________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे दृश्य त्वनिरुक्तिः
लघुचन्द्रिका ।
ज्ञानानाश्रयत्वे हेतुतया निर्देशात् । अथ वाचस्पतिमते ब्रह्मसाक्षात्काररूपमनोवृत्तेः मनस्सम्प्रयोगजन्यत्वादुक्तवृत्त्युपहितस्य चोक्तवृत्त्युत्पत्तिपूर्वमसत्त्वात् तदा तत्रोक्तसम्प्रयोगासम्भवेन विषयतासम्बन्धेनोक्तवृत्त्युत्पत्तावुक्तसम्प्रयोगस्य हेतुत्वासम्भव इति चेन्न । उक्तवृत्तिर्हि स्वोपहित इव मनस्संयोगोपहितेऽप्यात्मनि जायते । कारणस्य स्वाश्रयदेशे कार्यजनकत्वस्वाभाव्यात् । तथा च मनस्संयोगोपहितवृत्तिलौकिकविषयतासम्बन्धेन मानसवृत्तौ मनस्संयोगस्य हेतुत्वे बाधकाभावात् । यदि तु वृत्त्युपहित एव वृत्तिविषयत्वम् । न तु मनस्संयोगोपहिते । तत्र तु वृत्तिविषयाभिन्नत्वमेव, तदा मनस्संयोगिनिष्ठं यत् स्वविषयाभिन्नत्वं तेन सम्बन्धेन मानसप्रत्यक्षे मनस्संयोगस्य हेतुत्वे न दोषः । न च विनश्यदवस्थेन मनसंयोगेनोत्पादितस्य मानसप्रत्यक्षस्य उक्तसम्बन्धेनोत्पत्त्यसम्भव इति वाच्यम् । तदसम्भवेऽप्यविनश्यदवस्थेनैव तत्सम्भवात् । विषयत्वेपीति । 'केवलो निर्गुण'इत्यादिश्रुत्या ब्रह्मणि परमार्थतो धर्मनिषेधात् अन्यथा उपहितब्रह्मतादात्म्यस्य शुद्ध अवश्यं वाच्यत्वेन श्रुतिबाधापत्तेः, स्वप्रकाशेऽपि ब्रह्माणि कल्पिताज्ञाननिवृ. त्त्यर्थं वृत्तिविषयत्वस्य युक्तत्वाच्च । शुद्धमपि ब्रह्म वृत्तिविषयः। किं च न स्वप्रकाशे चिदंशेऽज्ञानम् । किं तु पूर्णानन्दांशे । तथा च तस्य शुद्धस्यापि वृत्तिविषयत्वमावश्यकम् । तदुक्तम्- 'फलव्याप्यत्वमेवास्य शास्त्ररुद्भिनिराकृतम् । ब्रह्मण्यज्ञाननाशार्थं वृत्तिव्याप्यत्वमिष्यते॥' इति भावः । तुच्छशुद्धयोरित्यादि । 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पातञ्जलसूत्रात् शशविषाणादिशब्दैस्तुच्छव्यवहाराच तुच्छं शाब्दवृत्तेविषयः । उक्तरीत्या च शुद्धब्रह्मापि श्रुतिजन्यवृत्तिविषयः । शब्दान्यमानस्य तु तयोरप्रवृत्तेः न तज्जन्यवृत्तिविषयतेति भावः । ननूक्तशब्देनेव तुच्छं वृत्तिविषयः व्यवह्रियमाणत्वात् । तुच्छं न क्षणिकम्। अकारणत्वात् इत्याद्यनुमानेनापि तुच्छं ज्ञाप्यते । तत्राह--यद्वेति । कश्चिद्धम इति । ग्राह्य इति शेषः । तथा च सोपाख्यधर्मनिष्ठप्रकारताकवृत्तिविषयत्वं हेतुः । तुच्छेऽपि 'अस्ती'ति धीविषयत्ववादिनं माध्वं प्रति विषयत्वादीत्यत्रादिपदमुक्तम् । सत्तादात्म्यसत्तादात्म्यत्वान्यतरवत्त्वं तदर्थः । तुच्छनिष्ठस्य सर्वदेशकालनिष्ठात्यन्ताभावप्रतियोगित्वादेस्तुच्छत्वमेव । अधिकरणस्वरूपत्वात् तुच्छस्यातुच्छधर्मासम्भवात् सदसतोस्संसर्गाभावस्य बौद्धाधिकारादावुक्तत्वात् । ननु, तुच्छस्यातुच्छधर्मासंसर्गे कथमभावस्याभावत्वेनातुच्छेन संसर्गः। अभावत्वं हि 'घटाभावोनास्ति' 'घटो नास्ती' त्यादिधीसिद्धो भावसाधारणत्वादतुच्छोऽखण्डधर्मः । अभावस्तु तुच्छो बौद्धादिसम्मत इति चेदन ब्रूमः । अभावत्वस्य तुच्छसंसर्गो
For Private and Personal Use Only