________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
अद्वैतमञ्जरी ।
नोच्यते । वृत्तिविशिष्टब्रह्मण्येव तत्स्वीकारात् । तत्राह-विषयकोटीति । विषयघटकतयेत्यर्थः । अनुपपत्तेरिति । अत्यन्ताभेदे सम्बन्धाभावादिति भावः । चैतन्यस्य विषयतां सम्पादयति विषयचैतन्यमविषयायावर्तयति । तथा च ब्रह्मान्विते स्वविषयत्वे अनन्वितत्वे सति विद्यमानत्वे च सति स्वविषयव्यावर्तकत्वात् वृ
तेः स्वविषयत्वं प्रत्युपाधित्वम् । यदनन्वितं विद्यमानं यद्विशिष्टस्येतरस्माट्यावर्तकं यत् भवति, तत्तत्र उपाधिः । यथा घटकारणत्वादौ दण्डत्वादिकम् । 'नीलघटो ज्ञात' इत्यादिव्यवहारे तु नीलत्वादिकं विशेषणमेव । नोपाधिरिति भावः । ज्ञानाज्ञानयोः ब्रह्मज्ञानाज्ञानयोः । एकविषयत्वं समानविषयत्वम् । उपाध्यविषयत्वे सति स्वोपहितान्याविषयकत्वे सति । उपहितविषयकत्वात् स्वोपहितविषयकत्वात् । स्वविशिष्टब्रह्मविषयकवृत्तेरपि स्वोपहितब्रह्मविषयकत्वात् सत्यन्तम् । स्वाविषयकत्वस्य सत्यन्तार्थत्वे वृत्त्युपहितांशे अज्ञानादिप्रकारकज्ञानस्य सङ्ग्रहापत्तेः स्वोपहितान्याविषयकत्वमेव सत्यन्तार्थः । तुच्छाकारज्ञानेऽपि सत्यन्तसत्त्वात्तद्वारणाय विशेप्यदलम् । न च सविषयकत्वमात्रेण तस्य वारणसम्भवात् स्वोपहितनिवेशे गौरवमिति वाच्यम् । स्वरूपसम्बन्धेन विषयिता विशिष्टत्वरूपसविषयकत्वापेक्षया स्वोपहिताखण्डव्यक्त्या विषयितासम्बन्धेन विशिष्टत्वस्यागुरुत्वात् । तुच्छाकारवृत्तेः सविषयकत्वमते तेन तदवारणाच्च । 'अहं ब्रह्म घटो विनाशी 'ति ज्ञानस्य मूलाज्ञाननाशकत्वस्वीकारे तु स्वोपहितब्रह्मनिष्ठा या विषयत्वानिरूपितविषयता तच्छालित्वं समानविषयकत्वं वाच्यम् । निवर्त्यनिवर्तकभावादिति । निवर्तकत्वं ज्ञानस्य तत्समानविषयकं तदाश्रयमनोनिरूपितं यदज्ञानं तदाश्रयकालपूर्वत्वशून्यत्वमित्यादिकं पूर्वोक्तरीत्या बोध्यम् । 'मया ब्रह्माज्ञातं न तु जीवन्मुक्तेने त्यादिप्रतीते नाज्ञानपक्षे मनोविशेषस्याज्ञानविशेषनिरूपकत्वं बोध्यम् । ननु,चैत्रो ब्रह्मेत्यादिवाक्यजन्यज्ञानस्यापि ब्रह्माज्ञानं प्रति उक्तनिवर्तकत्वमास्तामिति चेन्न । अहन्त्वादिधर्मोपस्थित्यादिद्वारकवाक्यजन्यज्ञानस्यैव तथात्वात् । अत एवावस्थात्रयविशिष्टजीवबोधकवाक्यानां महावाक्यशेषत्वम् । अवस्थात्रयवत्त्वेन जीवबोधने हि तद्वाक्येन कृते अवस्थात्रयवत्त्वाहन्त्वोपलक्षितशुद्धजीवस्य 'योऽयं विज्ञानमय' इत्यादिवाक्येन बोधनं सम्भवति । ननु, 'आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवले'ति सिद्धान्तविरोधेनाज्ञानोपहितं ब्रह्म न तद्विषयः । किं तु, शुद्धमिति चेन्न । आश्रयत्वेत्यादेः प्रस्थानान्तरत्वात्। केवलपदस्य वृत्तिभिन्नाज्ञानकार्यानुपहितपरतया व्याख्यानसम्भवाच्च । 'पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचर' इत्यनेन पश्चिमशब्दितकार्यत्वस्य पूर्वसिद्धा
For Private and Personal Use Only