________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
दात्म्यात्यन्तामाकव्यापकस्यात्यन्तिकभेदरूपात्यन्ताभावरूपस्य निषेधज्ञानेन तादात्म्यरूपमभिन्नत्वं यथा सिध्यतीत्यर्थः। उपहितचित्तादात्म्यात्यन्ताभावव्यापकस्योपहितचिदत्यन्तभेदरूपात्यन्ताभावस्य शुद्धचिदन्यनिष्ठस्य प्रतियोगी उपहितचिद्भेदात्यन्ताभाव इति निश्चयोत्तरं तादृशात्यन्ताभावविशिष्टे उपहितचित्तादात्म्यं यथा पर्यवस्यतीति यावत् । तादृशात्यन्ताभावविशिष्टशुद्धचितो वृत्त्यविषयत्वेऽपि तस्यामुक्ततादात्म्यं यथोक्तरीत्या पर्यवस्यतीति भावः । सर्वमतसाधारणदृष्टान्तापेक्षायां त्वेवं व्याख्येयम् । यथा तद्धटत्वरूपतद्धटाभिन्नत्वाभावव्यापको यः, तद्धटभेदः तद्रूपस्यात्यन्ताभावस्य प्रतियोगी तद्धटभेदात्यन्ताभाव इति निश्चयोत्तरं तद्धटभेदात्यन्ताभाववति तद्धटत्वाभावज्ञानानुत्पत्त्या तद्धटत्वं पर्यवस्यतीति । पर्यवसितार्थमादायेति । शुद्धत्वविशिष्टे स्वप्रकाशत्वाभावज्ञानासम्भवरूपं पर्यवसितप्रयोजनमित्यर्थः । एवं शुद्धस्य वृत्तिविषयत्वं विनैव तत्रार्थसिद्धिसंभवे । एतेन मिथ्यात्वसाधकहेतोर्ब्रह्मावृत्तित्वस्थापनेन । स्वतः स्फुरत् स्वविषयः । ब्रह्म सर्वविषयकनिरूपष्टवक्षणिकविज्ञानसन्तानप्रविष्टं विज्ञानम् । ननु, ब्रह्मणस्त्वया वृत्तिरूपज्ञानविषयत्वा स्वीकारेऽपि ज्ञानस्वरूपत्वमेव मिथ्यात्वे हेतुरस्तु । शून्यवादिनो मते सर्वस्य ज्ञानस्वरूपत्वेन शुक्तिरूप्यादौ साधनावैकल्यात्तत्राहखतः स्फुरणरूपताया इति । हेतोरिति शेषः । ज्ञानतादात्म्यापन्नरूपतायाः शुक्तिरूप्ये सत्त्वेऽपि ज्ञानात्यन्ताभिन्न स्वरूपताया मन्मते शुक्तिरूप्ये विरहेण मां प्रति तेन हेतुना ब्रह्माणि मिथ्यात्वं साधयितुं न शक्यमिति भावः । ननु, तर्हि शुक्तिरूप्यादौ ज्ञानविषयत्वस्य सत्त्वात्तदेव हेतुरस्तु । मन्मते ज्ञानमात्रस्य स्वविषयत्वेन ब्रह्मण्यपि तत्सत्त्वात् नासिद्धिस्तत्राह-स्फुरणेति । मन्मत इत्यादिः । तथा च प्रतिनादिनं प्रत्यसिद्धो हेतुर्न प्रयोक्तव्यः । तत्र तस्यानुमितिजनकपरामर्शासम्भवादिति भावः । श्रुत्या गुणविशिष्टब्रह्मबोधकश्रुत्या। दृश्यत्वेन ज्ञेयत्वेन । विशिष्टस्य विशेषणविशेष्यसंसर्गेभ्योऽतिरिक्तस्य मिलितस्य विषयत्वं उभयपयाप्तम् । विशेष्ये विशेष्यमात्रे पर्याप्तम् । भागासिद्धोरिति । स्वरूपसम्बन्धेन विषयत्वस्य हेतुत्वे विशेष्ये व्यभिचारापत्तेः पाप्तिसम्बन्धेनैव तस्य वाच्यत्वात् भागासिद्धेः । उपहितात्मनेति । एवकारश्शेषः । न च विशिष्टज्ञाने शुद्धस्याभाने तदुत्तरं तत्र संशयादिकं स्यादिति वाच्यम् । विशिष्टविषयकनिश्चयस्यापि केवलसंशयप्रतिबन्धकत्वादिस्वीकारात् । यत्तु, घटादेरपि विशिष्टरूपेणैव वृत्तिविषवत्वम् । न तु केवलरूपेण । निर्विकल्पकास्वीकारात् । तत्स्वीकारेऽपि नित्यातोन्द्रियेषु तदस्वीकारात् । केवलस्य तस्य विशिष्टज्ञानाविष
For Private and Personal Use Only