________________
Shri Mahavir Jain Aradhana Kendra
८२
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
विषयतासम्बन्धेन ज्ञानस्य प्रतिबन्धकत्वादाद्ययोर्विषयतयोर्युक्तस्तादृशो विरोधः । अन्त्ययोस्तु स कुत इति चेन्न । अद्वैतत्वेन ब्रह्मज्ञानोत्तरमेव 'अहं ब्रह्मे'ति ज्ञानस्योत्पतेस्तत्काले अद्वैतत्वेन ब्रह्मण उबुद्धसंस्कारसत्त्वेन तस्यैव द्वैतधीविरोधित्वेनान्त्ययोरपि तयोरुक्तविरोधस्य युक्तत्वात् । शुक्तित्वं रजतभेदव्याप्यमित्याकारो डुद्धसंस्कारस्य ' शुक्तिः रजत' मिति ज्ञाने प्रतिबन्धकत्ववत् द्वितीयाभावो ब्रह्मनिष्ठो अज्ञानाद्यभावो ब्रह्मनिष्ठ इत्याकारो बुद्धसंस्कारस्यापि 'ब्रह्मरूपसदात्मकं द्वितीयं सदज्ञान'मित्यादिधीप्रतिबन्धकत्वात् । न च सत्तादात्म्यमविषयीकुर्वति तादृशसमूहालम्बने उक्तसंस्कारस्याप्रतिबन्धकत्वेन तदुत्पत्तौ बाधकाभाव इति वाच्यम् । सदन्यविषयतायाः सत्तादात्म्यविषयतानिरूपितत्वनियमस्य मूल एव वक्ष्यमाणत्वात् । अथवा ज्ञानमेव ज्ञानोत्तरकालीनभोगसाधनानामज्ञानतत्प्रयुक्तभ्रमतद्विषयदृश्यानां नाशः । ज्ञानस्य तु नाशो जीवन्मुक्तिस्वीकारे ज्ञानोत्तरोत्पन्नो मनःपरिणामः । तदस्वीकारे तु ज्ञानोपलक्षित आत्मैव । न च वृत्तिज्ञानविषयकसाक्षिणोऽपि भ्रमत्वादुक्तभ्रमनाशत्वं वृत्तिज्ञानस्यासङ्गतमिति वाच्यम् । भ्रमपदस्य स्वेतरविषयक भूमपरत्वात् । स्वपदं ज्ञानपरं स्वविषयकभूमो हि स्वकालत्वव्यापक इति तन्नाशत्वं स्वस्य न सम्भवत्येव । न चैवं ज्ञानोत्तरमनःपरिणामस्याप्युत्पत्तिर्न स्यात् । अदृष्टनाशस्य ज्ञानस्वरूपस्य जातत्वादिति वाच्यम् । 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य' इतिश्रुतेः 'भोगेन त्वितरे क्षपयित्वा सम्पद्यत इति न्यायाच्च भुज्यमानादृष्टान्यदृश्यानामेव नाशत्वस्य ज्ञाने स्वीकारेणादृष्टाधीनानां मनःपरिणामानां देहादिरूपाणां ज्ञानोत्तरमुत्पत्तिसम्भवात् । ज्ञानरूपापन्नस्य मनसो ज्ञानरूपनाशासम्भवेन मनसोऽपि ज्ञानोत्तरं सत्त्वेन तत्परिणामसम्भवात् । तथा च तादृशदश्यविषयकज्ञानध्वंसत्वस्य ज्ञाने स्वीकारेण तत्त्वज्ञानस्य नोकसमूहालम्बनरूपत्वम् । अत एव 'इयं शुक्ति' रिति ज्ञानस्येदं रजतमित्याकार भूमरूपत्वासम्भवः । तादृशज्ञानस्योक्तभूमनाशरूपत्वात् । न च ज्ञानोत्तरं भोगासाधनभूमरूपत्वं ज्ञानस्य मास्तु । उक्तभोगसावनदृश्यभूमरूपता तु स्यादिति वाच्यम् । तत्त्वज्ञानस्य भोगात्मकबन्धासाधनत्वात् । 'मनो हि द्विविधं प्रोक्तं कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मोक्षे निर्विषयं स्मृतम् । इति श्रुत्या मोक्षसाधनमनः परिणामस्य बन्धासाधनत्वोक्तेः । अथ 'विषयासक्त' मित्यनेन सत्यत्वेन विषयज्ञानयुक्तस्योक्तत्वात् तत्त्वज्ञानस्य विषया मिथ्येति ज्ञानात्मकत्वं सम्भवतीति चेन्न । मोक्षे निर्विषयमित्यनेन मोक्षसाधनरूपेण परिणतम१. 'अथ वा ज्ञानमेव तदुत्पत्तिक्षणवर्तिनां तत्पूर्वक्षणमात्रवर्तिनां च अज्ञानतत्प्रयुक्त भ्रमतद्विषयद" श्यानां नाशः । इति पाठान्तरम् ।
For Private and Personal Use Only