________________
Shri Mahavir Jain Aradhana Kendra
• दे दृश्यत्वनिरुक्तिः ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
८३
नसोऽनात्मविषयकत्वनिषेधात् । तदेतत्पक्षद्वयमभिप्रेत्य विवरणे उक्तम्- ' द्वैताद्वैतदर्शनयोर्न यौगपद्यम् । किं तु कदाचिदद्वैतदर्शनं कदाचित् द्वैतदर्शन' मिति । तदीपनेऽपि तत्र व्याख्यातम् । 'सन्तमसबहुलालोकयोरिव द्वैताद्वैतदर्शनयोर्विरोधइति । यद्वा अज्ञानतत्कार्याविषयकज्ञानस्येत्यस्य आत्मांशे किञ्चिदविषयकज्ञानस्येत्यर्थः । इतरविषयत्वानिरूपितात्मविषयताशालिज्ञानस्येत्यर्थः । यथाही 'दं रजत 'मित्या दिभूममूलाज्ञाने शुक्तित्वांशे जातित्वादिप्रकारक' मियं जातिमती 'ति ज्ञानं न निवर्तकम् । अतः इतरप्रकारत्वानिरूपितशुक्तित्वविषयतानिरूपितविषयताशालिज्ञानत्वेन तन्निवर्तकता । तथा अज्ञानादिविशिष्टात्मज्ञानस्य ब्रह्माज्ञानतत्कार्यानिवर्तकत्वेनोक्तविषयताकज्ञानत्वेन तन्निवर्तकत्वम् । 'तमेव विदित्वातिमृत्युमेती' त्यादिश्रुत्या तु 'एकवैवानुद्रष्टव्यमित्यादिकेवलार्थकै कपदयुक्तश्रुत्यैकवाक्यतानुरोधेन केवलात्मज्ञानस्यैव अज्ञाननिवर्तकत्वं बोध्यते । न त्वात्मान्याविषयकस्य । न्यायसिद्धार्थस्य तच्छ्रुत्यानुवादात् । अत एवोक्तं ध्यानदीपिकायां विद्यारण्यस्वामिभिः'न बुद्धिं मर्दयन् दृष्टो घटतत्त्वस्य वेदिता । उपमृद्वाति चेत् बुद्धिं ध्यातासौ न तुः तत्त्ववित् ॥' इति । बुद्धेर्ज्ञानस्यात्मान्याविषयकत्वरूपोपमर्दनाय यतमानत्वं ध्यातुरुचितम् । ध्यानस्य ध्येयान्यविषयकज्ञानासहितज्ञानधासरूपत्वेनोक्तोपमर्दनं विना तदनिष्पत्तेः । तत्त्वज्ञाने तू उक्तोपमर्दनस्य नापेक्षा । घटादितत्त्वज्ञाने घटादिभिन्नविषयकत्वनिरासादर्शनादिति तदर्थः । शुद्धं ब्रह्मेतीति । इतिशब्दोऽत्र वृत्तिविषयसमाप्तौ । शुद्धं ब्रह्मेति शुद्धब्रह्मणो वृत्त्युपहितरूपमित्यर्थः । तथा च वृत्त्युपहितं ब्रह्मैव विषयीकुर्वाणेत्यर्थः । अथवा इतिशब्दो वृत्त्युपहितार्थकः । तथा च शुद्धशब्देनैव वृत्त्युपहितान्याविषयकत्वलाभः । स्वस्वेतरोपाधिनिवृत्तिः स्वः स्वेतः रश्च य उपाधिः दृश्यं तदुच्छेदव्याप्येत्यर्थः । तादृशव्याप्यत्वं च पूर्वमेव विवेचितम् । उपाधित्वेति । स्वनिवर्त्याज्ञानप्रयुक्तत्वेत्यर्थः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीय' इति कोशे आत्मनि आत्मीये च त्रिष्विति योजनाया वैयाकरणोक्तत्वात् स्वस्या इति स्त्रीलिङ्गत्वं युक्तमेव । एवं च वृत्तेः स्वोपहितब्रह्मस्वरूपान्याविषयिकाया एव सर्वदृश्योच्छेदकत्वे च । अनुपहितस्य वृत्त्युपहितान्यस्य शुद्धब्रह्मणो दृश्यस्य वा । ननु, वृत्त्युपहितस्य विषयत्वे वृत्तेरपि विषयत्वमावश्यकम् । नीलोपहितघटो ज्ञात' इत्यादौ नीलस्य ज्ञातत्वप्रत्ययात् । तत्राह — वृत्त्युपराग इति । अत्र वृत्त्युपहितं ब्रह्म विषय' इति व्यवहारे। वृत्तेरुपरागो विषयत्वरूपसम्बन्धः । सत्तया अविषयव्यावर्तकत्वे सति विद्यमानतया । ननूक्तविद्यमानतयोपयुक्तस्य विषयत्वमप्यास्ताम् । तत्राह - न तु भास्यतयेति । ननु, विषयत्वपर्याप्तिरूपं भास्यत्वं मयापि