब्रह्मातिरिक्ता । उक्तस्फुरणेन क्षेमसाधारणजनकत्वेन ब्रमातिरिक्ताविद्याया अपेक्षणीयत्वेऽपि सा न संवित् । अत एव संवित्पदं सार्थकमिति भावः । नियतिपदेनेति । नियमघटितार्थेनेति शेषः । स्वव्यवहारं प्रति स्वातिरिक्तसंविदपेक्षाया नियमो व्यापकत्वरूपो घटकतया यत्रेति व्युत्पत्या तादृशव्यापकताघटितस्य हेतुता । तादृशघटितत्वं च स्वव्यवहारत्वावच्छिन्नव्यापकस्वातिरिक्तसंवित्सापेक्षत्वकत्वम् । यथाश्रुतं त्वसङ्गतम् । नियमस्य हेतुत्वासम्भवात् । स्वगोचरेति । स्वविषयकस्फुरणाद्यन्यतमत्वव्यापकं यत् स्वातिरिक्तचिदधीनत्वं, तत्सम्बन्धित्वं पर्यवसितहेतुः । अधीनत्वञ्च क्षेमसाधारणजन्यगताखण्डधर्मविशेष इति भावः । अत्र स्वातिरिक्तचिदधीनस्वस्फुरणकत्वं लघु हेतुर्बोध्यम् । स्वापरोक्षत्वइति । अपरोक्षत्वमज्ञानाविषयत्वप्रयोजकविशिष्टचित् । ननु, नोक्तरूपमपरोक्षत्वम् । गौरवात् । किं त्वज्ञानशून्यचिद्रूपमिति चेन्न । साक्षात्करोतेस्सकर्मकत्वानुरोधेनापरोक्षताया उक्तरूपत्वावश्यकत्वात् । धात्वर्थतावच्छेदकफलशालित्वं हि कमत्वम् । फलप्रयोजकव्यापारघटितवाचकत्वं धातोरसकर्मकत्वमिति तार्किकादयः । स्ववाच्यव्यापारस्य व्यधिकरणं यत् फलं, तद्वाचकत्वं धातोरसकर्मकत्वम् । तथा च For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy