________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
ऽभावत्वादिसाधकोक्तधीवलादेव सिद्धः । तत्सिद्ध्यस्वीकारे ऽभावत्वस्याप्यसिद्धिप्रसङ्गात् । अत एवाभावत्वविशिष्टरूपेणाभावस्यातुच्छत्वात् प्रतियोग्यनुयोगिसंसर्गोऽप्युपपद्यते । तत्र भूतले घटो नास्तीत्यादिप्रतीतेः तद्भूतलघटः शशविषाणमित्यादिशब्दैः प्रतीयमानन्तु तद्भूतलानुयोगिकघटप्रतियोगिकाभावशशानुयोगिकविषाणप्रतियोगिकाभावादेः स्वरूपमखण्डं तुच्छमेव । घटशून्यतद्भूतलादिनिष्ठतया घटप्रतियोगिकतया च समानाधिकरणेन अभावत्वेन प्रतीयमानं यंत् , तस्यैवालीकाखण्डात्मकेन तद्भूतलघटरूपेण प्रत्ययात् । अत एव तेनैव शब्दान्यप्रमाणाग्राह्यत्वम् । अभावत्वादिविशिष्टरूपेण तु प्रत्यक्षेणानुपलब्ध्या वा ग्राह्यत्वमिति दिक् । यदि तुच्छेऽप्यतुच्छधर्मसंसर्ग इति कस्य चिदाग्रहः, तदास्तीतिधीविषयत्वादिसमानाधिकरणं वृत्तिविशेष्यत्वं हेतुबोध्यम् । प्रयोजकविषयत्वति । प्रयोजकयोश्चित्तादात्म्यवृत्तिविषयत्वयोरन्यतरेत्यर्थः । चितस्तादात्म्ये वृत्तेराकारे च विषयतात्वस्यैकस्यामावेनोक्तान्यतरत्वरूपेणैव हेतुतेति भावः । तुच्छान्यविशेष्यकेऽस्तित्वप्रकारके व्यवहारे चितस्तादात्म्यसम्बन्धेन हेतुत्वम् । चिद्विशेप्यके अस्तित्वस्य व्यवहारे असत्त्वापादकस्याज्ञानस्य विषयत्वसम्बन्धेन प्रतिबन्धकत्वम् । दृश्यविशेष्यकोक्तव्यवहारे विषयतावच्छेदकत्वसम्बन्धेन तस्य प्रतिबन्धकत्वम् । न च तादात्म्यसम्बन्धेन चितश्चित्यसत्वात् तत्रोक्तव्यवहारस्य उत्पत्त्यसम्भव इति वाच्यम् । उक्तव्यवहारविषये शुद्धचिति उक्तव्यवहारकारणत्वाद्युपहितचितस्तादात्म्येन सत्त्वात् । न चोक्तप्रतिबन्धकाभावेनैवोक्तव्यवहारजननसम्मवात् चितस्तत्र कारणत्वकल्पनं व्यर्थमिति वाच्यम् । प्रतिबन्धकेन हि कारणे शक्तिस्तिरस्क्रियते । न तु तदभावः कारणम् । तथा चासाधारणं कारणं चिदेव । किं चोक्तप्रतिबन्धकाभावः तुच्छेऽप्यस्तीति तत्राप्युक्तव्यवहारापत्त्या चित्तादात्म्यमवश्यं तत्प्रयोजकम् । तुच्छविषयकशब्दप्रयोगादिव्यवहारे तु विकल्परू. पवृत्तिविषयत्वमिति भावः । यथाकथञ्चित् साक्षात्परंपरासाधारणम् । चैतन्ये शुद्धचिति ।अभेदे अत्यन्ताभेदे । भेदनान्तरीयकस्य विनाशित्वादिरूपं यत् ब्रह्मवैलक्षण्यं तव्याप्यस्येत्यर्थः । सम्बन्धस्येति । चितं प्रति सम्बन्धावच्छेदकं यत् चिदवृत्तित्वविशिष्टतादात्म्यत्वं, तद्विशिष्टस्यर्थः । एतेन आनन्दं ब्रह्मणो रूपंचित् ब्रह्मणो रूपमित्येवं कल्पितभेदस्य तादात्म्यस्य च चितश्चिति सत्त्वाव्याभिचारो दुर्वारः । अथ प्रातीतिकान्यस्य चित्सम्बन्धस्य निवेशान्न दोषः । उक्ततादाम्यस्य प्रातीतिकत्वादिति चेन्न । साधनवैकल्यापत्तरित्यादिकमपास्तम् । ननु, चितस्खाश्रितवृत्तिविषयत्वरूपपरंपरासम्बन्धस्य तुच्छेऽपि सत्त्वाव्यभिचारस्तत्राह
For Private and Personal Use Only