________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे दृश्यत्वनिरुक्तिः]
लघुचन्द्रिका ।
८१
यत्वात् तत्रैव केवलरूपे भागासिद्धिरिति । तन्न । घटादेः केवलरूपस्य ज्ञानाविषयत्वे अलीकत्वात् । ज्ञानान्तरेति । विशिष्टाविषयकज्ञानेत्यर्थः । तदानीं उक्तवृत्तिकाले । उपाध्यन्तराभावेनेति । ननूक्तवृत्तिकाले सुखादेरात्मन्यध्यस्तस्योक्तवृत्तिविषयत्वेऽप्युपाधित्वसम्भवात्तस्या एवेत्यसङ्गतमिति चेन्न । सुखादीनां तदानीं नियमेनानुत्पत्तेः । तस्मादुक्तवृत्तिकाले नियमेन यज्जातीय उपाधिस्सम्भवति तज्जायोपाधिः उक्तवृत्तिरेव । न तु सुखादिः । यत्तु स्थूलशरीरादिकमुपाधिस्सम्भवतीति । तन्न । शुद्धब्रह्मणो यत् वृत्त्युपहितं रूपं, तद्विषयकवृत्तेरेवाज्ञाननिवर्तकत्वात् । अन्यथा घटादियत्किश्चिदुपाध्युपहितविषयकज्ञानस्यापि तदापत्तेः । अत एव सखादेरपि नोपाधित्वसम्भवः । तस्यानियतोपाधित्वं त्वभ्युपगममात्रेणोक्तम् । तथा चोपाध्यन्तरेत्यस्याज्ञाननिवर्तकवृत्तिविषयत्वेन सम्भवदुपाध्यन्तरेत्यर्थः । अथवा ज्ञानमेवाज्ञानतत्प्रयुक्तदृश्यनाशः । ज्ञाननाशस्तु तदुपलक्षित आत्मैवेति मते ज्ञानकाले शरीरादेरभावे जीवन्मुक्तेरभावात् । तथा च यथाश्रुत एवार्थः । उपधायकत्वात् उपाधित्वात् । आपत्तिरिति । 'नीलो घटो ज्ञात' इत्यादौ नीलत्वाद्युपाधेरपि ज्ञातत्वप्रतीतेरिति शेषः । कथञ्चित् शाब्दवृत्तौ स्वभिन्नस्यैव शब्दानुपस्थितस्यामानमिति स्वीकारेण । अज्ञानतत्कार्ययोः मूलाज्ञानतत्प्रयुक्तयोः । अज्ञानेति । स्वनिवर्त्याज्ञानेत्यर्थः । अज्ञानेति । मूलाज्ञानेत्यर्थः । उपहितविषयत्वेन अज्ञानादिविशिष्टात्मविषयकत्वेन । प्रसङ्ग इति। ननूक्तप्रसङ्गे शुद्धविषयत्वान्यविषयत्वानिरूपितात्मविषयताकज्ञानस्यैवाज्ञाननिवर्तकत्वमस्तु । अज्ञानाद्यविषयकस्यैव तदिति नियमे तु किं मानम् । 'इयं शुक्तिरेतद्विषयकाज्ञानतत्काथै ज्ञाते'इत्यादिसमूहालम्बनस्येव 'अहं ब्रह्म मूलाज्ञानतत्कार्ये ज्ञाते' इत्यादिसमूहालम्बनस्याप्यज्ञाननिवर्तकतायां बाधकाभावात् । नचैतत् पूर्वपक्षिणोक्तमपि न सिद्धान्तसिद्धमिति वाच्यम् । सिद्धान्तेऽप्युपाध्यविषयकत्वे सत्युपहितविषयकस्यैवाज्ञाननिवर्तकत्वमित्यस्यैव वाच्यत्वादिति चेत् । अत्रोच्यते । शुद्धस्य वृत्त्यविषयत्वपक्षे शुद्धस्य वृत्त्युपहितं यद्रूपं तदंशे तदन्याविषयकज्ञानस्थैव निवर्तकता यद्यपि वक्तुं शक्यते । तथापि गौरवान्न तथोच्यते । किं तूक्तोपहितान्याविषयकज्ञानस्यैव । न चोक्तसमूहालम्बनसङ्ग्रहार्थत्वादुक्तगौरवं प्रामाणिकमिति वाच्यम् । उक्तसमूहालम्बनस्यैवासिद्धत्तात् । यथा हि तार्किकादिमते 'घटो न घट' इत्यादिज्ञानमाहार्यत्वान ज्ञानान्तरविरोधि, तथा मन्मतेऽप्युक्तसमूहालम्बनमाहार्यत्वान्नाज्ञानतत्कार्यभ्रमविरोधि । घटतदभावविषयतयोरिव द्वैताद्वैतविषयतयोरनाहार्यज्ञाने विरुद्धत्वात् । अथ विशेप्यतावच्छेदकत्वसम्बन्धेन घटभेदप्रकारकानाहार्यज्ञानोत्पत्तौ घटत्वनिष्ट
For Private and Personal Use Only